Katha 16 to 20

From Wikisource

Jump to: navigation, search

क्१६|त्२३|श्१
अथ गत्वा पुनः स्कन्धे वेतालम् शिंशपा-द्रुमात्|
सः त्रिविक्रमसेनः तम् आदाय उदचलत् ततः|

|क्१६|त्२३|श्२
आगच्चन्तम् च तम् भू-पम् सः वेतालः अब्रवीत् पुनः|
राजन् शृणु कथाम् एकाम् उदाराम् कथयामि ते|

|क्१६|त्२३|श्३
अस्ति इह हिमवान् नाम नग-इन्द्रः सर्व-रत्न-भूः|
यः गौरी-गङ्गयोः तुल्यः प्रभवः हर-कान्तयोः|

|क्१६|त्२३|श्४
शूर-अ-संस्पृष्ट-स्प्र्ष्ठः च यः मध्ये कुल-भू-भृताम्|
अभिमान-उन्नतः सत्यम् गीयते भुवन-त्रये|

|क्१६|त्२३|श्५
तस्य अस्ति सानुनि अनु-अर्थम् तत् काञ्चनपुरम् पुरम्|
न्यासी-कृतम् इव अर्केण रश्मि-वृन्दम् विभाति यत्|

|क्१६|त्२३|श्६
जीमूतकेतुः इति आसीत् तस्मिन् पुर-वरे पुरा|
विद्याधर-ईश्वरः श्रीमान् मेरौ इव शत-क्रतुः|

|क्१६|त्२३|श्७
तस्य आसीत् स्व-गृह-उद्याने कल्प-वृक्षः अन्वय-आगतः|
यथा-अर्थ-नामा प्रथितः यः मनः-रथ-दायकः|

|क्१६|त्२३|श्८
तम् प्रार्थ्य देवता-आत्मानम् सः राजा तत् प्रसादतः|
प्राप जाति-स्मरम् पुत्रम् बोधि-सत्त्व-अंश-संभवम्|

|क्१६|त्२३|श्९
दान-वीरम् महा-सत्त्वम् सर्व-भूत-अनुकम्पिनम्|
गुरु-शुश्रूषण-परम् नाम्ना जीमूतवाहनम्|

|क्१६|त्२३|श्१०
संप्राप्त-यौवनम् तम् च यौवराज्ये अभिषिक्तवान्|
तनयम् प्रेरितः सद्भिः तत्-गुणैः सचिवैः च सः|

|क्१६|त्२३|श्११
यौवराज्य-स्थितः च एषः जातु जीमूतवाहनः|
हित-एषिभिः उपागत्य जगदे पितृ-मन्त्रिभिः|

|क्१६|त्२३|श्१२
देव कल्प-तरुः यः अयम् अस्ति वः सर्व-काम-दः|
अ-धृष्यः सर्व-भूतानाम् सः एषः पूज्यः सदा तव|

|क्१६|त्२३|श्१३
न अस्मिन् सति हि शक्रः अपि बाधेत अस्मान् कुतः अपरः|
एतत् श्रुत्वा सः जीमूतवाहनः अन्तरचिन्तयत्|

|क्१६|त्२३|श्१४
अहो बत ईदृशम् इमम् संप्राप्य अ-मर-पाद-पम्|
न आसादितम् किम् अपि अस्मात् पूर्वैः नः तादृशम् फलम्|

|क्१६|त्२३|श्१५
केवलम् कैः-चित् अपि अर्थैः अर्थितैः कृपण-उचितैः|
आत्मा च एषः महा-आत्मा च नीतौ द्वौ अपि लाघवम्|

|क्१६|त्२३|श्१६
तत् अहम् साधयीष्यामि कामम् अस्मात् मनः-गतम्|
इति निश्चित्य सः ययौ महा-सत्त्वः अन्तिकम् पितुः|

|क्१६|त्२३|श्१७
तत्र संविहित-अ-शेष-शुश्रूषा-परितोषितम्|
सुख-आसीनम् तम् एक-अन्ते पितरम् सः व्यजिज्ञपत्|

|क्१६|त्२३|श्१८
तत त्वम् एव जानासि यत् एतस्मिन् भव-अम्बु-धौ|
आ-शरीरम् इदम् सर्वम् वीचि-विभ्रम-चञ्चलम्|

|क्१६|त्२३|श्१९
विशेषेन अ-चिर-स्थायि-प्रकाश-प्रविलायिनी|
संध्या विद्युत् च लक्ष्मीः च दृष्टा कुत्र कदा स्थिरा|

|क्१६|त्२३|श्२०
एकः पर-उपकारः तु संसारे अस्मिन् अ-नश्वरः|
यः धर्म-यशसी सूते युग-अन्त-शत-साक्षिणी|

|क्१६|त्२३|श्२१
तत् तात क्षणिकेषु एषु भोगेषु अस्माभिः ईदृशः|
एषः कल्प-तरुः कस्य कृते मोघः अभिरक्ष्यते|

|क्१६|त्२३|श्२२
यैः वा मम मम इति एवम् आग्रहेन एषः रक्षितः|
पूर्वैः ते कुत्र कुत्र अयम् तेषाम् कः च एषः कः अस्य वा|

|क्१६|त्२३|श्२३
तस्मात् पर-उपकार-एक-फल-सिद्ध्यै त्वत्-आज्ञया|
तात एनम् विनियुञ्जे अहम् काम-दम् कल्प-पाद-पम्|

|क्१६|त्२३|श्२४
एवम् अस्तु इति पित्रा च दत्त-अनुज्ञः अथ तेन सः|
जीमूतवाहनः गत्वा कल्प-द्रुमम् उवाच तम्|

|क्१६|त्२३|श्२५
अभीष्टाः पूरिताः कामाः पूर्वेषाम् देव नः त्वया|
तत् मम एकम् इमम् कामम् अन्-अन्यम् परिपूरय|

|क्१६|त्२३|श्२६
अ-दरिद्राम् यथा पृथ्वीम् इमाम् द्रक्ष्ये तथा कुरु|
भद्रम् ते व्रज दत्तः असि लोकाय अर्थ-अर्थिने मया|

|क्१६|त्२३|श्२७
इति उक्तवति जीमूतवाहने रचित-अञ्जलौ|
त्यक्तः त्वया एषः जातः अस्मि इति उदभूत् वाक् तरोः ततः|

|क्१६|त्२३|श्२८
क्षणात् च उत्पत्य सः दिवम् कल्प-वृक्षः तथा वसु|
ववर्ष भुवि न एव आसीत् कः अपि अस्याम् दुः-गतः यथा|

|क्१६|त्२३|श्२९
ततः तस्य तया तीवृअ-सर्व-सत्त्व-अनुकम्पया|
जीमूतवाहनस्य अत्र त्रैलोक्ये पप्रथे यशः|

|क्१६|त्२३|श्३०
तेन तत्-गोत्र-जाः सर्वे मात्सर्यात् अ-सहिष्णवः|
तम् लोकसात्-कृत-आर्ति-घ्न-कल्प-वृक्ष-विना-कृतम्|

|क्१६|त्२३|श्३१
जेयम् स-पितृकम् मत्वा संभूय कृत-निश्चयाः|
युद्धाय समनह्यन्त तत् राज्य-अपजिहीर्षया|

|क्१६|त्२३|श्३२
तत् दृष्ट्वा प्राह पितरम् स्वम् सः जीमूतवाहनः|
तात कस्य अपरस्य अस्ति शक्तिः त्वयि धृत-आयुधे|

|क्१६|त्२३|श्३३
किम् तु अस्य पापकस्य अर्थे शरीरस्य विनाशिनः|
हत्वा बन्धून् अ-कृपनः राज्यम् कः नाम वाञ्चति|

|क्१६|त्२३|श्३४
तत् किम् राज्येन नः कार्यम् गत्वा अन्यत्र क्व-चित् वयम्|
धर्मम् एव चरिष्यामः लोक-द्वय-सुख-आवहम्|

|क्१६|त्२३|श्३५
मोदन्ताम् कृपणाः एते दायादाः राज्य-लोलुपाः|
इति उक्तवन्तम् जीमूतकेतुः तम् सः पिता अब्रवीत्|

|क्१६|त्२३|श्३६
अहम् त्वत्-अर्थम् इच्चामि राज्यम् पुत्र त्वम् एव चेत्|
तत् जहासि कृपा-आविष्टः तत् मे वृद्धस्य तेन किम्|

|क्१६|त्२३|श्३७
एवम् कृत-अभ्यनुज्ञेन पित्रा मात्रा च सः अन्वितः|
मलय-अद्रिम् अगात् त्यक्त-राज्यः जीमूतवाहनः|

|क्१६|त्२३|श्३८
तत्र चन्दन-संचन्न-वहत् निः-झर-कन्दरे|
शुश्रूषमाणः पितरम् सः तस्थौ कल्पित-आश्रमः|

|क्१६|त्२३|श्३९
मित्रम् च अस्य अत्र संपेदे मित्रावसुः इति श्रुतः|
विश्वावसोः सुतः सिद्ध-राजस्य एतत्-निवासिनः|

|क्१६|त्२३|श्४०
एकदा च अत्र सः भ्राम्यन् विवेश उपवन-स्थितम्|
द्रष्टुम् आयतनम् देव्याः गौर्याः जीमूतवाहनः|

|क्१६|त्२३|श्४१
तत्र उपवीणयन्तीम् च ददर्श वर-कन्यकाम्|
सखी-जन-अन्विताम् शैल-तनया-आराधन-उद्यताम्|

|क्१६|त्२३|श्४२
आकर्ण्यमान-संगीत-मञ्जु-वीणा-रवाम् मृगैः|
दृष्ट-लोचन-लावन्य-लज्जितैः इव निः-चलैः|

|क्१६|त्२३|श्४३
दधता तारकम् कृष्णम् अर्जुनेन स्व-चक्षुषा|
पाण्डवीयाम् इव चमूम् कर्ण-मूलम् विविक्षतीम्|

|क्१६|त्२३|श्४४
परः-पर-विमर्देन मुख-इन्दोः इव दर्शनम्|
अ-तृप्तौ इव वाञ्चन्तौ बिभ्रन्तीम् संमुखौ स्तनौ|

|क्१६|त्२३|श्४५
धातुः घटयतः मुष्टि-ग्रहेण इव निपीडिते|
वली-मग्न-अङ्गुली-मुद्रे मध्ये क्षाम-मनः-रमाम्|

|क्१६|त्२३|श्४६
दृष्टया च तया सद्यः सः अभूत् जीमूतवाहनः|
तन्व्या मुषित-चित्तः अन्तः दृष्टि-मार्ग-प्रविष्टया|

|क्१६|त्२३|श्४७
सा अपि तम् भूषित-उद्यानम् दृष्ट्वा उत्कण्ठा-विकार-दम्|
काम-अङ्ग-दाह-वैराग्यात् वनम् मधुम् इव आश्रितम्|

|क्१६|त्२३|श्४८
तथा अनुराग-विवशा भेजे कन्या विहस्तताम्|
यथा सखी इव वीणा अस्याः व्याकुला आलापताम् ययौ|

|क्१६|त्२३|श्४९
ततः सः पप्रच्च सखीम् तस्याः जीमूतवाहनः|
किम् धन्यम् नाम सख्याः ते कः वंशः अलंकृतः अनया|

|क्१६|त्२३|श्५०
तत् श्रुत्वा सा सखी प्राह नाम्ना मलयवती असौ|
मित्रावसु-स्वसा सिद्ध-राज-विश्वावसोः सुता|

|क्१६|त्२३|श्५१
एवम् उक्त्वा स-हृदया सा तम् जीमूतवाहनम्|
नाम-अन्वयौ च पृष्ट्वा अस्य मुनि-पुत्रम् सह-आगतम्|

