Katha 11 to 15
From Wikisource
|क्११|त्१८|श्१
ततः गत्वा पुनः प्राप्य शिंशपातः अग्रहीत् नृ-पः|
सः त्रिविक्रमसेनः अंसे वेतालम् तम् चचाल च|
|क्११|त्१८|श्२
आयान्तम् च तम् अंस-स्थः वेतालः सः अब्रवीत् नृ-पम्|
राजन् विचित्राम् एकाम् ते वर्णयामि कथाम् शृणु|
|क्११|त्१८|श्३
उज्जयिन्याम् अभूत् पूर्वम् नाम्ना धर्मध्वजः नृ-पः|
तिस्रः तस्य आभवन् भार्याः राज-पुत्र्यः अतिवल्लभाः|
|क्११|त्१८|श्४
एका तासु इन्दुलेखा इति तारावली अपरा तथा|
नाम्ना मृगाङ्कवती अन्या निः-सामान्य-वपुः-गुणाः|
|क्११|त्१८|श्५
ताभिः सः विहरन् राजा राज्ञीभिः तिसृभिः सह|
आसांचक्रे कृती तत्र जित-अशेष-रिपुः सुखम्|
|क्११|त्१८|श्६
एकदा तत्र संप्राप्ते वसन्त-समय-उत्सवे|
प्रियाभिः सहितः ताभिः उद्यानम् क्रीडितुम् ययौ|
|क्११|त्१८|श्७
तत्र अलि-माला-मौर्वीकाः पश्यन् पुष्प-आनताः लताः|
चाप-यष्टीः अनङ्गस्य मधुना सज्जिताः इव|
|क्११|त्१८|श्८
शृण्वन् च तत्-द्रुम-अग्र-स्थ-कोकिल-उदीरिताम् गिरम्|
सम्-भोग-एक-रसस्य आज्ञाम् इव मानस-जन्मनः|
|क्११|त्१८|श्९
सिषेवे अन्तः-पुरैः साकम् सः राजा वासव-उपमः|
पानम् मदस्य कंदर्प-जीवितस्य अपि जीवितम्|
|क्११|त्१८|श्१०
तत्-निः-श्वास-सु-गन्धीनि तत्-बिम्ब-ओष्ठ-रुचीनि च|
प्रिया-पीत-अवशेषाणि पिबन् रेमे मधूनि सः|
|क्११|त्१८|श्११
तत्र तस्य इन्दुलेखाया राज्ञः केलि-कच-ग्रहात्|
तस्याः पपात कर्ण-अग्रात् उत्सङ्गे त्वङ्गद् उत्पलम्|
|क्११|त्१८|श्१२
तेन ऊरु-पृष्ठे सहसा क्षते जाते अभिघात-जे|
अभिजाता महा-देवी हा हा इति उक्त्वा मुमूर्च्च सा|
|क्११|त्१८|श्१३
तत् दृष्ट्वा विह्वलेन आर्त्या राज्ञा परिजनेन च|
समाश्वास्यत राज्ञी सा शनैः शीत-अम्बु-मारुतैः|
|क्११|त्१८|श्१४
ततः नीत्वा सः राजा ताम् राज-धानीम् भिषक्-कृतैः|
प्रियाम् उपाचरत् दिव्यैः आमुक्त-व्रण-पट्टिकाम्|
|क्११|त्१८|श्१५
रात्रौ च सुस्थिताम् दृष्ट्वा ताम् सः राजा द्वितीयया|
तारावल्या सह आरोहत् चन्द्र-प्रासादम् ईश्वरः|
|क्११|त्१८|श्१६
तत्र तस्य अङ्क-सुप्तायाः राज्ञः तस्याः हिम-त्विषः|
कराः जाल-पथैः पेतुः अङ्गे चलित-वाससि|
|क्११|त्१८|श्१७
ततः क्षणात् प्रबुद्धा सा हा दग्धा-अस्मि इति वादिनी|
शयनात् सहसा उत्तस्थौ तत्-अङ्ग-परिमर्शिनी|
|क्११|त्१८|श्१८
किम् एतत् इति संभ्रान्तः प्रबुद्धः अथ ददर्श सः|
उत्थाय राजा विस्फोटान् अङ्गे तस्याः विनिर्गतान्|
|क्११|त्१८|श्१९
पृच्चन्तम् सा च तम् प्राह राज्ञी तारावली तदा|
नग्न-अङ्गे पतितैः इन्दोः करैः एतत् कृतम् मम|
|क्११|त्१८|श्२०
इति उक्तवत्याः क्रन्दन्त्याः स-आर्तिः आह्वयति स्म सः|
तस्याः परिजनम् राजा विह्वल-आकुल-धावितम्|
|क्११|त्१८|श्२१
तेन अस्याः कारयामास स-जलैः नलिनी-दलैः|
शय्याम् अदापयत् च अङ्गे श्री-खण्ड-आर्द्र-विलेपनम्|
|क्११|त्१८|श्२२
तावत् बुद्ध्वा तृतीया अस्य सा मृगाङ्कवती प्रिया|
तत्-पार्श्वम् आगन्तु-मनाः निर्ययौ निज-मन्दिरात्|
|क्११|त्१८|श्२३
निर्गता सा आशृणोत् क्व अपि गृहे धान्य-अवघातजम्|
निः-शब्दायाम् निशि व्यक्तम् विदूरे मुसल-ध्वनिम्|
|क्११|त्१८|श्२४
श्रुत्वा एव हा मृता-अस्मि इति ब्रुवाणा धुन्वती करौ|
उपाविशत् व्यथा-आक्रान्ता मार्गे सा मृग-लोचना|
|क्११|त्१८|श्२५
ततः प्रतिनिवृत्य एव नीत्वा परिजनेन सा|
स्वम् एव अन्तः-पुरम् बालाः रुदती शयने अपतत्|
|क्११|त्१८|श्२६
ददर्श तत्र तस्याः च चिन्वन् स-अश्रुः परिच्चदः|
आलीन-भ्रमरौ पद्मौ इव हस्तौ किण-अङ्कितौ|
|क्११|त्१८|श्२७
गत्वा च सः अब्रवीत् राज्ञे राजा अपि आगत्य विह्वलः|
किम् एतत् इति पप्रच्च सः अथ धर्मध्वजः प्रियाम्|
|क्११|त्१८|श्२८
सा अपि प्रदर्श्य हस्तौ तम् इति उवाच रुजा-अन्विता|
श्रुते मुसल-शब्दे मे जतौ एतौ किण-अङ्कितौ|
|क्११|त्१८|श्२९
ततः सः दाह-शमनम् दापयामास हस्तयोः|
तस्याः चन्दन-लेप-आदि राजा अद्भुत-विषादवान्|
|क्११|त्१८|श्३०
एकस्याः उत्पलेन अपि पतता क्षतम् आहितम्|
द्वितीयस्याः पुनः दग्धम् अङ्गम् शशि-करैः अपि|
|क्११|त्१८|श्३१
एकस्याः तु तृतीयस्याः श्रुतेन अपि विनिर्गताः|
कष्टम् मुसल-शब्देन हस्तयोः ईदृशाः किणाः|
|क्११|त्१८|श्३२
अहो युगपत् एतासाम् प्रेयसीनाम् मम अधुना|
गुणः अपि अत्यभिजातत्वम् जातः दोषाय दैवतः|
|क्११|त्१८|श्३३
इति चिन्तयतः तस्य भ्रमतः अन्तः-पुरेषु च|
त्रि-यामा शत-याम इव कृच्च्रात् सा नृ-पतेः ययौ|
|क्११|त्१८|श्३४
प्रातः च सः भिषक्-शल्य-हर्तृभिः सह संव्यधात्|
तथा यथा अभूत् अचिरात् स्व-स्थ-अन्तः-पुर-निर्वृत्तः|
|क्११|त्१८|श्३५
एवम् एताम् कथाम् उक्त्वा वेतालः अत्यद्भुताम् तदा|
सः त्रिविक्रमसेनम् तम् पप्रच्च अंस-स्थितः नृ-पम्|
|क्११|त्१८|श्३६
अभिजाततरा एतासु राजन् राज्ञीषु का वद|
पूर्व-उक्तः सः अस्तु शापः ते जानन् यदि न जल्पसि|
|क्११|त्१८|श्३७
तत् श्रुत्वा सः अब्रवीत् राजा सु-कुमारतरा अत्र सा|
अस्पृष्टे मुसले यस्याः शब्देन एव उद्गताः किणाः|
|क्११|त्१८|श्३८
उत्पल-इन्दु-करैः स्पर्शे वृत्ते तु इतरयोः द्वयोः|
