Katha 6 to 10
From Wikisource
|क्६|त्१३|श्१
ततः गत्वा पुनः तस्मात् प्राप्य तम् शिंशपा-तरोः|
वेतालम् प्राग्वत् आदाय स्कन्धे मौनेन भू-पतिः|
|क्६|त्१३|श्२
सः त्रिविक्रमसेनः अत्र यावत् आगच्चति द्रुतम्|
तावत् पथि सः वेतालः भूयः अपि एवम् उवाच तम्|
|क्६|त्१३|श्३
राजन् सु-धीः सु-सत्त्वः च भवान् तेन प्रियः असि मे|
अतः विनोदिनीम् वच्मि कथाम् प्रश्नम् च मे शृणु|
|क्६|त्१३|श्४
आसीत् राजा यशःकेतुः इति ख्यातः मही-तले|
तस्य शोभावती नाम राज-धानी अभवत् पुरी|
|क्६|त्१३|श्५
तस्याम् अभूत् नगर्याम् च गौरी-आयतनम् उत्तमम्|
तस्य दक्षिणतः च आसीत् गौरी-तीर्थ-अभिधम् सरः|
|क्६|त्१३|श्६
तस्य आषाढ-चतुर्दश्याम् शुक्लायाम् प्रतिवत्सरम्|
यात्रायाम् स्नातुम् एति स्म नाना-दिग्भ्यः महा-जनः|
|क्६|त्१३|श्७
एकदा च तिथौ तस्याम् स्नातुम् अत्र आययौ युवा|
रजकः धवलः नाम ग्रामात् ब्रह्मस्थल-अभिधात्|
|क्६|त्१३|श्८
सः अपश्यत् रजकस्य अत्र तीर्थे स्नान-आगताम् सुताम्|
कन्याम् शुद्धपट-आख्यस्य नाम्ना मदनसुन्दरीम्|
|क्६|त्१३|श्९
इन्दोः लावण्य-हारिण्या तया सः हृत-मानसः|
अन्विष्य तत्-नाम-कुले काम-आर्तः अथ गृहम् ययौ|
|क्६|त्१३|श्१०
तत्र अनवस्थितः तिष्ठन् निर्-आहारः तया विना|
पृष्ठः मात्रा आर्तया तस्यै तत् शशंस मनः-गतम्|
|क्६|त्१३|श्११
सा गत्वा विमल-आख्याय तत् स्व-भर्त्रे न्यवेदयत्|
सः अपि आगत्य तथा अवस्थम् दृष्ट्वा तम् सुतम् अभ्यधात्|
|क्६|त्१३|श्१२
किम् विषीदसि पुत्र एवम् अदुष्प्राप्ये अपि वाञ्चिते|
सः हि मत्-याचितः शुद्धपटः दास्यति ते सुताम्|
|क्६|त्१३|श्१३
अन्यूनाः हि वयम् तस्मात् कुलेन अर्थेन कर्मणा|
तम् वेद्मि अहम् सः माम् वेत्ति तेन एतत् मे न दुः-करम्|
|क्६|त्१३|श्१४
इति आश्वास्य सः तम् पुत्रम् आहार-आदौ प्रवर्त्य च|
तत् युक्तः विमलः अन्ये-द्युः ययौ सः शुद्धपट-आस्पदम्|
|क्६|त्१३|श्१५
ययाचे च अत्र पुत्रस्य तस्य अर्थे धवलस्य सः|
कन्याम् तस्मात् सः च अस्मै ताम् प्रतिशुश्राव स-आदरम्|
|क्६|त्१३|श्१६
लग्नम् निश्चित्य च अन्ये-द्युः ताम् शुद्धपटः सुताम्|
धवलाय ददौ तस्मै तुल्याम् मदनसुन्दरीम्|
|क्६|त्१३|श्१७
कृत-उद्वाहः च सः तया साकम् दर्शन-सक्तया|
भार्यया स्व-पितुः गेहम् जगाम धवलः कृती|
|क्६|त्१३|श्१८
सुख-स्थितस्य तस्य अथ कदाचित् श्वशुर-आत्म-जः|
तस्याः मदनसुन्दर्याः भ्राता तत्र आगतः अभवत्|
|क्६|त्१३|श्१९
सः कृत-प्रश्रयः सर्वैः स्वस्रा आश्लिष्य अभिनन्दितः|
संबन्धि-पृष्ट-कुशलः विश्रान्तः च जगाद तान्|
|क्६|त्१३|श्२०
अहम् मदनसुन्दर्याः जामातुः च नि-मन्त्रणे|
तातेन प्रेषितः यस्मात् देवी-पूजा-उत्सवः अस्ति नः|
|क्६|त्१३|श्२१
श्रद्धाय च एतत् तत्-वाक्यम् यथा-अर्हैः पान-भोजनैः|
ते संबन्धि-आदयः सर्वे तत् अहः तम् उपाचरन्|
|क्६|त्१३|श्२२
प्रातः मदनसुन्दर्या स्वशुर्येण च तेन सः|
सहितः धवलः प्रायात् गृहम् तत् श्वाशुरम् प्रति|
|क्६|त्१३|श्२३
प्राप्य शोभावतीम् ताम् च पुरीम् आत्म-तृतीयकः|
ददर्श निकटम् प्राप्य सः गौरी-आयतनम् महत्|
|क्६|त्१३|श्२४
निजगाद च तौ भार्या-श्वशुर्यौ श्रद्धया ततः|
एतम् एताम् भगवतीम् पश्यामः देवताम् इह|
|क्६|त्१३|श्२५
तत् श्रुत्वा सः श्वशुर्यः तम् नि-षेधम् प्रत्यभाषा |
इयन्तः रिक्त-हस्ताः किम् पश्यामः देवताम् इति|
|क्६|त्१३|श्२६
अहम् तावत् व्रजामि एकः युवाम् अत्र एव तिष्ठतम्|
इति उक्त्वा धवलः द्रष्टुम् देवीम् ताम् सः ततः ययौ|
|क्६|त्१३|श्२७
प्रविश्य आयतनम् तस्याः प्रणम्य च विभाव्य च|
ताम् अष्टादश-दोः-दण्ड-खण्डित-उच्चण्ड-दानवाम्|
|क्६|त्१३|श्२८
पाद-पद्म-तल-आक्षिप्त-महिष-असुर-मर्दिनीम्|
सः विधि-प्रेरण-उत्पन्न-बुद्धिः एवम् अचिन्तयत्|
|क्६|त्१३|श्२९
जीव-उपहारैः विविधैः इमाम् देवीम् जनः अर्चति|
अहम् तु सिद्ध्यै किम् न एताम् प्रीणामि आत्म-उपहारतः|
|क्६|त्१३|श्३०
इति ध्यात्वा एव तत्-गर्भ-गृहात् आदाय निः-जनात्|
खड्गम् सांयात्रिकैः कैः-चित् देव्याः प्राक् प्राभृती-कृतम्|
|क्६|त्१३|श्३१
बद्ध्वा शिरः-रुहैः घण्टा-शृङ्खलायाम् निजम् शिरम्|
चिच्चेद एतेन खड्गेन तत् चिन्नम् च अपतत् भुवि|
|क्६|त्१३|श्३२
चिरम् यावत् सः न आयाति तावत् गत्वा तम् ईक्षितुम्|
तत्र एव देवी-भवने तत्-श्वशुर्यः विवेश सः|
|क्६|त्१३|श्३३
सः अपि दृष्ट्वा तम् उत्कृत्त-मूर्धानम् भगिनी-पतिम्|
व्यामोहितः तथा एव स्वम् शिरः तेन असिना अच्चिनत्|
|क्६|त्१३|श्३४
सः अपि यावत् च न आयाति तावत् उद्भ्रान्त-मानसा|
तत्-देवी-भवनम् सा अपि ययौ मदनसुन्दरी|
|क्६|त्१३|श्३५
प्रविश्य दृष्ट्वा एव पतिम् भ्रातरम् च तथा-गतौ|
हा किम् एतत् हत-आस्मि इति विलपन्ती अपतत् भुवि|
|क्६|त्१३|श्३६
क्षणात् च उत्थाय शोचन्ती तौ अ-काण्ड-हतौ उभौ|
किम् मम अपि अधुना अनेन जीवितेन इति अचिन्तयत्|
|क्६|त्१३|श्३७
व्यजिज्ञपत् च देवीम् ताम् देह-त्याग-उन्मुखी सती|
देवि सौभाग्य-चारित्र-विधान-एक-अधिदेवते|
|क्६|त्१३|श्३८
अध्यासित-शरीर-अर्धे भर्तुः मार-रिपोः अपि|
अशेष-ललना-लोक-शरण्ये दुःख-हारिणि|
|क्६|त्१३|श्३९
हृतौ एक-पदे कस्मात् भर्ता भ्राता च मे त्वया|
न युक्तम् एतत् मयि ते नित्य-भक्ता हि अहम् त्वयि|
|क्६|त्१३|श्४०
तत् मे श्रितायाः शरणम् शृणु एकम् कृपणम् वचः|
एताम् तावत् त्यजामि अत्र दौर्भाग्य-उपहताम् तनुम्|
|क्६|त्१३|श्४१
जनिष्ये देवि भूयः तु यत्र कुत्र अपि जन्मनि|
तत्र एतौ एव भूयास्ताम् द्वौ भर्तृ-भ्रातरौ मम|
|क्६|त्१३|श्४२