|क्१६|त्२३|श्५२
ताम् ब्रवीति स्म मलयवतीम् स्मित-मित-अक्षरम्|
सखि विद्याधर-इन्द्रस्य न अस्य आतिथ्यम् करोषि किम्|

|क्१६|त्२३|श्५३
जगत्-पूज्यः अतिथिः हि एषः प्राप्तः इति उदिते तया|
सा अभूत् विद्याधर-सुता तूष्णीम् लज्जा-आनत-आनना|

|क्१६|त्२३|श्५४
लज्जा-वती इयम् मत्तः अर्चा गृह्यताम् इति वादिनी|
एका अथ तत् सखी तस्मै स-अर्घ्याम् मालाम् उपानयत्|

|क्१६|त्२३|श्५५
सः च आदाय एव जीमूतवाहनः प्रेम-निः-भरः|
कण्ठे मलयवत्याः ताम् मालाम् तस्याः समर्पयत्|

|क्१६|त्२३|श्५६
सा अपि तिर्यक्-प्रसृतया पश्यन्ती स्निग्धया दृशा|
नील-उत्पलमयीम् मालाम् इव तस्मिन् न्यवेशयत्|

|क्१६|त्२३|श्५७
इति अन्यः-अन्य-कृत-अ-शब्द-स्वयम्-वर-विशेषयोः|
तयोः एत्य जगाद एका चेटी ताम् सिद्ध-कन्यकाम्|

|क्१६|त्२३|श्५८
जननी राज-पुत्रि त्वाम् स्मरति आगच्च मा-चिरम्|
तत् श्रुत्वा आकृष्य काम-इषु-कीलिताम् इव कृच्च्रतः|

|क्१६|त्२३|श्५९
स-उत्काम् प्रिय-मुखात् दृष्टिम् कथम्-चित् सा ययौ गृहम्|
जीमूतवाहनः अपि आगात् तत् नत-आत्मा स्वम्-आश्रमम्|

|क्१६|त्२३|श्६०
सा अथ स्वाम् जननीम् दृष्टा प्राण-ईश-विरह-आतुरा|
गत्वा मलयवती आशु पपात शयनीयके|

|क्१६|त्२३|श्६१
अथ अन्तर्गत-काम-अग्नि-धूमेन इव आविल-ईक्षणा|
अश्रु-धाराम् प्रमुञ्चन्ती संताप-क्वथित-अङ्गका|

|क्१६|त्२३|श्६२
सखीभिः चन्दनैः लिप्ता वीजिता च अब्जिनि-दलैः|
रतिम् न भेजे शयने न अङ्के सख्याः न भू-तले|

|क्१६|त्२३|श्६३
गते अथ वासरे क्व-अपि रक्तया सह संध्यया|
हसत्-प्राची-मुखम् चन्द्रे समाक्रम्य च चुम्बति|

|क्१६|त्२३|श्६४
स्मरेण प्रेर्यमाणा अपि दूती-संप्रेषण-आदि सा|
लज्जया न अशकत् कर्तुम् जीवित-स्पृहया उज्झिता|

|क्१६|त्२३|श्६५
निनाय च निशाम् इन्दु-विषमाम् अब्जिनी इव ताम्|
बद्ध-मोह-अलि-पटले हृदि संकोचम् एत्य सा|

|क्१६|त्२३|श्६६
तावत् च तत्-वियोग-आर्तः सः अपि जीमूतवाहनः|
शयन-स्थः अपि पतितः हस्ते कुसुम-धन्वनः|

|क्१६|त्२३|श्६७
नूतन-उद्भिन्न-रागः अपि प्रोन्मिषत्-पाण्डुर-चविः|
ह्री-मूकः अपि वदन् पीडाम् काम-जाम् अनयत् निशाम्|

|क्१६|त्२३|श्६८
प्रातः च अत्युत्सुकः भूयः तत् गौरी-आयतनम् ययौ|
यत्र दृष्टा अभवत् तेन सा सिद्ध-अधिप-पुत्रिका|

|क्१६|त्२३|श्६९
तत्र तेन सः मित्रेण मुनि-पुत्रेण पृष्ठतः|
आगत्य आश्वास्यते यावत् मदन-अनल-विह्वलः|

|क्१६|त्२३|श्७०
तावत् तत्र एव सा अपि आगात् निर्गत्य एका एव निः-जने|
गुप्तम् मलयवती आत्म-त्यागाय विरह-अ-सहा|

|क्१६|त्२३|श्७१
अ-लक्षयन्ती कान्तम् स्वम् पाद-प-अन्तरितम् च सा|
उदश्रु-लोचना बाला देवीम् गौरीम् व्यजिज्ञपत्|

|क्१६|त्२३|श्७२
त्वत्-भक्त्या देवि संवृत्तः न अस्मिन् जन्मनि चेत् मम|
जीमूतवाहनः भर्ता तत् भूयात् सः अन्य-जन्मनि|

|क्१६|त्२३|श्७३
इति उक्त्वा रचयामास स्व-उत्तरीयेण तत् क्षणम्|
अशोक-तरु-शाखायाम् पाशम् सा गिरि-जा-अग्रतः|

|क्१६|त्२३|श्७४
हा नाथ विश्व-विख्यात-करुणेन अपि न त्वया|
कथम् अस्मि परित्राता देव जीमूतवाहन|

|क्१६|त्२३|श्७५
एवम् उक्त्वा गले यावत् सा तम् पाशम् नियच्चति|
उच्चचार दिवः तावत् भारती देवी-उदीरिता|

|क्१६|त्२३|श्७६
पुत्रि मा साहसम् कार्षीः चक्र-वर्ती पतिः तव|
विद्याधर-इन्द्रः जीमूतवाहनः हि भविष्यति|

|क्१६|त्२३|श्७७
इति उक्तवत्याम् देव्याम् सः श्रुत्वा एव स-वयस्यकः|
जीमूतवाहनः हृष्टाम् प्रियाम् उपजगाम ताम्|

|क्१६|त्२३|श्७८
सः एषः देव्या वरः पश्य वितीर्णः सत्यः एव ते|
इति जल्पति बालाम् ताम् तत्-मित्रे मुनि-पुत्रके|

|क्१६|त्२३|श्७९
जीमूतवाहनः तत् तत् ब्रुवन् प्रणय-पेशलम्|
स्व-हस्तेन एव तम् तस्याः कण्ठात् पाशम् अपानयत्|

|क्१६|त्२३|श्८०
ततः अकस्मात् सुधा-वर्षम् इव मन्वानयोः तयोः|
भुवम् मलयवत्याम् च लिखन्त्याम् ह्रीतया दृशा|

|क्१६|त्२३|श्८१
चिन्वाना आगत्य सहसा सखी हृष्टा जगाद ताम्|
सखि कल्याणिनी दिष्ट्या वर्धसे अभीष्ट-सिद्धितः|

|क्१६|त्२३|श्८२
अद्य एव हि महा-राजः तव विश्वावसुः पिता|
कुमार-मित्रावसुना विज्ञप्तः संनिधौ मम|

|क्१६|त्२३|श्८३
इह आगतः जगत्-मान्यः तात कल्प-तरु-प्रदः|
विद्याधर-इन्द्र-तनयः यः अयम् जीमूतवाहनः|

|क्१६|त्२३|श्८४
अतिथित्वात् सः नः पूज्यः वरः च अन्यः न तादृशः|
तस्मात् मलयवत्या असौ कन्या-रत्नेन पूज्यताम्|

|क्१६|त्२३|श्८५
तथा इति श्रद्धिते राज्ञा भ्राता मित्रावसुः सः ते|
तादर्थ्येन महा-भागस्य अस्य आश्रम-पदम् गतः|

|क्१६|त्२३|श्८६
जाने सद्यः च भावी ते विवाहः तत् स्व-मन्दिरम्|
आयाहि यातु च एषः अपि महा-भागः स्वम् आस्पदम्|

|क्१६|त्२३|श्८७
इति उक्ता सा तया सख्या राज-पुत्री शनैः ततः|
ययुः स-हर्षा स-उत्का च मुहुः-वलित-कंधरा|

|क्१६|त्२३|श्८८
जीमूतवाहनः अपि आशु गत्वा स्व-आश्रमम् आगतात्|
मित्रावसोः यथा-अभीष्टम् कार्यम् श्रुत्वा अभिनन्द्य च|

|क्१६|त्२३|श्८९
जाति-स्मरः समाचख्यौ तस्मै स्वम् पूर्व-जन्म सः|
यत्र मित्रम् सः तस्य आसीत् सा च भार्या एव तत्-स्वसा|

|क्१६|त्२३|श्९०
ततः मित्रावसुः प्रीतः तत्-पित्रोः परितुष्यतोः|
आवेद्य गत्वा पितरौ कृत-अर्थः स्वौ अनन्दयत्|

|क्१६|त्२३|श्९१
निनाय च तदा एव स्वान् गृहान् जीमूतवाहनम्|
चक्रे च उत्सव-संभारम् स्व-सिद्धि-उचित-वैभवम्|

|क्१६|त्२३|श्९२
तस्मिन् एव च धन्ये अह्नि तस्य विद्याधर-प्रभोः|
स्वसुः मलयवत्याः च विवाहम् समपादयन्|

|क्१६|त्२३|श्९३
ततः नव-ऊढया साकम् तया जीमूतवाहनः|
तस्थौ मलयवत्या सः तत्र सिद्ध-मनः-रथः|

|क्१६|त्२३|श्९४
एकदा कौतुकात् च अत्र सः मित्रावसुना सह|
मलय-अद्रौ भ्रमन् अप्-धेः वेला-वनम् उपेयिवान्|

|क्१६|त्२३|श्९५
तत्र अस्थि-राशीन् सु-बहून् दृष्ट्वा मित्रावसुम् सः तम्|
केषाम् एते अस्थि-संघाताः प्राणिनाम् इति पृष्टवान्|

|क्१६|त्२३|श्९६
ततः मित्रावसुः श्यालः तम् कारुणिकम् अब्रवीत्|
शृणु वृत्त-अन्तम् अत्र इमम् संक्षेपात् वर्णयामि ते|

|क्१६|त्२३|श्९७
नाग-माता पुरा कद्रूः विनताम् तार्क्ष्य-मातरम्|
निनाय किल दासत्वम् स-व्याज-पण-निर्जिताम्|

|क्१६|त्२३|श्९८
तेन वैरेण गरुडः ताम् उन्मोच्य अपि मातरम्|
बली भक्षयितुम् नागान् कद्रू-पुत्रान् प्रचक्रमे|

|क्१६|त्२३|श्९९
सदा प्रविश्य पातालम् सः अथ कान्-चित् जघास तान्|
कान्-चित् ममर्द के-चित् तु स्वयम् त्रासात् विपेदिरे|

|क्१६|त्२३|श्१००
तत् दृष्ट्वा एक-पदे सर्व-क्षयम् आशङ्क्य नाग-राट्|
वासुकिः प्रार्थना-पूर्वम् तार्क्ष्यस्य समयम् व्यधात्|

|क्१६|त्२३|श्१०१
एकम् एकम् अहम् नागम् आहार-अर्थम् ख-ग-इन्द्र ते|
प्रति-अहम् प्रेषयामि अत्र पुलिने दक्षिण-उद-धेः|

|क्१६|त्२३|श्१०२
त्वया तु न प्रवेष्टव्यम् पाताले अस्मिन् कथम्-चन|
कः हि स्व-अर्थः विनष्टेषु नागेषु एक-पदे तव|

|क्१६|त्२३|श्१०३
इति उक्ते नाग-राजेन समयम् प्रत्यपद्यत|
स्व-अर्थ-दर्शी तथा इति एव गरुडः गुरु-विक्रमः|