संजाताः व्रण-विस्फोटाः तेन तस्याः न ते समे|
|क्११|त्१८|श्३९
इति तस्य उक्तवतः अंसात् राज्ञः भूयः जगाम सः स्व-पदम्|
वेतालः सः च राजा तथा एव तम् सु-दृढ-निश्चयः अनुययौ|
|क्१२|त्१९|श्१
सः त्रिविक्रमसेनः अथ पुनः तम् शिंशपा-तरुम्|
गत्वा प्राप्य च वेतालम् राजा स्कन्धे चकार तम्|
|क्१२|त्१९|श्२
प्रतस्थे च तम् आदाय तूष्णीम् एव सः पूर्ववत्|
ततः भूयः तम् आह स्म वेतालः सः अंस-पृष्ठतः|
|क्१२|त्१९|श्३
राजन् एवम् अनुद्विग्नः पर्याप्तम् असि मे प्रियः|
तत् एताम् शृणु अखेदाय हृद्याम् आख्यामि ते कथाम्|
|क्१२|त्१९|श्४
अङ्ग-देशे यशःकेतुः इति राजा अभवत् पुरा|
क्ष्माम् आश्रितः अङ्ग-गुप्ति-अर्थम् अ-दग्धः अन्यः इव स्मरः|
|क्१२|त्१९|श्५
बाहु-वीर्य-जित-अशेष-वैरि-वर्गस्य तस्य च|
दीर्घदर्शी इति अभूत् मन्त्री शक्रस्य इव बृहस्पतिः|
|क्१२|त्१९|श्६
तस्मिन् मन्त्रिणि विन्यस्य राज्यम् सः हत-कण्टकम्|
शनैः सुख-एक-सक्तः अभूत् वयः-रूप-मदात् नृ-पः|
|क्१२|त्१९|श्७
तस्थौ अन्तः-पुरे शश्वत् न आस्थाने प्रमदा-आस्पदे|
शुश्राव रक्तिमत् गीतम् वचनम् न हित-एषिणाम्|
|क्१२|त्१९|श्८
रज्यति स्म च निः-चिन्तः जाल-वात-अयनेषु सः|
न पुनः राज-कार्येषु बहु-चिद्रेषु जातु अपि|
|क्१२|त्१९|श्९
दीर्घदर्शी तु तत् राज्य-चिन्ता-भारम् समुद्वहन्|
अतिष्ठत् सः महा-मन्त्री दिवा-निशम् अतन्द्रितः|
|क्१२|त्१९|श्१०
नाम-मात्रे कृत-धृतिम् प्रक्षिप्य व्यसने नृ-पम्|
मन्त्री राज्ञः श्रियम् भुण्क्ते दीर्घदर्शी इह साम्प्रतम्|
|क्१२|त्१९|श्११
इति उत्पन्ने महति अत्र जन-वादे अथ गेहिनीम्|
स्वैरम् मेधाविनीम् नाम दीर्घदर्शी जगाद सः|
|क्१२|त्१९|श्१२
प्रिये राज्ञि सुख-आसक्ते तत्-भारम् वहतः अपि मे|
राज्यम् भक्षितम् एतेन इति उत्पन्नम् अ-यशः जने|
|क्१२|त्१९|श्१३
लोक-वादः च मिथ्या अपि महताम् इह दोष-कृत्|
तत्याज किम् न रामः अपि जन-वादेन जानकीम्|
|क्१२|त्१९|श्१४
तत् अत्र किम् मया कार्यम् इति उक्ते तेन मन्त्रिणा|
भार्या मेधाविनी धीरा सा अन्वर्था तम् अभाषत|
|क्१२|त्१९|श्१५
तीर्थ-यात्रा-अपदेशेन युक्त्या आपृच्च्य मही-पतिम्|
कम्-चित् कालम् विदेशम् ते गन्तुम् युक्तम् महा-मते|
|क्१२|त्१९|श्१६
एवम् ते निः-स्पृहस्य एष जन-वादः निवर्त्स्यति|
त्वयि अ-स्थिते ततः राज्यम् उद्वक्ष्यति नृ-पः स्वयम्|
|क्१२|त्१९|श्१७
ततः च अस्य शनैः एतत् व्यसनम् हानिमेष्यति|
आगतस्य अत्र निः-गर्हा भवित्री मन्त्रिता च ते|
|क्१२|त्१९|श्१८
इति उक्तः भार्यया गत्वा दीर्घदर्शी तथा इति सः|
कथा-प्रसङ्गे तम् भू-पम् यशःकेतुम् व्यजिज्ञपत्|
|क्१२|त्१९|श्१९
अनुजानीहि माम् राजन् दिवसान् कान्-चित् अपि अहम्|
व्रजामि तीर्थ-यात्रायै धर्मः हि प्रेप्सितः सः मे|
|क्१२|त्१९|श्२०
तत् श्रुत्वा सः अब्रवीत् राजा मा एवम् तीर्थैः विना परः|
दान-आदिः किम् न धर्मः अस्ति स्वर्ग्यः ते स्व-गृहेषु अपि|
|क्१२|त्१९|श्२१
अथ अवोचत् सः मन्त्री तम् अर्थ-शुद्धि-आदि मृग्यते|
दान-आदौ नित्य-शुद्धानि तीर्थानि नृ-पते पुनः|
|क्१२|त्१९|श्२२
यावत् च यौवनम् राजन् तावत् गम्यानि धीमता|
अ-विश्वास्ये शरीरे हि संगमः तैः कुतः अन्यदा|
|क्१२|त्१९|श्२३
इति तस्मिन् वदति एव राज्ञि च एवम् निषेधति|
प्रविश्य अत्र प्रतीहारः राजानम् तम् व्यजिज्ञपत्|
|क्१२|त्१९|श्२४
देव व्योम-सरः-मध्यम् अंशु-माली विगाहते|
तत् उत्तिष्ठत सा एषा वः स्नान-वेला अतिवर्तते|
|क्१२|त्१९|श्२५
श्रुत्वा एतत् सहसा स्नातुम् उदतिष्ठत् मही-पतिः|
यात्रा उन्मुखः सः मन्त्री च तम् प्रणम्य गृहम् ययौ|
|क्१२|त्१९|श्२६
तत्र अवस्थाप्य भार्याम् ताम् अनुयात्रा-निवारिताम्|
सः प्रतस्थे ततः युक्त्या स्व-भृत्यैः अपि अतर्कितः|
|क्१२|त्१९|श्२७
एकाकी च भ्रमन् तान् तान् देशान् तीर्थानि च व्रजन्|
सः प्राप पुण्ड्र-विषयम् दीर्घदर्शी सु-निः-चयः|
|क्१२|त्१९|श्२८
तत्र पत्तने एकस्मिन् अ-दूरे अप्-धेः प्रविश्य सः|
एकम् देव-कुलम् शैवम् तत्-प्राङ्गणे उपाविशत्|
|क्१२|त्१९|श्२९
तत्र अर्क-कर-संताप-क्लान्तम् दूर-अध्व-धूसरम्|
ददर्श निधिदत्त-आख्यः वणिक् देव-अर्चन-आगतः|
|क्१२|त्१९|श्३०
सः तम् तथा-विधम् दृष्ट्वा स-उपवीतम् सु-लक्षणम्|
संभाव्य च उत्तमम् विप्रम् आतिथेयः अनयत् गृहम्|
|क्१२|त्१९|श्३१
तत्र च अपूजयत् स्नान-भोजन-आद्यैः तम् उत्तमैः|
कः कुतः त्वम् क्व यासि इति विश्रान्तम् च सः पृष्टवान्|
|क्१२|त्१९|श्३२
दीर्घदर्शी इति विप्रः अहम् अङ्ग-देशात् इह आगतः|
तीर्थ-यात्रा-अर्थम् इति एव गाम्भीर्यात् सः अपि उवाच तम्|
|क्१२|त्१९|श्३३
ततः सः निधिदत्तः अपि तम् जगाद महा-वणिक्|
सु-वर्ण-द्वीप-गमनाय उद्यतः अहम् वणिज्यया|
|क्१२|त्१९|श्३४
तत् त्वम् तिष्ठ इह मत्-गेहे यावत् एष्यामि अहम् ततः|
तीर्थ-यात्रा-परिश्रान्तः विश्रान्तः हि अथ यास्यसि|
|क्१२|त्१९|श्३५
तत् श्रुत्वा सः अब्रवीत् दीर्घदर्शी तर्हि मम इह किम्|
त्वया एव सह यास्यामि सार्थ-वाह यथा-सुखम्|
|क्१२|त्१९|श्३६
एवम् अस्तु इति तेन उक्ते साधुना सः अथ तत्-गृहे|