इति संस्तुत्य विज्ञप्य देवीम् नत्वा च ताम् पुनः|
पाशम् विरचयामास लतया अशोक-पाद-पे|
|क्६|त्१३|श्४३
तत्र अर्पयति यावत् च पाशे कण्ठम् वितत्य सा|
तावत् तत्र उच्चचार एवम् भारती गगन-अङ्गणात्|
|क्६|त्१३|श्४४
मा कृथाः साहसम् पुत्रि बालायाः अपि ते अमुना|
सत्त्व-उत्कर्षेण तुष्टा अस्मि पाशम् एतम् परित्यज|
|क्६|त्१३|श्४५
संश्लेषय शिरः स्वम् स्वम् भर्तृ-भ्रातृ-कबन्धयोः|
उत्तिष्ठताम् ते जीवन्तौ एतौ द्वौ अपि मत्-वरात्|
|क्६|त्१३|श्४६
एतत् श्रुत्वा एव संत्यज्य पाशम् हर्षात् उपेत्य सा|
अविभाव्य अतिरभसात् भ्रान्ता मदनसुन्दरी|
|क्६|त्१३|श्४७
बाला भर्तृ-शिरः भ्रातृ-देहेन समयोजयत्|
भर्तृ-देहेन च भ्रातृ-शिरः विधि-नियोगतः|
|क्६|त्१३|श्४८
ततः अक्षत-अङ्गौ जीवन्तौ उभौ उत्तस्थतुः च तौ|
शिरः-विनिमयात् जात-संकरौ काययोः मिथः|
|क्६|त्१३|श्४९
अथ अन्योन्य-उदित-स्व-स्व-यथा-वृत्तान्त-तोषिणः|
प्रणम्य देवीम् शर्वनीम् यथा-इष्टम् ते ययुः त्रयः|
|क्६|त्१३|श्५०
यान्ती च दृष्ट्वा स्व-कृतम् शिरः-विनिमयम् तयोः|
विग्ना किम्-कार्यता-मूढा सा अभूत् मदनसुन्दरी|
|क्६|त्१३|श्५१
तत् ब्रूहि राजन् कः भर्ता तस्याः संकीर्णयोः तयोः|
पुर्व-उक्तः स्यात् सः शापः ते जानानः न ब्रवीषि चेत्|
|क्६|त्१३|श्५२
इति आकर्ण्य कथा-प्रश्नम् राजा वेतालतः ततः|
सः त्रिविक्रमसेनः अत्र तम् एवम् प्रत्यभाषत|
|क्६|त्१३|श्५३
यत् संस्थम् तत्-पति-शिरः सः एषः तस्याः पतिः तयोः|
प्रधानम् च शिरः अङ्गेषु प्रत्यभिज्ञा च तत्-गता|
|क्६|त्१३|श्५४
इति उक्तवतः नृ-पतेः तस्य आंसात् पुनः अतर्कितः सः ययौ|
वेतालः सः च राजा जगाम भुयः तम् आनेतुम्|
|क्७|त्१४|श्१
ततः गत्वा पुनः प्राप्य वेतालम् शिंशपा-तरोः|
सः त्रिविक्रमसेनः तम् स्कन्धे जग्राह भू-पतिः|
|क्७|त्१४|श्२
गृहीत्वा प्रस्थितम् तम् च वेतालः सः अब्रवीत् पथि|
राजन् श्रम-विनोद-अर्थम् कथाम् आख्यामि ते शृणु|
|क्७|त्१४|श्३
अस्ति इह ताम्रलिप्ती इति पुरी पूर्व-अम्बुधेः तटे|
चण्डसेन-अभिधानः च राजा तस्याम् अभूत् पुरि|
|क्७|त्१४|श्४
पराङ्-मुखः पर-स्त्रीषु यः न सङ्ग्राम-भूमिषु|
हर्ता च शत्रु-लक्ष्मीणाम् न पर-द्रव्य-संपदाम्|
|क्७|त्१४|श्५
तस्य एकदा दाक्षिणात्यः राज-पुत्रः जन-प्रियः|
आययौ सत्त्वशील-आख्यः सिंह-द्वारे अत्र भू-पतेः|
|क्७|त्१४|श्६
तत्र च आत्मानम् आवेद्य नैर्धन्य-आत्तम् नृ-पम् प्रति|
कपटम् पाटयामास राज-पुत्रैः सह-अपरैः|
|क्७|त्१४|श्७
ततः कार्पटिकः भूत्वा बहूनि अब्दानि तत्र सः|
तस्थौ कुर्वन् सदा सेवान् न एव प्राप फलम् नृ-पात्|
|क्७|त्१४|श्८
यदि राज-अन्वये जन्म निः-धनत्वम् किम् ईदृशम्|
निः-धनत्वे अपि किम् धात्रा कृता इयम् मे महा-इच्चता|
|क्७|त्१४|श्९
अयम् हि सेवमानम् माम् एवम् क्लिष्ट-परिच्चदम्|
चिरम् क्षुधा-अवसीदन्तम् राजा न अद्य अपि वीक्षते|
|क्७|त्१४|श्१०
इति यावत् च सः ध्यायति अत्र कार्पटिकः ततः|
तावत् आखेटक-अर्थम् सः निरगात् एकदा नृ-पः|
|क्७|त्१४|श्११
तस्मिन् कार्पटिके धावति अग्रे लगुड-वाहिनि|
जगाम च अश्व-पादात-युतः सः अथ मृग-अटवीम्|
|क्७|त्१४|श्१२
कृत-आखेटः च तत्र आरात् महान्तम् मत्त-सूकरम्|
अनुधावन् क्षणात् प्रापत् अतिदूरम् वन-अन्तरम्|
|क्७|त्१४|श्१३
तत्र पर्ण-तृण-चन्न-मार्गे हारित-सूकरः|
श्रान्तः महा-वने सः अथ राजा दिक्-मोहम् आययौ|
|क्७|त्१४|श्१४
एकः कार्पटिकः च अथ सः तम् वात-अश्व-पृष्ठगम्|
प्रान-अनपेक्षः अनुययौ पदातिः क्षुत्-तृषा-अर्दितः|
|क्७|त्१४|श्१५
तम् च दृष्ट्वा तथा-भूतम् अन्वायातम् सः भू-पतिः|
स-स्नेहम् अवदत् कच्चिद् वेत्सि मार्गम् यथा-आगतम्|
|क्७|त्१४|श्१६
तदा आकर्ण्य अञ्जलिम् बद्ध्वा सः तम् कार्पटिकः अभ्यधात्|
वेद्मि किम् च क्षणम् तावत् इह विश्राम्यतु प्रभुः|
|क्७|त्१४|श्१७
द्यु-वधू-मेखला-मध्य-मणिः एषः हि संप्रति|
देदीप्यते स्फुरत्-रश्मि-शिखा-जालः अब्जिनी-पतिः|
|क्७|त्१४|श्१८
एतत् श्रुत्वा सः राजा तम् स-उपरोधम् अभाषत|
तर्हि क्व अपि इह पानीयम् भवता प्रेक्ष्यताम् इति|
|क्७|त्१४|श्१९
तथा इति आरुह्य सः ततः तुङ्गम् कार्पटिकः तरुम्|
नदीम् दृष्ट्वा अवरुह्य अथ नृ-पम् तत्र निनाय तम्|
|क्७|त्१४|श्२०
तत् वाहम् च विपर्यानी-कृतम् कृत-विवर्तनम्|
दत्त-अम्बु-शष्प-कवलम् विदधे विगत-श्रमम्|
|क्७|त्१४|श्२१
कृत-स्नानाय राज्ञे च प्रोन्मुच्य वसन-अञ्चलात्|
प्रक्षाल्य उपानयत् तस्मै हृद्यानि आमलकानि सः|
|क्७|त्१४|श्२२
एतानि कुतः इति एतम् पृच्चन्तम् सः च भू-पतिम्|
एवम् व्यजिज्ञपत् जानु-स्थितः स-आमलक-अञ्जलिः|
|क्७|त्१४|श्२३
एतत्-वृत्तिः अहम् नित्यम् व्यतीत-दश-वत्सरः|
चरामि आराधयन् देवम् अनेकान्त-मुनि-व्रतम्|
|क्७|त्१४|श्२४
तत् श्रुत्वा सत्य-नामा त्वम् सत्त्वशीलः किम् उच्यते|
इति उक्त्वा सः कृपा-आक्रान्तः ह्रीतः च अचिन्तयत् नृ-पः|
|क्७|त्१४|श्२५
धिक् नृ-पान् क्लिष्टम् अक्लिष्टम् ये भृत्येष न जानते|
धिक् च तम् परिवारम् यः न ज्ञापयति तान् तथा|
|क्७|त्१४|श्२६
इति संचिन्त्य जग्राह सः राजा आमलक-द्वयम्|
हस्तात् कार्पटिकस्य अथ कथम्-चित् अनुबध्नतः|
|क्७|त्१४|श्२७
भुक्त्वा च तत् निपीय अम्बु विशश्राम अत्र सः क्षणम्|
जग्ध-आमलक-संपीत-जल-कार्पटिक-अन्वितः|
|क्७|त्१४|श्२८
ततः सज्जी-कृतम् तेन वाहम् कार्पटिकेन सः|
आरुह्य अग्रे-सरे तस्मिन् एव मार्ग-प्रदर्शिनि|
|क्७|त्१४|श्२९
पश्चात्-भागम् अनारूढे हयस्य अभ्यर्थिते अपि अलम्|
ययौ सः राजा स्व-पूरिम् पथि प्राप्त-आत्म-सैनिकः|
|क्७|त्१४|श्३०