|क्१६|त्२३|श्१०४
तदा-प्रभृति च एक-एकम् नागम् भुङ्क्ते दिने दिने|
वासुकि-प्रेषितम् सः अत्र ख-ग-इन्द्रः पुलिने अम्बु-धेः|

|क्१६|त्२३|श्१०५
अतः तत्-भक्ष्यमाणानाम् नागनाम् अस्थि-संचयाः|
एते अत्र गिरि-शृङ्ग-आभाः वृद्धिम् काल-क्रमात् गताः|

|क्१६|त्२३|श्१०६
इति मित्रावसोः वक्त्रात् स-अन्तः-दुःखः निशम्य सः|
निजगाद दया-धैर्य-निधिः जीमूतवाहनः|

|क्१६|त्२३|श्१०७
शोच्यः सः वासुकिः राजा यः स्व-हस्तेन विद्विषे|
उपहारी-करोति स्वाः प्रजाः क्लीबः दिने दिने|

|क्१६|त्२३|श्१०८
धृत-आनन-सहस्रः सन् एकेन अपि आननेन सः|
माम् आदौ भुङ्क्ष्व तार्क्ष्य इति भाषितुम् न अशकत् कथम्|

|क्१६|त्२३|श्१०९
कथम् च अभ्यर्थयामास निः-सत्त्वः स्व-कुल-क्षयम्|
तार्क्ष्यम् नाग-अङ्गना-क्रन्द-नित्य-आकर्णन-निः-घृणः|

|क्१६|त्२३|श्११०
तार्क्ष्यः अपि काश्यपिः वीरः कृष्ण-अधिष्ठान-पावनः|
ईदृशम् कुरुते पापम् अहो मोहस्य गाढता|

|क्१६|त्२३|श्१११
इति उक्त्वा सः महा-सत्त्वः हृदि चक्रे मनः-रथम्|
अपि अ-सारेण देहेन सारम् अत्र आप्नुयाम् अहम्|

|क्१६|त्२३|श्११२
एकस्य अपि अद्य नागस्य कुर्याम् जीवित-रक्षणम्|
अ-बान्धवस्य भीतस्य दत्त्वा आत्मानम् गरुत्मते|

|क्१६|त्२३|श्११३
इति संचिन्तयति एव तस्मिन् जीमूतवाहने|
मित्रावसोः पितुः पार्श्वात् क्षत्ता आह्वान-अर्थम् आययौ|

|क्१६|त्२३|श्११४
व्रज त्वम् अहम् एष्यामि पश्चात् इति ततः च तम्|
मित्रावसुम् सः जीमूतवाहनः व्यसृजत् गृहम्|

|क्१६|त्२३|श्११५
गते तस्मिन् सः च अत्र एकः वाञ्चित-अर्थ-उन्मुखः भ्रमन्|
कृपालुः अशृनोत् दूरात् करुणम् रुदित-ध्वनिम्|

|क्१६|त्२३|श्११६
गत्वा ददर्श च उत्तुङ्ग-शिला-तल-समीप-गम्|
युवानम् एकम् पुरुषम् दुःखितम् सुन्दर-आकृतिम्|

|क्१६|त्२३|श्११७
पुंसा राज-भटेन इव त्यक्तम् आनीय तत् क्षणम्|
निवर्तयन्तम् रुदतीम् वृद्धाम् स-अनुनयम् स्त्रियम्|

|क्१६|त्२३|श्११८
कः अयम् स्यात् इति यावत् च जिज्ञासुः सः अत्र तिष्ठति|
करुणा-आकुलितः चन्नः शृण्वन् जीमूतवाहनः|

|क्१६|त्२३|श्११९
तावत् सा तत्र वृद्धा स्त्री दुःख-भार-अतिपीडिता|
प्रावर्तत युवानम् तम् दृष्ट्वा दृष्ट्वा अनुशोचितुम्|

|क्१६|त्२३|श्१२०
हा शङ्खचूड हा दुःख-शत-संप्राप्त हा गुणिन्|
कुल-एक-तन्तो हा पुत्र क्व त्वाम् द्रक्ष्यामि अहम् पुनः|

|क्१६|त्२३|श्१२१
वत्स त्वत्-मुख-चन्द्रे अस्मिन् गते अस्तम् सः पिता तव|
सोक-अन्ध-कार-पतितः कथम् वृद्धः भविष्यति|

|क्१६|त्२३|श्१२२
अथ अर्क-कर-संस्पर्शात् अङ्गम् दूयेत यत् तव|
कथम् शक्ष्यति तत् सोढुम् तार्क्ष्य-भक्षण-जाम् रुजम्|

|क्१६|त्२३|श्१२३
विस्तीर्णे नाग-लोके अपि धात्रा नाग-अधिपेन च|
लब्धः त्वम् किम् अभव्यायाः विचित्य एक-सुतः मम|

|क्१६|त्२३|श्१२४
इति ताम् विलपन्तीम् च सः युवा तनयः अब्रवीत्|
दुःख-आर्तम् अपि माम् अम्ब किम् दुःखयसि हा भृशम्|

|क्१६|त्२३|श्१२५
निवर्तस्व गृहान् एषः प्रणामः पश्चिमः तव|
इह आगमन-वेला हि भवेत् जातु गरुत्मतः|

|क्१६|त्२३|श्१२६
तत् श्रुत्वा हा हता अस्मि इह कः मे पास्यति पुत्रकम्|
इत चक्रन्द सा वृद्धा दिक्षु क्षिप्त-आर्त-लोचना|

|क्१६|त्२३|श्१२७
तावत् च बोधि-सत्त्व-अंशः सः तत् जीमूतवाहनः|
श्रुत्वा दृष्ट्वा च कृपया गाढ-आक्रान्तः व्यचिन्तयत्|

|क्१६|त्२३|श्१२८
हन्त अयम् शङ्खचूड-आख्यः नागः वासुकिना बत|
आहार-हेतोः तार्क्ष्यस्य तपस्वी प्रेषितः अधुना|

|क्१६|त्२३|श्१२९
इयम् च एतस्य जननी स्नेहेन इह अन्वक् आगता|
एतत्-एक-सुता वृद्धा दुःख-दीन-प्रलापिनी|

|क्१६|त्२३|श्१३०
तत् एनम् एकम् आर्तम् चेत् देहेन एक-अन्त-नाशिना|
रक्षामि न अमुना नागम् तत् मे धिक् जन्म निः-फलम्|

|क्१६|त्२३|श्१३१
इति आलोच्य उपगम्य एव मुदा जीमूतवाहनः|
वृद्धाम् उवाच ताम् मातः पुत्रम् रक्षामि अहम् तव|

|क्१६|त्२३|श्१३२
तत् श्रुत्वा भावित-भया वृद्धा गरुड-शङ्खिनी|
संत्रस्ता तार्क्ष्य माम् भुङ्क्ष्व माम् भुङ्क्ष्व इति जगाद सा|

|क्१६|त्२३|श्१३३
शङ्खचूडः ततः अवादीत् न एषः तार्क्ष्यः अम्ब मा त्रसीः|
क्व अयम् चन्द्रः इव आह्लादी क्व सः तार्क्ष्यः भयं-करः|

|क्१६|त्२३|श्१३४
इति उक्ते शङ्खचूडेन प्राह जीमूतवाहनः|
विद्याधरः अहम् आयातः राक्षितुम् सुतम् अम्ब ते|

|क्१६|त्२३|श्१३५
दास्यामि हि शरीरम् स्वम् वस्त्र-चन्नम् गरुत्मते|
क्षुधिताय प्रयाहि त्वम् आदाय एनम् सुतम् गृहम्|

|क्१६|त्२३|श्१३६
तत् श्रुत्वा सा अब्रवीत् वृद्धा मा एवम् त्वम् हि अधिकः मम|
पुत्रः यस्य ईदृशे काले कृपा-अस्मासु इयम् ईदृशी|

|क्१६|त्२३|श्१३७
एतत् श्रुत्वा सः जीमूतवाहनः पुनः अब्रवीत्|
न मे मनः-रथस्य अस्य भङ्गम् कर्तुम् इह अर्हथ|

|क्१६|त्२३|श्१३८
ग्रहात् एवम् ब्रुवाणम् च शङ्खचूडः जगाद तम्|
दर्शिता एव महा-सत्त्व त्वया सत्यम् कृपालुता|

|क्१६|त्२३|श्१३९
न तु अहम् त्वत्-शरीरेण रक्ष्यामि स्व-शरीरकम्|
रत्न-व्ययेन पाषाणम् कः हि रक्षितुम् अर्हति|

|क्१६|त्२३|श्१४०
मादृशैः तु जगत् पूर्णम् स्व-आत्म-मात्र-अनुकम्पिभिः|
अनुकम्प्यम् जगत् येषाम् विरलाः ते भवादृशाः|

|क्१६|त्२३|श्१४१
न च अहम् मलिनी-कर्तुम् शङ्खपाल-कुलम् शुचि|
कलङ्कः इव तीक्ष्ण-अंशु-बिम्बम् शक्ष्यामि सत्-मते|

|क्१६|त्२३|श्१४२
इति तम् प्रतिषिध्य एव शङ्खचूडः स्व-मातरम्|
जगाद अम्ब निवर्तस्व कान्तारात् दुः-गमात् इतः|

|क्१६|त्२३|श्१४३
न पश्यसि किम् अत्र एतत् नाग-असृक्-कर्दम-उक्षितम्|
कृत-अन्त-लीला-पर्यङ्क-रौद्रम् वध्य-शिला-तलम्|

|क्१६|त्२३|श्१४४
अहम् च अप्-धि-तटे गत्वा नत्वा गोकर्णम् ईश्वरम्|
आगच्चामि द्रुतम् यावत् न आयाति गरुडः अत्र सः|

|क्१६|त्२३|श्१४५
इति उक्त्वा कृपण-आक्रन्दाम् प्रणम्य आपृच्च्य मातरम्|
सः गोकर्ण-प्रणाम-अर्थम् शङ्खचूडः ययौ ततः|

|क्१६|त्२३|श्१४६
अस्मिन् चेत् अन्तरे प्राप्तः तार्क्ष्यः सिद्धः मम ईप्सितः|
पर-अर्थ इति जीमूतवाहनः अपि अकरोत् हृदि|

|क्१६|त्२३|श्१४७
तावत् च आसन्न-पक्षि-इन्द्र-पक्ष-अनिल-चलान् तरून्|
विलोक्य अत्र सः मा मा इति निवारण-परान् इव|

|क्१६|त्२३|श्१४८
मत्वा गरुड-वेलाम् च प्राप्ताम् जीमूतवाहनः|
पर-अर्थ-प्राण-दः वध्य-शिलाम् अध्यारुरोह ताम्|

|क्१६|त्२३|श्१४९
पवन-आघूर्णिते च अप्-धौ स्फुरद्-रत्न-प्रभा-दृशा|
तम् सत्त्व-अतिशयम् तस्य पश्यति इव स-विस्मयम्|

|क्१६|त्२३|श्१५०
आगत्य आच्चादित-नभाः निपत्य एतत्-शिला-तलात्|
चञ्च्वा गरुत्मान् आहत्य महा-सत्त्वम् जहार तम्|

|क्१६|त्२३|श्१५१
स्रुत-असृक्-धारम् उत्खात-शिरः-रत्नम् च तम् जवात्|
नीत्वा भक्षयितुम् शृङ्गे मलय-अद्रेः प्रचक्रमे|

|क्१६|त्२३|श्१५२
एवम् एव पर-अर्थाय देहः स्यात् प्रति-जन्म मे|
मा भूताम् स्वर्ग-मोक्षौ तु पर-उपकृति-वर्जितौ|