चिरात् अवाप्त-शयनः निशाम् मन्त्री निनाय ताम्|
|क्१२|त्१९|श्३७
अन्ये-द्युः अथ तेन एव वणिजा सह वारि-धिम्|
गत्वा आरुरोह तत्-भाण्ड-पूर्णम् प्रवहणम् च सः|
|क्१२|त्१९|श्३८
तेन गच्चन् प्रवहणेन अप्-धिम् अद्भुत-भीषणम्|
विलोकयन् सः संप्राप स्वर्ण-द्वीपम् क्रमेण तत्|
|क्१२|त्१९|श्३९
क्व मन्त्रि-मुख्यता च अस्य क्व वा अध्व-उल्लङ्घित-अम्बु-धिः|
अ-यशः-भीरवः किम् न कुर्वते बत साधवः|
|क्१२|त्१९|श्४०
तत्र द्वीपे समम् तेन कम्-चित् कालम् उवास सः|
वणिजा निधिदत्तेन कुर्वता क्रय-विक्रयौ|
|क्१२|त्१९|श्४१
आगच्चन् च ततः अकस्मात् तत्-युक्तः वहन-स्थितः|
कल्प-वृक्षम् ददर्श अप्-धौ ऊर्मेः पश्चात् समुत्थितम्|
|क्१२|त्१९|श्४२
प्रवाल-शाखा-सु-भगैः स्कन्धैः जाम्बूनद-उज्ज्वलैः|
फलैः मणि-मयैः कान्तैः कुसुमैः च उपशोभितम्|
|क्१२|त्१९|श्४३
तस्य स्कन्धे च सद्-रत्न-पर्यङ्क-उत्सङ्ग-वर्तिनीम्|
कन्याम् अत्यद्भुत-आकार-कमनीयाम् अवैक्षत|
|क्१२|त्१९|श्४४
अहो किम् एतत् इति एवम् यावत् ध्यायति सः क्षणम्|
तावत् सा वीणिनी कन्या गातुम् एवम् प्रचक्रमे|
|क्१२|त्१९|श्४५
यत् कर्म-बीजम् उप्तम् येन पुरा निः-चितम् सः तत् भुङ्क्ते|
पूर्व-कृतस्य हि शक्यः विधिना अपि न कर्तुम् अन्यथा-भावः|
|क्१२|त्१९|श्४६
इति उद्गाय क्षणात् तस्मिन् अम्भः-धौ दिव्य-कन्यका|
स-कल्प-द्रुम-पर्यङ्क-शय्या अत्र एव ममज्ज सा|
|क्१२|त्१९|श्४७
किम्-अपि अ-पूर्वम् अद्य इदम् मया दृष्टम् इह अद्भुतम्|
क्व अप्-धिः क्व दृष्ट-नष्टः अत्र गायत्-दिव्य-अङ्गनः तरुः|
|क्१२|त्१९|श्४८
यदि वा वन्द्यः एषः अप्-धिः आकरः शश्वत् ईदृशाम्|
लक्ष्मी-इन्दु-पारिजात-आद्याः न अस्मात् ते ते किम् उद्गताः|
|क्१२|त्१९|श्४९
इति तम् चिन्तयन्तम् च तत्-क्षणम् दीर्घदर्शिनम्|
विलोक्य विस्मय-आविष्टम् कर्ण-धार-आदयः अब्रुवन्|
|क्१२|त्१९|श्५०
एवम् एषा सदा एव इह दृश्यते वर-कन्यका|
निमज्जति च तत्-कालम् तव एतत् दर्शनम् नवम्|
|क्१२|त्१९|श्५१
इति उक्तः तैः समम् तेन निधिदत्तेन सः क्रमात्|
मन्त्री चित्रीयमाणः अप्-धेः तीरम् पोत-गतः अभ्यगात्|
|क्१२|त्१९|श्५२
तत्र उत्तारित-भाण्डेन तेन एव वणिजा सह|
जगाम हृष्ट-भृत्येन स-उत्सवम् सः अथ तत्-गृहम्|
|क्१२|त्१९|श्५३
स्थित्वा न अतिचिरम् तत्र निधिदत्तम् उवाच तम्|
स-अर्थ-वाह भवत्-गेहे विश्रान्तः अहम् चिरम् सुखम्|
|क्१२|त्१९|श्५४
इदानीम् गन्तुम् इच्चामि स्व-देशम् भद्रम् अस्तु ते|
इति उक्त्वा तम् अनिच्चन्तम् अपि आमन्त्र्य वणिक्-पतिम्|
|क्१२|त्१९|श्५५
दीर्घदर्शी सः सत्त्व-एक-सहायः प्रस्थितः ततः|
क्रम-उल्लङ्घित-दूर-अध्वा प्राप अङ्ग-विषयम् निजम्|
|क्१२|त्१९|श्५६
तत्र तम् ददृशुः चाराः बहिः नगरम् आगतम्|
ये यशःकेतुना राज्ञा प्राङ्न्यस्ताः तत्-गवेषणे|
|क्१२|त्१९|श्५७
तैः च गत्वा सः विज्ञप्तः चारैः राजा तम् अभ्यगात्|
स्वयम् निः-गत्य नगरात् तत्-विश्लेष-सु-दुःखितः|
|क्१२|त्१९|श्५८
उपेत्य च परिष्वङ्ग-पूर्वम् तम् अभिनन्द्य सः|
निनाय अभ्यन्तरम् भू-पः चिर-अध्व-क्षाम-धूसरम्|
|क्१२|त्१९|श्५९
त्यक्त्वा अस्मान् किम् त्वया नीतम् न परम् बत मानसम्|
यावत् शरीरम् अपि एतत् निः-स्नेह-परुषाम् दशाम्|
|क्१२|त्१९|श्६०
किम् वा भगवतः वेत्ति भवितव्यस्य कः गतिम्|
यद् अकस्मात् तव एषा अभूत् तीर्थ-आदि-गमने मतिः|
|क्१२|त्१९|श्६१
तत् ब्रूहि के त्वया भ्रान्ता देशाः दृष्टम् च किम् नवम्|
इति तत्र च तम् राजा सः जगाद स्व-मन्त्रिणम्|
|क्१२|त्१९|श्६२
ततः सु-वर्ण-द्वीप-अन्तम् सः अध्वानम् वर्णयन् क्रमात्|
अप्-धौ उद्गमिनीम् तस्मै ताम् दृष्टाम् दिव्य-कन्यकाम्|
|क्१२|त्१९|श्६३
गायन्तीम् त्रि-जगत्-सार-भूताम् कल्प-तरु-स्थिताम्|
यथावत् कथयामास दीर्घदर्शी मही-भृते|
|क्१२|त्१९|श्६४
सः ताम् श्रुत्वा एव च नृ-पः तथा स्मर-वशः अभवत्|
यथा तया विना मेने निष्फले राज्य-जीविते|
|क्१२|त्१९|श्६५
जगाद च तम् एक-अन्ते नीत्वा स्व-सचिवम् तदा|
द्रष्टव्या असौ मया अ-वश्यम् जीवितम् न अस्ति मे अन्यथा|
|क्१२|त्१९|श्६६
यामि त्वत्-उक्तेन पथा प्रणम्य भवितव्यताम्|
निवारणीयः न अहम् ते न अनुगम्यः च सर्व्था|
|क्१२|त्१९|श्६७
गुप्तम् एकः हि यास्यामि राज्यम् रक्ष्यम् तु मे त्वया|
मत्-वचः मा अन्यथा कार्षीः शापितः असि मम असुभिः|
|क्१२|त्१९|श्६८
इति उक्त्वा तत्-प्रतिवचः निरस्य विससर्ज तम्|
मन्त्रिणम् स्व-गृहम् राजा चिर-उत्कम् स्व-जनम् प्रति|
|क्१२|त्१९|श्६९
तत्र अन्-अल्प-उत्सवे अपि आसीत् दीर्घदर्शी सु-दुः-मनाः|
स्वामिनि अ-साध्य-व्यसने सुखम् सत्-मन्त्रिणाम् कुतः|
|क्१२|त्१९|श्७०
अन्ये-द्युः च सः तत्-हस्त-न्यस्त-राज्य-भरः नृ-पः|
यशःकेतुः ततः प्रायात् निशि तापस-वेष-भृत्|
|क्१२|त्१९|श्७१
गच्चन् च कुशनाभ-आख्यम् मुनिम् मार्गे ददर्श सः|
सः अत्र तम् तापस-आकल्पम् प्रणतम् मुनिः आदिशत्|
|क्१२|त्१९|श्७२
लक्ष्मीदत्तेन वणिजा सह पोतेन वारि-धौ|
गत्वा प्रप्स्यसि ताम् इष्टाम् कन्याम् व्रज निः-आकुलः|
|क्१२|त्१९|श्७३
इति तत्-वचसा प्रीताः तम् प्रणम्य सः पार्थिवः|
