Katha 21 to 25
From Wikisource
|क्२१|त्२८|श्१
अथ गत्वा पुनः प्राप्य शिंशपातः ततः अग्रहीत्|
सः त्रिविक्रमसेनः अंसे वेतालम् तम् नर-अधिपः|
|क्२१|त्२८|श्२
आगच्चन्तम् च तम् भूयः सः वेतालः अब्रवीत् नृ-पम्|
राजन् उद्गाढ-कन्दर्पाम् शृणु एकाम् वच्मि ते कथाम्|
|क्२१|त्२८|श्३
अस्ति शक्र-पुरी इव अन्या धात्रा सु-कृतिनाम् कृते|
दिवः च्युतानाम् विहिता विशाला-आख्या पुरी भूवि|
|क्२१|त्२८|श्४
तस्याम् बभूव नृ-पतिः पद्मनाभः इति श्रुतः|
सत्-चक्र-नन्दकः स्रीमान् आक्रान्त-बलि-राजकः|
|क्२१|त्२८|श्५
तस्मिन् पृथ्वी-पतौ तस्याम् नगर्याम् सु-महा-वणिक्|
अर्थदत्त-अभिधानः अभूत् धनैः विजित-$वित्तपः|
|क्२१|त्२८|श्६
तस्य एका च सुता अनङ्गमञ्जरी इति उदपद्यत|
स्वः-सुन्दरी-प्रतिकृतिः भुवि धात्रा इव दर्शिता|
|क्२१|त्२८|श्७
दत्ता च तेन वणिजा वणिक्-वर-सुताय सा|
मणिवर्म-अभिधानाय ताम्रलिप्ती-निवासिने|
|क्२१|त्२८|श्८
एका-पत्यतया च अति-वत्सलः सः न ताम् वणिक्|
भर्तृ-युक्ताम् सुताम् गेहात् तत्याज अनङ्गमञ्जरीम्|
|क्२१|त्२८|श्९
तस्याः च अनङ्गमञ्जर्याः पतिः द्वेष्यः बभूव सः|
मणिवर्मा स-रोगस्य कटु-तिक्तम् इव औषधम्|
|क्२१|त्२८|श्१०
पत्युः तु सा अस्य सु-मुखी जीवितात् अपि अभूत् प्रिया|
धन-ऋद्धिः कृपणस्य इव कृच्च्रात् सु-चिर-संचिता|
|क्२१|त्२८|श्११
एकदा च अन्तिकम् पित्रोः ताम्रलिप्तीम् निजम् गृहम्|
उत्कण्ठ-आदि-निमित्तेन मणिवर्मा जगाम सः|
|क्२१|त्२८|श्१२
ततः दिनेषु यातेषु तीक्ष्ण-सूर्य-अंशु-सायकैः|
प्रोषितानाम् निरुद्ध-अध्वा घर्म-कालः इह अभ्यगात्|
|क्२१|त्२८|श्१३
वसन्त-विरहात् उष्णाः निःश्वासाः ककुभाम् इव|
मल्लिका-पाटला-आमोद-मेदुराः मरुतः ववुः|
|क्२१|त्२८|श्१४
उत्पेतुः पवन-उद्धूताः गगने रेणु-राजयः|
दूत्यः घन-आगमाय इव प्रहिताः तप्तया भुवा|
|क्२१|त्२८|श्१५
आकाङ्क्षित-तरु-चायाः कठोर-आतप-तापिताः|
पथिकाः इव यान्ति स्म चिरेण दिवसाः अपि|
|क्२१|त्२८|श्१६
चन्द्र-अंशु-पाण्डु-रुचयः गाढ-आश्लेष-सुख-प्रदम्|
विना हेमन्तम् अगमन् अति-दुर्बलताम् निशाः|
|क्२१|त्२८|श्१७
तत्-कालम् चन्दन-आलेप-धवला सा वणिक्-सुता|
संवीत-तनु-कौशेय-शोभिता अनङ्गमञ्जरी|
|क्२१|त्२८|श्१८
ददर्श स्व-गृह-उत्तुङ्ग-वात-अयन-गता एकदा|
आप्त-सख्या युता भव्यम् युवानम् विप्र-पुत्रकम्|
|क्२१|त्२८|श्१९
संचरन्तम् रति-प्राप्त्यै नव-उत्पन्नम् इव स्मरम्|
कमलाकर-नामानम् पुत्रम् राज-पुरः-धसः|
|क्२१|त्२८|श्२०
सः अपि इन्दोः इव मूर्तिम् ताम् कान्ताम् दृष्ट्वा उपरि स्थिताम्|
कुमुद-आकरताम् भेजे स-आनन्दः कमलाकरः|
|क्२१|त्२८|श्२१
तयोः अभूत् अ-मूल्यम् तत् मनः-संवननम् तदा|
स्मर-गुरु-आज्ञया यूनोः अन्यः-अन्यस्य अवलोकनम्|
|क्२१|त्२८|श्२२
उन्मूलित-ह्रियौ तौ च दूर-विक्षिप्त-चेतसा|
रजः-अभिभूतौ जह्राते मन्मथ-आवेग-वात्यया|
|क्२१|त्२८|श्२३
दृष्ट्वा च मदन-आविष्टः सख्या सः कमलाकरः|
सह-स्थितेन नीतः अभूत् कथम्-चित् भवनम् निजम्|
|क्२१|त्२८|श्२४
सा अपि तम् नामतः अन्विष्य विवशा अनङ्गमञ्जरी|
तया स्वया समम् सख्या प्राविशत् वासकम् शनैः|
|क्२१|त्२८|श्२५
तत्र संचिन्तयन्ती च कान्तम् काम-ज्वर-आतुरा|
न अपश्यत् न अशृणोत् किम्-चित् लुठन्ती शयनीयके|
|क्२१|त्२८|श्२६
गतेषु अहःसु द्वि-त्रेषु स-त्रपा स-भया च सा|
अ-सहा विरह-उन्मादम् विसोढुम् कृश-पाण्डुरा|
|क्२१|त्२८|श्२७
दुः-प्राप-प्रिय-संयोग-निः-आस्था नक्तम् एकदा|
गव-अक्ष-प्रेरित-करेण आकृष्टा इव हिम-अंशुना|
|क्२१|त्२८|श्२८
सुप्ते परिजने स्वैरम् निर्गत्य मरण-उन्मुखी|
जगाम स्व-गृह-उद्यान-वापीम् तरु-लता-वृताम्|
|क्२१|त्२८|श्२९
तत्र पित्रा कृत-उदार-प्रतिष्ठाम् कुल-देवताम्|
उपेत्य चण्डिकाम् देवीम् नत्वा स्तुत्वा व्यजिज्ञपत्|
|क्२१|त्२८|श्३०
अस्मिन् जन्मनि चेत् भर्ता न मया कमलाकरः|
प्राप्तः तत् देवि भूयात् मे सः अन्यस्मिन् अपि जन्मनि|
|क्२१|त्२८|श्३१
इति उक्त्वा पुरतः तस्याः देव्याः सा अशोक-पाद-पे|
पाशम् विरचयामास स्व-उत्तरीयेण रागिणी|
|क्२१|त्२८|श्३२
तावत् आप्ता सखी तस्याः सा प्रबुध्य अत्र वासके|
ताम् अ-दृष्ट्वा तत् उद्यानम् दैवात् आगात् विचिन्वती|
|क्२१|त्२८|श्३३
तत्र दृष्ट्वा च ताम् पाशम् अर्पयन्तीम् तथा गले|
मा मा इति उक्त्वा प्रधाव्य एव पाशम् तस्याह् तम् अच्चिनत्|
|क्२१|त्२८|श्३४
सा अपि ताम् वीक्ष्य संप्राप्ताम् कृत्त-पाशाम् निजाम् सखीम्|
अनङ्गमञ्जरी भूमौ पपात अधिक-दुःखिता|
|क्२१|त्२८|श्३५
आश्वासिता स्व-सख्या च तया पृष्टा च सा क्षणात्|
दुःख-हेतुम् समाख्याय पुनः एनाम् अभाषत|
|क्२१|त्२८|श्३६
सखि मालतिके तत् मे दुः-लभे प्रिय-संगमे|
गुरु-आदि-पर-तन्त्रायाः न सुखम् मरणात् परम्|
|क्२१|त्२८|श्३७
इति ब्रुवाणा एव अनङ्ग-शर-अग्नि-ज्वलिता भृशम्|
सा अनङ्गमञ्जरी मोहम् ययौ नैराश्य-निः-सहा|
|क्२१|त्२८|श्३८
कष्टम् स्मर-आज्ञा दुः-लङ्घ्या यया नीता दशाम् इमाम्|
अन्य-अ-विनीत-वनिता-हासिनी इयम् सखी मम|
|क्२१|त्२८|श्३९
$इति-आदि-विलपन्ती च ताम् सा मालतिका सखी|
शनैः आश्वासयामास शीत-अम्बु-पवन-आदिभिः|
|क्२१|त्२८|श्४०
ताप-उपशान्तये च अस्याः चकार नलिनी-दलैः|
शय्याम् ददौ च हृदये हारम् तुहिन-शीतलम्|
|क्२१|त्२८|श्४१
ततः स-अश्रुः उवाच एताम् सखीम् सा अनङ्गमञ्जरी|