|क्१६|त्२३|श्१५३
इति तार्क्ष्य-अद्यमानस्य तस्य अनुध्यायतः तदा|
विद्याधर-इन्दोः अपतत् पुष्प-वृष्टिः नभः-तलात्|

|क्१६|त्२३|श्१५४
अत्र-अन्तरे सः तत् रक्त-धारा-स्रव-शिरः-मणिः|
तस्याः मलयवत्याः च तत्-पत्न्याः प्रापतत् पुरः|

|क्१६|त्२३|श्१५५
सा तत् दृष्ट्वा परिज्ञाय चूडा-रत्नम् सु-विह्वला|
अन्तिक-स्था श्वशुरयोः ताभ्याम् स-अश्रुः अदर्शयत्|

|क्१६|त्२३|श्१५६
तौ च जाया-पती सूनोः शिरः-रत्नम् विलोक्य तम्|
किम् एतत् इति संभ्रान्तौ सहसा एव बभूवतुः|

|क्१६|त्२३|श्१५७
ततः स्व-विद्या-अनुध्यानात् यथा-वृत्तम् अवेत्य तत्|
राजा जीमूतकेतुः सा राज्नी कनकवती अपि|

|क्१६|त्२३|श्१५८
वध्वा मलयवत्या तौ प्रावर्तेताम् सह द्रुतम्|
गन्तुम् तत्र एव तौ यत्र तार्क्ष्य-जीमूतवाहनौ|

|क्१६|त्२३|श्१५९
तावत् सः शङ्खचूडः अत्र नत्वा गोकर्णम् आगतः|
ददर्श रुधिर-अर्द्रम् तत् विग्नः वध्य-शिला-तलम्|

|क्१६|त्२३|श्१६०
हा हतः अस्मि महा-पापः ध्रुवम् तेन महा-आत्मना|
आत्मा गरुत्मते दत्तः मत्-कृते सु-कृपालुना|

|क्१६|त्२३|श्१६१
तत् अन्विष्यामि नीतः सः क्षणे अस्मिन् क्व अहि-वैरिणा|
मज्जेयम् न अ-यशः-पङ्के जीवन्तम् चेत् तम् आप्नुयाम्|

|क्१६|त्२३|श्१६२
इति उदश्रुः वदन् सः अथ साधुः दृष्ट्वा निः-अन्तराम्|
पतिताम् भुवि तत्-रक्त-धाराम् अनुसरन् ययौ|

|क्१६|त्२३|श्१६३
अत्र-अन्तरे भक्षयन् तम् दृष्ट्वा जीमूतवाहनम्|
हृष्टम् विरम्य गरुडः चिन्तयामास तत् क्षणम्|

|क्१६|त्२३|श्१६४
अहो अ-पूर्वः कः अपि एषः भक्ष्यमानः अपि यः मया|
प्रहृष्यति महा-सत्त्वः न तु प्राणैः वियुज्यते|

|क्१६|त्२३|श्१६५
बिभर्ति लुप्त-शेषे च गात्रे रोम-अञ्च-कञ्चुकम्|
किम् च उपकारिणि इव अस्य मयि दृष्टिः प्रसीदति|

|क्१६|त्२३|श्१६६
तत् न एषः नागः कः अपि एषः साधुः पृच्चामि न अद्मि अमुम्|
इति तार्क्ष्यम् विमृश्यन्तम् प्राह जीमूतवाहनः|

|क्१६|त्२३|श्१६७
पक्षि-इन्द्र किम् निवृत्तः असि न हि मे मांस-शोणितम्|
देहे न अस्ति न च अद्य अपि परितृप्तः असि बुङ्क्ष्व तत्|

|क्१६|त्२३|श्१६८
एतत् श्रुत्वा अति-स-आश्चर्यः तम् पप्रच्च सः पक्षि-राट्|
नागः न एव असि तत् ब्रूहि महा-आत्मन् कः भवान् इति|

|क्१६|त्२३|श्१६९
नागः एव अस्मि कः अयम् ते प्रश्नः प्रकृतम् आचर|
प्रस्तुत-अर्थ-विरुद्धम् हि कः अभिदध्यात् अ-बालिशः|

|क्१६|त्२३|श्१७०
एवम् प्रतिवदति एव तार्क्ष्यम् जीमूतवाहने|
प्राप्तः सः शङ्खचूडः अत्र दूरात् एव अभ्यभाषत|

|क्१६|त्२३|श्१७१
मा मा कृथाः महा-पापम् साहसम् विनता-आत्म-ज|
कः अयम् भ्रमः ते न हि एषः नागः नागः अहम् एषः ते|

|क्१६|त्२३|श्१७२
इति उक्त्वा द्रुतम् आगत्य मध्ये स्थित्वा तयोः द्वयोः|
दृष्ट्वा च तार्क्ष्यम् विभ्रान्तम् शङ्खचूडः अब्रवीत् पुनः|

|क्१६|त्२३|श्१७३
किम् भ्राम्यसि फणाः किम् मे जिह्वे द्वे च न पश्यसि|
विद्याधरस्य किम् च अस्य सौम्याम् पश्यसि न आकृतिम्|

|क्१६|त्२३|श्१७४
शङ्खचूडे वदति एवम् भार्या च पितरौ च तौ|
जीमूतवाहनस्य अत्र सर्वे स-त्वरम् आययुः|

|क्१६|त्२३|श्१७५
विलुप्त-अङ्गम् च तम् दृष्ट्वा पितरौ तस्य तत् क्षणम्|
चक्रन्दतुः तौ हा पुत्र हा हा जीमूतवाहन|

|क्१६|त्२३|श्१७६
हा कारुणिक हा वत्स पर-अर्थ-प्रत्त-जीवित|
हा कथम् वैनतेय इदम् अ-विमृश्य कृतम् त्वया|

|क्१६|त्२३|श्१७७
एतत् श्रुत्वा एव तार्क्ष्यः अत्र सः अनुतप्तः व्यचिन्तयत्|
हा कथम् बोधि-सत्त्व-अंशः संमोहात् भक्षितः मया|

|क्१६|त्२३|श्१७८
जीमूतवाहनः सः अयम् पर-अर्थ-प्राण-दायकः|
यस्य भ्रमति कृत्स्ने अस्मिन् त्रैलोक्ये कीर्ति-घोषणा|

|क्१६|त्२३|श्१७९
तत् मे मृते अस्मिन् पापस्य प्राप्तम् अग्नि-प्रवेशनम्|
अ-धर्म-विष-वृक्षस्य पच्यते स्वादु किम् फलम्|

|क्१६|त्२३|श्१८०
इति चिन्ता-आकुले तार्क्ष्ये दृष्ट्वा बन्धून् निपत्य सः|
व्रण-व्यथायाम् पञ्चत्वम् प्राप जीमूतवाहनः|

|क्१६|त्२३|श्१८१
ततः विलपतोः तत्र तत्-पित्रोः शोक-दीनयोः|
उत्क्रुश्य मुहुः आत्मानम् शङ्खचूडे च निन्दति|

|क्१६|त्२३|श्१८२
भार्या मलयवती अस्य नभः दृष्ट्वा अश्रु-गद्गदम्|
पूर्व-प्रसन्नाम् वर-दाम् इति उपालभत अम्बिकाम्|

|क्१६|त्२३|श्१८३
विद्याधर-अधिपः भावि-चक्र-वर्ती पतिः तव|
भविता इति अहम् आदिष्टा देवि गौरी तदा त्वया|

|क्१६|त्२३|श्१८४
तत् मिथ्या-वादिनी जाता त्वम् अपि असि कथम् मयि|
इति उक्तवत्याम् तस्याम् सा गौरी प्रत्यक्षताम् अगात्|

|क्१६|त्२३|श्१८५
न मे मिथ्या वचः पुत्री इति उक्त्वा सा स्व-कमण्डलोः|
अमृतेन आशु जीमूतवाहनम् सिञ्चति स्म तम्|

|क्१६|त्२३|श्१८६
तेन सः अ-क्षत-सर्व-अङ्गः पूर्व-अधिकतर-द्युतिः|
जीवन् सद्यः समुत्तस्थौ कृती जीमूतवाहनः|

|क्१६|त्२३|श्१८७
उत्थितम् प्रणतम् तम् च सर्वेषु प्रणमत्सु सा|
उवाच देवी तुष्टा अस्मि देह-दानेन ते अमुना|

|क्१६|त्२३|श्१८८
तत् एषा त्वा अभिषिञ्चामि पुत्र आत्मीयेन पाणिना|
विद्याधराणाम् आ-कल्पम् चक्र-वर्ति-पदे अधुना|

|क्१६|त्२३|श्१८९
एवम् वदन्ती जीमूतवाहनम् कलश-अम्बुधिः|
तम् अभ्यषिञ्चत् शर्वानी पूजिता च तिरः-दधे|

|क्१६|त्२३|श्१९०
निपेतुः च अत्र तत् कालम् दिव्याः कुसुम-वृष्टयः|
नदन्ति स्म च स-आनन्दम् देव-दुन्दुभयः दिवि|

|क्१६|त्२३|श्१९१
अथ उवाच सः तम् प्रह्वः तार्क्ष्यः जीमूतवाहनम्|
चक्र-वर्तिन् अहम् प्रीतः पुरुष-अतिशये त्वयि|

|क्१६|त्२३|श्१९२
अ-पूर्व-उदार-मतिना त्रि-जगत्-कौतुक-आवहम्|
ब्रह्मा-अण्ड-भित्ति-लिखितम् येन चित्रम् इदम् कृतम्|

|क्१६|त्२३|श्१९३
तत् माम् प्रशाधि मत्तः च वृणुष्व अभीप्सितम् वरम्|
इति उक्तवन्तम् गरुडम् महा-सत्त्वः जगाद सः|

|क्१६|त्२३|श्१९४
न भक्ष्याः स-अनुतापेन भूत्वा नागाः पुनः त्वया|
ते अपि अस्थि-शेषाः जीवन्तु ये त्वया पूर्व-भक्षिताः|

|क्१६|त्२३|श्१९५
एवम् अस्तु न भोक्ष्ये अहम् नागान् शान्त-मतः परम्|
प्राक् ये च भुक्ताः ते जीवन्तु इति तार्क्ष्यः अपि उवाच सः|

|क्१६|त्२३|श्१९६
ततः अस्ति-शेषाः ये अपि आसन् नागाः तत्-पूर्व-भक्षिताः|
ते अपि सर्वे समुत्तस्थुः तत्-वर-अमृत-जीविताः|

|क्१६|त्२३|श्१९७
सुरैः नगैः मुनि-गनैः स-आनन्दैः मिलितैः अथ|
सः लोक-त्रितय-अभिख्याम् उवाह मलय-अचलः|

|क्१६|त्२३|श्१९८
तत् कालम् तम् च जीमूतवाहन-उदन्तम् अद्भुतम्|
गौर्याः प्रसादात् विविदुः सर्वे विद्या-धर-ईश्वराः|

|क्१६|त्२३|श्१९९
आगत्य ते च चरण-अवनताः हिम-अद्रिम् निन्युः क्षणात् मुदित-बन्धु-सु-हृत्-समेतम्|
तम् पार्वती-स्व-कर-कॢप्त-महा-अभिषेकम् सत्-चक्र-वर्तिनम् अथ प्रतिमुक्त-तार्क्ष्यम्|

|क्१६|त्२३|श्२००
तत्र सः पित्रा मात्रा मित्रावसुना च मलयवत्या च|
निज-गृह-गत-आगतेन च संयुक्तः शङ्खचूडेन|