गच्चन् देशान् नदीः अद्रीन् क्रान्त्वा तम् प्रापत् अम्बु-धिम्|
|क्१२|त्१९|श्७४
सुतार-शङ्ख-धवलैः वीचि-भ्रूभिः विकस्वरैः|
वीक्षमाणम् इव आवर्त-नेत्रैः आतिथ्य-संभ्रमात्|
|क्१२|त्१९|श्७५
तत्-तीरे वणिजा तेन मुनि-प्रोक्तेन संगतिः|
लक्ष्मीदत्तेन जज्ञे अस्य स्वर्ण-द्वीपम् यियासुना|
|क्१२|त्१९|श्७६
तेन एव सह चक्र-अङ्क-पाद-मुद्रा-आदि दर्शनात्|
प्रह्वेण आरुह्य वहनम् प्रतस्थे सः अम्बु-धौ नृ-पः|
|क्१२|त्१९|श्७७
मध्यम् अप्-धेः च संप्राप्ते वहने वारि-मध्यतः|
उदगात् कल्प-विटपि-स्कन्ध-स्था सा अत्र कन्यका|
|क्१२|त्१९|श्७८
यावत् पश्यति ताम् राजा चकोरः इव चन्द्रिकाम्|
तावत् सा गायति स्म एवम् वल्लकी-वाद्य-सुन्दरम्|
|क्१२|त्१९|श्७९
यत् कर्म-बीजम् उप्तम् येन पुरा निः-चितम् सः तत् भुङ्क्ते|
पूर्व-कृतस्य हि शक्यः विधिना अपि न कर्तुम् अन्यथा-भावः|
|क्१२|त्१९|श्८०
तस्मात् यत्र यथा यद् भवितव्यम् यस्य दैव-योगेन|
तत्र तथा तत्-प्राप्त्यै विवशः असौ नीयते अत्र न भ्रान्तिः|
|क्१२|त्१९|श्८१
इति सूचित-भव्य-अर्थाम् गायन्तीम् ताम् विभावयन्|
निः-स्पन्दः सः क्षणम् तस्थौ राजा स्मर-शर-आहतः|
|क्१२|त्१९|श्८२
रत्न-आकर नमः सत्यम् अ-गाध-हृदयाय ते|
येन त्वया एताम् प्रच्चाद्य विप्रलब्धः हरिः श्रिया|
|क्१२|त्१९|श्८३
तत् सुरैः अपि अ-लभ्य-अन्तम् स-पक्ष-क्ष्मा-भृत्-आश्रयम्|
शरणम् त्वाम् प्रपन्नः अहम् इष्ट-सिद्धिम् विधत्स्व मे|
|क्१२|त्१९|श्८४
एवम् यावत् समुद्रम् तम् सः नतः स्तौति भूमि-पः|
तावत् सा कन्यका तत्र निममज्ज स-पाद-पा|
|क्१२|त्१९|श्८५
तत् दृष्ट्वा एव अनुमार्गे अस्याः सः राजा आत्मानम् अक्षिपत्|
वारि-धौ अत्र काम-अग्नि-संतापस्य इव शान्तये|
|क्१२|त्१९|श्८६
तत् वीक्ष्य अ-शङ्कितम् मत्वा विनष्टम् तम् सः सत्-जनः|
लक्ष्मीदत्तः वणिक् दुःखात् देह-त्याग-उद्यतः अभवत्|
|क्१२|त्१९|श्८७
मा कार्षीः साहसम् न अस्ति मग्नस्य अस्य अम्भु-धौ भयम्|
एषः राजा यशःकेतुः नाम्ना तापस-वेष-भृत्|
|क्१२|त्१९|श्८८
एतत् कन्या-अर्थम् आयातः पूर्व-भार्या इयम् अस्य च|
एताम् प्राप्य पुनः च असौ अङ्ग-राज्यम् समेष्यति|
|क्१२|त्१९|श्८९
इति अथ आश्वासितः वाचा तत्-कालम् गगन-उत्थया|
स-अर्थ-वाहः यथा-कामम् सः जगाम इष्ट-सिद्धये|
|क्१२|त्१९|श्९०
सः राजा अपि यशःकेतुः निमग्नः अन्तः महा-उद-धौ|
अकस्मात् नगरम् दिव्यम् अपश्यत् जात-विस्मयः|
|क्१२|त्१९|श्९१
भास्वत्-मणिमय-स्तम्भैः काञ्चन-उज्ज्वल-भित्तिभिः|
विराजमानम् प्रासादैः मुक्ता-जाल-गव-अक्षकैः|
|क्१२|त्१९|श्९२
नाना-रत्न-शिला-पट्ट-बद्ध-सोपान-वापिकैः|
काम-दैः कल्प-वृक्ष-आढ्यैः उद्यानैः उपशोभितम्|
|क्१२|त्१९|श्९३
समृद्धे अपि पुरे तत्र निः-जने अथ गृहम् गृहम्|
अनुप्रविश्य न यदा ताम् ददर्श प्रियाम् क्व-चित्|
|क्१२|त्१९|श्९४
तदा विचिन्वन् दृष्ट्वा एकम् उत्तुङ्गम् मणि-मन्दिरम्|
आरुह्य द्वारम् उद्घाट्य प्रविवेश सः भू-पतिः|
|क्१२|त्१९|श्९५
प्रविश्य च अन्तः सत्-रत्न-पर्यङ्क-स्थितम् एककम्|
वस्त्र-आच्चादित-सर्व-अङ्गम् शयानम् कम्-चित् ऐक्षत|
|क्१२|त्१९|श्९६
किम् स्यात् सा एव इति स-उत्कण्ठम् उद्घाटयति तत्-मुखम्|
यावत् तावत् अपश्यत् ताम् स्व-ईप्सिताम् एव सः अङ्गनाम्|
|क्१२|त्१९|श्९७
स्रस्त-नील-अंशुक-ध्वान्त-हसत्-मुख-शशि-श्रियम्|
ज्योत्स्ना-अवदाताम् पाताल-गताम् इव दिवा निशाम्|
|क्१२|त्१९|श्९८
तत्-दर्शनेन च अस्य अभूत् अवस्था का-अपि सा तदा|
ग्रीष्म-ऋतौ मरु-पान्थस्य सरित्-संदर्शनेन या|
|क्१२|त्१९|श्९९
सा अपि उन्मीलित-चक्षुः तम् कल्याण-आकृति-लक्षणम्|
वीक्ष्य अकस्मात् तथा-प्राप्तम् संभ्रमात् शयनम् जहौ|
|क्१२|त्१९|श्१००
कृत-आतिथ्या नत-मुखी पूजयन्ती इव पादयोः|
फुल्ल-ईक्षण-उत्पल-न्यासैः शनैः एतम् उवाच च|
|क्१२|त्१९|श्१०१
कः भवान् किम् अगम्यम् च प्रविष्ठः असि रसा-तलम्|
राज-चिह्न-अङ्कित-तनोः किम् च ते तापस-व्रतम्|
|क्१२|त्१९|श्१०२
इति आदिश महा-भाग प्रसादः यदि ते मयि|
एवम् तस्याः वचः श्रुत्वा सः राजा प्रत्युवाच ताम्|
|क्१२|त्१९|श्१०३
अङ्ग-राजः यशःकेतुः इति नाम्ना अस्मि सुन्दरि|
आप्तात् अन्वह-दृश्याम् च त्वाम् अश्रौषम् इह अम्बु-धौ|
|क्१२|त्१९|श्१०४
ततः त्वत्-अर्थम् कृत्वा इमम् वेषम् राज्यम् विमुच्य च|
आगत्य एष प्रविष्टः अहम् अनुमार्गेण ते अम्बु-धिम्|
|क्१२|त्१९|श्१०५
तत् मे कथय का असि त्वम् इति उक्ते तेन च अथ सा|
स-लज्जा स-अनुरागा च स-आनन्दा च एवम् अभ्यधात्|
|क्१२|त्१९|श्१०६
मृगाङ्कसेनः इति अस्ति श्रीमान् विद्याधर-अधिपः|
माम् मृगाङ्कवतीम् नाम्ना विद्धि तस्य सुताम् इमाम्|
|क्१२|त्१९|श्१०७
सः माम् अस्मिन् स्व-नगरे विमुच्य एकाकिनीम् पिता|
न जाने हेतुना केन गतः क्व अपि स-पौरकः|
|क्१२|त्१९|श्१०८
तेन अहम् शून्य-वसतेः निर्विण्णा उन्मज्ज्य वारि-धेः|
यन्त्र-कल्प-द्रुम-आरूढा गायामि भवितव्यताम्|
|क्१२|त्१९|श्१०९
एवम् उक्तवती तेन स्मरता तत् मुनेः वचः|
तथा अरज्यत सा राज्ञा वचोभिः प्रेम-पेशलैः|