सखि हार-आदिभिः न अयम् दाहः अन्तः मम शाम्यति|
|क्२१|त्२८|श्४२
येन प्रशाम्यति पुनः स्व-बुद्ध्या एव विधत्स्व तत्|
माम् संयोजय कान्तेन जीवितम् मे यदि इच्चसि|
|क्२१|त्२८|श्४३
एवम् उक्तवतीम् ताम् सा स्नेहात् मालतिका अब्रवीत्|
सखि भूयिष्टयाता अद्य रात्रिः प्रातः अहम् पुनः|
|क्२१|त्२८|श्४४
इह एव कृत-संकेतम् आनेष्यामि प्रियम् तव|
तत् आलम्ब्य धृतिम् तावत् निजम् प्रविश मन्दिरम्|
|क्२१|त्२८|श्४५
इति-उक्तवत्यै संतुष्य तस्यै सा अनङ्गमञ्जरी|
हारम् स्व-कण्ठात् आकृष्य प्रददौ पारितोषिकम्|
|क्२१|त्२८|श्४६
गच्च अधुना एव स्व-गृहम् प्रातः सिद्ध्यै ततः व्रज|
इति च एताम् सखीम् प्रेष्य सा विवेश स्व-वासकम्|
|क्२१|त्२८|श्४७
प्रातः च सा मालतिका केन-अपि अन्-उपलक्षिता|
तत्-सखी तस्य कमलाकरस्य भवनम् ययौ|
|क्२१|त्२८|श्४८
चिन्वती तत्र च उद्याने तरु-मूले ददर्श तम्|
चन्दन-आर्द्र-अम्बु-रुहिणी-पत्त्र-शय्या-विवर्तिनम्|
|क्२१|त्२८|श्४९
रहस्य-धारिणा एकेन कदली-दल-मारुतैः|
आश्वास्यमानम् सुहृदा दह्यमानम् स्मर-अग्निना|
|क्२१|त्२८|श्५०
तस्याः विना इयम् अस्य स्यात् काम-अवस्था-ईदृशी इति सा|
विचिन्त्य तस्थौ प्रच्चन्ना ज्ञातुम् तत्र विनिश्चयम्|
|क्२१|त्२८|श्५१
तावत् च सुहृदा तेन सः ऊचे कमलाकरः|
क्षणम् एकम् इह उद्याने दत्त्वा दृष्टिम् मनः-रमे|
|क्२१|त्२८|श्५२
विनोदय मनः मित्र मा अत्र विक्लवताम् अगाः|
तत् श्रुत्वा तम् स्व-सुहृदम् विप्र-पुत्रः जगाद सः|
|क्२१|त्२८|श्५३
यत् मम अनङ्गमञ्जर्या वणिक्-पुत्र्या तया हृतम्|
विनोदयामि तत् इदम् कुतः शून्य-आशयः मनः|
|क्२१|त्२८|श्५४
स्मरेण शून्य-हृदयः बाण-तूणी-कृतः हि अहम्|
तत् प्राप्स्यामि मनः-चौरीम् ताम् यथा कुरु मे तथा|
|क्२१|त्२८|श्५५
इति उक्ते विप्र-पुत्रेण तेन आत्मानम् प्रदर्श्य सा|
हृष्टा मालतिका अभ्येत्य तम् उवाच अस्त-संशया|
|क्२१|त्२८|श्५६
तव अस्मि अनङ्गमञ्जर्या सु-भग प्रहिता अन्तिकम्|
संदेशम् च अहम् एव एषा विस्पष्ट-अर्थम् ब्रवीमि ते|
|क्२१|त्२८|श्५७
एषः कः शिष्ट-धर्मः यत् प्रविश्य हृदयम् हठात्|
मनः मुषित्वा मुग्धायाः गम्यते स्थगित-आत्मना|
|क्२१|त्२८|श्५८
चित्रम् च यत् वाम-दृशा तुभ्यम् एव तया अधुना|
मनः-हराय देहः अपि दातुम् प्राणैः सह ईष्यते|
|क्२१|त्२८|श्५९
निःश्वासान् सा हि संतप्तान् विमुञ्चति दिवा-निशम्|
ज्वलतः हृदि कन्दर्प-वह्नेः धूम-उद्गमान् इव|
|क्२१|त्२८|श्६०
संपतन्ति मुहुः च अस्याः स-अञ्जनाः बाष्प-बिन्दवः|
वदन-अम्भः-ज-सौगन्ध्य-लुब्धाः मधु-कराः इव|
|क्२१|त्२८|श्६१
तत् यदि इच्चसि तत् वच्मि शिवम् वाम् उभयोः अहम्|
इति उक्तः मालतिकया सः अब्रवीत् कमलाकरः|
|क्२१|त्२८|श्६२
भद्रे भयम् करोति एषा वाक् तव आश्वासयति अपि|
वदन्ती विधुर-अवस्थाम् बद्ध-भावाम् च मे प्रियाम्|
|क्२१|त्२८|श्६३
तत् एका गतिः अत्र त्वम् यथा वेत्सि तथा कुरु|
इति-उक्त-वाक्ये कमलाकरे मालतिका अब्रवीत्|
|क्२१|त्२८|श्६४
अनङ्गमञ्जरीम् अद्य गुप्तम् ताम् प्रापयामि अहम्|
नक्तम् स्व-भवन-उद्यानम् त्वम् तिष्ठेः तत्र बाह्यतः|
|क्२१|त्२८|श्६५
ततः प्रवेशयिष्यामि त्वाम् अत्र अन्तः स्व-युक्तितः|
एवम् यथा-इष्टः युवयोः भविष्यति समागमः|
|क्२१|त्२८|श्६६
इति उक्त्वा आनन्द्य तम् विप्र-पुत्रम् मालतिका ततः|
गत्वा कृत-अर्था सा अनङ्गमञ्जरीम् अपि अनन्दयत्|
|क्२१|त्२८|श्६७
अथ अह्ना सह याते अर्के क्व-अपि संध्या-अनुरागिणि|
$ऐन्द्र्या दिशा इन्दु-तिलकेन आनने सु-प्रसाधिते|
|क्२१|त्२८|श्६८
त्यक्त-पद्म-आकरा प्राप्ता श्रीः मया इति इव हर्षतः|
हसति उफुल्ल-वदने विशदे कुमुद-आकरे|
|क्२१|त्२८|श्६९
कृत-प्रसाधनः स-उत्कः स्वैरम् सः कमलाकरः|
कामी कान्ता-गृह-उद्यान-द्वार-बाह्यम् उपागमत्|
|क्२१|त्२८|श्७०
तावत् च सा मालतिका ताम् युक्त्या अनङ्गमञ्जरीम्|
आनिनाय तत् उद्यानम् कृच्च्रात् गमित-वासराम्|
|क्२१|त्२८|श्७१
उपवेश्य च ताम् मध्ये गुल्मके चूत-शाखिनाम्|
प्रावेशयत् तम् निर्गत्य तत्र एव कमलाकरम्|
|क्२१|त्२८|श्७२
सः च प्रविश्य पत्त्र-ओघ-घन-पाद-प-मध्य-गाम्|
ताम् अध्व-गः इव चायाम् ददर्श अनङ्गमञ्जरीम्|
|क्२१|त्२८|श्७३
उपैति यावत् च सः ताम् तावत् दृष्ट्वा प्रधाव्य सा|
काम-वेग-हृत-व्रीडा कण्ठे तम् सहसा अग्रहीत्|
|क्२१|त्२८|श्७४
क्व यासि लब्धः असि मम इति आलपन्ती च तत् क्षणम्|
सा अति-हर्ष-भर-स्तब्ध-निःश्वासा पञ्चताम् अगात्|
|क्२१|त्२८|श्७५
पपात च मही-पृष्ठे वात-रुग्णा लता इव सा|
विचित्रः बत कामस्य विपाक-विषमः क्रमः|
|क्२१|त्२८|श्७६
तत् दृष्ट्वा अशनि-पात-उग्रम् सद्यः सः कमलाकरः|
हा हा किम् एतत् इति उक्त्वा मूर्च्चितः न्यपतत् भुवि|
|क्२१|त्२८|श्७७
लब्ध-संज्ञः क्षणेन अथ ताम् अङ्क-आरोपिताम् प्रियाम्|
आलिङ्गन् परिचुम्बन् च तत् तत् च विलपन् बहु|
|क्२१|त्२८|श्७८
तथा दुख-अति-भारेण सः प्रसह्य निपीडितः|
यथा तस्य टसत्-कृत्य क्षणात् हृदयम् अस्फुटत्|
|क्२१|त्२८|श्७९
अथ तौ मालतिकया शोच्यमानौ उभौ अपि |
दृष्ट्वा प्राप्त-क्षयौ शोकात् इव क्षीणा अभवत् क्षपा|
|क्२१|त्२८|श्८०
प्रातः उद्यान-पालेभ्यः ज्ञात्वा बन्धु-जनः तयोः|
तत्र आययौ त्रपा-आश्चर्य-दुःख-मोह-आकुली-कृतः|
|क्२१|त्२८|श्८१
आसीत् कर्तव्यता-मूढः चिरम् खेदात् अवाक्-मुखः|