|क्१६|त्२३|श्२०१
लोक-उत्तर-चरित-अद्भुत-सिद्धाम् जीमूतवाहनः सु-चिरम्|
अभजत रत्न-उपचिताम् विद्या-धर-चक्र-वर्ति-धुरम्|

|क्१६|त्२३|श्२०२
इति अत्युदार-स-रसाम् आख्याय कथाम् तदा सः वेतालः|
पुनः एव तम् त्रिविक्रमसेनम् पप्रच्च राजानम्|

|क्१६|त्२३|श्२०३
तत् ब्रूहि शङ्खचूडः किम् वा जीमूतवाहनः अभ्यधिकः|
सत्त्वेन तयोः उभयोः पूर्व-उक्तः च अत्र समयः ते|

|क्१६|त्२३|श्२०४
इति अस्मात् वेतालात् श्रुत्वा मौनम् विहाय शाप-भयात्|
तम् उवाच सः त्रिविक्रमसेनः नृ-पतिः निः-उद्वेगः|

|क्१६|त्२३|श्२०५
बहु-जन्म-सिद्धम् एतत् चित्रम् जीमूतवाहनस्य कियत्|
श्लाघ्यः सः शङ्खचूडः मरण-उत्तीर्णः अपि यः रिपवे|

|क्१६|त्२३|श्२०६
अन्य-प्रत्त-आत्मानम् प्राप्य सु-दूरम् गताय तार्क्ष्याय|
पश्चात् धावन् गत्वा स्वम् देहम् उपानयत् प्रसभम्|

|क्१६|त्२३|श्२०७
एतत् निशम्य एव नृ-पस्य तस्य वाक्यम् सः वेताल-वरः जगाम|
पुनः स्व-धाम एव तत्-अंस-पृष्ठात् नृ-पः अपि तम् सः अनुययौ तथा एव|

|क्१७|त्२४|श्१
ततः गत्वा पुनः तस्मात् सः राजा शिंशपा-तरोः|
तम् त्रिविक्रमसेनः अंसे वीरः वेतालम् अग्रहीत्|

|क्१७|त्२४|श्२
प्रस्थितम् च ततः तम् सः वेतालः स्कन्धतः अब्रवीत्|
राजन् श्रम-विनोदाय शृणु एताम् वच्मि ते कथाम्|

|क्१७|त्२४|श्३
अ-खण्ड-धर्म-मर्यादम् गङ्गा-कूले कृत-आस्पदम्|
कलेः अ-गम्यम् कनकपुरम् नाम्ना अभवत् पुरम्|

|क्१७|त्२४|श्४
तस्मिन् यशोधन-आख्यः अभूत् अन्वर्थः वसु-धा-अधिपः|
ररख़्ष विप्लव-अम्भः-धेः यः वेला-अद्रिः इव क्षितिम्|

|क्१७|त्२४|श्५
जगात्-आह्लादकः चण्ड-प्रतापः अ-खण्ड-मण्डलः|
विधिना यः च चन्द्र-अर्कौ एकीकृत्य इव निर्ममे|

|क्१७|त्२४|श्६
मौर्ख्यम् पर-परीवादे न शास्त्र-अर्थे दरिद्रता|
दोषे न कोष-दण्डाभ्याम् यस्य आसीत् च मही-पतेः|

|क्१७|त्२४|श्७
पाप-भीरुः यशः-लुब्धः षण्ढः पर-पुरंध्रिषु|
यः शौर्य-औदार्य-शृङ्गारमयः जनतया जगे|

|क्१७|त्२४|श्८
तस्य राज्ञः पुरे तस्मिन् अभूत् एकः महा-वणिक्|
उन्मादिनी इति ख्याता च कन्या तस्य अभवत् सुता|

|क्१७|त्२४|श्९
यः यः ताम् हि ददर्श अत्र सः सः तत्-रूप-संपदा|
उन्माद्यति स्म मदनस्य अपि मोहन-शक्तया|

|क्१७|त्२४|श्१०
तस्याम् च यौवन-स्थायाम् सः गत्वा तत्-पिता वणिक्|
यशोधनम् तम् राजानम् नीति-वेदी व्यजिज्ञपत्|

|क्१७|त्२४|श्११
त्रैलोक्य-रत्न-भूता मे प्रदेया अस्ति सुता प्रभो|
ताम् अन्-आवेद्य देवस्य न अन्यस्मै दातुम् उत्सहे|

|क्१७|त्२४|श्१२
देवः अपि सर्व-रत्नानाम् प्रभुः कृत्स्ने अपि भू-तले|
तत्-स्वी-कृत्य अनुगृह्णातु देवः ताम् प्रतिमुच्य वा|

|क्१७|त्२४|श्१३
इति आकर्ण्य वणिक्-वाक्यम् सः राजा ब्राह्मणान् निजान्|
स-आदरम् व्यसृजत् तस्याः सौलक्षण्यम् अवेक्षितुम्|

|क्१७|त्२४|श्१४
ते गत्वा ब्राह्मणाः दृष्ट्वा ताम् त्रैलोक्य-एक-सुन्दरीम्|
सद्यः क्षोभम् ययुः क्षिप्रात् लब्ध्वा धैर्यम् अचिन्तयन्|

|क्१७|त्२४|श्१५
इमाम् प्राप्नोति चेत् राजा तत् राष्ट्रम् अवसीदति|
एतत्-मोहित-चित्तः हि किम् सः राज्यम् अवेक्षते|

|क्१७|त्२४|श्१६
तस्मात् सु-लक्षण इति एषा न आख्येया क्षिति-पाय नः|
इति एव मन्त्रम् संमन्त्र्य राज्ञः ते जग्मुः अन्तिकम्|

|क्१७|त्२४|श्१७
कु-लक्षणा सा देव इति तम् ऊचुः च अत्र ते मृषा|
तेन राजा सः न एव एताम् स्वीचकार वणिक्-सुताम्|

|क्१७|त्२४|श्१८
ततः तत्-आज्ञया ताम् सः कन्याम् उन्मादिनीम् पिता|
वणिक् बलधर-आख्याय तत् सेना-पतये ददौ|

|क्१७|त्२४|श्१९
अथ सा तत्-गृहे तस्थौ भर्त्रा तेन समम् सुखम्|
कु-लक्षणा इति अहम् रज्ञा त्यक्ता इति आत्त-विमानना|

|क्१७|त्२४|श्२०
याति काले च जातु अत्र हत्वा हेमन्त-हस्तिनम्|
फुल्ल-कुन्द-लता-दन्तम् मथित-अम्बुजिनी-वनम्|

|क्१७|त्२४|श्२१
आजगाम लसत्-पुष्प-मञ्जरी-केसर-आवलिः|
चूत-अङ्कुर-नखः क्रीदन् कानने मधु-केसरी|

|क्१७|त्२४|श्२२
तत् कालम् च अत्र नगरे तम् वसन्त-महा-उत्सवम्|
सः राजा निर्ययौ द्रष्टुम् गज-आरूढः यशोधनः|

|क्१७|त्२४|श्२३
तत्-रूप-आलोक-संभाव्य-विप्लवाः कुल-योषितः|
अपसारयितुम् दत्तम् तदा च उद्घोष-डिण्डिमम्|

|क्१७|त्२४|श्२४
सा श्रुत्वा उन्मादिनी तस्मै राज्ञे स्व-गृह-हर्म्यतः|
आत्मानम् दर्शयामास परित्याग-अवमानतः|

|क्१७|त्२४|श्२५
सः च ताम् चक्षुभे दृष्ट्वा राजा ज्वालाम् इव उद्गताम्|
संधुक्षितस्य काम-अग्नेः मधुना मलय-अनिलैः|

|क्१७|त्२४|श्२६
निर्वर्णयन् च तत्-रूपम् जैत्रम् अस्त्रम् मनः-भुवः|
गाढम् प्रविष्टम् हृदये क्षणात् मोहम् उपाययौ|

|क्१७|त्२४|श्२७
भृत्यैः आश्वासितः च अत्र राज-धानीम् प्रविश्य सः|
पृष्टेभ्यः बुबुधे तेभ्यः ताम् प्राग्-उपनता-उज्झिताम्|

|क्१७|त्२४|श्२८
ततः निर्वास्य देशात् तान् तत्-कु-लक्षण-वादिनः|
विप्रान् अनु-दिनम् दध्यौ ताम् एव उत्कः सः भू-पतिः|

|क्१७|त्२४|श्२९
अहो जड-आत्मा निः-लज्जः चन्द्रः नित्यम् उदेति यत्|
जगत्-नेत्र-उत्सवे तस्याः निः-कलङ्के मुखे सति|

|क्१७|त्२४|श्३०
कठोरौ हेम-कलशौ गज-कुम्भौ च कर्कशौ|
लभेते न उपमाम् अस्याः स्तनयोः पीन-तुङ्गयोः|

|क्१७|त्२४|श्३१
काञ्ची-नक्षत्र-माला-अङ्कम् तत् तस्याः जघन-स्थलम्|
कम् न कंदर्प-मातङ्ग-मस्तक-आभम् विलोभयेत्|

|क्१७|त्२४|श्३२
इति ताम् चिन्तयन् अन्तः क्षीयते स्म दिने दिने|
काम-अग्नि-पुट-पाकेन पच्यमानः सः भू-पतिः|

|क्१७|त्२४|श्३३
ह्रिया निगूहमानः च पृच्चद्भ्यः बाह्य-लक्षणैः|
कृच्च्रात् शशंस च आप्तेभ्यः स्व-पीडा-कारणम् सः तत्|

|क्१७|त्२४|श्३४
अलम् संतप्य भजसे स्व-अधीनाम् तर्हि किम् न ताम्|
इति उक्तः तैः च न एव एतत् अनुमेने सः धार्मिकः|

|क्१७|त्२४|श्३५
ततः बलधरः बुद्ध्वा सः सेना-पतिः एत्य तम्|
प्रभुम् अभ्यर्थयामास सत्-भक्तः चरण-आनतः|

|क्१७|त्२४|श्३६
दास-स्त्री तव दासी एव सा देव न पर-अङ्गना|
स्वयम् च अहम् प्रयच्चामि तत् भार्याम् स्वी-कुरुष्व मे|

|क्१७|त्२४|श्३७
अथवा ताम् त्यजामि इह देव देव-कुले ततः|
न दोषः ग्रहणे तस्याः तव देव-कुल-स्त्रियः|

|क्१७|त्२४|श्३८
इति स्व-सेना-पतिना निर्बन्धेन सः पार्थिवः|
तेन अनुनाथ्यमानः अपि स-अन्तः-कोपम् उवाच तम्|

|क्१७|त्२४|श्३९
राजा भूत्वा कथम् कुर्याम् अ-धर्मम् अहम् ईदृशम्|
मयि उल्लङ्घित-मर्यादे कः हि तिष्ठेत् स्व-वर्त्मनि|

|क्१७|त्२४|श्४०
भक्तः अपि च भवान् पापे नियोजयति माम् कथम्|
पर-लोक-महा-दुःख-हेतौ क्षण-सुख-आवहे|

|क्१७|त्२४|श्४१
न क्षमिष्ये च ते धर्म्यान् दारान् यदि विहास्यसि|
सहते मादृशः कः हि तादृशम् धर्म-विप्लवम्|

|क्१७|त्२४|श्४२
तत् वरम् मृत्युः इति उक्त्वा सः राजा निषिषेध तम्|
त्यजन्ति उत्तम-सत्त्वाः हि प्राणान् अपि न सत्-पथम्|

|क्१७|त्२४|श्४३
तथा एव अर्थयमानान् च पौर-जान-पदान् अपि|
मिलितान् सः निराचक्रे राजा सुदृढ-निश्चयः|