तत्र प्रख्याप्य तत्-भक्तिम् वसुभिः विषयैः च तम्|
अपूरयत् कार्पटिकम् न च अमन्यत निष्कृतिम्|
|क्७|त्१४|श्३१
ततः कृत-अर्थः पार्श्वे अस्य चण्डसिंहस्य भू-पतेः|
मुक्त-कार्पटिक-आचारः सत्त्वशीलः सः तस्थिवान्|
|क्७|त्१४|श्३२
एकदा तेन राज्ञा च सः सिंहल-पतेः सुताम्|
याचितुम् सिंहल-द्वीपम् आत्म-अर्थम् प्रेषितः अभवत्|
|क्७|त्१४|श्३३
तत्र अप्-धि-वर्त्मना गच्चन् अर्चित-अभीष्ट-देवतः|
आरुरोह प्रवहणम् राज-आदिष्टैः सह द्विजैः|
|क्७|त्१४|श्३४
गते तस्मिन् प्रवहणे मध्य-भागम् अशङ्कितम्|
उत्तस्थौ जल-धेः तस्मात् ध्वजः जनित-विस्मयः|
|क्७|त्१४|श्३५
अभ्रम्-लिह-अग्रः सु-महान् जाम्बूनद-विनिर्मितः|
विचित्र-वर्ण-विचलत्-वैजयन्ती-विराजितः|
|क्७|त्१४|श्३६
तत्-कालम् च अत्र सहसा समुन्नम्य घन-आवली|
भृशम् वर्षितुम् आरेभे ववौ तीव्रः च मारुतः|
|क्७|त्१४|श्३७
तैः वर्ष-वातैः सः बलात् आकृष्य आधोरनैः इव|
आसज्यत ध्वज-स्तम्भे तस्मिन् प्रवहण-द्विपः|
|क्७|त्१४|श्३८
तावत् च सः ध्वजः तस्मिन् वारि-धौ वीचि-विप्लुते|
वहनेन समम् तेन प्रावर्तत निमज्जितुम्|
|क्७|त्१४|श्३९
ततः द्विजाः ते तत्र-स्थाः चण्डसिंहम् स्व-भू-पतिम्|
उद्दिश्य उद्घोषयामासुः अ-भ्रह्मण्यम् भय-आकुलाः|
|क्७|त्१४|श्४०
तत् आकर्ण्य असहिष्णुः च स्वामि-भक्तेः अनुध्वजम्|
सः सत्त्वशीलः निः-त्रिंश-हस्तः बद्ध-उत्तरीयकः|
|क्७|त्१४|श्४१
आत्मानम् अक्षिपत् तत्र निः-अपेक्षः महा-उद-धौ|
उदधेः कारण-आशङ्की वीरः प्रतिविधित्सया|
|क्७|त्१४|श्४२
मग्ने च तस्मिन् वात-ऊर्मि-दूर-उत्क्षिप्तम् अभज्यत|
वहनम् तत् च तत्-स्ताः च निपेतुः यादसाम् मुखे|
|क्७|त्१४|श्४३
सः च मग्नः अम्बु-धौ तत्र सत्त्वशीलः निरीक्षते|
यावत् तावत् ददर्श अत्र पुरीम् दिव्याम् न वारि-धिम्|
|क्७|त्१४|श्४४
तस्मिन् मणि-मय-स्थम्भैः भास्वरे हेम-मन्दिरे|
सत्-रत्न-बद्ध-सोपान-वापीक-उद्यान-शोभिनि|
|क्७|त्१४|श्४५
नाना-मणि-शिला-भित्ति-रत्न-चित्र-उच्च्रित-ध्वजम्|
कात्यायनी-देव-गृहम् मेरु-प्रोन्नतम् ऐक्षत|
|क्७|त्१४|श्४६
तत्र प्रणम्य देवीम् ताम् स्तुत्या अभ्यर्च्य तत्-अग्रतः|
इन्द्र-जालम् किम् एतत् स्यात् इति आश्चर्याद् उपाविशत्|
|क्७|त्१४|श्४७
तावत् च देवि-अग्र-गत-प्रभा-मण्डलक-अन्तरात्|
अकस्मात् निरगात् कन्या दिव्या उद्घाट्य कवाटकम्|
|क्७|त्१४|श्४८
इन्दी वर-अक्षी फुल्ल-अप्-ज-वदना कुसुम-स्मिता|
मृणाल-नाल-मृदु-अङ्गी जङ्गमा इव सरोजिनी|
|क्७|त्१४|श्४९
स्त्री-सहस्र-परीवारा देवी-गर्भ-गृहम् च सा|
विवेश सत्त्वशीलस्य हृदयम् च ततः समम्|
|क्७|त्१४|श्५०
निरगात् कृत-पूजा च देवी-गर्भ-गृहात् ततः|
न पुनः सत्त्वशीलस्य हृदयात् सा कथम् चन|
|क्७|त्१४|श्५१
प्राविशत् सा च तत्र एव प्रभा-मण्डलक-अन्तरे|
सत्त्वशीलः अपि असौ तस्याः पश्चात् तत्र प्रविष्टवान्|
|क्७|त्१४|श्५२
प्रविश्य च ददर्श अन्तः अन्यत् एव उत्तमम् पुरम्|
संकेत-उद्यानम् इव यत् सर्वासाम् भोग-संपदाम्|
|क्७|त्१४|श्५३
तत्र अन्तः-मणि-पर्यङ्क-निषण्णाम् ताम् विलोक्य सः|
कन्याम् उपेत्य तत्-पार्श्वे सत्त्वशीलः उपाविशत्|
|क्७|त्१४|श्५४
आसीत् च तत्-मुख-आसक्त-लोचनः लिखितः यथा|
अङ्गैः स-उत्कम्प-पुलकैः वदन् आलिङ्गन-उत्कताम्|
|क्७|त्१४|श्५५
दृष्ट्वा च तम् स्मर-आविष्टम् चेटीनाम् अत्र सा मुखम्|
अद्राक्षीत् ताः च तत्-कालम् इङ्गित-ज्ञाः तम् अब्रुवन्|
|क्७|त्१४|श्५६
अतिथिः त्वम् इह प्राप्तः तत् अस्मत्-स्वामिनी-कृतम्|
भजस्व आतिथ्यम् उत्तिष्ठ स्नाहि भुङ्क्स्व ततः परम्|
|क्७|त्१४|श्५७
तत् श्रुत्वा सः अवलम्ब्य आशाम् खतम् अपि उत्थितः ततः|
ययौ प्रदर्शिताम् ताभिः एकाम् उद्यान-वापिकाम्|
|क्७|त्१४|श्५८
तस्याम् निमग्नः च उत्तस्थौ ताम्रलिप्त्याम् सः तत्-क्षणात्|
चण्डसिंह-नृ-प-उद्यान-वापी-मध्यात् स-संभ्रमः|
|क्७|त्१४|श्५९
तत्र प्राप्तम् अकस्मात् च विक्ष्य आत्मानम् अचिन्तयत्|
अहो किम् एतत् क्व उद्यानम् इदम् दिव्यम् क्व तत् पुरम्|
|क्७|त्१४|श्६०
तत्र अमृत-आसार-समम् क्व तत् तस्याः च दर्शनम्|
क्व च अनन्तरम् एव इदम् तत्-विश्लेष-महा-विषम्|
|क्७|त्१४|श्६१
स्वप्नः च न अयम् सु-स्पष्टः विनिद्रः अनुभवः हि मे|
ध्रुवम् पाताल-कन्याभिः ताभिः मूढः अस्मि वञ्चितः|
|क्७|त्१४|श्६२
इति ध्यायन् विना ताम् सः कन्याम् उन्मादवान् इव|
उद्याने तत्र बभ्राम काम-आर्तः विललाप च|
|क्७|त्१४|श्६३
तत्-अवस्थम् च तम् दृष्ट्वा पिशङ्गैः पुष्प-रेणुभिः|
वात-उद्धूतैः परीत-अङ्गम् विप्रयोग-अनलैः इव|
|क्७|त्१४|श्६४
उद्यान-पालाः गत्वा एव चण्डसिंह-मही-भृतम्|
व्यजिज्ञपन् सः च उद्भ्रान्तः स्वयम् एत्य ददर्श तम्|
|क्७|त्१४|श्६५
सान्त्वयित्वा च पप्रच्च किम् इदम् ब्रूहि नः सखे|
क्व प्रस्थितः त्वम् क्व प्राप्तः क्व अस्तः क्व पतितः शरः|
|क्७|त्१४|श्६६
तत् श्रुत्वा सः स्व-वृत्त-अन्तम् तस्मै सर्व शशंस तम्|
सत्त्वशीलः नृ-पतये सः अपि अथ एवम् अचिन्तयत्|
|क्७|त्१४|श्६७
हन्त वीरः अपि मत्-पुण्यैः कामेन एषः विडम्बितः|
आनृण्यम् गन्तुम् एतस्य लब्धः हि अवसरः मया|
|क्७|त्१४|श्६८
इति अन्तः चिन्तयित्वा सः वीरः राजा जगाद तम्|
तह्रि मुञ्च मुधा शोकम् अहम् त्वाम् प्रापयामि ताम्|
|क्७|त्१४|श्६९
नीत्वा तेन एव मार्गेण प्रियाम् असुर-कन्यकाम्|
इति च अश्वासयामास तम् सः स्नान-आदिना नृ-पः|
|क्७|त्१४|श्७०
अन्ये-द्युः मन्त्रि-विन्यस्त-राज्यः तेन समम् च सः|
प्रायात् प्रवहण-आरूढः तत्-दर्शित-पथः अम्बु-धिम्|
|क्७|त्१४|श्७१