|क्१२|त्१९|श्११०
यथा अनुराग-विवशा भार्यात्वम् तस्य तत्-क्षणम्|
अङ्गी-चकार वीरस्य समयम् तु एकम् अभ्यधात्|
|क्१२|त्१९|श्१११
शुक्ल-कृष्ण-चतुर्दश्याम् अष्टम्याम् च आर्य-पुत्र ते|
प्रति-मासम् अनायत्ता चतुरः दिवसान् अहम्|
|क्१२|त्१९|श्११२
यत्र क्व-अपि दिनेषु एषु गच्चन्ती च अस्मि न त्वया|
प्रष्टव्या न निषेद्धव्या कारणम् हि अत्र विद्यते|
|क्१२|त्१९|श्११३
एवम् ताम् उक्त-समयाम् सः राजा दिव्य-कन्यकाम्|
तथा इति उक्त्वा एव गान्धर्व-विधिना परिणीतवान्|
|क्१२|त्१९|श्११४
भेजे ततः च संभोग-सुखम् तत्र तया सह|
यथा अभूत् अन्यः एव अस्याः मान्मथः मण्डन-क्रमः|
|क्१२|त्१९|श्११५
केशेषु स्रस्त-माल्येषु कच-ग्रह-नख-आवली|
बिम्ब-अधरे अथ निष्पीत-नीरागे दशन-क्षतिः|
|क्१२|त्१९|श्११६
कुचयोः कर-ज-श्रेणिः भिन्न-माणिक्य-मालयोः|
लुप्त-अङ्ग-रागेषु अङ्गेषु गाढ-आलिङ्गन-रागिता|
|क्१२|त्१९|श्११७
इति तत्-दिव्य-संभोग-सुख-अवस्थितम् अत्र तम्|
सा मृगाङ्कवती भार्या भू-पम् प्राह इदम् एकदा|
|क्१२|त्१९|श्११८
त्वम् इह एव प्रतीक्षेथाः कार्य-अर्थम् क्व-अपि यामि अहम्|
अद्य सा एषा हि संप्राप्ता मम कृष्ण-चतुर्दशी|
|क्१२|त्१९|श्११९
इह स्थः तु आर्य-पुत्र अमुम् मा स्म गाः स्फाटिकम् गृहम्|
मा अत्र वाप्याम् निपतितः भू-लोकम् त्वम् गमिष्यसि|
|क्१२|त्१९|श्१२०
इति उक्त्वा सा तम् आमन्त्र्य ययौ तस्मात् पुरात् बहिः|
राजा अपि प्राप्त-खड्गः ताम् चन्नः जिज्ञासुः अन्वगात्|
|क्१२|त्१९|श्१२१
तत्र अपश्यत् तमः-श्यामम् व्यात्त-वक्र-बिलम् च सः|
स-आकारम् इव पातालम् आयान्तम् राक्षसम् नृ-पः|
|क्१२|त्१९|श्१२२
सः राक्षसः निपत्य एव मुक्त-घोर-रवः तदा|
ताम् मृगाङ्कवतीम् वक्त्रे निक्षिप्य एव निगीर्णवान्|
|क्१२|त्१९|श्१२३
तत् दृष्ट्वा एव अति-कोपेन सहसा सः ज्वलन् इव|
निः-मोक-मुक्त-भुजग-श्यामलेन महा-असिना|
|क्१२|त्१९|श्१२४
कोष-आकृष्टेन धावित्वा राज-सिंहः अभिधावतः|
चिच्चेद रक्षसः तस्य संदष्ट-ओष्ठ-पुटम् शिरः|
|क्१२|त्१९|श्१२५
रक्षः-कबन्ध-वान्तेन राज्ञः तस्य अस्र-वारिणा|
क्रोध-जः अथ शशाम अग्निः न तु कान्ता-वियोग-जः|
|क्१२|त्१९|श्१२६
ततः मोह-निशा-अन्धे अस्मिन् विनष्ट-गतिके नृ-पे|
अकस्मात् मेघ-मलिनस्य अङ्गम् भित्त्वा इव रक्षसः|
|क्१२|त्१९|श्१२७
तस्य उद्द्योतित-दिक्-चक्रा चन्द्र-मूर्तिः इव अ-मला|
सा मृगाङ्कवती जीवन्ती अ-क्षत-अङ्गी विनिर्ययौ|
|क्१२|त्१९|श्१२८
ताम् तथा संकट-उत्तीर्णाम् दृष्ट्वा कान्ताम् स-संभ्रमम्|
एहि एहि इति वदन् राजा प्रधाव्य एव आलिलिङ्ग सः|
|क्१२|त्१९|श्१२९
प्रिये किम् एतत् स्वप्नः अयम् उत माया इति तेन सा|
पृष्टा नृ-पेण संस्मृत्य विद्याधरी एवम् अब्रवीत्|
|क्१२|त्१९|श्१३०
शृणु आर्य-पुत्र न स्वप्नः न माया इयम् अयम् पुनः|
विध्याधर-इन्द्रात् स्व-पितुः शापः अभूत् ईदृशः मम|
|क्१२|त्१९|श्१३१
बहु-पुत्रः अपि सः हि मे पिता पूर्वम् वसन् इह|
मया विना अति-वात्सल्यात् न आहरम् अकरोत् सदा|
|क्१२|त्१९|श्१३२
अहम् च सर्वदा शर्व-पूजा-आसक्ता इह निः-जने|
चतुर्दश्योः अथ अष्टम्योः आगच्चम् पक्षयोः द्वयोः|
|क्१२|त्१९|श्१३३
एकदा च चतुर्दश्याम् इह आगत्य रसात् मम|
चिरम् गौरीम् समर्चन्त्या दैवात् अवसितम् दिनम्|
|क्१२|त्१९|श्१३४
तत् अहर् मत्-प्रतीक्षः सन् क्षुधितः अपि सः मत्-पिता|
न अभुङ्क्त न अपिबत् किम्-चित् आसीत् क्रुद्धः तु माम् प्रति|
|क्१२|त्१९|श्१३५
ततः रात्रौ उपेताम् माम् स-अपराधाम् अधः-मुखीम्|
भवितव्य-बल-ग्रस्त-मत्-स्नेहः शपति स्म सः|
|क्१२|त्१९|श्१३६
यथा त्वत्-अवलेपेन ग्रस्तः अद्य अहम् अयम् क्षुधा|
मासि मासि तथा अष्टम्योः चतुर्दश्योः च केवलम्|
|क्१२|त्१९|श्१३७
हर-अर्चन-रसात् यन्तीम् अत्र एव त्वाम् बहिः पुरे|
नाम्ना कृतान्तसंत्रासः राक्षसः निगरिष्यति|
|क्१२|त्१९|श्१३८
भित्त्वा भित्त्वा अस्य हृदयम् जीवन्ती च निरेष्यसि|
न स्मरिष्यसि शापम् च न ताम् निगरण-व्यथाम्|
|क्१२|त्१९|श्१३९
स्थास्यसि एकाकिनी च अत्र इति उक्त-शाप-वचाः शनैः|
सः अनुनीतः मया ध्यात्वा शाप-अन्तम् मे अब्रवीत् पिता|
|क्१२|त्१९|श्१४०
भर्ता भूत्वा यशःकेतु-नाम- अङ्ग-नृ-पतिः यदा|
राक्षसेन निगीर्णाम् त्वाम् दृष्ट्वा तम् निहनिष्यति|
|क्१२|त्१९|श्१४१
तदा त्वम् मोक्ष्यसे शापात् हृदयात् तस्य निः-गता|
संस्मरिष्यसि शाप-आदि विद्याः सर्वाः तथा निजाः|
|क्१२|त्१९|श्१४२
इति आदिश्य सः शाप-अन्तम् त्यक्त्वा माम् एककाम् इह|
निषध-अद्रिम् गतः तातः भू-लोकम् स-परिच्चदः|
|क्१२|त्१९|श्१४३
अहम् तथा चरन्ती च शाप-मोहात् इह अवसम्|
क्षीणः च एष सः शापः मे जाता सर्वत्र च स्मृतिः|
|क्१२|त्१९|श्१४४
तत् तात-पार्श्वम् अधुना निषध-अद्रिम् व्रजामि अहम्|
शाप-अन्ते स्वाम् गतिम् याम इति एष समयः हि नः|
|क्१२|त्१९|श्१४५
त्वम् इह आस्स्व स्व-राष्ट्रम् वा व्रज स्वातन्त्र्यम् अत्र ते|
एवम् तया उक्ते सः नृ-पः दुःखितः अर्थयते स्म ताम्|
|क्१२|त्१९|श्१४६
सप्त-अहानि न गन्तव्यम् प्रसीद सु-मुखि त्वया|