|क्१७|त्२४|श्४४
ततः क्रमेण तेन एव स्मर-ज्वर-भर-उष्मणा|
प्रक्षीण-देहः प्रययौ सः यशः-शेषताम् नृ-पः|

|क्१७|त्२४|श्४५
सेना-पतिः च अ-सहिष्णुः तम् तथा प्रमयम् प्रभोः|
सः अग्निम् विवेश भक्तानाम् अ-निर्वाच्यम् हि चेष्टितम्|

|क्१७|त्२४|श्४६
इति आख्यात-कथा-आश्चर्यः वेतालः अंस-स्थितः तदा|
सः त्रिविक्रमसेनम् तम् भूयः पप्रच्च पार्थिवम्|

|क्१७|त्२४|श्४७
तत् एतयोः कः नृपतेः सेना-पति-मही-भृतोः|
सत्त्वेन अभ्यधिकः ब्रूहि पूर्व-उक्तः समयः च ते|

|क्१७|त्२४|श्४८
इति वेतालतः श्रुत्वा मुक्त-मौनः सः तम् नृ-पः|
प्रत्युवाच द्वयोः राजा सत्त्ववान् अधिकः तयोः|

|क्१७|त्२४|श्४९
तत् आकर्ण्य एव वेतालः स-आक्षेपः तम् अभाषत|
सेना-पतिः कथम् न अत्र राजन् अभ्यधिकः वद|

|क्१७|त्२४|श्५०
यः तथा स्वामिने भक्त्या स्व-भार्याम् ताम् तथा-विधाम्|
सुचिर-ज्ञात-तत्-भोग-सुख-आस्वादः अपि उपानयत्|

|क्१७|त्२४|श्५१
आत्मानम् च अग्निसात् चक्रे तस्मिन् पञ्चत्वम् आगते|
अन्-आस्वादित-तत्-भोगः तत्-कान्ताम् तु जहौ नृ-पः|

|क्१७|त्२४|श्५२
वेतालेन एवम् उक्तः तु विहस्य सः नृ-पः अब्रवीत्|
यदि अपि एवम् तथा अपि एतत् किम् चित्रम् कुल-पुत्रकः|

|क्१७|त्२४|श्५३
सेना-पतिः सः भक्त्या यत् स्वामि-अर्थे तत् तथा अकरोत्|
प्राणैः अपि हि भृत्यानाम् स्वामि-संरक्षणम् व्रतम्|

|क्१७|त्२४|श्५४
राजानः तु मद-आध्माताः गजाः इव निः-अङ्कुशाः|
चिन्दन्ति धर्म-मर्यादा-शृङ्खलाम् विषय-उन्मुखाः|

|क्१७|त्२४|श्५५
तेषाम् हि उद्रिक्त-चित्तानाम् अभिषेक-अम्बुभिः समम्|
विवेकः विगलति ओघेन उह्यमानः इव अ-खिलः|

|क्१७|त्२४|श्५६
क्षिप्यन्ते इव च उद्धूय चलत्-चामर-मारुतैः|
वृद्ध-उपदिष्ट-शास्त्र-अर्थ-रजो-मशक-मक्षिकाः|

|क्१७|त्२४|श्५७
आतपत्रेण सत्यम् च सूर्य-आलोकः निवार्यते|
विभूति-वात्या-उपहता दृष्टिः मार्गम् च न ईक्षते|

|क्१७|त्२४|श्५८
ते ते च विपदम् प्राप्ताः मार-मोहित-चेतसः|
जगद्-विजयिनः अपि इह राजानः नहुष-आदयः|

|क्१७|त्२४|श्५९
एषः राजा पुनः पृथ्व्याम् एक-चत्रः अपि यत् तया|
उन्मदिन्या चपलया लक्ष्म्या इव न विमोहितः|

|क्१७|त्२४|श्६०
प्राणान् अपि सः धर्म-आत्मा तत्याज न पुनः पदम्|
अ-मार्गे निदधे धीरः तेन असौ मे अधिकः मतः|

|क्१७|त्२४|श्६१
इति आकर्ण्य नृ-पस्य तस्य वचनम् भूयः तत्-अंस-स्थलात् वतालः सहसा स्वम् एव सः पदम् माया-प्रभावात् ययौ|
राजा अपि अन्वसरत् तथा एव सः पुनः संप्राप्तुम् एतम् जवात् आरब्धे हि सु-दुः-करे अपि महताम् मध्ये विरामः कुतः|

|क्१८|त्२५|श्१
ततः पितृ-वने तस्मिन् क्रव्य-भक्षिभिः आवृते|
ज्वाला-विलोल-रसनैः भूतैः इव चिता-अग्निभिः|

|क्१८|त्२५|श्२
गत्वा एव तस्याम् अ-क्षोभ्यः क्षपायाम् शिंशपा-तरुम्|
सः त्रिविक्रमसेनः तम् आससाद पुनः नृ-पः|

|क्१८|त्२५|श्३
तत्र अपश्यत् च वेताल-विकृतान् सदृश-आकृतीन्|
उल्लम्बमानान् सु-बहून् प्रेत-कायान् अ-शङ्कितम्|

|क्१८|त्२५|श्४
अहो किम् एतत् किम् वा अन्यत् मायी कालम् क्षिपति अयम्|
वेतालः मे न वेद्मि एषाम् ग्राह्यम् येन इह भूयषाम्|

|क्१८|त्२५|श्५
अ-सिद्ध-अर्थस्य चेत् रात्रिः इयम् मम गमिष्यति|
ततः वह्निम् प्रवेक्ष्यामि न सहिष्ये तु हास्यताम्|

|क्१८|त्२५|श्६
इति चिन्तयतः तस्य राज्ञः विज्ञाय निश्चयम्|
सत्त्व-तुष्टः सः वेतालः स्व-मायाम् संजहार ताम्|

|क्१८|त्२५|श्७
ततः दृष्ट्वा एकम् एव अत्र वेतालम् नृ-कलेवरे|
अवतीर्य गृहीत्वा अंसे सः प्रतस्थे पुनः नृ-पः|

|क्१८|त्२५|श्८
प्रक्रामन्तम् च तम् भूयः सः वेतालः अभ्यभाषत|
राजन् न उद्विजसे चित्रम् तत् इमाम् मे कथाम् सृणु|

|क्१८|त्२५|श्९
अस्ति गौरी-तपः-क्लेश-वृतेन त्रिपुरारिणा|
अ-सामान्य-गुण-उत्कर्ष-लुब्धेन इव स्वयम्-वृता|

|क्१८|त्२५|श्१०
भोगवती- अमरावत्योः तृतीय- उज्जयिनी पुरी|
उदार-सु-कृत-प्राप्य-नाना-भोग-उपबृंहिता|

|क्१८|त्२५|श्११
यस्याम् स्तब्धत्व-कार्कश्ये कुचेषु वर-योषिताम्|
तासाम् एव भ्रुवोः भङ्गः लोचनेषु च चापलम्|

|क्१८|त्२५|श्१२
तमः निशासु वक्रत्वम् यस्याम् कवि-वर-उक्तिषु|
मदः दन्तिषु जाड्यम् च मुक्ता-मलय-ज-इन्दुषु|

|क्१८|त्२५|श्१३
तस्याम् चन्द्रप्रभ-आख्यस्य राज्ञः अमात्यः बहु-श्रुतः|
देवस्वामी इति अभूत् विप्रः भूरि-यज्ञः महा-धनः|

|क्१८|त्२५|श्१४
तस्य कालेन तनयः चन्द्रस्वामी इति अजायत|
सः अधीत-विद्यः अपि युवा द्यूत-एक-व्यसनः अभवत्|

|क्१८|त्२५|श्१५
एकदा च द्वि-ज-सुतः चन्द्रस्वामी सः कां-चन|
द्यूत-कार-महा-ठिण्ठाम् द्यूतेन क्रीडितुम् ययौ|

|क्१८|त्२५|श्१६
आश्लिष्यामः कम् अत्र इति विपद्भिः इव वीक्षितुम्|
विक्षिप्तैः कृष्ण-शार-आभैः नेत्रैः अक्षैः निरन्तराम्|

|क्१८|त्२५|श्१७
कः सः अस्ति न श्रियम् यस्य हरामि अपि अलका-पतेः|
इति इव तन्वतीम् नादान् द्यूत-कृत्-कलह-स्वनैः|

|क्१८|त्२५|श्१८
ताम् प्रविश्य क्रमात् दीव्यन् अक्षैः सः कितवैः सह|
वस्त्र-आदि हारयित्वा अपि धनम् अन्यत् अहारयत्|

|क्१८|त्२५|श्१९
मृग्यमाणम् च यत् न आदात् सः तत् धनम् असंभवि|
तद् अवष्टभ्य सभ्येन लगुडैः पर्यताड्यत|

|क्१८|त्२५|श्२०
लगुड-आहत-सर्व-अङ्गः पाषाणम् इव निः-चलम्|
कृत्वा मृतम् इव आत्मानम् तस्थौ विप्र-सुतः अथ सः|

|क्१८|त्२५|श्२१
तथा एव दिवसान् द्वि-त्रान् तत्र तस्मिन् अवस्थिते|
क्रुद्धः सः सभ्यः ठिण्ठायाम् कितवान् स्वान् अभाषत|

|क्१८|त्२५|श्२२
श्रिता अनेन अश्मता तावत् तत् एतम् क्षिपत क्व-चित्|
नीत्वा अन्ध-कूपे निः-सत्त्वम् धनम् दास्यामि अहम् तु वः|

|क्१८|त्२५|श्२३
इति उक्ताः तेन कितवाः तम् चन्द्रस्वामिनम् ततः|
अरण्यम् निन्युः उत्क्षिप्य दूरम् कूप-गवेषिणः|

|क्१८|त्२५|श्२४
तत्र एकः वृद्ध-कितवः तान् अन्यान् एवम् अभ्यधात्|
मृतः अयम् प्रायशः तत् किम् कूपे क्षिप्तेन नः अमुना|

|क्१८|त्२५|श्२५
तत् इह एव एनम् उज्झित्वा वक्ष्यामः कूपे उज्झितम्|
इति ते तत्-वचः सर्वे तथा इति प्रतिपेदिरे|

|क्१८|त्२५|श्२६
ततः त्यक्त्वा गतेषु एषु कितवेषु सः उत्थितः|
चन्द्रस्वामी विवेश अत्र शून्यम् एकम् शिव-आलयम्|

|क्१८|त्२५|श्२७
तत्र किम्-चित् समाश्वस्य चिन्तयामास दुःखितः|
विश्वस्तः मायया कष्टम् मुषितः कितवैः अहम्|

|क्१८|त्२५|श्२८
तत् ईदृशः क्व गच्चामि नाग्न-उपहत-पांशुलः|
पिता बन्धुः सुहृत् वा अपि दृष्ट्वा किम् हि वदेत् मम|

|क्१८|त्२५|श्२९
तत् संप्रति स्थितः अस्मि इह नक्तम् च क्षुत्-प्रशान्तये|
पश्यामि निर्गत्य कथम् यतिष्ये भोजनम् प्रति|

|क्१८|त्२५|श्३०
इति आलोचयतः तस्य क्लान्तस्य अन्-अम्बरस्य च|
मन्दी-कृत-आतपः अस्त-अद्रिम् रविः त्यक्त-अम्बरः ययौ|

|क्१८|त्२५|श्३१
तावत् च भूति-दिग्ध-अङ्गः तत्र आयाति स्म तापसः|
महा-व्रती जटा-शूल-धरः हरः इव अपरः|

|क्१८|त्२५|श्३२
सः चन्द्रस्वामिनम् दृष्ट्वा कः असि इति परिपृच्च्य च|
स्रुत्वा तस्मात् च वृत्त-अन्तम् प्रह्वम् तम् तापसः अब्रवीत्|