प्राप्य तत्-मध्य-भागम् च दृष्ट्वा तम् प्राग्वत् उत्थितम्|
स-पताकम् ध्वजम् सत्त्वशीलः तम् नृ-पम् अभ्यधात्|
|क्७|त्१४|श्७२
सः अयम् अभ्युत्थितः दिव्य-प्रभावः अत्र महा-ध्वजः|
मयि मग्ने अत्र मङ्क्तव्यम् देवेन एतम् अनु ध्वजम्|
|क्७|त्१४|श्७३
इति उक्त्वा निकटम् प्राप्य ध्वजस्य अस्य निमज्जतः|
मार्गे सः सत्त्वशीलः असौ पूर्वम् आत्मानम् अक्षिपत्|
|क्७|त्१४|श्७४
ततः राजा अपि चिक्षेप तत्र आत्मानम् तथा एव सः|
अन्तः मग्नौ च तौ क्षिप्रम् तत् दिव्यम् प्रापतुः पुरम्|
|क्७|त्१४|श्७५
तत्र दृष्ट्वा सः स-आश्चर्यः राजा देवीम् प्रणम्य ताम्|
पार्वतीम् सत्त्वशीलेन सहितः समुपाविशत्|
|क्७|त्१४|श्७६
तावत् च निरगात् तत्र सा सखी-जन-संगता|
रूपिनी इव प्रभा कन्या प्रभा-मण्डलकात् ततः|
|क्७|त्१४|श्७७
इयम् सा सु-मुखी इति उक्ते सत्त्वशीलेन ताम् नृ-पः|
दृष्ट्वा युक्तम् अभिष्वङ्गम् तस्य तस्याम् अमन्यत|
|क्७|त्१४|श्७८
सा अपि तम् वीक्ष्य राजानम् शुभ-शारीर-लक्षणम्|
पुरुष-अतिशयः अ-पूर्वः कः अयम् स्यात् इति अचिन्तयत्|
|क्७|त्१४|श्७९
विवेश च अम्बिका-धाम पूजायै सा नृ-पः अपि सः|
जगाम उद्यानम् आदाय सत्त्वशीलम् अवज्ञया|
|क्७|त्१४|श्८०
क्षणात् च कृत-पूजा सा निरगात् दैत्य-कन्यका|
याचित्वा सत्-पति-प्राप्तिम् देव्याः गर्भ-गृह-अन्तरात्|
|क्७|त्१४|श्८१
निर्गत्य सा जगाद एकाम् सखीम् सखि गवेष्यताम्|
यः असौ इह मया दृष्टः महा-आत्मा क्व सः तिष्ठति|
|क्७|त्१४|श्८२
आतिथ्यम् गृह्यताम् एत्य प्रसादः क्रियताम् त्वया|
इति च एषः अर्थ्यताम् पूज्यः पुमान् कः अपि उत्तमः हि असौ|
|क्७|त्१४|श्८३
एवम् सखी तया उक्ता सा विचित्य उद्यान-वर्तिने|
स्व-स्वामिनी-निदेशम् तम् प्रह्वा तस्मै न्यवेदयत्|
|क्७|त्१४|श्८४
तत् श्रुत्वा सः नृ-पः वीरः स-अवहेलम् उवाच ताम्|
एषैव आतिथ्यम् अस्माकम् अन्यत् किम् उपयुज्यते|
|क्७|त्१४|श्८५
एतत् श्रुत्वा तया गत्वा सख्या सा श्राविता तदा|
मेने मान्यम् उदारम् तम् सर्वथा दैत्य-कन्यका|
|क्७|त्१४|श्८६
ततः च आकृष्यमाना इव धैर्य-पाशेन तेन सा|
नृ-पेण मानुष-अयोग्ये अपि आतिथ्ये निः-स्पृहा-आत्मना|
|क्७|त्१४|श्८७
पति-अर्थम् पार्वती-सेवा-परिपाक-समर्पितम्|
मत्वा तत् स्वयम् उद्यानम् विवेश असुर-पुत्रिका|
|क्७|त्१४|श्८८
विचित्र-शकुन-आलापैः वात-अञ्चित-लता-भुजैः|
विकीर्ण-कुसुमैः आरात् नन्द्यमाना इव पाद-पैः|
|क्७|त्१४|श्८९
उपगम्य च सा तत्र यथावत् प्रश्रय-आनता|
आतिथ्य-ग्रहण-अर्थम् तम् प्रार्थयामास पार्थिवम्|
|क्७|त्१४|श्९०
ततः सः सत्त्वशीलम् तम् उद्दिश्य उवाच ताम् नृ-पः|
अनेन कथिताम् देवीम् इह अहम् द्रष्टुम् आगतः|
|क्७|त्१४|श्९१
गौरीम् ध्वज-पथ-प्राप्य-परम-अद्भुत-केतनाम्|
सा दृष्टा तद्-अनु त्वम् च का अन्या आतिथ्य-अर्थिता अत्र नः|
|क्७|त्१४|श्९२
तत् श्रुत्वा सा अब्रवीत् कन्या कौतुकात् तर्हि वीक्षितुम्|
आगम्यताम् द्वितीयम् मे पुरम् त्रि-जगत्-अद्भुताम्|
|क्७|त्१४|श्९३
एवम् उक्तवतीम् ताम् च सः विहस्य नृ-पः अब्रवीत्|
तत् अपि अनेन एव उक्तम् मे यत्र सा स्नान-वापिका|
|क्७|त्१४|श्९४
ततः सा कन्यका अवादीत् देव मा स्म एवम् आदिश|
न विडम्बन-शीला अहम् का वा पूज्ये विडम्बना|
|क्७|त्१४|श्९५
अहम् हि सत्त्व-उत्कर्षेण युष्माकम् किम्-करी-कृता|
तन्मम प्रार्थना-भङ्गम् न एव एवम् कर्तुम् अर्हथ|
|क्७|त्१४|श्९६
एतत् श्रुत्वा तथा इति उक्त्वा सत्त्वशील-सखः सः तत्|
प्रभा-मण्डलक-उपान्तम् ययौ राजा तया सह|
|क्७|त्१४|श्९७
अपावृत-कवाटे च तस्मिन् अन्तः तथा एव सः|
प्रवेशितः ददर्श अस्याः तत् दिव्यम् अपरम् पुरम्|
|क्७|त्१४|श्९८
नित्य संनद्ध-सर्व-ऋतु सदा-पुष्प-फल-द्रुमम्|
मेरु-पृष्ठम् इव अशेषम् निर्मितम् रत्न-काञ्चनैः|
|क्७|त्१४|श्९९
रत्न-आसने महा-अर्हे तम् राजानम् उपवेश्य सा|
यथा-उचित उपनीत-अर्घ्या दैत्य-राज-सुता अब्रवीत्|
|क्७|त्१४|श्१००
कन्या अहम् असुर-इन्द्रस्य कालनेमेः महा-आत्मनः|
चक्रायुधेन च सः मे स्वः-गतिम् प्रापितः पिता|
|क्७|त्१४|श्१०१
विश्वकर्म-कृतम् च इदम् पैतृकम् मे पुर-द्वयम्|
न जरा अत्र न मृत्युः च बाधते सर्व-काम-दे|
|क्७|त्१४|श्१०२
इदानीम् च पिता त्वम् मे स-पुरा अहम् वशे तव|
इति अर्पित-आत्म-सर्व-स्वाम् ताम् उवाच सः भू-पतिः|
|क्७|त्१४|श्१०३
यदि एवम् तत् सुते हि अस्मै मया दत्ता असि अनिन्दिते|
सत्त्वशीलाय वीराय सु-हृदे बान्धवाय च|
|क्७|त्१४|श्१०४
एवम् देवी-प्रसादेन मूर्तेन इव नृ-पेण सा|
उक्ता गुण-ज्ञा विनता तत् तथा इति अन्वमन्यत|
|क्७|त्१४|श्१०५
ततः कृत-अर्थम् तम् तस्याः कृत-पाणि-ग्रहम् नृ-पः|
दत्त-असुर-पुर-ऐश्वर्यम् सत्त्वशीलम् उवाच सः|
|क्७|त्१४|श्१०६
बुक्तयोः आमलकयोः तयोः एकम् मया तव|
संशोधितम् असंशुद्धाद् ऋणी ते अहम् द्वितीयतः|
|क्७|त्१४|श्१०७
इति प्रणतम् उक्त्वा तम् दैत्य-पुत्रीम् जगाद ताम्|
मार्गः मे दर्श्यताम् येन स्व-पुरीम् प्राप्नुयाम् इति|
|क्७|त्१४|श्१०८
ततः अपराजितम् नाम खड्गम् भक्ष्यम् फलम् च सा|
एकम् जरा-मृत्यु-हरम् तस्मै दैत्य-सुता ददौ|
|क्७|त्१४|श्१०९
ताभ्याम् युक्तः तया उक्तायाम् वाप्यम् मग्नः स्व-देशतः|
उत्थाय सर्व-संसिद्ध-कामः अभूत् सः क्रमात् नृ-पः|
|क्७|त्१४|श्११०
सत्त्वशीलः अपि दैत्य-स्त्री-पुर-राज्यम् शशास सः|
तत् ब्रूहि कः अप्-धि-पतने द्वयोः सत्त्व-अधिकः अनयोः|
|क्७|त्१४|श्१११
इति श्रुत्वा तथा प्रश्नम् वेतालात् शप-भीतितः|
सः त्रिविक्रमसेनः तम् भू-पतिः प्रत्यभाषत|