क्षिपाव तावत् औत्सुक्यम् उद्याने क्रीडनैः इह|
|क्१२|त्१९|श्१४७
त्वम् गच्च अथ पितुः स्थानम् यास्यामि अहम् अपि स्वकम्|
एतत् तत्-वचनम् मुग्धा तथा इति अङ्गी-चकार सा|
|क्१२|त्१९|श्१४८
ततः अत्र रेमे सः तया सह उद्यानेषु कान्तया|
स-जल-उत्पल-नेत्रासु वापीषु षड्-अहम् नृ-पः|
|क्१२|त्१९|श्१४९
मा स्म यातम् विहाय अस्मान् इति पूत् कुर्वतीषु इव|
उत्क्षिप्त-वीचि-हस्तासु हंस-सारस-निः-स्वनैः|
|क्१२|त्१९|श्१५०
सप्तमे अह्नि सः युक्त्या ताम् प्रियाम् तत्र आनयत् गृहे|
भू-लोक-प्रापिणी यत्र सा यन्त्र-द्वार-वापिका|
|क्१२|त्१९|श्१५१
तत्र कण्ठे गृहीत्वा ताम् तस्याम् वाप्याम् निपत्य सः|
उत्तस्थौ स्व-पुर-उद्यान-वापी-मध्यात् तया सह|
|क्१२|त्१९|श्१५२
तत्र कान्ता-सखम् प्राप्तम् तम् दृष्ट्वा उद्यान-पालकाः|
हृष्टाः तत् मन्त्रिणे गत्वा जगदुः दीर्घदर्शिने|
|क्१२|त्१९|श्१५३
सः अपि एत्य पाद-पतितः तम् आनीत-ईप्सित-अङ्गनम्|
दृष्ट्वा प्रावेशयत् मन्त्री स-पौरः अभ्यन्तरम् नृ-पम्|
|क्१२|त्१९|श्१५४
अहो सा एषा कथम् प्राप्ता राज्ञा दिव्य-अङ्गना अमुना|
व्योम्नि इव विद्युत् इव या क्षण-दृश्या मया ईक्षिता|
|क्१२|त्१९|श्१५५
यत् यस्य लिखितम् धात्रा ललाट-अ-क्षर-पङ्क्तिषु|
तत् अ-वश्यम् असंभाव्यम् अपि तस्य उपतिष्ठते|
|क्१२|त्१९|श्१५६
इति अत्र मन्त्रि-मुख्ये अस्मिन् ध्यायति अन्य-जने अपि च|
दिव्य-स्त्री-प्राप्ति-स-अश्चर्यम् राज-अगमन-स-उत्सवे|
|क्१२|त्१९|श्१५७
सा मृगाङ्कवती दृष्ट्वा तम् स्व-देश-गतम् नृ-पम्|
इयेष पूर्ण-सप्त-अहा यातुम् वैद्याधरीम् गतिम्|
|क्१२|त्१९|श्१५८
न आविरासीत् च विद्या अस्याः स्मृता अपि उत्पतनी तदा|
ततः सा मुषिता इव अत्र विषादम् अगमत् परम्|
|क्१२|त्१९|श्१५९
किम् अकस्मात् विषण्णा इव दृश्यसे वद मे प्रिये|
इति उक्ता तेन राज्ञा सा विध्यादरी एवम् अब्रवीत्|
|क्१२|त्१९|श्१६०
स्थिता अहम् शाप-मुक्ता अपि त्वत्-स्नेहात् यत् इयत् चिरम्|
तेन विद्या मम भ्रष्टा नष्टा दिव्या च सा गतिः|
|क्१२|त्१९|श्१६१
तत् श्रुत्वा हन्त सिद्धा इयम् मम विद्याधरी इति सः|
राजा ततः यशःकेतुः पूर्णम् चक्रे महा-उत्सवम्|
|क्१२|त्१९|श्१६२
तत् दृष्ट्वा दीर्घदर्शी सः मन्त्री गत्वा गृहम् निशि|
शयनीय-गतः अकस्मात् हृत्-स्फोटेन व्यपद्यत|
|क्१२|त्१९|श्१६३
ततः अनुभूय तत्-शोकम् धृत-राज्य-भरः स्वयम्|
यशःकेतुः चिरम् तस्थौ सः मृगाङ्कवती-युतः|
|क्१२|त्१९|श्१६४
इति एताम् कथयित्वा मार्गे तस्मै कथाम् सः वेतालः|
अवदत् पुनः त्रिविक्रमसेनम् नृ-पतिम् तम् अंस-गतः|
|क्१२|त्१९|श्१६५
तत् ब्रूहि भू-पते ते संपन्ने स्वामिनः तथा अभ्युदये|
हृदयम् स-पदि स्फुटितम् तस्य महा-मन्त्रिणः किम् इति|
|क्१२|त्१९|श्१६६
दिव्य-स्त्री न मया किम् प्राप्ता इति शुचा अस्फुटत् हृदयम्|
किम् वा राज्यम् अभीप्सोः राज-आगम-जेन दुःखेन|
|क्१२|त्१९|श्१६७
एतत् च यदि न वक्ष्यसि मह्यम् जानन् अपि इह तत् राजन्|
धर्मः च तव विनङ्क्ष्यति यास्यति दलशः च झटिति शिरः|
|क्१२|त्१९|श्१६८
श्रुत्वा इति तु त्रिविक्रमसेनः राजा जगाद वेतालम्|
न एतत् तस्मिन् द्वयम् अपि शुभ-चरिते युज्यते हि मन्त्रि-वरे|
|क्१२|त्१९|श्१६९
किम् तु स्त्री-मात्र-रसात् उपेक्षितम् येन भू-भुजा राज्यम्|
तस्य अधुना तु दिव्य-स्त्री-रक्तस्य अत्र का वार्ता|
|क्१२|त्१९|श्१७०
तत् मे कष्टे अपि कृते प्रत्युत दोषः बत अधिकीभूतः|
इति तस्य विभावयतः हृदयम् तत्-मन्त्रिणः स्फुटितम्|
|क्१२|त्१९|श्१७१
इति उक्ते नर-पतिना पुनः सः मायी वेतालः निज-पदम् एव तत् जगाम|
राजा अपि प्रसभम् अवाप्तुम् अन्वधावत् भूयः अपि द्रुतम् अथ तम् सः धीर-चेताः|
|क्१३|त्२०|श्१
अथ गत्वा पुनः प्राप्य शिंशपातः ततः नृ-पः|
सः त्रिविक्रमसेनः तम् स्कन्धे वेतालम् आददे|
|क्१३|त्२०|श्२
आयान्तम् च सः वेतालः भूयः तम् नृ-पम् अब्रवीत्|
राजन् शृणु कथाम् एकाम् संक्षिप्ताम् वर्णयामि ते|
|क्१३|त्२०|श्३
अस्ति वाराणसी नाम पुरी हर-निवास-भूः|
देवस्वामी इति तत्र आसीन् मान्यः नर-पतेः द्वि-जः|
|क्१३|त्२०|श्४
महा-धनस्य तस्य एकः हरिस्वामी इति अभूत् सुतः|
तस्य भार्या च लावण्यवती इति अत्युत्तमा अभवत्|
|क्१३|त्२०|श्५
तिलोत्तमा-आदि-नाक-स्त्री-निः-माणे प्राप्त-कौशलः|
अनर्घ-रूप-लावण्याम् मन्ये याम् निर्ममे विधिः|
|क्१३|त्२०|श्६
तया सः कान्तया साकम् हरिस्वामी कदा-चन|
रति-श्रान्तः ययौ निद्राम् हर्म्ये चन्द्र-अंशु-शीतले|
|क्१३|त्२०|श्७
तत् कालम् तेन मार्गेण काम-चारी विहायसा|
आगात् मदनवेग-आख्यः विद्याधर-कुमारकः|
|क्१३|त्२०|श्८
सः तत्र लावण्यवतीम् पत्युः पार्श्वे ददर्श ताम्|
सुप्ताम् रति-क्लम-स्रस्त-वस्त्र-व्यक्त-अङ्ग-सौष्ठवाम्|
|क्१३|त्२०|श्९
तत्-रूप-हृत-चित्तः सन् मदन-अन्धः सः तत् क्षणम्|
सुप्ताम् एव निपत्य एताम् गृहीत्वा नभसा ययौ|
|क्१३|त्२०|श्१०
क्षणात् प्रबुद्धः अथ युवा हरिस्वामी सः तत्-पतिः|
प्राण-ईश्वरीम् अपश्यन् ताम् उदतिष्ठत् स-संभ्रमः|
|क्१३|त्२०|श्११
अहो किम् एतत् क्व गता कुपिता सा नु किम् मयि|