|क्१८|त्२५|श्३३
त्वम् मम इह आश्रमम् प्राप्तः क्षुत्-क्लान्तः अचिन्तितः अतिथिः|
तत् उत्तिष्ठ कृत-स्नानः भिक्षा-भागम् मम आहर|

|क्१८|त्२५|श्३४
इति उक्तः व्रतिना सः अथ चन्द्रस्वामी जगाद तम्|
विप्रः अहम् भगवन् भोक्ष्ये भिक्षा-भागम् कथम् तव|

|क्१८|त्२५|श्३५
तत् श्रुत्वा सः व्रती सिद्धः प्रविश्य मठिकाम् निजाम्|
इष्ट-संपादिनीम् विद्याम् सस्मार अतिथि-वल्लभः|

|क्१८|त्२५|श्३६
संस्मृत-उपस्थिताम् ताम् च किम् करोमि इति वादिनीम्|
अमुष्य आतिथ्यम् अतिथेः कुरुष्व इति शशास ताम्|

|क्१८|त्२५|श्३७
तथा इति उक्ते तया तत्र स-उद्यानम् स-अङ्गना-जनम्|
पुरम् सौवर्णम् उत्पन्नम् चन्द्रस्वामी ददर्श सः|

|क्१८|त्२५|श्३८
विस्मितम् च तम् अभ्येत्य तस्मात् वार-अङ्गनाः पुरात्|
ऊचुः उत्तिष्ठ भद्र एहि स्नाहि भुङ्क्ष्व त्यज श्रमम्|

|क्१८|त्२५|श्३९
इति उक्त्वा अभ्यन्तरम् नीत्वा स्नापयित्वा अनुलिप्य च|
ताभिः सः दत्त-सत्-वस्त्रः निन्ये अन्यत् वासक-उत्तमम्|

|क्१८|त्२५|श्४०
तत्र अन्तः सः ददर्श एकाम् प्रधान-युवतिम् युवा|
सर्व-अङ्ग-सुन्दरीम् धात्रा कौतुकात् इव निर्मिताम्|

|क्१८|त्२५|श्४१
तया सः स-उत्कया उत्थाय स्व-आसन-अर्ध-उपवेशितः|
बुभुजे दिव्यम् आहारम् तया एव अत्र समम् ततः|

|क्१८|त्२५|श्४२
भुक्त-पक्व-फल-स्वादु-ताम्बूलः स्व-रसेन च|
पर्यङ्क-शयने भेजे तत्-संभोग-सुखम् निशि|

|क्१८|त्२५|श्४३
प्रातः प्रबुद्धः च अपश्यत् तत् एव अत्र शिव-आयलम्|
न अपि दिव्य-अङ्गनाम् न अपि पुरम् तत् न परिच्चदम्|

|क्१८|त्२५|श्४४
ततः सः विग्नः निर्यातम् मठिकातः स्मित-आननम्|
पृष्ट-रात्रि-सुखम् प्रातः तापसम् तम् व्यजिज्ञपत्|

|क्१८|त्२५|श्४५
तत्-प्रसादात् अहम् रात्रौ उषितः भगवन् सुखम्|
किम् तु यास्यन्ति मे प्राणाः तया दिव्य-स्त्रिया विना|

|क्१८|त्२५|श्४६
तत् श्रुत्वा सः तपस्वी तम् हसन् कारुणिकः अब्रवीत्|
इह एव आस्स्व पुनः नक्तम् भविष्यति तथा एव ते|

|क्१८|त्२५|श्४७
इति उक्ते व्रतिना तेन तत्-युक्त्य एव प्रति-क्षपम्|
चन्द्रस्वामी अत्र सः अभुङ्क्त भोगान् तान् तत्-प्रसादतः|

|क्१८|त्२५|श्४८
बुद्ध्वा च तम् शनैः विद्या-प्रभावम् विधि-चोदितः|
एकदा तापस-इन्द्रम् तम् सः प्रसाद्य अन्वयाचत|

|क्१८|त्२५|श्४९
सत्यम् कृपा चेत् भगवन् मयि ते शरण-आगते|
तत् एताम् देहि मे विद्याम् यत्-प्रभावः अयम् ईदृशः|

|क्१८|त्२५|श्५०
इति ब्रुवाणम् निर्बन्धात् तम् प्रत्याह सः तापसः|
असाध्या तव विद्या इयम् साध्यते अन्तर्-जले हि असौ|

|क्१८|त्२५|श्५१
तत्र च एषा सृजति आशु जपतः साधकस्य तत्|
माया-जालम् विमोहाय येन सिद्धिम् न सः अश्नुते|

|क्१८|त्२५|श्५२
सः हि तत्र पुनः जातम् बालम् आत्मानम् ईक्षते|
ततः युवानम् उद्व्यूढ-दारम् जात-आत्म-जम् तथा|

|क्१८|त्२५|श्५३
सु-हृत् मे अयम् अयम् शत्रुः इति मिथ्या सः मुह्यति|
न च स्मरति जन्म इदम् न विद्या-साधने क्रियाम्|

|क्१८|त्२५|श्५४
यः तु त्रिः-अष्ट-वर्षः सन् गुरु-विद्या-प्रबोधितः|
जन्म स्म्र्त्वा विदित्वा तत् धीरः माया-विजृम्भितम्|

|क्१८|त्२५|श्५५
तत्-वशः अपि अत्र कुरुते तथा एव अग्नि-प्रवेशनम्|
परम-अर्थम् जल-उत्तीर्णः सिद्ध-विद्यः सः पश्यति|

|क्१८|त्२५|श्५६
अन्यस्य न परम् विद्या शिष्यस्य एषा हि सिध्यति|
अ-स्थान-अर्पणतः यावत् गुरोः अपि विनश्यति|

|क्१८|त्२५|श्५७
मत्-सिद्ध्या एव फले सिद्धे किम् ग्रहेण अमुना तव|
मत्-सिद्धि-हान्या मा जातु तव एतत् अपि नङ्क्ष्यति|

|क्१८|त्२५|श्५८
एवम् तपस्विना उक्ते अपि चन्द्रस्वामी ग्रहेण सः|
शिक्ष्यामि सर्वम् मा भूत् वः चिन्ता अत्र इति तम् अब्रवीत्|

|क्१८|त्२५|श्५९
ततः अस्मै प्रतिपेदे ताम् विद्याम् दातुम् सः तापसः|
बत आश्रित-अनुरोधेन किम् न कुर्वन्ति साधवः|

|क्१८|त्२५|श्६०
ततः नीत्वा नदी-तीरम् सः तम् स्म आह महा-व्रती|
वत्स विद्याम् जपन् मायाम् यदि द्रक्ष्यसि ताम् तदा|

|क्१८|त्२५|श्६१
माया-अग्निम् एव प्रविशेः विध्यया बोधितः मया|
अहम् च तावत् स्थास्यामि तव इह एव नदी-तटे|

|क्१८|त्२५|श्६२
इति उक्त्वा अध्यापयामास तम् आचान्तम् शुचिम् शुचिः|
सः चन्द्रस्वामिनम् विद्याम् सम्यक् ताम् व्रतिनाम् वरः|

|क्१८|त्२५|श्६३
ततः तीरे स्थिते तस्मिन् गुरौ मूर्ध्ना प्रणम्य तम्|
चन्द्रस्वामी सः रभसात् नदीम् अवततार ताम्|

|क्१८|त्२५|श्६४
तस्याम् अन्तः-जले विद्याम् ताम् जपन् सहसा एव सः|
तत्-माया-मोहितः मिथ्या सर्वम् विस्मृत्य जन्म तत्|

|क्१८|त्२५|श्६५
वीक्षते यावत् अन्यस्याम् उत्पन्नः स्व-आत्मना पुरि|
पुत्रः विप्रस्य कस्य अपि बुद्धिम् सः शनकैः गतः|

|क्१८|त्२५|श्६६
कृत-उपनयनः अधीत-विद्यः दारान् अवाप्य च|
तत्-दुःख-सुख-संमूढः संपूर्णः अपत्यवान् क्रमात्|

|क्१८|त्२५|श्६७
ततः च अत्र सुत-स्नेह-स्वी-कृतः तत् तत् आचरत्|
स्थितः बद्ध-रतिः सार्धम् पितृभ्याम् बन्धुभिः तथा|

|क्१८|त्२५|श्६८
एवम् जन्म-अन्तरम् मिथ्या तस्य अनुभवतः अत्र सः|
काले प्रबोधिनीम् विद्याम् गुरुः प्रायुङ्क्त तापसः|

|क्१८|त्२५|श्६९
सः तत्-विद्या-प्रयोगेण सद्यः तेन प्रबोधितः|
स्मृत्वा आत्मानम् गुरुम् तम् च माया-जालम् अवेत्य तत्|

|क्१८|त्२५|श्७०
उद्यतः अग्नि-प्रवेशाय दिव्य-असाध्य-फल-आप्तये|
पर्यवारि निषेधद्भिः वृद्ध-आप्त-गुरु-बन्धुभिः|

|क्१८|त्२५|श्७१
बहुधा बोध्यमानः अपि तैः दिव्य-सुख-लोलुपः|
सः सज्जित-चितम् प्रायात् नदी-तीरम् स-बान्धवः|

|क्१८|त्२५|श्७२
दृष्ट्वा अत्र वृद्धौ पितरौ भार्याम् च मरण-उद्यताम्|
क्रन्दन्ति बाल-अपत्यानि सः अथ मोहात् अचिन्तयत्|

|क्१८|त्२५|श्७३
कष्टम् म्रियन्ते स्व-जनाः सर्वे मे विशतः अनलम्|
न च जानामि किम् सत्यम् गुरोः तत् वचनम् न वा|

|क्१८|त्२५|श्७४
तत् किम् नु प्रविशामि अग्निम् उत न प्रविशामि किम्|
अथवा तत् कथम् मिथ्या स्यात् संवादि गुरोः वचः|

|क्१८|त्२५|श्७५
तत् विशामि अनलम् कामम् इति अन्तः प्रविमृश्य सः|
अग्नि-प्रवेशम् विदधे चन्द्रस्वामी किल द्वि-जः|

|क्१८|त्२५|श्७६
अनुभूत-हिम-स्पर्शः वह्नेः च सः स-विस्मयः|
शान्त-मायः नदी-तीरात् उत्थाय उपययौ तटम्|

|क्१८|त्२५|श्७७
तत्र स्थितम् च दृष्ट्वा तम् गुरुम् नत्वा च पादयोः|
पृच्चन्तम् च अग्नि-शैत्य-अन्तम् स्वम् उदन्तम् अबोधयत्|

|क्१८|त्२५|श्७८
ततः तम् सः गुरुः प्राह वत्स शङ्के कृतः त्वया|
अपचारः अत्र शीतः ते कथम् जातः अग्निः अन्यथा|

|क्१८|त्२५|श्७९
अ-दृष्टम् एतत् एतस्याः विद्यायाः साधने यतः|
एतत् गुरोः वचः श्रुत्वा चन्द्रस्वामी जगाद सः|

|क्१८|त्२५|श्८०
न अपचारः मया कः-चित् विहितः भगवन् इति|
ततः सः तत्-गुरुः विद्याम् जिज्ञासुः ताम् समस्मरत्|

|क्१८|त्२५|श्८१
न च सा आविः-अभूत् तस्य न तत्-शिष्यस्य तस्य वा|
नष्ट-विद्यौ अथ उभौ तौ विषण्णौ जग्मतुः ततः|

|क्१८|त्२५|श्८२
इति आख्याय कथाम् अथ वेतालः पृष्टवान् सः तम् भूयः|
पृथ्वी-पतिम् त्रिविक्रमसेनम् समयम् निगद्य पूर्व-उक्तम्|