|क्७|त्१४|श्११२
एतयोः सत्त्वशीलः अत्र सः मे सत्त्व-अधिकः मतः|
सः हि अविज्ञात-तत्त्व-अर्थः निर्-आस्थः पतितः अम्बु-धौ|
|क्७|त्१४|श्११३
राजा तु तत्त्वम् विज्ञाय विवेश अम्भः-धिम् आस्थया|
दैत्य-कन्याम् च न अवञ्चत् असाध्या स्पृहया इति सः|
|क्७|त्१४|श्११४
इति तस्य आकर्ण्य वचः निरस्त-मौनस्य भू-पतेः स्कन्धात्|
सः जगाम पूर्ववत् तम् वेतालः शिंशपा-तरुम् स्व-पदम्|
|क्७|त्१४|श्११५
राजा अपि तथा एव सः तम् पुनः अपि आनेतुम् अनुजगाम जवात्|
प्रारब्धे हि असमाप्ते कार्ये शिथिली-भवन्ति किम् सु-धियः|
|क्८|त्१५|श्१
गत्वा ताम् शिंशपाम् भूयः वेतालम् प्राप्य भूमि-पः|
तम् त्रिविक्रमसेनः अत्र स्कन्धे कृत्वा उच्चचाल सः|
|क्८|त्१५|श्२
प्रयान्तम् सः पुनः तम् च वेतालः स्कन्धतः अब्रवीत्|
श्रम-विस्मृतये राजन् मत्तः प्रश्नम् इमम् शृणु|
|क्८|त्१५|श्३
अङ्ग-देशे अग्र-हारः अस्ति महान् वृक्षघट-अभिधः|
विष्णुस्वामी इति तत्र आसीत् द्वि-जः यज्वा महा-धनः|
|क्८|त्१५|श्४
तस्य च स्व-अनुरूपायाम् पत्न्याम् जाताः क्रमात् त्रयः|
बभूवुः तरुणाः पुत्राः दिव्य-वैदग्ध्य-शालिनः|
|क्८|त्१५|श्५
ते पित्रा प्रेषिताः तेन कूर्म-हेतोः कदा-चन|
प्रारब्ध-यज्ञेन ययुः ते त्रयः भ्रातरः अम्बु-धिम्|
|क्८|त्१५|श्६
प्राप्य कूर्मम् ततः ज्यायान् कनिष्ठौ तौ अभाषत|
गृह्णातु युवयोः एकः कूर्मम् क्रतु-कृते पितुः|
|क्८|त्१५|श्७
अहम् एतम् न शक्नोमि ग्रहीतुम् विस्र-पिच्चलम्|
इति उक्तवन्तम् तम् ज्येष्ठम् कनिष्ठौ तौ अवोचताम्|
|क्८|त्१५|श्८
तव अत्र विचिकित्सा चेत् न आवयोः अपि सा कथम्|
तत् श्रुत्वा सः अब्रवीत् ज्येष्ठः गृह्णीतम् गच्चतम् युवाम्|
|क्८|त्१५|श्९
पितुः यज्ञ-क्रिया-लोपः भवेत् युष्मत्-कृतः अन्यथा|
ततः नरक-पातः स्यात् युवयोः तस्य च ध्रुवम्|
|क्८|त्१५|श्१०
इति उक्तौ अनुजौ तेन तौ विहस्य तम् ऊचतुः|
धर्मम् वेत्सि आवयोः एव समानम् अपि न आत्मनः|
|क्८|त्१५|श्११
ततः ज्येष्ठः अब्रवीत् किम् मे जानीथः न एव चङ्गताम्|
अहम् भोजन-चङ्गः अस्मि न अर्हः स्प्रष्टुम् जुगुप्सितम्|
|क्८|त्१५|श्१२
एतत् तस्य वचः श्रुत्वा भ्रातरम् मध्यमः अब्रवीत्|
अहम् तर्हि अधिकः चङ्गः नारी-चङ्गः विचक्षणः|
|क्८|त्१५|श्१३
मध्यमेन एवम् उक्ते तु ज्यायान् पुनः उवाच सः|
कूर्मम् गृह्णातु तर्हि एषः कनीयान् आवयोः इति|
|क्८|त्१५|श्१४
ततः सः भ्रु-कुटिम् कृत्वा कनीयान् अपि उवाच तौ|
हे मूर्खौ तूलिका-चङ्गः चङ्गः अहम् हि विशेषतः|
|क्८|त्१५|श्१५
एवम् ते कलह-आसक्ताः त्रयः अपि भ्रातरः मिथः|
निर्णयाय अभिमान एक-ग्रस्ताः कूर्मम् विहाय तम्|
|क्८|त्१५|श्१६
राज्ञः प्रसेनजित्-नाम्नः तत्-प्रदेश-भुवः अन्तिकम्|
नगरम् सहसा जग्मुः विटङ्कपुर-नामकम्|
|क्८|त्१५|श्१७
तत्र प्रतीहार-मुखेन आवेद्य अन्तः प्रविश्य च|
नृ-पम् विज्ञापयामासुः स्व-वृत्त-अन्तम् तथा एव ते|
|क्८|त्१५|श्१८
तिष्ठत इह एव यावत् वः परीक्षिष्ये क्रमात् अहम्|
इति उक्तः तेन राज्ञा च तस्थुः तत्र तथा इति ते|
|क्८|त्१५|श्१९
स्व-आहार-काले च आनाय्य तेभ्यः सः अग्र-आसनम् नृ-पः|
राज-अर्हम् दापयामास षड्-रसम् स्वादु-भोजनम्|
|क्८|त्१५|श्२०
भुञ्जानेषु च सर्वेषु तदा एकः बुभुजे न सः|
विप्रः भोजन-चङ्गः अत्र जुगुप्सा-कूणित-आननः|
|क्८|त्१५|श्२१
कथम् न भोजनम् भुङ्क्ते ब्रह्मन् स्वादु सु-गन्धि अपि|
इति रज्ञा स्वयम् पृष्टः शनैः विप्रः जगाद सः|
|क्८|त्१५|श्२२
शव-धूम-दुः-आमोदः शालि-भक्ते अत्र विद्यते|
तेन न अहम् इदम् भोक्तुम् उत्सहे स्वादु अपि प्रभो|
|क्८|त्१५|श्२३
इति उक्ते तेन सर्वे अपि तत्र आघ्राय नृ-प-आज्ञया|
ऊचुः कलम-शालि-अन्नम् अदोषम् तत् सु-गन्धि च|
|क्८|त्१५|श्२४
सः तु भोजन-चङ्गः तत् न आश्नात् पिहित-नासिकः|
ततः सः राजा संचिन्त्य यावत् अन्विष्यति क्रमात्|
|क्८|त्१५|श्२५
तावत् नियोगि-जनतः तत् अन्नम् बुबुधे तथा|
ग्राम-श्मशान-निकट-क्षेत्र-संभव-शालि-जम्|
|क्८|त्१५|श्२६
ततः अतिविस्मितः तुष्टः सः राजा तम् अभाषत|
सत्यम् भोजन-चङ्गः त्वम् तद्-अन्यद्भुज्यताम् इति|
|क्८|त्१५|श्२७
कृत-आहारः च सः नृ-पः विप्रान् वास-गृहेषु तान्|
विसृज्य-आनाययामास स्वम् एकाम् गणिका-उत्तमाम्|
|क्८|त्१५|श्२८
ताम् च तस्मै द्वितीयस्मै प्राहिणोत् कृत-मण्डनाम्|
विप्राय नारि-चङ्गाय सायम् सर्व-अङ्ग-सुन्दरीम्|
|क्८|त्१५|श्२९
सा च वास-गृहम् तस्य राज-भृत्य-अन्विता ययौ|
राका-निशा इव पुर्ण-इन्दु-मुखी कम्दर्प-दीपिनी|
|क्८|त्१५|श्३०
प्रविष्टायाम् च तस्याम् सः प्रभा-भासित-वेश्मनि|
उत्पन्न-मूर्च्चः संरुद्ध-नासा-अग्रः वाम-पाणिना|
|क्८|त्१५|श्३१
नारी-चङ्गः अब्रवीत् राज-भृत्यान् निष्कास्यताम् इति|
न चेत् मृतः अहम् निर्याति गन्धः अस्याः चागलः यतः|
|क्८|त्१५|श्३२
इति उक्ताः तेन निन्युः ते विग्नाम् ताम् राज-पूरुषाः|
राज्ञः अन्तिकम् वार-वधूम् वृत्त-अन्तम् जगदुः च तम्|
|क्८|त्१५|श्३३
राजा अपि आनाय्य तत्-कालम् नारी-चङ्गम् उवाच तम्|
या इयम् श्री-खण्ड-कर्पूर-काल-अ-गुरु-मद-उत्तमैः|
|क्८|त्१५|श्३४
कृत-प्रसाधना दिक्षु प्रसरत्-चारु-सौरभा|
तस्याः वार-विलासिन्या गन्धः स्यात् चागलः कुतः|
|क्८|त्१५|श्३५
इति उक्तः अपि सः राज्ञा तत् नारी-चङ्गः तदा न यत्|
प्रतिपेदे तदा राजा विचार-पतितः अभवत्|
|क्८|त्१५|श्३६
पृच्चन् च युक्त्या बुबुधे ताम् अज-क्षीर-वर्धिताम्|
तत्-मुखात् एव बालत्वे मातृ-धात्री-वियोगतः|
|क्८|त्१५|श्३७
ततः अतिविस्मितः तस्य नारी-चङ्गस्य चङ्गताम्|
