User:Deepakjha8225

From Wikisource
Jump to navigation Jump to search

वैशेषिकदर्शने शारीरिकर्मभेदः

वैशेषिकसूत्रोपस्कारग्रन्थे शङ्करमिश्रेण कर्मणां भेदः प्रदर्शितः वर्तते। कर्माणि शारीर-बाह्यभेदेन द्विविधानि भवन्ति। शारीरकर्माणि पुनः प्रयत्नाधीनानि प्रयत्नानधीनानि इति द्विविधानि। बाह्यकर्माणि अदृष्टाधीनानि अदृष्टानधीनानि इति द्विविधानि। तत्र आदौ प्रयत्नाधीनानि कर्माणि निरूप्यन्ते।

तत्र इमानि सूत्राणि भवन्ति। आत्मसंयोगप्रयत्नाभ्यां हस्ते कर्म, तथा हस्तसंयोगाच्च मुसले कर्म, प्रयत्नविशेषात् नोदनविशेषः, नोदनविशेषात् उदसनविशेषः इति।

यत्र व्रीहीणां तुषविमोकाय अवघातः क्रियते तत्र स्थले प्रयत्नाधीनानां-प्रयत्नानधीनानामपि कर्मणाम् उदाहरणानि प्रदर्श्यन्ते। आदौ हस्तयोः उत्क्षेपणं ततः मुसलस्य उत्क्षेपणं ततः हस्तसंयुक्तमुसलस्य उलूखलेन संयोगः, ततः उलूखलात् मुसलस्य उत्पतनं, ततः  हस्तयोः उत्पतनमिति क्रमः। तत्र स्थले हस्तयोरुत्क्षेपणं हस्तसंयुक्तमुसुलस्य उत्क्षेपणमित्येतदुभयं प्रयत्नाधीनं कर्म। उलूखलात् मुसलस्य उत्पतनं, मुसलसंयुक्तहस्तयोः उत्पतनमित्येतदुभयं प्रयत्नानधीनं कर्म। आत्मसंयोगप्रयत्नाभ्यां हस्ते कर्म इति अनेन सूत्रेण हस्तगत-उत्क्षेपणक्रिया निरूप्यते। इदं च सूत्रं पञ्चमाध्याये प्रथमाह्निके प्रथमं सूत्रम्। संयोगश्च प्रयत्नश्च संयोगप्रयत्नौ, आत्मनः संयोगप्रयत्नौ आत्मसंयोगप्रयत्नौ, ताभ्याम् आत्मसंयोगप्रयत्नाभ्याम् इति विग्रहः। प्रयत्नवदात्मसंयोगः हस्तगतोत्क्षेपणक्रियायाः असमवायिकारणं भवति। हस्तश्च उत्क्षेपणक्रियायाः समवायिकारणम्। प्रयत्नश्च निमित्तकारणम्। प्रयत्नवदात्मसंयोग-असमवायिकारणककर्मैव चेष्टा इत्युच्यते। प्रयत्नवदात्मसंयोगासमवायिकारणकत्वे सति क्रियात्वं चेष्टालक्षणम् उपस्कारेण अभिहितम्।

तथा हस्तसंयोगाच्च मुसले कर्म इति द्वितीयं सूत्रम्। अनेन सूत्रेण मुसलगतोत्क्षेपणक्रिया निरूप्यते। उत्क्षिप्तहस्तसंयोगात् मुसलस्य उत्क्षेपणं भवति अतः मुसलगत-उत्क्षेपणं प्रति उत्क्षिप्तहस्तसंयोगः असमवायिकारणम्। मुसलस्य समवायिकारणत्वम्। प्रयत्नः निमित्तकारणम्। गुरुत्वमपि अत्र निमित्तकारणं भवति। मुसलगतकर्म यद्यपि प्रयत्नाधीनं तथापि प्रयत्नवदात्मसंयोगासमवायिकारणकं न भवति अतः चेष्टा इति नोच्यते। परन्तु मुसुलगतकर्म अपि शरीरसंयुक्तमुसलगतत्वात् शारीरमिति अङ्गीक्रियते।

प्रयत्नविशेषात् नोदनविशेषः, नोदनविशेषादुदसनविशेषः इति क्रमेण नवमं दशमं च सूत्रम्। आभ्यां सूत्राभ्यां हस्तसंयुक्तलोष्टादिगत- उत्क्षेपणं निरूप्यते। गुरुत्ववतः लोष्टादिद्रव्यस्य हस्तेन उदसनं नाम दूरोत्क्षेपणं प्रति हस्तसंयोगः कारणम्। स एव हस्तसंयोगः अत्र नोदनविशेषः इति पदेन अभिहितः। नोदनं नाम शब्दाजनकः विलक्षणसंयोगः।  नोदनविशेषे च प्रयत्नविशेषः कारणम्। इत्थं च लोष्टादेः दूरोत्क्षेपणं प्रति असमवायिकारणं नोदनविशेषः नाम हस्तसंयोगः। निमित्तकारणं गुरुत्वं प्रयत्नोऽपि। प्रयत्नः अत्र साक्षात् कारणं न अपि तु परम्परया।