|क्१८|त्२५|श्८३
राजन् संशयम् एतम् चिन्द्धि मम ब्रूहि हेतुना केन|
विहिते अपि यथा उद्दिष्टे कर्मणि विद्या उभयोः तयोः नष्टा|

|क्१८|त्२५|श्८४
एतत् सः वेताल-वचः निशम्य तम् प्रत्यवोचत् मनु-ज-इन्द्र-वीरः|
जाने भवान् मे क्षिपति इह कालम् योग-ईश्वर एवम् तत् अपि ब्रवीमि|

|क्१८|त्२५|श्८५
न दुष्करेण अपि हि कर्मण एव शुद्धेन सिद्धिः पुरुषस्य लभ्या|
यावत् न निष्क्रम्य विकल्प-शुद्धम् धीरम् मनः निर्मल-सत्त्व-वृत्ति|

|क्१८|त्२५|श्८६
तस्य अत्र मन्दस्य तु विप्र-यूनः चित्तम् प्रबुध्य अपि विकल्पते स्म|
विद्या न सा तेन गता अस्य सिद्धिः अस्थान-दानात् च गुरोः विनष्टा|

|क्१८|त्२५|श्८७
इति तस्य नृ-पस्य सृष्ट-वाचः बत वेताल-वरः अंसतः सः भूयः|
निजम् एव पदम् ययौ अ-लक्ष्यः नृ-पतिः तम् तथा एव सः अन्वयासीत्|

|क्१९|त्२६|श्१
अथ गत्वा पुनः स्कन्धे वेतालम् शिंशपा-द्रुमात्|
सः त्रिविक्रमसेनः तम् गृहीत्वा उदचलत् नृ-पः|

|क्१९|त्२६|श्२
आगच्चन्तम् च तम् भूयः वेतालः सः अभ्यभाषत|
राजन् शृणु कथम् एकाम् हृद्याम् ते कथयामि अहम्|

|क्१९|त्२६|श्३
अस्ति वक्रोलकम् नाम पुरम् सुर-पुर-उपमम्|
तस्मिन् सूर्यप्रभ-आख्यः अभूत् राजा जन्भारि-संनिभः|

|क्१९|त्२६|श्४
सौकर्य-उद्यतया मूर्त्या दत्त-आनन्दः वसुं-धराम्|
इमाम् हरिः इव उद्धृत्य यः बभार चिरम् भुजे|

|क्१९|त्२६|श्५
धूम-आसङ्गे अश्रु-संपातः शृङ्गारे मार-संकथाः|
द्वाः-स्थेषु हेम-दण्डाः च राष्ट्रे यस्य अभवन् प्रभोः|

|क्१९|त्२६|श्६
सर्व-संपत्-समृद्धस्य तस्य एका अभूत् अ-निर्वृतिः|
न उदपद्यत यत् पुत्रः बहुषु अन्तः-पुरेषु अपि
|क्१९|त्२६|श्७
एतस्मिन् च कथा-संधौ ताम्रलिप्त्याम् महा-पुरि|
बभूव धनपाल-आख्यः धुर्यः धनवताम् वनिक्|

|क्१९|त्२६|श्८
तस्य च अजायत एका एव नाम्ना धनवती सुता|
विद्याधरी च्युता शापात् सौन्दर्येण एव सूचिता|

|क्१९|त्२६|श्९
तस्याम् च यौवन-स्थायाम् सः वणिक् पञ्चताम् ययौ|
तत्-धनम् राज-सानाथ्यआत् आक्रान्तम् अथ गोत्र-जैः|

|क्१९|त्२६|श्१०
ततः हिरण्यवती-आख्या वणिजः तस्य गेहिनी|
आदाय रत्न-भरणम् निजम् अ-प्रकट-स्थितम्|

|क्१९|त्२६|श्११
धनवत्या तया साकम् स्व-दुहित्रा निशा-मुखे|
पलाय्य दायाद-भयात् गृहात् गुप्तम् विनिर्ययौ|

|क्१९|त्२६|श्१२
ध्वान्तेन बहिः अन्तः च सा दुःखेन अन्ध-कारिता|
कृच्च्रात् बहिः-पुरम् प्रायात् सुता-हस्त-अवलम्बिनी|

|क्१९|त्२६|श्१३
तत्र संतमसे यान्ती विधि-योगात् अ-लक्षितम्|
अंसेन अताडयत् चौरम् शूल-अग्र-आरोपित-स्थितम्|

|क्१९|त्२६|श्१४
सः स-जीवः तत्-अंस-अग्र-घट्टन-अधिक-पीडितः|
आः क्षते क्षारम् एतत् मे क्षिप्तम् केन इति अभाषत|

|क्१९|त्२६|श्१५
ततः तत्र एव सा कः असि इति अपृच्चत् तम् वणिक्-वधूः|
प्रत्युवाच ततः चौरः चौरः अहम् इह सूचितः|

|क्१९|त्२६|श्१६
शूले पापस्य च अद्य अपि न उत्क्रामन्ति मम असवः|
तत् आर्ये त्वम् मम ब्रूहि का असिक्व एवम् प्रयासि च|

|क्१९|त्२६|श्१७
तत् श्रुत्वा तम् वणिक्-भार्या यावत् स्व-उदन्तम् आह सा|
तावत् तिलकितम् प्राच्याः मुखम् उद्भासित-इन्दुना|

|क्१९|त्२६|श्१८
ततः दिक्षु प्रकाशासु सः चौरः ताम् वणिक्-सुताम्|
दृष्ट्वा धनवतीम् कन्याम् तत्-मातरम् उवाच ताम्|

|क्१९|त्२६|श्१९
शृणु मे प्रार्थनाम् एकाम् सहस्रम् काञ्चनस्य ते|
ददामि तत् इमाम् मह्यम् स्व-सुताम् देहि कन्यकाम्|

|क्१९|त्२६|श्२०
किम् एतया तव इति उक्तः हसन्त्या अथ तया अत्र सः|
पुनः चौरः अब्रवीत् न अस्ति पुत्रः मम् गत-आयुषः|

|क्१९|त्२६|श्२१
न च अ-पुत्रः अश्नते लोकान् तत् एषा यम् मत्-आज्ञया|
कुत्र-चित् जनयेत् पुत्रम् क्षेत्र-जः सः भवेत् मम|

|क्१९|त्२६|श्२२
इति एताम् प्रार्थये त्वम् तु तत् विधत्स्व मम ईप्सितम्|
तत् श्रुत्वा सा वणिक्-योषित् लोभात् तत् प्रत्यपद्यत|

|क्१९|त्२६|श्२३
आनीय च कुतः-अपि अम्बु पाणौ चौरस्य तस्य सा|
एषा सुता मया तुभ्यम् कन्या दत्ता इति अपातयत्|

|क्१९|त्२६|श्२४
सः अपि तत्-दुहितुः दत्त-यथा-उक्त-आज्ञः जगाद ताम्|
गच्च अमुष्य वटस्य अधः खात्वा स्वर्णम् गृहाण तत्|

|क्१९|त्२६|श्२५
गत-आसोः दाहयित्वा मे देहम् युक्त्या विसृज्य च|
अस्थीनि तीर्थे स-सुता गच्चेः वक्रोलकम् पुरम्|

|क्१९|त्२६|श्२६
तत्र सूर्यप्रभे राज्ञि सौराज्य-सुखिते जने|
निः-उपद्रव-निः-चिन्ता स्थास्यसि त्वम् यथा इच्चसि|

|क्१९|त्२६|श्२७
इति उक्त्वा तृषितः पीत्वा तया एव उपहृतम् जलम्|
शूल-व्यध-व्यथा-उत्क्रान्त-जीवः चौरः बभूव सः|

|क्१९|त्२६|श्२८
ततः गत्वा वणिक्-स्त्री सा स्वर्णम् वट-तरोः तलात्|
गृहीत्वा स-सुता गुप्तम् अगात् भर्तृ-सुहृत्-गृहम्|

|क्१९|त्२६|श्२९
तत्र स्थित्वा च युक्त्या तत् दाहयित्वा कलेवरम्|
चौरस्य तस्य तीर्थे अस्थि-क्षेप-आदिकम् अकारयत्|

|क्१९|त्२६|श्३०
अन्ये-द्युः च आत्त-गुप्त-अर्था ततः निर्गत्य स-आत्म-जा|
प्रयान्ती क्रमशः प्राप सा तत् वक्रोलकम् पुरम्|

|क्१९|त्२६|श्३१
तत्र एकम् वसुदत्त-आख्यात् गृहम् क्रीत्वा वणिक्-वरात्|
तस्मिन् उवास सुतया धनवत्या तया सह|

|क्१९|त्२६|श्३२
तदा च तत्र उपाध्यायः विष्णुस्वामी इति अभूत् पुरे|
मनःस्वामी इति तस्य आसीत् शिष्यः विप्रः अतिरूपवान्|

|क्१९|त्२६|श्३३
विध्या-अभिजन-युक्तः अपि सः यौवन-वशी-कृतः|
तत्र हंसावलीम् नाम वाञ्चति स्म विलासिनीम्|

|क्१९|त्२६|श्३४
सा च सौवर्ण-दीर-शतपञ्चकम् अग्रहीत्|
भाटिम् तस्य च तत् न अभूत् व्यषीदत् तेन सः अनु-अहम्|

|क्१९|त्२६|श्३५
एकदा च तम् अद्राक्षीत् तादृशम् सा वणिक्-सुता|
क्षाम-अभिराम-वपुषम् धनवती अत्र हर्म्यतः|

|क्१९|त्२६|श्३६
तत्-रूप-हृत-चित्त च भर्तुः चौरस्य तस्य सा|
स्मृत्वा अनुज्ञाम् समीप-स्थाम् युक्त्या अवोचत् स्व-मातरम्|

|क्१९|त्२६|श्३७
अम्ब विप्र-सुतस्य अस्य पश्य एते रूप-यौवने|
कीदृशे बत विश्वस्य नयन-अमृत-वर्षिणी|

|क्१९|त्२६|श्३८
एतत् श्रुत्वा एव तस्मिन् ताम् बद्ध-भावाम् अवेत्य च|
तत् माता सा वणिक्-भार्या मनसि एवम् अचिन्तयत्
|क्१९|त्२६|श्३९
मत्-दुहित्रा अनया तावत् वरणीयः सुत-आप्तये|
कः-चित् भर्तृ-आज्ञया तस्मात् एषः एव अर्थ्यते न किम्|

|क्१९|त्२६|श्४०
इति आकलय्य व्यसृजत् तत् संदिश्य मनीषितम्|
रहस्य-धारिणीम् चेटीम् तम् आनेतुम् सुता-कृते|

|क्१९|त्२६|श्४१
सा गत्वा विजने नीत्वा चेटी तस्मै शशंस तत्|
सः च श्रुत्वा द्विज-युवा व्यसनी ताम् अभाषत|

|क्१९|त्२६|श्४२
यदि हंसावली-हेतोः दीनार-शतपञ्चकम्|
सौवर्णम् दीयते तत् एकाम् एमि यामिनीम्|

|क्१९|त्२६|श्४३
इति तेन उक्तया चेट्या तया गत्वा तथा एव सा|
उक्ता वणिक्-स्त्री तस्मै तत् तत्-हस्ते प्राहिणोत् धनम्|

|क्१९|त्२६|श्४४
तत् गृहीत्वा मनःस्वामी तत्-पुत्र्याः वासकम् ययौ|
तस्याः सः तत्-निसृष्टायाः धनवत्यः स-चेटिकः|

|क्१९|त्२६|श्४५
तत्र ताम् वितत-उत्कण्ठाम् कान्ताम्