प्रशंसन् नृ-पतिः तस्मै तृतीयाय द्वि-जन्मने|
|क्८|त्१५|श्३८
तत्-रसात् तूलिका-चङ्गाय आशु शय्याम् अदापयत्|
पर्यङ्क-उपरि विन्यस्त-सप्त-संख्याक-तूलिकाम्|
|क्८|त्१५|श्३९
तस्याम् च तूलिका-चङ्गः महा-अर्हे वास-वेस्मनि|
सुष्वाप धौत-सु-श्लक्ष्ण-पट-प्रच्चद-वाससि|
|क्८|त्१५|श्४०
याम-अर्धे एव च गते सः रात्रौ शयनात् ततः|
उत्तस्थौ पाणि-अवष्टब्ध-पार्श्वः क्रन्दन् व्यथा-अर्दितः|
|क्८|त्१५|श्४१
ददृशे तस्य पार्श्वे च तत्र त्यैः राज-पूरुषैः|
गाढ-लग्नस्य बालस्य मुद्रा इव कुटिल-अरुणा|
|क्८|त्१५|श्४२
गत्वा च तैः तदा आख्यातम् राज्ञे राजा अपि उवाच तान्|
तूलिकानाम् तले किम्-चित् मा स्यात् तत् वीक्ष्यताम् इति|
|क्८|त्१५|श्४३
गत्वा ईख़्षन्ते च ते यावत् एक-एकम् तूलिका-तलम्|
तावत् सर्व-तलाद् आपुर् वालम् पर्यङ्क-पृष्टतः|
|क्८|त्१५|श्४४
नीत्वा च अदर्शयन् राज्ञे सः अपि आनीतस्य वीक्ष्य तत्|
तत्-रूपम् तूलिका-चङ्गस्य अङ्गम् राजा विसिस्मिये|
|क्८|त्१५|श्४५
सप्तभ्यः तूलिकाभ्यः अस्य वालः लग्नः तनौ खतम्|
इति चित्रीयमाणः ताम् राजा रात्रिम् निनाय सः|
|क्८|त्१५|श्४६
प्रातः च अद्भुत-वैदग्ध्य-सौकुमार्याः अमी इति|
तेभ्यः त्रिभ्यः अपि चङ्गेभ्यः हेम-लक्ष-त्रयम् ददौ|
|क्८|त्१५|श्४७
ततः ते सुखिताः तत्र तस्थुः विस्मृत-कच्चपाः|
पितुः विघ्नित-यज्ञ-अर्थ-फल-उपार्जित-पातकाः|
|क्८|त्१५|श्४८
इति आख्याय कथा-अद्भुतम् अंस-निषण्णः पुनः सः वेतालः|
पप्रच्च तम् त्रिविक्रमसेनम् पृथ्वी-पतिम् प्रश्नम्|
|क्८|त्१५|श्४९
राजन् विचिन्त्य शापम् पूर्व उक्तम् ब्रूहि मे त्वम् एतेषाम्|
भोजन-नारी-शय्या-चङ्गानाम् कः अधिकः चङ्गः|
|क्८|त्१५|श्५०
तत् श्रुत्वा एव सः धीमान् वेतालम् प्रत्युवाच तम् नृ-पतिः|
अहम् एषाम् निः-कैतवम् अधिकम् जानामि तूलिका-चङ्गम्|
|क्८|त्१५|श्५१
यस्य अङ्गे प्रत्यक्षम् वाल-प्रतिबिम्बम् उद्गतम् दृष्टम्|
इतराभ्याम् हि भवेत् तत् पूर्वम् जातु अन्यतः अवगतम्|
|क्८|त्१५|श्५२
इति तस्य उक्तवतः अंसात् वेतालः भू-पतेः ययौ प्राग्वत्|
सः अपि तथा एव च राजा तम् अन्वय आसीत् अनिर्विण्णः|
|क्९|त्१६|श्१
ततः गत्वा पुनः तस्मात् शिंशपा-पाद-पात् नृ-पः|
सः त्रिविक्रमसेनः तम् स्कन्धे वेतालम् अग्रहीत्|
|क्९|त्१६|श्२
प्रस्थितः च ततः तेन वेतालेन अभ्यधायि सः|
राजन् क्व राज्यम् क्व एतस्मिन् श्मशाने भ्रमणम् निशि|
|क्९|त्१६|श्३
किम् एतत् न ईक्षसे भूत-संकुलम् रात्रि-भीषणम्|
चिता-धूमैः इव ध्वान्तैः निरुद्धम् पितृ-काननम्|
|क्९|त्१६|श्४
कष्टम् कीदृक् ग्रहः अयम् ते भिक्षोः तस्य अनुरोधतः|
तत् इदम् शृणु तावत् मे प्रश्नम् मार्ग-विनोदनम्|
|क्९|त्१६|श्५
अवन्तिषु अस्ति नगरी युग-आदौ देव-निर्मिता|
शैवी तनुः इव उद्दाम-भोगि-भूति-विभूषिता|
|क्९|त्१६|श्६
पद्मावती भोगवती या हिरण्यवती इति च|
कृत-आदिषु त्रिषु ख्याता कलौ उज्जयिनी इति च|
|क्९|त्१६|श्७
तस्याम् च वीरदेव-आख्यः राजा अभूत् भू-भृताम् वरः|
तस्य पद्मरतिः नाम महा-देवी बभूव च|
|क्९|त्१६|श्८
सः अथ राजा तया साकम् गत्वा मन्दाकिनी-तटे|
हरम् आराधयामास तपसा पुत्र-काम्यया|
|क्९|त्१६|श्९
चिरम् तपः-स्थितः च अत्र परितुष्ट-ईश्वर-उदिताम्|
कृत-स्नान-अर्चन-विधिः शुश्राव इमाम् गिरम् दिवः|
|क्९|त्१६|श्१०
राजन् उत्पत्स्यते पुत्रः शूरः तव कुल-उद्भवः|
ख़न्या च अन्-अन्य-सामान्य-लावण्य-न्यक्-कृत-अप्सराः|
|क्९|त्१६|श्११
श्रुत्वा एताम् नाभसीम् वाणीम् सिद्ध-अभीष्टः सः भू-पतिः|
वीरदेवः स्व-नगरीम् आययौ महिषी-सखः|
|क्९|त्१६|श्१२
तत्र अस्य शूरदेव-आख्ये जाते प्रथमम् आत्म-जे|
तस्याम् पद्मरतौ देव्याम् क्रमात् अजनि कन्यका|
|क्९|त्१६|श्१३
अनङ्गस्य अपि रूपेण रतिम् उत्पादयेत् इयम्|
इति अनङ्गरतिः नाम्ना पित्रा तेन व्यधायि सा|
|क्९|त्१६|श्१४
वृद्धिम् गतायाः तस्याः च सः पिता सदृशम् वरम्|
प्रेप्सुः आनाययत् पृथ्व्याम् पटेषु लिखिथान् नृ-पान्|
|क्९|त्१६|श्१५
तेषु एकः अपि न यत् तस्य तत्-तुल्यः प्रत्यभासत|
तेन राजा सः वात्सल्यात् ताम् सुताम् प्रत्यभाषत|
|क्९|त्१६|श्१६
अहम् तावत् न पश्यामि सदृशम् पुत्रि ते वरम्|
तत् कुरुष्व नृ-पान् सर्वान् मेलयित्वा स्वयम्-वरम्|
|क्९|त्१६|श्१७
एतत् पितृ-वचः श्रुत्वा राज-पुत्री जगाद सा|
तात स्वयम्-वरम् कर्तुम् ह्रेपणात् न अहम् उत्सहे|
|क्९|त्१६|श्१८
किम् तु एकम् वेत्ति यः अ-पूर्वम् विज्ञानम् स्वाकृतिः युवा|
तस्मै त्वया अहम् दातव्या न अर्थः अन्येन अधिकेन मे|
|क्९|त्१६|श्१९
इति अनङ्गरतेः तस्याः श्रुत्वा स्व-दुहितुः वचः|
तादृशम् तत्-वरम् यावत् अन्विष्यति सः भू-पतिः|
|क्९|त्१६|श्२०
तावत् तत्-लोकतः बुद्ध्वा चत्वारः तम् उपाययुः|
वीराः विज्ञानिनः भव्याः पुरुषाः दक्षिणा-पथात्|
|क्९|त्१६|श्२१
ते राज्ञा पूजिताः तस्मै स्वम् स्वम् विज्ञानम् एकशः|
शशंसुः संनिधौ तस्याः राज-पुत्र्याः तत्-अर्थिनः|
|क्९|त्१६|श्२२
एकः जगाद शूद्रः अहम् आख्यया पञ्चपट्टिकः|
पञ्च-अग्र्य-वस्त्र-युग्मानि करोमि एकः अहम् अन्वहम्|
|क्९|त्१६|श्२३
तेभ्यः एकम् प्रयच्चामि देवाय एकम् द्विजन्मने|
एकम् च परिगृह्णामि वाससोः आत्मनः कृते|
|क्९|त्१६|श्२४
एकम् ददामि भार्यायै यदि सा भवति इह मे|
एकम् विक्रीय च आहार-पान-आदि विदधामि अहम्|
|क्९|त्१६|श्२५
एवम् विज्ञनिने अनङ्गरतिः मे दीयताम् इति|
इति एकेन उदिते तेन द्वितीयः पुरुषः अब्रवीत्|
|क्९|त्१६|श्२६
भाषाज्ञः नाम वैश्यः अहम् सर्वेषाम् मृग-पक्षिणाम्|
रुतम् वेद्मि तत् एषा मे राज-पुत्री प्रदीयताम्|