कष्टाः कुल-खली-कार-हेतवः बत कु-स्त्रियः|
|क्२१|त्२८|श्८२
तावत् च ताम्रलिप्तीतः सः तस्याः पतिः आगमत्|
स-उत्कण्ठः अनङ्गमञ्जर्याः मणिवर्मा पितुः गृहात्|
|क्२१|त्२८|श्८३
सः श्वाशुरम् गृहम् प्राप्य यथा-तत्त्वम् अवेत्य तत्|
बाष्प-अन्ध-लोचनः ध्यायन् तत् एव उद्यानम् आययौ|
|क्२१|त्२८|श्८४
तत्र भार्याम् गत-असुम् ताम् दृष्ट्वा अन्य-सहिताम् अपि|
शोक-अग्नि-ज्वलितः रागी सद्यः सः अपि जहौ असून्|
|क्२१|त्२८|श्८५
ततः क्रन्दति तत्र-स्थे जने कोलाहल-आकुलाः|
आययुः ज्ञात-वृत्त-अन्ताः पौराः सर्वे अत्र विस्मिताः|
|क्२१|त्२८|श्८६
अथ अत्र अनङ्गमञ्जर्याः पित्रा पूर्व-अवतारीता|
देवी संनिहिता चण्डी विज्ञप्ता अभूत् निजैः गणैः|
|क्२१|त्२८|श्८७
त्वत्-आकार-प्रतिष्ठा-कृत् अर्थदत्तः सदा एषः ते|
भक्तः वणिक् तत् अस्य अस्मिन् दुःखे देवि दयाम् कुरु|
|क्२१|त्२८|श्८८
एतत् गणेभ्यः श्रुत्वा सा शरण्या शङ्कर-प्रिया|
शान्त-अनङ्गाः त्रयः अपि एते जीवन्तु इति समादिशत्|
|क्२१|त्२८|श्८९
अथ सर्वे अपि ते सुप्त-प्रतिबुद्धाः इव क्षणात्|
तत्-प्रसादात् समुत्तस्थुः जीवन्तः वीत-मन्मथाः|
|क्२१|त्२८|श्९०
ततः दृष्ट्वा तत् आश्चर्यम् स-आनन्दे स-कले जने|
लज्जा-नत-मुखः प्रायात् स्व-गृहम् कमलाकरः|
|क्२१|त्२८|श्९१
अर्थदत्तः अपि ताम् ह्रीताम् आदाय अनङ्गमञ्जरीम्|
सुताम् स्व-भर्तृ-सहिताम् ययौ बद्ध-उत्सवः गृहान्|
|क्२१|त्२८|श्९२
इति कथयित्वा तस्याम् रात्रौ मार्गे कथाम् सः वेतालः|
निजगाद तम् त्रिविक्रमसेनम् क्षोणी-पतिम् भूयः|
|क्२१|त्२८|श्९३
राजन् कस्य वद एतेषु अधिकः मोहः अनुराग-मूढेषु|
सः अत्र च पूर्व-उक्तः ते शापः जानन् न चेत् वदसि|
|क्२१|त्२८|श्९४
इति एतत् वेतालात् श्रुत्वा सः प्रत्युवाच तम् नृ-पतिः|
एतेषु राग-मूढः प्रतिभाति मम अधिकः सः मणिवर्मा|
|क्२१|त्२८|श्९५
इतरौ हि तौ उभौ अपि काल-क्रम-पक्व-मन्मथ-अवस्थौ|
अन्यः-अन्य-स-अनुरागौ यदि जीवितम् उज्झतः स्म तत् भवतु|
|क्२१|त्२८|श्९६
मणिवर्मा तु अति-मूढः यः भार्याम् अन्य-पुरुष-सक्त-मृताम्|
दृष्ट्वा एव कोप-काले प्रत्युत रक्तः शुचा अमुचत् प्राणान्|
|क्२१|त्२८|श्९७
इति गदित वतः सः तस्य राज्ञः बत वेताल-पतिः पुनः जगाम|
निजम् एव पदम् तत् अंस-पीठात् अथ राजा अपि तम् अन्वगात् सः भूयः|
|क्२२|त्२९|श्१
ततः राजा पुनः गत्वा वेतालम् शिंशपा-अग्रतः|
सः त्रिविक्रमसेनः तम् प्राप्य अंस-आरोपितम् व्यधात्|
|क्२२|त्२९|श्२
आयान्तम् तम् च राजानम् सः वेतालः अब्रवीत् पथि|
राजन् साधुः सु-सत्त्वः त्वम् तत् अ-पूर्वाम् कथाम् शृणु|
|क्२२|त्२९|श्३
बभूव पूर्वम् कुसुमपुर-आख्य-नगर-ईश्वरः|
पृथ्वी-तले अस्मिन् धरणीवराहः नाम भू-पतिः|
|क्२२|त्२९|श्४
तस्य ब्राह्मण-भूयिष्ठे राष्ट्रे ब्रह्मस्थल-अभिधः|
अग्र-हारः अभवत् तत्र विष्णुस्वामी इति अभूत् द्वि-जः|
|क्२२|त्२९|श्५
तस्य अनुरूपा भार्या अभूत् यथा स्वाहा हविः भुजः|
तस्याम् च तस्य चत्वारः क्रमात् उत्पेदिरे सुताः|
|क्२२|त्२९|श्६
अधीत-वेदेषु उत्क्रान्त-शैशवेषु च तेषु सः|
विष्णुस्वामी दिवम् प्रायात् भार्यया अनुगतः तया|
|क्२२|त्२९|श्७
ततः ते तत्र तत्-पुत्राः सर्वे अपि आनाय्य दुः-स्थिताः|
गोत्र-जैः हृत-सर्व-स्वाः मन्त्रयांचक्रिरे मिथः|
|क्२२|त्२९|श्८
न अस्ति इह गतिः अस्माकम् तत् व्रजामः वयम् न किम्|
इतः माता-मह-गृहम् ग्रामम् यञ्जस्थल-अभिधम्|
|क्२२|त्२९|श्९
एतत् एव विनिश्चित्य प्रस्थिताः भैक्ष्य-भोजनाः|
माता-मह-गृहम् प्रापुः ते अथ तत् बहुभिः दिनैः|
|क्२२|त्२९|श्१०
तत्र माता-मह-अ-भावात् मातुलैः दत्त-संश्रयाः|
भुञ्जानाः तत्-गृहे तस्थुः स्व-अध्याय-अभ्यास-तत्-पराः|
|क्२२|त्२९|श्११
काल-क्रमात् च तेषाम् ते मातुलानाम् अ-किम्-चनाः|
अवज्ञा-पात्रताम् जग्मुः भोजन-आच्चादन-आदिषु|
|क्२२|त्२९|श्१२
ततः स्व-जन-संस्फूर्जत्-अवमान-हत-आत्मनाम्|
तेषाम् रहः स-चिन्तानाम् ज्येष्ठः भ्राता अब्रवीत् इदम्|
|क्२२|त्२९|श्१३
भो भ्रातरः किम् क्रियते सर्वम् आचेष्टते विधिः|
न शक्यम् पुरुषस्य इह क्व-चित् किम्-चित् कदा-चन|
|क्२२|त्२९|श्१४
अहम् हि उद्वेगतः भ्राम्यन् प्राप्तः अद्य पितृ-कानने|
विपन्न-स्थितम् अद्राक्षम् त्रस्त-अङ्गम् पुरुषम् भुवि|
|क्२२|त्२९|श्१५
अचिन्तयम् च दृष्ट्वा तम् अहम् ताम् स्पृहयन् गतिम्|
धन्यः अयम् एवम् विश्रान्तः दुःख-भारम् विमुच्य यः|
|क्२२|त्२९|श्१६
इति संचिन्त्य तत् कालम् कृत्वा मरण-निश्चयम्|
वृक्ष-अग्र-सङ्गिना पाशेन आत्मानम् उदलम्बयम्|
|क्२२|त्२९|श्१७
यावत् च मे विसंज्ञस्य तदा निर्यान्ति न असवः|
तावत् त्रुटित-पाशः अत्र पतितः अस्मि मही-तले|
|क्२२|त्२९|श्१८
लब्ध-संज्ञः च केन-अपि पुंसा क्षिप्रात् कृपालुना|
आश्वास्यमानम् आत्मानम् अपश्यम् पट-मारुतैः|
|क्२२|त्२९|श्१९
सखे कथय विद्वान् अपि एवम् कम् प्रति खिद्यसे|
सुखम् हि सुकृतात् दुःखम् दुः-कृतात् एति न अन्यतः|
|क्२२|त्२९|श्२०
दुःखात् यदि तव उद्वेगः सुकृतम् तत् समाचर|
कथम् तु नारकम् दुःखम् आत्म-त्यागेन वाञ्चसि|
|क्२२|त्२९|श्२१
इति उक्त्वा माम् समाश्वास्य सः च क्व अपि गतः पुमान्|
अहम् च इह आगतः त्यक्त्वा तादृशम् मरण-उद्यमम्|
|क्२२|त्२९|श्२२
तत् एवम् न इच्चति विधौ न मर्तुम् अपि लभ्यते|