इतः परं प्रयत्नानधीनकर्माणि निरूप्यन्ते।  अभिघातजे मुसलादौ कर्मणि व्यतिरेकादकारणं  हस्तसंयोगः इति तृतीयं सूत्रम्। हस्तस्य उत्क्षेपणानन्तरं मुसलस्य उत्क्षेपणं ततः परं मुसलस्य उलूखलेन अभिघातः ततः परं मुसलस्य उद्गमनं  भवति। तस्य च उत्पतनस्य असमवायिकारणम् अभिघातः। अभिघातः नाम शब्दजनकसंयोगः। उलूखलमुसलाभिघातः असमवायिकारणम्। अत्र मुसलस्य उत्पतनं प्रति हस्तसंयोगः नैव कारणं व्यभिचारात्। हस्तसंयोगाभावेऽपि मुसलस्य उत्पतनात्। तदेतदुक्तं – अभिघातजे मुसलादौ कर्मणि व्यतिरेकादकारणं  हस्तसंयोगः इति। प्रयत्नोऽपि अत्र न कारणम्। प्रयत्नं विनाऽपि मुसलस्य उत्पतनात्।

तथात्मसंयोगो हस्तकर्मणि इति चतुर्थं सूत्रम्। अनेन सूत्रेण हस्तयोः उत्पतनं प्रत्यपि प्रयत्नः न कारणमिति प्रदर्शयति। अकारणमिति पूर्वसूत्रादनुवर्तते। मुसलस्य उत्पतनानन्तरं हस्तयोः यदुत्पतनं भवति तत्रापि हस्तसंयोगः न कारणं व्यभिचारात् एवं प्रयत्नोऽपि न कारणं व्यभिचारात्। अपि तु उद्गतमुसलसंयोगः एव असमवायिकारणं भवति। अभिघातान्मुसलसंयोगाद्हस्तेकर्म इति पञ्चमं सूत्रम्। अनेन सूत्रेण मुसलसंयोगस्य असमवायिकारणत्वं प्रदर्शितम्। अत्र प्रयत्नवदात्मसंयोगः असमवायिकारणं न भवति। प्रयत्नोऽपि न कारणम्। अपि तु उत्पतन्मुसलसंयोगः एव कारणम्। अभिघातजनितवेगोऽपि कारणं भवति। सूत्रे अभिघातशब्दात् अभिघातजनितसंस्कारः वेगाख्यः विवक्षितः।

संयोगाभावे गुरुत्वात् पतनं, हस्तकर्मणा दारककर्म व्याख्यातम्, तथा दग्धस्य विस्फोटने इति सूत्राणि। उद्गतस्य मुसुलस्य विधारकहस्तसंयोगाऽभावे सति यत्पतनं  जायते तदपि प्रयत्नानधीनं कर्म। तत्र च पतने मुसलगतगुरुत्वमसमवायिकारणम्। यद्यपि गुरुत्वं पूर्वमेव आसीत् तथापि प्रतिबन्धकीभूतस्य विधारकहस्तसंयोगस्य सत्त्वात् पतनं नाभूत् । यदा तु विधारकहस्तसंयोगः अपगतः तदानीं तु गुरुत्वात् मुसलस्य पतनं भवति। एवमेव गुरुत्ववपि फलादौ प्रतिबन्धकः वृन्तसंयोगः, विहङ्गमादौ विधारकप्रयत्नः पतनप्रतिबन्धकः। क्षिप्ते काण्डबाणादौ वेगाख्यः संस्कारः पतनप्रतिबन्धकः। एतेषां पतनप्रतिबन्धकानां संयोगप्रयत्नवेगानाम् अभावे सति गुरुत्ववशात् पतनं भवति।

शारीरकर्मणां पुण्यपापहेतु- पुण्यपापाहेतुभेदेन पुनः द्वैविध्यं दर्शयति उपस्कारकारः। उलूखलस्य पतनं यथा पुण्यपापहेतुः न भवति पुण्यपापाहेतुः तथा दारकस्य नाम बालकस्य करचरणादिचालनरूपं कर्मापि पुण्यपापाहेतुः। यद्यपि बालकस्य करचरणादिचालनं प्रयत्नात्मकं कर्म तथापि पुण्यपापाहेतुः। प्रयत्नपूर्वकमपि कर्म किञ्चित् पुण्यपाप-अहेतुः भवति। तदुक्तं –तथा दग्धस्य विस्फोटने इति द्वादशं सूत्रम्। केनचित् आततायिना आगारे दाह्यमाने सति तत्र दग्धस्य पुरुषस्य वह्निवशात् विस्फोटे च सति आततायिनः वधानुकूलः प्रयत्नः यः जायते तस्मात् प्रयत्नात् यत् कर्म च जायते तत्कर्म यद्यपि प्रयत्नाधीनं तथापि पुण्यपापहेतुर्न भवति। अत्र इदं स्मृतिवचनं-

नाततायिवधे दोषो हन्तुर्भवति कश्चन।

अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः।

क्षेत्रदारापहारी च षडेते आततायिनः॥ इति