|क्९|त्१६|श्२७
एवम् उक्ते द्वितीयेन तृतीयः प्रोक्तवान् ततः|
अहम् खड्गधरः नाम दोः-शाली क्षत्रियः नृ-प|
|क्९|त्१६|श्२८
न खड्ग-विद्या-विज्ञाने प्रतिमल्लः अस्ति मे क्षितौ|
तत् एषा तनया राजन् त्वया मह्यम् वितीर्यताम्|
|क्९|त्१६|श्२९
इति उक्ते तु तृतीयेन चतुर्थः इदम् अभ्यधात्|
विप्रः अहम् जीवदत्त-आख्यः विज्ञानम् च मम ईदृशम्|
|क्९|त्१६|श्३०
जन्तूम् मृतान् अपि आनीय दर्शयामि आशु जीवतः|
तत्-वीर-चर्या-सिद्धम् माम् पतिम् एषा प्रपद्यताम्|
|क्९|त्१६|श्३१
एवम् वक्त्क़्न् सः तान् पश्यन् दिव्य-वेष-आकृतीन् नृ-पः|
वीरदेवः सुता-युक्तः दोला-आरूढः इव अभवत्|
|क्९|त्१६|श्३२
इति आख्याय कथाम् एताम् वेतालः पृष्टवान् नृ-पम्|
सः त्रिविक्रमसेनम् तम् दत्त-पूर्व-उक्त-शाप-भीः|
|क्९|त्१६|श्३३
तत् भवान् वक्तु तावत् मे कस्मै देया विशाम्-पते|
तेषाम् चतुर्णाम् मध्यात् सा कन्या अनङ्गरतिः भवेत्|
|क्९|त्१६|श्३४
एतत् श्रुत्वा सः राजा तम् वेतालम् प्रत्यभाषत|
मौनम् त्याजयति प्रायः काल-क्षेपाय माम् भवान्|
|क्९|त्१६|श्३५
अन्यथा गहनः कः अयम् प्रश्नः योग-ईश्वर उच्यताम्|
शूद्राय हि कुविन्दाय क्षत्रिया दीयते कथम्|
|क्९|त्१६|श्३६
वैश्याय अपि कथम् देया क्षत्रिया यत् च तत् गतम्|
मृग-आदि-भाषा-विज्ञानम् कार्ये तत् क्व उपयुज्यते|
|क्९|त्१६|श्३७
यः अपि विप्रः तृतीयः अत्र तेन अपि पतितेन किम्|
स्व-कर्म-प्रच्युतेन इन्द्र-जालिना वीर-मानिना|
|क्९|त्१६|श्३८
तस्मात् तस्मै क्षत्रियाय चतुर्थाय समाय सा|
देया खड्गधराय एव स्व-विद्या-वीर्य-शालिने|
|क्९|त्१६|श्३९
एतत् तस्य वचः निशम्य नृ-पतेः अंस-स्थलात् पूर्ववत् वेतालः सः जगाम योग-बलतः स्व-स्थानम् एव आशु तत्|
भू-पालः अपि सः तम् तथा एव पुनः अपि आनेतुम् अन्वक् ययौ उत्साह-एक-घने हि वीर-हृदये न आप्नोति खेदः अन्तरम्|
|क्१०|त्१७|श्१
सः त्रिविक्रमसेनः अथ गत्वा तम् शिंशपा-तरोः|
राजा जग्राह वेतालम् पुनः अंसे चचाल च|
|क्१०|त्१७|श्२
प्रयान्तम् च तम् आह स्म वेतालः सः अंस-पृष्ठ-गः|
श्रान्तः असि राजन् तत् इमाम् शृणु श्रम-हराम् कथाम्|
|क्१०|त्१७|श्३
अभूत् सकल-भू-पाल-मस्तक-न्यस्त-शासनः|
वीरबाहुः इति ख्यातः नाम्ना पार्थिव-सत्तमः|
|क्१०|त्१७|श्४
तस्य अनङ्गपुरम् नाम बभूव नगर-उत्तमम्|
तत्र आसीत् अर्थदत्त-आख्यः सार्थ-वाहः महा-धनः|
|क्१०|त्१७|श्५
तस्य आसीत् धनदत्त-आख्य-ज्येष्ठ-पुत्र-कनीयसी|
सुता मदनसेना इति कन्या-रत्नम् वणिक्-पतेः|
|क्१०|त्१७|श्६
ताम् एकदा निज-उद्याने क्रीडन्तीम् स-सखी-जनाम्|
ददर्श धर्मदत्त-आख्यः भ्रातृ-मित्रम् वणिक्-सुतः|
|क्१०|त्१७|श्७
सः ताम् आलोक्य लावण्य-रस-निः-भर-निः-झराम्|
आलक्ष्य कुच-कुम्भ-अग्राम् वलि-त्रय-तरङ्गिताम्|
|क्१०|त्१७|श्८
यौवन-द्विरदस्य इव क्रीडा-मज्जन-वापिकाम्|
सद्यः अभूत् स्मर-बाण-ओघ-संताप-हृत-चेतनः|
|क्१०|त्१७|श्९
अहो धारा-अधिरूढेन रूपेण द्योतिता अमुना|
इयम् मे मानसम् भेत्तुम् भल्ली मारेण निर्मिता|
|क्१०|त्१७|श्१०
इति आदि यावत् ध्यायन् सः निर्वर्णयति ताम् चिरम्|
तावत् तस्य अतिचक्राम चक्राह्वस्य इव वासरः|
|क्१०|त्१७|श्११
ततः मदनसेना सा विवेश स्व-गृह-अन्तरम्|
चित्तम् च धर्मदत्तस्य तत्-अनालोकन-व्यथा|
|क्१०|त्१७|श्१२
तत्-अ-दर्शन-दुःख-अग्नि-संतापेन इव च ज्वलन्|
लोहितः निपपात आशु भास्वान् अपि अपर-अम्बुधौ|
|क्१०|त्१७|श्१३
ताम् विज्ञाय एव सु-मुखीम् नक्तम् अभ्यन्तरे गताम्|
उदियाय शनैः चन्द्रः तत्-मुख-अब्ज-विनिर्जितः|
|क्१०|त्१७|श्१४
तावत् गत्वा गृहम् ताम् सः धर्मदत्तः अनुचिन्तयन्|
तस्थौ निपत्य शयने चन्द्र-पाद-आहतः लुठन्|
|क्१०|त्१७|श्१५
यत्नेन पृच्च्यमानः अपि सखिभिः बन्धुभिः तथा|
न किम्चित् कथयामास स्मर-ग्रह-विमोहितः|
|क्१०|त्१७|श्१६
निशि कृच्च्रात् च संप्राप्त-निद्रः स्वप्ने तथा एव ताम्|
पश्यन् अनुनयन् कान्ताम् किम् किम् चक्रे न सोत्सुकः|
|क्१०|त्१७|श्१७
प्रातः प्रबुद्धः गत्वा च ददर्श एकाकिनीम् रहः|
सखीम् प्रतीक्षमानाम् ताम् तत्र उद्यान-स्थिताम् पुनः|
|क्१०|त्१७|श्१८
उपेत्य च परिष्वङ्ग-लालसः प्रेम-पेशलैः|
ताम् उपच्चन्दयामास वचोभिः चरण-आनतः|
|क्१०|त्१७|श्१९
कन्या अहम् परदाराः च न तव अस्मि इह संप्रतम्|
पित्रा समुद्रदत्ताय दत्ता अहम् वणिजे यतः|
|क्१०|त्१७|श्२०
दिनैः कतिपयैः एव विवाहः भविता च मे|
तत् गच्च तूष्णीम् मा कश्चित् पश्येत् दोषः भवेत् ततः|
|क्१०|त्१७|श्२१
इति उक्तः सः तया अति अर्थम् धर्मदत्तः जगाद ताम्|
यत् अस्तु मे न जीवेयम् विना हि भवतीम् अहम्|
|क्१०|त्१७|श्२२
तत् श्रुत्वा सा वाणिक्-कन्या बलात्-कार-भय-आकुला|
तम् उवाच विवाहः मे तावत् संपद्यताम् इह|
|क्१०|त्१७|श्२३
कन्या-दान-फलम् तातः प्राप्नोतु चिर-काङ्क्षितम्|
ततः अहम् त्वाम् उपैष्यामि निः-चितम् प्रणय-अर्जिता|
|क्१०|त्१७|श्२४
श्रुत्वा एतत् सः अब्रवीत् न इष्टा हि अन्य-पूर्वा मम प्रिया|
पर-भुक्ते हि कमले किम् अलेः जायते रतिः|
|क्१०|त्१७|श्२५
इति उक्ता तेन सा अवादीत् कृत-उद्वाहा एव तर्हि अहम्|
पूर्वम् त्वाम् उपयास्यामि ततः अभ्येष्यामि तम् पतिम्|
|क्१०|त्१७|श्२६
एवम् उक्तवतीम् तस्मिन् न उज्झति प्रत्ययम् विना|
वणिक्-पुत्रे स-शपथम् सत्य-वाचम् बबन्ध सा|
|क्१०|त्१७|श्२७
ततः तेन उज्झता विग्ना सा विवेश स्व-मन्दिरम्|
प्राप्ते च लग्न-दिवसे निः-वृत्त-उद्वाह-मङ्गला|
|क्१०|त्१७|श्२८
गत्वा पति-गृहम् नीत्वा सोत्सवेन च तत्-दिनम्|