इदानीम् च तनुम् तीर्थे तपसा दाहयामि अहम्|
|क्२२|त्२९|श्२३
येन निः-धनता-दुःख-भागी न स्याम् अहम् पुनः|
इति उक्तवन्तम् ज्येष्ठम् तम् कनिष्ठाः भ्रातरः अब्रुवन्|
|क्२२|त्२९|श्२४
अर्थैः विना कथम् प्राज्ञः अपि आर्य दुःकेन बाध्यसे|
किम् न वेत्सि यत् अर्थानाम् शरद्-अभ्र-चला गतिः|
|क्२२|त्२९|श्२५
आहृत्य रक्ष्यमाणा अपि यत्नेन अन्त-विरागिणी|
$अ-सत्-मैत्री च वेश्या च श्रीः च कस्य कदा स्थिरा|
|क्२२|त्२९|श्२६
तत् उद्योगेन सः गुणः कः-अपि उपार्ज्यः मनस्विना|
आनीयन्ते हटात् बद्ध्वा येन अर्थ-हरिणाः मुहुः|
|क्२२|त्२९|श्२७
इति उक्तः भ्रातृभिः धैर्यम् क्षणात् ज्येष्ठः अवलम्ब्य सः|
उवाच कः गुणः तादृक्-अर्जनीयः भवेत् इति|
|क्२२|त्२९|श्२८
ततः विचित्य सर्वे ते वदन्ति स्म परस्परम्|
विचिन्त्य पृथ्वीम् विज्ञानम् किम्-चित् शिक्षामहे वयम्|
|क्२२|त्२९|श्२९
निश्चित्य एतत् च संकेत-स्थानम् उक्त्वा समागमे|
एक-एकशः ते चत्वारः चतस्रः प्रययुः दिशः|
|क्२२|त्२९|श्३०
याति काले च मिलिताः ते संकेत-निकेतने|
किम् केन शिक्षितम् इति भ्रातरः अन्यः-अन्यम् अब्रुवन्|
|क्२२|त्२९|श्३१
अथ अत्र एकः अब्रवीत् ईदृक् विज्ञानम् शिक्षितम् मया|
येन अस्थि-शकलम् प्राप्य प्राणिनः यस्य कस्य-चित्|
|क्२२|त्२९|श्३२
उत्पादयामि अहम् तस्मिन् मांसम् तत्-उचितम् क्षणात्|
एतत् तस्य वचः श्रुत्वा द्वितीयः तेषु अभाषत|
|क्२२|त्२९|श्३३
अहम् तत्र एव संजात-मांसे अस्थि-शकले किल|
जाने जनयितुम् लोम-त्वचम् तत्-प्राणि-संभवि|
|क्२२|त्२९|श्३४
ततः तृतीयः अपि अवदत् जाने तत्र एव च $अस्मि अहम्|
तत्-प्रानि-अवयवान् स्रष्टुम् जात-त्वङ्-मांस-लोमनि|
|क्२२|त्२९|श्३५
चतुर्थः च ततः अवादीत् उत्पन्न अवयव-आकृतिम्|
तम् एव प्राणिनम् प्रानैः युक्तम् कर्तुम् अवैमि अहम्|
|क्२२|त्२९|श्३६
एवम् उक्त्वा मिथः स्व-स्व-विज्ञान-प्रथनाय ते|
चत्वारः अपि अस्थि-खण्डाय प्रययुः भ्रातरः अटवीम्|
|क्२२|त्२९|श्३७
तत्र सिंहस्य ते प्रापुः अस्थि-खण्डम् विधेः वशात्|
अ-विज्ञात-विशेषाः च गृह्नन्ति स्म तथा एव तत्|
|क्२२|त्२९|श्३८
एकः च तत् समुचितैः ततः मांसैः अयोजयत्|
द्वितीयः अजनयत् तस्य तद्वत् त्वक्-लोम-संहतीः|
|क्२२|त्२९|श्३९
तृतीयः च अ-खिलैः अङ्गैः तत्-योग्यैः तत् अपूरयत्|
चतुर्थः च ददौ तस्य सिंही-भूतस्य जीवितम्|
|क्२२|त्२९|श्४०
उदतिष्ठत् अथ उद्धूत-सटा-भारः अति-भैरवः|
सः दंष्ट्रा-संकट-मुखः सिंहः खर-नख-अङ्कुशः|
|क्२२|त्२९|श्४१
धावित्वा च स्व-निर्मात्क़्न् तान् एव चतुरः अपि सः|
अवधीत् केसरी तृप्तः विवेश च वनम् ततः|
|क्२२|त्२९|श्४२
एवम् ते सिंह-निर्माण-दोषात् नष्टाः द्वि-जातयः|
दुष्टम् हि जन्तुम् उत्थाप्य कस्य आत्मनि सुखम् भवेत्|
|क्२२|त्२९|श्४३
इत्थम् च उपार्जितः यत्नात् गुणः अपि विधुरे विधौ|
संपत्तये न न परम् जायते तु विपत्तये|
|क्२२|त्२९|श्४४
मूले हि अ-विकृते दैवे सिक्ते प्रज्ञान-वारिणा|
नय-आलवालः फलति प्रायः पौरुष-पाद-पः|
|क्२२|त्२९|श्४५
इति तस्याम् निशि मार्गे वेतालेन अंसतः कथाम् तेन|
आख्याय सः त्रिविक्रमसेनः राजा पुनः जगदे|
|क्२२|त्२९|श्४६
राजन् तेषु अपराध्यति चतुर्षु कः तत्र सिंह-निर्माणे|
यत् न्यवधीत् तत्-कॢप्तः वद समयः सः अत्र पूर्वः ते|
|क्२२|त्२९|श्४७
इति वेतालात् श्रुत्वा राजा सः अचिन्तयत् विमौनस्य|
इच्चति गन्तुम् अयम् मे यातु आनेष्यामि अमुम् भूयः|
|क्२२|त्२९|श्४८
इति हृदि निश्चित्य सः तम् मही-पतिः प्रत्युवाच वेतालम्|
यः तस्य जीव-दायी सिंहस्य सः पाप-भाक् तेषु|
|क्२२|त्२९|श्४९
प्राणि-विशेषम् अ-बुद्ध्वा मांस-त्वक्-लोम-गात्र-निर्माणम्|
युक्ति-बलात् तु कृतम् यैः तेषाम् दोषः अस्ति न अज्ञानात्|
|क्२२|त्२९|श्५०
येन तु सिंह-आकारम् दृष्ट्वा विद्या-प्रकाशन-उत्केन|
प्राणाः तस्य वितीर्णाः तेन कृताः ब्रह्म-हत्याः ताः|
|क्२२|त्२९|श्५१
एतत् सः राज्ञः वचनम् निशम्य स्व-धाम वेताल-वरः जगाम|
तस्य अंसतः तत् पुनः एव मायी राजा अपि तम् सः अनुससार भूयः|
|क्२३|त्३०|श्१
ततः गत्वा पुनः प्राप शिंशपा-पादपात् ततः|
सः त्रिविक्रमसेनः तम् वेतालम् राज-सत्तमः|
|क्२३|त्३०|श्२
स्कन्धे कृत्वा च तम् मौनी दर्शित-अनेक-वैकृतम्|
यावत् प्रतिष्ठते तावत् सः वेतालः तम् अब्रवीत्|
|क्२३|त्३०|श्३
राजन् अकार्ये अपि एतस्मिन् दुः-वारः अयम् ग्रहः तव|
तत् ते श्रम-विनोदाय कथयामि कथाम् शृणु|
|क्२३|त्३०|श्४
आसीत् कलिङ्ग-विषये नाम्ना शोभावती पुरी|
दिवि इव शक्र-नगरी वसतिः शुभ-कर्मणाम्|
|क्२३|त्३०|श्५
याम् प्रद्युम्नः इव ऐश्वर्य-वीर्य-अतिशय-विश्रुतः|
प्रद्युम्न-नामा नृ-पतिः शशास ऊर्जित-शासनः|
|क्२३|त्३०|श्६
गुण-अपकर्षः चापेषु मुरजेषु कर-आहतिः|
युगेषु अश्रूयत कलिः यस्याम् प्रज्ञासु तीक्ष्णता|
|क्२३|त्३०|श्७
एक-देशे पुरः तस्याः नृ-पेण प्रतिपादितः|
यज्ञस्थल-अभिधानः अभूत् अग्रहारः बहु-द्विजः|
|क्२३|त्३०|श्८
तत्र आसीत् यज्ञसोम-आख्यः ब्राह्मणः वेद-पार-गः|
महा-धनः अग्नि-होत्री च पूजित-अतिथि-देवतः|
|क्२३|त्३०|श्९
तस्य व्यतीते तारुण्ये मनः-रथ-शतैः सुतः|
भार्यायाम् अनुरूपायाम् एकः एव उदपद्यत|
|क्२३|त्३०|श्१०
ववृधे च पितुः सः अस्य गृहे बालः सु-लक्षणः|
कृत-अभिधानः विधिवत् देवसोमः इति द्विजैः|