चन्ना जिज्ञासितुम् किम् मे चित्तम् परिहसति उत|
|क्१३|त्२०|श्१२
इति अन्-एक-विकल्प-ओघ-व्याकुलः ताम् इतः ततः|
हर्म्य-प्रासाद-वलभीषु अन्विष्यन् सः अभ्रमत् निशि|
|क्१३|त्२०|श्१३
अ-गृह-उद्यानतः चिन्वन् यत् न प्राप कुतः अपि ताम्|
तत् सः शोक-अग्नि-संतप्तः विललाप अश्रु-गद्गदम्|
|क्१३|त्२०|श्१४
हा चन्द्र-बिम्ब-वदने हा ज्योत्स्ना-गौरी हा प्रिये|
रात्र्या तुल्य-गुण-द्वेषात् किम् नु सोढा असि न अनया|
|क्१३|त्२०|श्१५
त्वया कान्त्या जितः बिभ्यत् इव चन्दन-शीतलैः|
करैः असुखयत् यः माम् सः अयम् इन्दुः त्वया विना|
|क्१३|त्२०|श्१६
लब्ध-अन्तरः इव इदानीम् तैः एव तुदति प्रिये|
प्रज्वलद्भिः इव अङ्गारैः विष-दिग्धैः इव आशु-गैः
|क्१३|त्२०|श्१७
इति आदि क्रन्दतः तस्य सा हरिस्वामिनः तदा|
कृच्च्रात् व्यतीयाय निशा न पुनः विरह-व्यथा|
|क्१३|त्२०|श्१८
प्रातः बिभेद विश्वस्य करैः संतमसम् रविः|
भेत्तुम् न चक्षमे तस्य मोह-अन्ध-तमसम् पुनः|
|क्१३|त्२०|श्१९
विलब्धः इव चक्र-आह्वैः तस्य तीर्ण-निशैः तदा|
भेजे शत-गुनी-भावम् करुणा-क्रन्दित-ध्वनिः|
|क्१३|त्२०|श्२०
स्व-जनैः सान्त्व्यमानः अपि वियोग-अनल-दीपितः|
न च लेभे द्वि-ज-युवा धृतिम् ताम् प्रेयसीम् विना|
|क्१३|त्२०|श्२१
इह स्थितम् इह स्नातम् कृतम् अत्र प्रसाधनम्|
विहृतम् च तया अत्र इति ययौ तु इतः इतः रुदन्|
|क्१३|त्२०|श्२२
मृता तावत् न सा तत् किम् आत्मा एवम् हन्यते त्वया|
अ-वश्यम् ताम् अवाप्तासि जीवन् जातु कुतः-चन|
|क्१३|त्२०|श्२३
तत् धैर्यम् अवलम्बस्व ताम् गवेषय च प्रियाम्|
अप्राप्यम् नाम न इह अस्ति धीरस्य व्यवसायिनः|
|क्१३|त्२०|श्२४
इति बन्धु-सु-हृत्-वाक्यैः बोधितः सः अथ कृच्च्रतः|
दिनैः कैः-चित् हरिस्वामी बबन्ध धृतिम् आस्थया|
|क्१३|त्२०|श्२५
अचिन्तयत् च सर्व-स्वम् कृत्वा ब्राह्मण-सात् अहम्|
भ्रमामि तावत् तीर्थानि क्षपयामि अघ-संचयम्|
|क्१३|त्२०|श्२६
पाप-क्षयात् हि ताम् जातु प्रियाम् भ्राम्यन् अवाप्नुयाम्|
इति आलोच्य यथा-अवस्थम् स्नान-आदि उत्थाय सः अकरोत्|
|क्१३|त्२०|श्२७
अन्ये-द्युः च विचित्र-अन्न-पानम् सत्त्रे द्वि-जन्मनाम्|
चकार अवारितम् किम् च ददौ धनम् अ-शेषतः|
|क्१३|त्२०|श्२८
ब्राह्मण्य-मात्र-वित्तस्य निः-गत्य एव स्व-देशतः|
प्रिया-प्राप्ति-इच्चया सः अथ तीर्थानि भ्रमितुम् ययौ|
|क्१३|त्२०|श्२९
भ्राम्यतः च जगाम अस्य भीमः ग्रीष्म-ऋतु-केसरी|
प्रचण्ड-आदित्य-वदनः दीप्त-तत्-रश्मि-केसरः|
|क्१३|त्२०|श्३०
प्रिया-विरह-संतप्त-पान्थ-निः-श्वास-मारुतैः|
न्यस्त-उष्माणः इव अत्युष्णाः वान्ति स्म च समीरणाः|
|क्१३|त्२०|श्३१
शुष्यत्-विदीर्ण-पङ्काः च हृदयैः स्फुटितैः इव|
जल-आशया ददृशिरे घर्म-लुप्त-अम्बु-संपदः|
|क्१३|त्२०|श्३२
चीरी-चीत्-कार-मुखराः ताप-म्लान-दल-अधराः|
मधु-श्री-विरहात् मार्गेषु अरुदन् इव पाद-पाः|
|क्१३|त्२०|श्३३
तस्मिन् काले अर्क-तापेन वियोगेन क्षुधा तृषा|
नित्य-अध्वना च सः क्लान्तः विरूक्ष-क्षाम-धूसरः|
|क्१३|त्२०|श्३४
भोजन-अर्थि हरिस्वामी प्राप ग्रामम् क्व-चित् भ्रमन्|
पद्मनाभ-अभिधानस्य गृहम् विप्रस्य सत्त्रिणः|
|क्१३|त्२०|श्३५
तत्र दृष्ट्वा सः भुञ्जानान् विप्रान् अभ्यन्तरे बहून्|
द्वार-शाखाम् समालम्ब्य तस्थौ निः-शब्द-निः-चलः|
|क्१३|त्२०|श्३६
तथा-स्थितम् तम् आलोक्य सत्त्रिणः तस्य गेहिनी|
पद्मनाभस्य संजात-दया साध्वी व्यचिन्तयत्|
|क्१३|त्२०|श्३७
अहो क्षुत् नाम गुर्वी एषा न कुर्यात् कस्य लाघवम्|
यत् एवम् अयम् अन्न-अर्थी कः अपि आस्ते द्वारि अधः-मुखः|
|क्१३|त्२०|श्३८
दूर-अध्व-अभ्यागतः स्नातः तावत् क्षीण-इन्द्रियः क्षुधा|
तत् एषः च अन्न-दानस्य पात्रम् इति अवधार्य सा|
|क्१३|त्२०|श्३९
परम-अन्न-भृतम् साध्वी तस्मै स-घृत-शर्करम्|
पात्रम् उत्क्षिप्य पाणिभ्याम् आनीय प्रश्रिता ददौ|
|क्१३|त्२०|श्४०
जगाद च एतम् भुङ्क्ष्व एतत् गत्वा वापी-तटे क्व-चित्|
इदम् स्थानम् समुच्चिष्टम् भुञ्जानैः ब्राह्मनैः वृतम्|
|क्१३|त्२०|श्४१
तथा इति सः अन्न-पात्रम् तत् गृहीत्वा न अतिदूरतः|
गत्वा स्थापितवान् वाप्याः तटे वट-तरोः अधः|
|क्१३|त्२०|श्४२
प्रक्षाल्य पाणि-पादम् च वाप्याम् आचम्य च अत्र सः|
यावत् भक्षयितुम् तुष्टः परम-अन्नम् उपैति तत्|
|क्१३|त्२०|श्४३
तावत् गृहीत्वा कृष्ण-अहिम् चञ्च्वा पाद-युगेन च|
श्येनः कुतः-चित् आगत्य तरौ तस्मिन् उपाविशत्|
|क्१३|त्२०|श्४४
तेन तस्य उह्यमानस्य सर्पस्य आक्रम्य पक्षिणा|
उत्क्रान्त-जीवितस्य अस्यात् विष-लाला विनिर्ययौ|
|क्१३|त्२०|श्४५
सा तत्र अधः-स्थिते तस्मिन् अन्न-पात्रे अपतत् तदा|
तत् च अदृष्ट्वा हरिस्वामी सः एत्य अन्नम् अभुङ्क्त तत्|
|क्१३|त्२०|श्४६
क्षुधा-अर्तस्य तदा तस्य मृष्ट-अन्नम् तत् क्षणेन तत्|
कृत्स्नम् भुक्तवतः तीव्रा प्रोदभूत् विष-वेदना|
|क्१३|त्२०|श्४७
अहो विधौ विपर्यस्ते न विपर्यस्यति इह किम्|
यत् विषी-भूतम् अन्नम् मे स-क्षीर-घृट-शर्करम्|
|क्१३|त्२०|श्४८
इति जल्पन् विष-अर्तः सः हरिस्वामी परिस्खलन्|