सा पत्या समम् अध्यास्त शयनीय-गृहम् निशि|
|क्१०|त्१७|श्२९
तत्र शय्या-निषण्णा अपि न तस्य प्रत्यपद्यत|
पत्युः समुद्रदत्तस्य परिष्वङ्गम् असंमुखी|
|क्१०|त्१७|श्३०
तेन अनुनीयमाना अपि यत् उदश्रुः बभूव सा|
तत् सः न अभिमतः अस्मि अस्याः नूनम् इति अकरोत् हृदि|
|क्१०|त्१७|श्३१
जगाद च अनभिमतः यदि अहम् तव सुन्दरि|
तत् मे न अर्थः त्वया गच्च यः प्रियः तव तम् प्रति|
|क्१०|त्१७|श्३२
तत् श्रुत्वा सा नत-मुखी शनैः एवम् उवाच तम्|
त्वम् मे प्राण-अधिकः प्रेयान् विज्ञप्तिम् किम् तु मे शृणु|
|क्१०|त्१७|श्३३
अनुतिष्ठ सहर्षम् च प्रयच्च च मम अभयम्|
कुरुष्व शपथम् यावत् आर्य-पुत्र वदामि ते|
|क्१०|त्१७|श्३४
एवम् उक्तवती कृच्च्रात् तथा तेन कृते पुनः|
स-लज्जम् स-विषादम् च सभयम् च जगाद सा|
|क्१०|त्१७|श्३५
एकाकिनीम् गृह-उद्याने दृष्ट्वा माम् एकदा युवा|
अरुणत् धर्मदत्त-आख्यः सखा भ्रातुः स्मर-आतुरः|
|क्१०|त्१७|श्३६
रक्षन्त्या स-परीवादम् कन्या-दान-फलम् पितुः|
मया हठ-प्रवृत्तस्य तस्य वाक्-संयमः कृतः|
|क्१०|त्१७|श्३७
पूर्वम् कृत-विवाहा त्वाम् उपैष्यामि ततः प्रियम्|
तत् मे सत्य-वचः पाल्यम् अनुमन्यस्व तत् प्रभो|
|क्१०|त्१७|श्३८
यावत् तत् निकटम् गत्वा क्षणेन उपैमि ते अन्तिकम्|
न हि शक्नोमि अतिक्रान्तुम् सत्यम् आ-बाल्य सेवितम्|
|क्१०|त्१७|श्३९
इति तस्याः वचः-वज्र-पातेन सहसा हतः|
समुद्रदत्तः सत्येन बद्धः क्षणम् अचिन्तयत्|
|क्१०|त्१७|श्४०
अहो धिक् अन्य-रक्ता इयम् गन्तव्यम् ध्रुवम् एतया|
तत्-सत्यम् हन्मि किम् यातु कः अस्याः परिणय-ग्रहः|
|क्१०|त्१७|श्४१
इति आलोच्य अनुमेने ताम् यथा-इष्ट-गमनाय सः|
सा अपि उत्थाय ततः तस्मात् निर्ययौ पति-वेश्मनः|
|क्१०|त्१७|श्४२
तावत् अत्र उदय-अद्रि-इन्द्र-हर्म्य-अग्रम् हिम-दीधितिः|
आरुरोह कर-आक्रान्त-हसत्-पूर्व-दिक्-अङ्गनः|
|क्१०|त्१७|श्४३
ततः तमःसु अपि आश्लिष्य स्थितेषु अद्रिदरी प्रियाः|
सेवमानेषु भृङ्गेषु अपि अपरम् कुमुद-आकरम्|
|क्१०|त्१७|श्४४
यान्ती मदनसेना सा मार्गे दृष्ट्वा एकका निशि|
चौरेण आधाव्य केन अपि रुरुधे वसन-अञ्चले|
|क्१०|त्१७|श्४५
का त्वम् ब्रूहि क्व यासि इति तेन उक्ता बिभ्यती च सा|
उवाच किम् तव अनेन मुञ्च कार्यम् इह अस्ति मे|
|क्१०|त्१७|श्४६
ततः चौरः अब्रवीत् मत्तः चौरात् त्वम् मुच्यसे कथम्|
तत् श्रुत्वा सा अवदत् तम् च गृहाण आभरणानि मे|
|क्१०|त्१७|श्४७
अथ चौरः अभ्यधात् मुग्धे किम् एभिः उपलैः मम|
चन्द्र-कान्त-आननाम् तार्क्ष्य-रत्न-असित-शिरः-रुहाम्|
|क्१०|त्१७|श्४८
वज्र-मध्याम् सु-वर्ण-अङ्गीम् पद्म-राग-अङ्घ्रि-हारिणीम्|
जगत्-आभरणम् न एव मोक्ष्यामि भवतीम् अहम्|
|क्१०|त्१७|श्४९
इति उक्ता तेन चौरेण विवशा सा वणिक्-सुता|
आख्याय निज-वृत्तान्तम् एवम् प्रार्थयते स्म तम्|
|क्१०|त्१७|श्५०
क्षमस्व मे क्षणम् यावत् कृत्वा सत्य-अनुपालनम्|
इह-स्थस्य एव ते पार्श्वम् आगमिष्यामि सत्वरम्|
|क्१०|त्१७|श्५१
न अहम् उल्लङ्घयिष्यामि भद्र सत्याम् इमाम् गिरम्|
श्रुत्वा एतत् सत्य-संधाम् ताम् मत्वा चौरः मुमोच सः|
|क्१०|त्१७|श्५२
तस्थौ प्रतीक्षमानः च तत्र एव सः तत्-आगमम्|
सा अपि तस्य अन्तिकम् धर्मदत्तस्य वणिजः ययौ|
|क्१०|त्१७|श्५३
सः च अभीष्टाम् अपि प्राप्ताम् तथा ताम् विजने स्थिताम्|
दृष्ट्वा पृष्ट्वा यथा-वृत्तम् विचिन्त्य क्षणम् अब्रवीत्|
|क्१०|त्१७|श्५४
सत्येन तव तुष्टः अस्मि किम् त्वया मे परस्त्रिया|
यावत् त्वाम् न ईक्षते कश्-चित् तावत् गच्च यथा-आगतम्|
|क्१०|त्१७|श्५५
इति तेन परित्यक्ता सा तथा इति आययौ ततः|
चौरस्य निकटम् तस्य प्रतिपालयतः पथि|
|क्१०|त्१७|श्५६
ब्रूहि कः ते अत्र वृत्तान्तः गतायाः इति पृच्चते|
तस्मै सा तेन वणिजा यथा मुक्ता तथा अब्रवीत्|
|क्१०|त्१७|श्५७
ततः सः चौरः अवादीत् ताम् यदि एवम् तत् मया अपि असि|
विमुक्ता सत्य-तुष्टेन गृहम् साभरणा व्रज|
|क्१०|त्१७|श्५८
एवम् तेन अपि सा त्यक्ता रक्षिता च अनुयायिना|
अ-लुप्त-शीला मुदिता पत्युः एव आययौ गृहम्|
|क्१०|त्१७|श्५९
तत्र गुप्तम् प्रविष्टा सा प्रहृष्टा उपागता सती|
दृष्ट्वा पृष्टवते तस्मै पत्ये सर्वम् अवर्णयत्|
|क्१०|त्१७|श्६०
सः अपि अ-लुप्त-मुख-चायाम् ताम् असंभोग-लक्षणाम्|
संभाव्य अभग्न-चारित्राम् सत्य-लाभ-रताम् सतीम्|
|क्१०|त्१७|श्६१
अ-दृष्ट-मनसम् भार्याम् अभिनन्द्य कुल-उचितम्|
तस्थौ समुद्रदत्तः अथ तया सह यथा-सुखम्|
|क्१०|त्१७|श्६२
इति तत्र कथाम् उक्त्वा पितृ-वन-भूमौ तदा सः वेतालः|
वदति स्म तम् त्रिविक्रमसेनम् वसु-धा-अधिपम् भूयः|
|क्१०|त्१७|श्६३
तत् ब्रूहि चौर-वणिजाम् एषाम् मध्यात् नर-इन्द्र कः त्यागी|
जानन् यदि न वदिष्यसि विदलिष्यति ते शिरः शतधा|
|क्१०|त्१७|श्६४
तत् श्रुत्वा सः मही-पतिः उज्झित-मौनः तम् आह वेतालम्|
एषां चौरः त्यागी न पुनः वणिजौ उभौ अपि तौ|
|क्१०|त्१७|श्६५
यः हि पतिः ताम् अजहात् अत्याज्याम् तादृशीम् विवाहि अपि|
कुलजः सः अन्य-आसक्ताम् भार्याम् जानन् कथम् वहतु|
|क्१०|त्१७|श्६६
यः अपि अपरः सः भयात् ताम् अत्याक्षीत् काल-जीर्ण-संवेगः|
विदित-अर्थः भर्ता अस्याः प्रातः ब्रूयात् नृ-पाय इति|
|क्१०|त्१७|श्६७
चौरः तु गुप्त-चारी निरपेक्षः पाप-कर्म-कृत् प्राप्तम्|
स्त्री-रत्नम् यत् अमुञ्चत् साभरणम् तेन सः त्यागी|
|क्१०|त्१७|श्६८
एतत् श्रुत्वा एव अंसतः तस्य राज्ञः वेतालः अगात् पूर्ववत् स्वम् पदम् सः|
राजा भूयः अपि अत्र संप्राप्तुम् एतत् प्रायात् एव अ-खन्डित-उद्दाम-धैर्यः|