|क्२३|त्३०|श्११
प्राप्त-षोडश-वर्षः च सः विद्या-विनय-आदिभिः|
आवर्जित-जनः अ-कस्मात् ज्वरेण प्राप पञ्चताम्|
|क्२३|त्३०|श्१२
ततः परासुम् स्नेहात् तम् आश्लिष्य सह भार्यया|
यज्ञसेनः पिता शोचन् न दाहाय जहौ चिरम्|
|क्२३|त्३०|श्१३
ब्रह्मन् संसार-गन्धर्व-नगरस्य न वेत्सि किम्|
पर-अवर-ज्ञः अपि गतिम् वारि-बुद्बुद-भङ्गुराम्|
|क्२३|त्३०|श्१४
ये सैन्यैः पूरित-धराः हर्म्य-पृष्ठेषु हारिषु|
लसत्-संगीत-नादेषु रत्न-पर्यङ्क-वर्तिनः|
|क्२३|त्३०|श्१५
श्री-खण्ड-द्रव-लिप्त-अङ्गाः वर-स्त्री-परिवारिताः|
व्यलसन् अमरम्-मन्याः भू-लोके अस्मिन् नर-अधिपाः|
|क्२३|त्३०|श्१६
ते अपि एककाः श्मशानेषु रुदत्-प्रेत-अनुयायिषु|
चित-अधिशयिनः यत्र जग्धाः क्रव्य-अत्-कृशानुभिः|
|क्२३|त्३०|श्१७
शिवाभिः वलित-उपान्ताः कालेन कवली-कृताः|
न रोद्धुम् शकिताः कैः-चित् तत्र अन्येषाम् कथा एव का|
|क्२३|त्३०|श्१८
तत् एतम् प्रेतम् आश्लिष्य विद्वन् वद करोषि किम्|
इति-आदि अबोधयन् वृद्धाः मिलिताः तम् द्वि-जम् ततः|
|क्२३|त्३०|श्१९
ततः तेन कथम्-चित् तम् मुक्तम् आरोप्य तत्-सुतम्|
शिबिकायाम् गत-प्राणम् कृत-प्रेत-प्रसाधनम्|
|क्२३|त्३०|श्२०
बान्धवाः वैशस-उदश्रु-मिलत्-बन्धु-जन-अन्विताः|
श्मशानम् प्रापयामासुः कोलाहल-समाकुलाः|
|क्२३|त्३०|श्२१
अत्र अन्तरे च तत्र आसीत् श्मशाने कः अपि तापसः|
वृद्धः पाशुपतः योगी मठिकायाम् कृत-स्थितिः|
|क्२३|त्३०|श्२२
वयसा तपसा च अतिभूयसा सु-कृशाम् तनुम्|
बिभ्राणः भङ्ग-भीत्या इव सिराभिः परिवेष्टितम्|
|क्२३|त्३०|श्२३
नाम्ना वामशिवः भस्म-पाण्डु-रोम-आवृत-आकृतिः|
विद्युत्-पिङ्ग-जटा-जूटः महेश्वर इव अ-परः|
|क्२३|त्३०|श्२४
सः तापसः अत्र तत् कालम् दत्त-उपालम्भ-खेदितम्|
मूर्खम् शठम् ध्यान-योग-आदि-अवलिप्तम् अहम्-कृतम्|
|क्२३|त्३०|श्२५
भिक्षा-फल-व्रत-धरम् शिष्यम् अन्तिक-वासिनम्|
जगाद दूरात् श्रुत्वा तम् जन-कोलाहलम् बहिः|
|क्२३|त्३०|श्२६
उत्तिष्ठ गत्वा अत्र बहिः विज्ञाय आगच्च स-त्वरम्|
कुतः अत्र अ-श्रुत-पूर्वः अयम् श्मशाने तुमुल-आरवः|
|क्२३|त्३०|श्२७
इति उक्ते गुरुणा तेन सः शिष्यः प्रत्युवाच तम्|
न अहम् यामि स्वयम् याहि भिक्षा-वेला हि अपैति मे|
|क्२३|त्३०|श्२८
तत् श्रुत्वा उवाच सः गुरुः धिक् मूर्ख उदर-तत्-पर|
अह्नः अर्ध-प्रहरे याते भिक्षा-वेला अत्र का तव|
|क्२३|त्३०|श्२९
श्रुत्वा एव एतत् सः तम् क्रुद्धः कु-शिष्यः प्राह तापसम्|
धिक् जरा-जीर्ण न अहम् ते शिष्यः न त्वम् गुरुः मम|
|क्२३|त्३०|श्३०
अहम् अन्यत्र यास्यामि वह पात्रीम् इमाम् स्वयम्|
इति उक्त्वा उत्थाय सः प्रायात् त्यक्त्वा अग्रे दण्ड-कुण्डिकाम्|
|क्२३|त्३०|श्३१
विहसन् अथ निर्गत्य मठिकायाः सः तापसः|
तत्र आगात् यत्र दाह-अर्थम् आनीतः सः द्वि-ज-अर्भकः|
|क्२३|त्३०|श्३२
दृष्ट्वा च तम् जनतया शोच्यमान-अग्र्य-यौवनम्|
योगी प्रवेष्टुम् तत्-देहम् मतिम् चक्रे जरा-अर्दितः|
|क्२३|त्३०|श्३३
गत्वा च द्रुतम् एक-अन्ते मुक्त-कण्ठम् प्ररुद्य च|
ननर्त सः ततः क्षिप्रम् अङ्ग-हारैः यथा-उचितैः|
|क्२३|त्३०|श्३४
ततः विवेश योगात् तत् द्वि-ज-पुत्र-कलेवरम्|
क्षणात् सः स्व-तनुम् त्यक्त्वा तपस्वी यौवन-इच्चया|
|क्२३|त्३०|श्३५
तत् क्षणम् रचितायाम् च चितायाम् सहसा एव सः|
लब्ध-जीवः द्वि-ज-युवा प्रोत्तस्थौ कृत-जृम्भिकः|
|क्२३|त्३०|श्३६
तत् दृष्ट्वा बन्धु-वर्गस्य दिष्ट्या जीवति जीवति|
इति उद्बभूव नादः अत्र निखिलस्य जनस्य च|
|क्२३|त्३०|श्३७
अथ अ-मोक्ष्यन् व्रतम् सर्वान् मृषा योग-ईस्वरः स तान्|
विप्र-पुत्र-शरीर-अन्तः-प्रविष्टः तापसः अब्रवीत्|
|क्२३|त्३०|श्३८
लोक-अन्तर-गतस्य अद्य महा-पाशुपत-व्रतम्|
ग्राह्यम् साक्षात् मम अ-भाष्य दत्तम् शर्वेण जीवितम्|
|क्२३|त्३०|श्३९
अधुना एव च धार्यम् तत् गत्वा एक-अन्ते व्रतम् मया|
जीवितम् मे अन्यथा न अस्ति तत् यूयम् यात यामि अहम्|
|क्२३|त्३०|श्४०
इति सर्वान् सः तत्र-स्थान् संबोध्य दृढ-निश्चयः|
स्व-गृहान् प्रेषयामास हर्ष-शोक-आकुलान् व्रती|
|क्२३|त्३०|श्४१
स्वयम् च गत्वा श्वभ्रे तत् क्षिप्त्वा पूर्व-कलेवरम्|
आत्त-व्रतः महा-योगी युवी-भूतः अन्यतः ययौ|
|क्२३|त्३०|श्४२
इति व्याख्याय वेतालः कथाम् निशि तदा पथि|
तम् त्रिविक्रमसेनम् सः राजानम् पुनः अब्रवीत्|
|क्२३|त्३०|श्४३
राजन् ब्रूहि सः योगी-इन्द्रः कस्मात् परपुरे वसन्|
प्ररुरोद ननर्त अथ कौतुकम् महत् अत्र मे|
|क्२३|त्३०|श्४४
इति वेतालतः श्रुत्वा शाप-शङ्की सः भू-पतिः|
विमुच्य मौनम् एवम् तम् अवादीत् धीमताम् वरः|
|क्२३|त्३०|श्४५
शृणु तत्र बभूव अस्य यः अभिप्रायः तपस्विनः|
सह वृद्धम् चिराय इदम् शरीरम् सिद्धि-साधनम्|
|क्२३|त्३०|श्४६
पितृभ्याम् लालितम् बाल्ये त्यजामि अद्य इति दुःखितः|
सः जरत् तापसः अरोदीत् देह-स्नेहः हि दुः-त्यजः|
|क्२३|त्३०|श्४७
नवम् देहम् प्रवेक्ष्यामि साधयिष्यामि अतः अधिकम्|
इति हर्षात् अनृत्यत् च कस्य न इष्टम् हि यौवनम्|
|क्२३|त्३०|श्४८
एतत् तस्य वचः निशम्य नृपतेः अंसत् सः भूयः अपि अगात् वेतालः मृत-पूरुष-अन्तरगतः तम् शिंशपा-पादपम्|
राजा सः अपि तम् अन्वधावत् अधिक-उत्साहः पुनः प्रेप्सया कल्प-अन्ते अपि अचलम् कुल-अद्रि-विजयि स्थैर्यम् हि धीर-आत्मनाम्|
|क्२४|त्३१|श्१
ततः ताम् तिमिर-श्यामाम् चिता-अग्नि-ज्वलित-ईक्षणाम्|
स्मशाने भीषणे तस्मिन् वीरः रजनि-राक्षसीम्|
|क्२४|त्३१|श्२
घोराम् अगणयन् राजा गत्वा ताम् शिंशपाम् पुनः|
सः त्रिविक्रमसेनः तम् तस्याः वेतालम् आददे|
|क्२४|त्३१|श्३
स्कन्धे कृत्वा च तम् यावत् प्रक्रामति सः पूर्ववत्|
तावत् भूयः सः वेतालः नर-देवम् उवाच तम्|
|क्२४|त्३१|श्४
भो राजन् अहम् उद्विग्नः न पुनः त्वम् गत-आगतैः|
तत् एकम् मे महा-प्रश्नम् इमम् कथयतः शृणु|
|क्२४|त्३१|श्५
आसीत् माण्डलिकः कः अपि नृ-पतिः दक्षिणा-पथे|
धर्म-अभिधानः धौरेयः साधूनाम् बहु-गोत्र-जः|
|क्२४|त्३१|श्६
तस्य चन्द्रवती-नाम भार्या मालव-देश-जा|
अभूत् महा-कुल-उत्पन्ना वर-स्त्री-मौलि-मालिका|
|क्२४|त्३१|श्७
तस्याम् च तस्य भार्यायाम् भू-पतेः उदपद्यत|
एका एव लावण्यवती नाम अन्वर्थ-अभिधा सुता|
|क्२४|त्३१|श्८
प्रदेयायाम् च तस्याम् सः सुतायाम् धर्म-भू-पतिः|
उन्मूलितः अभूत् मिलितैः दायादैः राष्ट्र-भेदिभिः|
|क्२४|त्३१|श्९
ततः पलाय्य निरगात् सः देशात् भार्यया सह|
दुहित्रा च तया रात्रौ आत्त-सत्-रत्न-संचयः|
|क्२४|त्३१|श्१०
मालवम् प्रति च स्वैरम् प्रस्थितः श्वशुर-आस्पदम्|
विन्ध्य-अटवीम् तया रात्र्या प्राप भार्या-सुता-युतः|
|क्२४|त्३१|श्११
तस्याम् प्रविष्टस्य उदश्रुः इव अवश्याय-शीकरैः|
निशा अनुयात्राम् दत्त्वा इव ययौ तस्य मही-क्षितः|
|क्२४|त्३१|श्१२
आरुरोह अथ पूर्व-अद्रिम् उत्क्षिप्त-अग्र-करः रविः|
मा गाः चौर-अटवीम् एताम् इति तम् वारयन् इव|
|क्२४|त्३१|श्१३
ततः अत्र स-सुता-जानिः क्षत-अङ्घ्रिः कुश-कण्टकैः|
पदातिः सः नृ-पः गच्चन् भिल्लानाम् प्राप पल्लिकाम्|
|क्२४|त्३१|श्१४
परेषाम् प्राण-सर्व-स्व-हारिभिः पुंभिः आवृताम्|
वर्जिताम् धार्मिकैः दुर्गाम् कृत-अन्त-नगरीम् इव|
|क्२४|त्३१|श्१५
तत्र दृष्ट्वा एव तम् दूरात् स-वस्त्र-आभरणम् नृ-पम्|
मोषितुम् बहवः अधावन् शबराः विविध-आयुधाः|
|क्२४|त्३१|श्१६
तान् विलोक्य सुता-भार्ये राजा धर्मः जगाद सः|
पुरा स्पृशन्ति वाम् म्लेच्चाः तत् इतः विशतम् वनम्|
|क्२४|त्३१|श्१७
इति राज्ञा उदिता रज्ञी वन-मध्यम् विवेश सा|
लावण्यवत्या सुतया सार्धम् चन्द्रवती भयात्|
|क्२४|त्३१|श्१८
राजा अपि अभिमुख-आयातान् खड्ग-चर्म-धरः अत्र सः|
अवधीत् तान् बहून् शूरः शबरान् शर-वर्तिणः|
|क्२४|त्३१|श्१९
ततः तेन अ-खिला पल्ली पत्या आज्ञप्ताः निपत्य तम्|
प्रहार-क्षत-चर्माणम् अवधीत् नृ-पम् एककम्|
|क्२४|त्३१|श्२०
गृहीत-आभरणे याते दस्यु-सैन्ये विलोक्य तम्|
भर्तारम् निहतम् दूरात् वन-गुल्म-अन्तर-स्थिता|
|क्२४|त्३१|श्२१
राज्ञी चन्द्रवती सा अत्र दुहित्रा सह विह्वला|
पलायमाना गहनम् दूरम् अन्वक् अगात् वनम्|
|क्२४|त्३१|श्२२
तत्र मध्य-अह्न-ताप-आर्तासु इव मूलानि शाखिनाम्|
चायासु अपि प्रविष्टासु शिशिराणि सह अध्व-गैः|
|क्२४|त्३१|श्२३
एक-देशे अब्-ज-सरसः तीरे अशोक-तरोः तले|
शोक-आर्ता रुदती श्रान्ता स-सुता समुपाविशत्|
|क्२४|त्३१|श्२४
तावत् तत् वनम् अभ्यर्ण-निवासी मृगया-कृते|
महा-मनुष्यः कः अपि आगात् अश्व-आरूढः स-पुत्रकः|
|क्२४|त्३१|श्२५
सः चण्डसिंह-नामा तम् पुत्रम् सिंहपराक्रमम्|
उवाच दृष्ट्वा अत्र तयोः पांसु-उत्थे पद-पद्धती|
|क्२४|त्३१|श्२६
एते सुरेखे सुभगे अनुसृत्य आप्नुवः यदि|
स्त्रीयौ ते तत् तयोः एकाम् स्वी-कुरुष्व यथा-रुचि|
|क्२४|त्३१|श्२७
इति उक्तवन्तम् तम् स्म आह पुत्रः सिंहपराक्रमः|
यस्याः सूक्ष्मौ इमौ पादौ सा भार्या प्रतिभाति मे|
|क्२४|त्३१|श्२८
सा हि स्वल्प-वयाः नूनम् जाने समुचिता मम|
बृहत्-पादा तु योग्या इयम् एतत्-ज्येष्ठ-वयाः तव|
|क्२४|त्३१|श्२९
इति सूनोः वचः श्रुत्वा चण्डसिंहः जगाद तम्|
का एषा कथा भवत्-माता प्रत्यग्रम् हि गता दिवम्|
|क्२४|त्३१|श्३०
तादृशे सु-कलत्रे च गते का अन्यत्र वासना|
तत् श्रुत्वा सः अपि पुत्रः तम् चण्डसिंहम् अभाषत|
|क्२४|त्३१|श्३१
तात मा एवम् अ-भार्यम् हि शून्यम् गृह-पतेः गृहम्|
अन्यत् च मूलदेव-उक्ता गाथा किम् न श्रुता त्वया|
|क्२४|त्३१|श्३२
यत्र घन-स्तन-जघना न आस्ते मार्ग-अवलोकिनी कान्ता|
अ-जडः कः तत् अ-निगडम् प्रविशति गृह-संज्ञकम् दुर्गम्|
|क्२४|त्३१|श्३३
तत् जीवितेन मे तात शापितः असि न ताम् यदि|
द्वितीयाम् मद्-अभीष्टायाम् भार्या-अर्थे स्वी-करीष्यसि|
|क्२४|त्३१|श्३४
एतत् पुत्र-वचः श्रुत्वा प्रतिपद्य च तत्-सखः|
सः चण्डसिंहः अनुसरन् पद-पङ्क्तिम् शनैः ययौ|
|क्२४|त्३१|श्३५
प्राप्य तत् च सरः-स्थानम् मुक्ता-तारा-ओघ-मण्डिताम्|
श्यामाम् चण्द्रवतीम् राज्ञीम् ताम् ददर्श अवभासिताम्|
|क्२४|त्३१|श्३६
लावण्यवत्या सुतया ज्योत्स्नया इव अवदातया|
नैशीम् द्याम् इव मध्य-अह्ने तरु-च्चायाम् उपाश्रिताम्|
|क्२४|त्३१|श्३७
उपाययौ च पुत्रेण साकम् ताम् सः स-कौतुकः|
सा अपि दृष्ट्वा तम् उत्तस्थौ वित्रस्ता चौर-शङ्किनी|
|क्२४|त्३१|श्३८
अलम् त्रासेन न अम्भ एतौ चौरौ सौम्य-आकृती इमौ|
सु-वेषौ कौ-चित् आखेट-कृते नूनम् इह आगतौ|
|क्२४|त्३१|श्३९
इति उक्ता सुतया राज्ञी यावत् दोलायते अत्र सा|
तावत् अश्व-अवतीर्णः ते चण्डसिंःअः अब्रवीत् उभे|
|क्२४|त्३१|श्४०
किम् संभ्रमेण वाम् आवाम् प्रणयात् द्रष्टुम् आगतौ|
तत् विस्वस्य निः-आतङ्के वदतम् के युवाम् इति|
|क्२४|त्३१|श्४१
हर-नेत्र-अनल-ज्वाला-दग्ध-मन्मथ-दुःस्थिते|
रति-प्रीती इव अरण्यम् इदम् एवम् उपागते/|
|क्२४|त्३१|श्४२
प्रविष्टे स्थः कथम् च इह बत निः-मानुषे वने|
रत्न-प्रासाद-वास-अर्हम् इदम् हि युवयोः वपुः|
|क्२४|त्३१|श्४३
कथम् वर-अङ्गना-उत्सङ्ग-योग्यौ कण्टकिनीम् इमाम्|
भुवम् वाम् चरणौ भ्रान्तौ इति नौ मनसि व्यथा|
|क्२४|त्३१|श्४४
एषा च चित्रम् युवयोः पतन्ती धूलिः आनने|
वात-उद्धूता हत-चायम् आवयोः कुरुते मुखम्|
|क्२४|त्३१|श्४५
भवत्योः एषः च अङ्गे अस्मिन् निपतन् पुष्प-पेशले|
किरण-उष्मा दहति अस्मान् उच्चण्डः चण्ड-दीधितेः|
|क्२४|त्३१|श्४६
तत् ब्रूतम् आत्म-वृत्त-अन्तम् दूयते हृदयम् हि नः|
द्रष्टुम् न शक्नुमः अरण्ये स्थितिम् वाम् स्वा-पद-आवृते|
|क्२४|त्३१|श्४७
इति उक्ते चण्डसिंहेन राज्ञी निःस्वस्य सा शनैः|
लज्जा-शोक-आकुला तस्मै स्वम् वृत्त-अन्तम् अवर्णयत्|
|क्२४|त्३१|श्४८
ततः $निःस्वामिकाम् मत्वा ताम् आश्वास्य च स-आत्म-जाम्|
स्वी-चक्रे मधुरैः वाक्यैः चण्डसिंहः अनुरञ्जयन्|
|क्२४|त्३१|श्४९
आरोप्य च अस्वयोः पृष्ठम् स-पुत्रः ताम् स-पुत्रिकाम्|
निनाय वित्तपपुरी-समृद्धाम् वसतिम् निजाम्|
|क्२४|त्३१|श्५०
सा अपि जन्म-अन्तर-गता इव अ-वशा अङ्गी-चकार तम्|
अ-नाथा कृच्च्र-पतिता विदेशे स्त्री करोति किम्|
|क्२४|त्३१|श्५१
ततः ताम् सूक्ष्म-पादत्वात् राज्ञीम् सिंहपराक्रमः|
चण्डसिंह-सुतः तत्र भार्याम् चण्द्रवतीम् व्यधात्|
|क्२४|त्३१|श्५२
तत्-सुताम् ताम् च लावण्यवतीम् नृ-पति-कन्यकाम्|
बृहत्त्वात् पादयोः भार्याम् चण्डसिंहः चकार सः|
|क्२४|त्३१|श्५३
प्राख़् हि सूक्ष्म-बृहत्-पाद-मुद्रा-पङ्क्ति-द्वय-ईक्षणात्|
प्रतिपन्नम् तथा ताभ्याम् सत्यम् कः च अतिवर्तते|
|क्२४|त्३१|श्५४
एवम् पाद-विपर्यासात् ते पिता-पुत्रयोः तयोः|
दुहिता-मातरौ भार्ये जाते श्वश्रू-स्नुषे तदा|
|क्२४|त्३१|श्५५
कालेन च तयोः ताभ्याम् भर्तृभ्याम् जज्ञिरे द्वयोः|
पुत्राः दुहितरः च एव तेषाम् अन्ये अपि अथ क्रमात्|
|क्२४|त्३१|श्५६
इत्थम् संप्राप्य तौ चण्डसिंह-सिंहपराक्रमौ|
तस्थतुः तत्र लावण्यवतीम् चन्द्रवतीम् च ते|
|क्२४|त्३१|श्५७
इति व्यावर्ण्य वेतालः तदा पथि कथाम् निशि|
सः त्रिविक्रमसेनम् तम् पप्रच्च नृ-पतिम् पुनः|
|क्२४|त्३१|श्५८
तयोः माता-दुहित्रोः ये पुत्र-पित्रोः तयोः नृ-प|
सकाशात् जन्तवः जाताः क्रमात् उभय-पक्षयोः|
|क्२४|त्३१|श्५९
ज्ञात्वा इदम् ब्रूहि मे तेषाम् अन्यः-अन्यम् के भवन्ति ते|
पूर्व-उक्तः सः अत्र शापः ते जानानः चेत् न वक्ष्यसि|
|क्२४|त्३१|श्६०
एतत् वेतालतः श्रुत्वा विमृशन् बहुधा अपि सः|
न अज्ञासीत् तत् यदा राजा तूष्णीकः प्रययौ तदा|
|क्२४|त्३१|श्६१
ततः तत्-अंस-कूट-स्थः वेतालः विहसन् हृदि|
मृत-पूरुष-देह-अन्तः निविष्टः समचिन्तयत्|
|क्२४|त्३१|श्६२
न अयम् राजा महा-प्रश्ने वेत्ति अस्मिन् दातुम् उत्तरम्|
तेन तूष्णीम् व्रजति एषः हृष्टः अति-चतुरैः पदैः|
|क्२४|त्३१|श्६३
न च वञ्चयितुम् शक्यः सत्त्व-राशिः अयम् परम्|
क्रीडन् भिक्षुः सः च अस्माभिः इयता एव न शाम्यति|
|क्२४|त्३१|श्६४
तत् अद्य वञ्चयित्वा तम् दुर्-आत्मानम् उपायतः|
तत्-सिद्धिम् भावि-कल्याणे राजनि अस्मिन् निवेशये|
|क्२४|त्३१|श्६५
इति आलोच्य सः वेतालः नृ-पम् तम् अवदत् तदा|
राजन् कृष्ण-निशा-घोरे स्मशाने अस्मिन् गत-आगतैः|
|क्२४|त्३१|श्६६
एतैः क्लिष्टः सुख-अर्हः त्वम् न विकल्पः च कः अपि ते|
तत् आश्चर्येण धैर्येण तुष्टः अहम् अमुना तव|
|क्२४|त्३१|श्६७
शवम् एतम् नय इदानीम् निर्गच्चामि अमुतः हि अहम्|
इदम् तु श्र्णु यत् वच्मि हितम् तव कुरुष्व च|
|क्२४|त्३१|श्६८
आनीतम् एतत् भवता यस्य अर्थे नृ-कलेवरम्|
कु-भिक्षुः सः अद्य माम् अस्मिन् समाहूय अर्चयिष्यति|
|क्२४|त्३१|श्६९
उपहारी-चिकीर्षुः च त्वाम् एव सः शठः ततः|
भूमौ प्रणामम् अष्टाभिः अङ्गैः कुरु इति वक्ष्यति|
|क्२४|त्३१|श्७०
त्वम् प्राक् दर्शय तावत् मे करिष्ये अहम् तथा एव तत्|
इति सः अपि महा-राज वक्तव्यह् श्रमणः त्वया|
|क्२४|त्३१|श्७१
ततः निपत्य भूतौ सः प्रणामम् यावत् एव ते|
दर्शय्ष्यति तावत् त्वम् चिन्द्याः तस्य असिना शिरः|
|क्२४|त्३१|श्७२
ततः विद्याधर-ऐश्वर्य-सिद्धिः या तस्य वाञ्चिता|
ताम् त्वम् प्राप्स्यसि भुङ्क्ष्वा इमम् भुवम् तत्-उपहारतः|
|क्२४|त्३१|श्७३
अन्यथा तु सः भिक्षुः त्वाम् उपहारी-करिष्यति|
एतत्-अर्थम् कृतः विघ्नः तव अत्र इयत् चिरम् मया|
|क्२४|त्३१|श्७४
तत् सिद्धिः अस्तु ते गच्च इति उक्त्वा तस्य अंस-पृष्ठ-गात्|
निर्गत्य सः ययौ तस्मात् वेतालः प्रेत-कायतः|
|क्२४|त्३१|श्७५
अथ सः नर-पतिः तम् प्रीत-वेताल-वाक्यात् श्रमणम् अहितम् एव क्षान्तिशीलम् विचिन्त्य|
वट-विटपि-तलम् तत् तस्य पार्श्वम् प्रतस्थे मृत-पुरुष-शरीरम् तत् गृहीत्वा प्रहृष्टः|
|क्२५|त्३२|श्१
ततः तस्य अन्तिकम् भिक्षोः क्षान्तिशीलस्य भू-पतिः|
सः त्रिविक्रमसेनः अत्र प्राप स्कन्धे शवम् वहन्|
|क्२५|त्३२|श्२
ददर्श तम् च श्रमणम् मार्ग-अभिमुखम् एककम्|
कृष्ण-पक्ष-क्षपा-रौद्रे श्मशाने तरु-मूल-गम्|
|क्२५|त्३२|श्३
असृग्-$लिप्त-स्थले गौरेण अस्थि-चूर्णेन निर्मिते|
मण्डले दिक्षु विन्यस्त-पूर्ण-शोणित-कुम्भके|
|क्२५|त्३२|श्४
महा-तैल-प्रदीप-आढ्ये हुत-पार्श्व-स्थ-वह्निनि|
संभृत-उचित-संभारे स्व-इष्ट-दैवत-पूजने|
|क्२५|त्३२|श्५
उपागात् च सः तम् राजा सः अपि भिक्षुः विलोक्य तम्|
आनीत-मटकम् हर्षात् उत्थाय उवाच संस्तुवन्|
|क्२५|त्३२|श्६
दुः-करः मे महा-राज विहितः अनुग्रहः त्वया|
त्वा दृशाः क्व क्व चेष्टा इयम् देश-कालौ क्व च ईदृशौ|
|क्२५|त्३२|श्७
निः-कम्पम् सत्यम् एव आहुः मुख्यम् त्वाम् कुल-भू-भृताम्|
एवम् आत्म-अन्-अपेक्षेण पर-अर्थः येन साध्यते|
|क्२५|त्३२|श्८
एतत् एव महत्त्वम् च महताम् उच्यते बुधैः|
प्रतिपन्नात् अचलनम् प्राणानाम् अत्यये अपि यत्|
|क्२५|त्३२|श्९
इति ब्रुवन् सः सिद्ध-अर्थ-मानी भिक्षुः मही-पतेः|
तस्य अवतारयामास स्कन्धात् तम् मटकम् तदा|
|क्२५|त्३२|श्१०
स्नपयित्वा समालभ्य बद्ध-माल्यम् विधाय च|
मटकम् मण्डलस्य अन्तः स्थापयामास तस्य तत्|
|क्२५|त्३२|श्११
भस्म-उद्धूलित-गात्रः च केश-यज्ञ-उपवीत-भृत्|
प्रावृत-प्रेत-वसनः भूत्वा ध्यान-स्थितः क्षणम्|
|क्२५|त्३२|श्१२
तस्मिन् मन्त्र-बल-आहूतम् प्रवेश्य नृ-कलेवरे|
तम् वेताल-वरम् भिक्षुः पूजयामास सः क्रमात्|
|क्२५|त्३२|श्१३
ददौ तस्मै कपाल-अर्घ-पात्रेण अर्घ्यम् सु-निः-मलैः|
नर-दन्तैः ततः पुष्पम् सुगान्धि च विलेपनम्|
|क्२५|त्३२|श्१४
दत्त्वा मानुष-नेत्रैः च धूपम् मांसैः बलिम् तथा|
समाप्य पूजाम् राजानम् तम् उवाच सः पार्श्व-गम्|
|क्२५|त्३२|श्१५
राजन् इह अस्य मन्त्र-अधिराजस्य कृत-संविधेः|
प्रणामम् अङ्गैः अष्टाभिः निपत्य कुरु भू-तले|
|क्२५|त्३२|श्१६
येन अभिप्रेत-सिद्धिम् ते दास्यति एषः वर-प्रदः|
श्रुत्वा एतत् स्मृत-वेताल-वचाः राजा अब्रवीत् सः तम्|
|क्२५|त्३२|श्१७
न अहम् जानामि तत् पूर्वम् प्रदर्शयतु मे भवान्|
ततः तथा एव तत् अहम् करिष्ये भगवन् इति|
|क्२५|त्३२|श्१८
ततः दर्शयितुम् यावत् सः भिक्षुः पतितः भुवि|
तावत् खड्ग-प्रहारेण सः राजा अस्य शिरः अच्चिनत्|
|क्२५|त्३२|श्१९
आचकर्ष च हृत्-पद्मम् उदरात् अस्य पाटितम्|
वेतालाय च तस्मै तत्-शिरः-हृत्-कमलम् ददौ|
|क्२५|त्३२|श्२०
साधु-वादे ततः दत्ते प्रीतैः भूत-गणैः ततः|
तुष्टः अब्रवीत् सः वेतालः नृ-पम् तम् नृ-कलेवरात्|
|क्२५|त्३२|श्२१
राजन् विद्याधर-इन्द्रत्वम् भिक्षोः आसीत् यत् ईप्सितम्|
तत् तावत् भूमि-साम्राज्य-भोग-अन्ते ते भविष्यति|
|क्२५|त्३२|श्२२
क्लेशितः असि मया यत् त्वम् तत् अभीष्टम् वरम् वृणु|
इति उक्तवन्तम् वेतालम् सः राजा तम् अभाषत|
|क्२५|त्३२|श्२३
त्वम् चेत् प्रसन्नः कः नाम न सिद्धः अभिमतः वरः|
तथा अपि अ-मोघ-वचनात् इदम् त्वत्तः अहम् अर्थये|
|क्२५|त्३२|श्२४
आद्याः प्रश्न-कथाः एताः नाना-आख्यान-मनः-रमाः|
चतुर्विंशतिः एषा च पञ्चविंशी समाप्ति-गा|
|क्२५|त्३२|श्२५
सर्वाः ख्याताः भवन्तु एताः पूजनीयाः च भू-तले|
इति तेन अर्थितः राज्ञा वेतालः निजगाद सः|
|क्२५|त्३२|श्२६
एवम् अस्तु विशेषम् च शृणु वच्मि अत्र भू-तले|
याः चतुर्विंशतिः पूर्वाः या एषा च एका समापिनी|
|क्२५|त्३२|श्२७
कथा-आवली इयम् वेतालपञ्चविंशतिक-आख्यया|
ख्याता जगति पूज्या च शिवा च एव भविष्यति|
|क्२५|त्३२|श्२८
यः श्लोक-मात्रम् अपि अस्याः कथयिष्यति स-आदरः|
यः वा श्रोष्यति तौ सद्यः मुक्त-पापौ भविष्यतः|
|क्२५|त्३२|श्२९
यक्ष-वेताल-कूष्माण्ड-डाकिनी-राक्षस-आदयः|
न तत्र प्रभविष्यन्ति यत्र एषा कीर्तयिष्यते|
|क्२५|त्३२|श्३०
इति उक्त्वा सः ययौ तस्मात् निर्गत्य नृ-कलेवरात्|
यथा अभिरुचितम् धाम वेतालः योग-मायया|
|क्२५|त्३२|श्३१
ततः तत्र सुरैः सार्धम् राज्ञः तस्य महेश्वरः|
साक्षात् आविरभूत् तुष्टः प्रणतम् च आदिदेश तम्|
|क्२५|त्३२|श्३२
साधु वत्स हतः अद्य अयम् यत् त्वया कूट-तापसः|
विद्याधर-महा-चक्र-वर्तिता-हठ-कामुकः|
|क्२५|त्३२|श्३३
त्वम् आदौ विक्रमादित्यः सृष्टः अभूः स्व-अंशतः मया|
म्लेच्च-रूप-अवतीर्णानाम् असुराणाम् प्रशान्तये|
|क्२५|त्३२|श्३४
अद्य च उद्दाम-दुः-वृत्त-दमनाय मया पुनः|
त्वम् त्रिविक्रमसेन-आख्यः $हीरः सृष्टः अत्र भू-पतिः|
|क्२५|त्३२|श्३५
अतः स-द्वीप-पातालाम् स्थापयित्वा महीम् वशे|
विद्याधराणम् अ-चिरात् अधिराजः भविष्यसि|
|क्२५|त्३२|श्३६
भुक्त्वा दिव्यान् चिरम् भोगान् उद्विग्नः स्व-इच्चया एव तान्|
त्यक्त्वा मम एव सायुज्यम् अन्ते यास्यसि अ-संशयम्|
|क्२५|त्३२|श्३७
अपराजित-नामानम् खड्गम् च एतम् गृहाण मे|
यस्य प्रसादात् सर्वम् त्वम् प्राप्स्यसि एतत् यथा उदितम्|
|क्२५|त्३२|श्३८
इति उक्त्वा खड्ग-रत्नम् तत् दत्त्वा तस्मै मही-भृते|
वाक्-पुष्प-अभ्यर्चितः तेन देवः शंभुः तिरः-दधे|
|क्२५|त्३२|श्३९
अथ दृष्ट्वा समाप्तम् कार्यम् अ-शेषम् निशि प्रभातायाम्|
प्रविवेश सः त्रिविक्रमसेनः स्व-पुरम् नृ-पः प्रतिष्ठानम्|
|क्२५|त्३२|श्४०
तत्र क्रम-अवगत-रात्रि-विचेष्टिताभिः अभ्यर्चितः प्रकृतिभिः वितत-उत्सवाभिः|
स्नान-प्रदान-गिरिश-अर्चन-नृत्त-गीत-वाद्य-आदिभिः तत् अ-खिलम् सः दिनम् निनाय|
|क्२५|त्३२|श्४१
अल्पैः एव च वासरैः सः नृ-पतिः शार्वस्य वीर्यात् असेः स-द्वीपाम् स-रसा तलाम् च बुभुजे निः-कण्टकाम् मेदिनीम्|
संप्राप्य अथ हर-आज्ञया सु-महतीम् विद्याधर-अधि-ईशताम् भुक्त्वा ताम् सु-चिरम् जगाम भगवत्-सायुज्यम् अन्ते कृती|