गत्वा ताम् सत्त्रिणः तस्य विप्रस्य उवाच गेहिनीम्|
|क्१३|त्२०|श्४९
त्वत्-दत्तात् विषम् अन्नात् मे जातम् तत् विष-मन्त्रिणम्|
कम्-चित् मम आनय क्षिप्रम् ब्रह्म-हत्या अन्यथा अस्ति ते|
|क्१३|त्२०|श्५०
इति उक्त्वा एव सः ताम् साध्वीम् किम् एतत् इति विह्वलाम्|
हरिस्वामी परावृत्त-नेत्रः प्राणैः व्ययुज्यत|
|क्१३|त्२०|श्५१
ततः सा तेन निः-दोषा अपि आतिथेयी अपि सत्त्रिणा|
भार्या निष्कासिता गेहात् मिथ्या-आतिथि-वध-क्रुधा|
|क्१३|त्२०|श्५२
सा अपि उत्पन्न-मृषा-वद्या सु-शुभात् अपि कर्मणः|
जात-अवमाना तपसे साध्वी तीर्थम् अशिशृइयत्|
|क्१३|त्२०|श्५३
कस्य विप्र-वधः सः अस्तु सर्प-श्येन-अन्न-देशु इति|
तत् अभूत् धर्म-राज-अग्रे वादः न आसीत् तु निः-णयः|
|क्१३|त्२०|श्५४
तत् त्रिविक्रमसेन त्वम् रजन् ब्रूहि मम अधुना|
कस्य सा ब्रह्म-हत्या इति पूर्वः शापः सः ते अन्यथा|
|क्१३|त्२०|श्५५
इति वेतालतः राजा श्रुत्वा शाप-नियन्त्रितः|
सः त्रिविक्रमसेनः तम् मुक्त-मौनः अब्रवीत् इदम्|
|क्१३|त्२०|श्५६
तस्य तत् पातकम् तावत् सर्पस्य यदि वा अस्य कः|
विवशस्य अपराधः अस्ति भक्ष्यमाणस्य शत्रुणा|
|क्१३|त्२०|श्५७
अथ स्येनस्य तेन अपि किम् दुष्टम् क्षुधित-आत्मना|
अकस्मात् प्राप्तम् आनीय भक्ष्यम् भक्षयता निजम्|
|क्१३|त्२०|श्५८
दं-पत्योः अन्न-दात्रोः वा तयोः एकस्य वा कुतः|
अभाव्य-दोषौ धर्म-एक-प्रवृत्तौ तौ उभौ यतः|
|क्१३|त्२०|श्५९
तत् अहम् तस्य मन्ये सा ब्रह्म-हत्या जड-आत्मनः|
अविचार्य एव यः ब्रूयात् एषाम् एक-तमस्य ताम्|
|क्१३|त्२०|श्६०
इति उक्तवतः अस्य नृ-पस्य अंसात् भूयः अपि अगात् सः वेतालः|
निज-पदम् एव नृ-पः अपि सः पुनः अपि धीरः तम् अन्वगात् एव|
|क्१४|त्२१|श्१
सः त्रिविक्रमसेनः अथ गत्वा तम् शिंशपा-तरोः|
भूयः अपि आसाद्य वेतालम् स्कन्धे जग्राह भू-पतिः|
|क्१४|त्२१|श्२
प्रस्थितम् च तम् उर्वी-ईशम् सः वेतालः अभ्यधात् पुनः|
राजन् श्रान्तः असि तत् चित्राम् कथाम् आख्यामि ते शृणु|
|क्१४|त्२१|श्३
अस्ति अयोध्या इति नगरी राज-धानी बभूव या|
रक्षः-कुल-कृत-अन्तस्य राम-रूपस्य शार्ङ्गिणः|
|क्१४|त्२१|श्४
तस्याम् राजा अभवत् वीरकेतुः नाम ररक्ष यः|
क्षोणीम् इमाम् महा-बाहुः प्राकारः नगरीम् इव|
|क्१४|त्२१|श्५
तस्मिन् मही-पतौ अस्याम् पुर्याम् एकः महा-वणिक्|
रत्नदत्त-अभिधानः अभूत् वणिक्-नीवह-नायकः|
|क्१४|त्२१|श्६
नन्दयन्ती-अभिधानायाम् पत्न्याम् तस्य उदपद्यत|
सुता रत्नवती नाम देवता-आराधन-अर्जिता|
|क्१४|त्२१|श्७
सा च तस्य पितुः वेश्मनि अवर्धत मनस्विनी|
रूप-लावण्य-विनयैः सह एव सह-जैः गुणैः|
|क्१४|त्२१|श्८
यौवन-स्थाम् च ताम् तस्मात् रत्नदत्तात् न केवलम्|
महान्तः वणिजः यावत् राजानः अपि ययाचिरे|
|क्१४|त्२१|श्९
सा तु पुम्-द्वेषिणी न ऐच्चत् भर्तारम् अपि वासवम्|
प्राण-त्याग-उद्यता सेहे न विवाह-कथाम् अपि|
|क्१४|त्२१|श्१०
तेन तस्याः पिता तूष्णीम् तस्थौ वात्सल्य-दुः-स्थितः|
सः च प्रवादः अयोद्यायाम् तस्याम् सर्वत्र पप्रथे|
|क्१४|त्२१|श्११
अत्र अन्तरे सदा चौरैः मुष्यमाणाः किल आखिलाः|
संभूय अत्र नृ-पम् पौराः वीरकेतुम् व्यजिज्ञपन्|
|क्१४|त्२१|श्१२
नित्यम् मुष्यामहे चौरैः रात्रौ रात्रौ इह प्रभो|
लक्ष्यन्ते ते च न अस्माभिः तत् देवः वेत्तु यत् परम्|
|क्१४|त्२१|श्१३
इति पौरैः सः विज्ञप्तः राजा ताम् अभितः पुरीम्|
तस्कर-अन्वेषणे चन्नान् आदिशत् रत्रि-रक्षकान्|
|क्१४|त्२१|श्१४
ते अपि प्रापुः न यत् चौरान् पुरी सा अमुष्यत एव च|
तदा एकदा स्वयम् राजा निशि स्वैरम् विनिर्ययौ|
|क्१४|त्२१|श्१५
एकाकी च आत्त-शस्त्रः अत्र भ्रमन् सः अपश्यत् एकतः|
एकम् प्राकार-पृष्टेन यान्तम् कम् अपि पूरुषम्|
|क्१४|त्२१|श्१६
निः-शब्द-पद-विन्यास-विचित्र-गति-कौशलम्|
स-शङ्क-लोल-नयनम् पश्यन्तम् पृष्टतः मुहुः|
|क्१४|त्२१|श्१७
अयम् सः नूनम् चौरः मे मुष्णाति एक-चरः पुरीम्|
इति मत्वा एव निकटम् सः तस्य उपययौ नृ-पः|
|क्१४|त्२१|श्१८
ततः सः चौरः दृष्ट्वा तम् नृ-पम् कः असि इति अभाषत|
चौरः अहम् इति राजा तम् चौरम् प्रत्यब्रवीत् सः तम्|
|क्१४|त्२१|श्१९
सः अथ चौरः अभ्यधात् दृष्ट्वा तर्हि तुल्यः असि मे सु-हृत्|
तत् एहि मत्-गृहम् तावत् मित्र-आचारम् करोमि ते|
|क्१४|त्२१|श्२०
तत् श्रुत्वा सः तथा इति उक्त्वा तेन एव सह भू-पतिः|
ययौ वन-अन्तः-धरणी-खात-अन्तः-वर्ति तत्-गृहम्|
|क्१४|त्२१|श्२१
अशेष-भोग-भोग-आढ्यम् भास्वत्-दीप-प्रकाशितम्|
नवीनम् इव पातालम् बलि-राज-अनधिष्ठितम्|
|क्१४|त्२१|श्२२
तत्र प्रविष्टे तस्मिन् च कृत-आसन-परिग्रहे|
राज्ञि सः अभ्यन्तर-गृहम् प्रविवेश अथ तस्करः|
|क्१४|त्२१|श्२३
तत् क्षणम् च तम् एत्य एका दासी तत्र अवदत् नृ-पम्|
महा-भाग प्रविष्टः त्वम् इह मृत्यु-मुखे कथम्|
|क्१४|त्२१|श्२४
एक-चौरः हि असौ पापम् निः-गत्य अतः करिष्यति|
ध्रुवम् विस्वास-घाती इति तत् इतः त्वरितम् व्रज|
|क्१४|त्२१|श्२५
इति उक्तः सः तया राजा निः-गत्य एव ततः द्रुतम्|
गत्वा स्व-राज-धानीम् च निशि सैन्यानि असज्जयत्|
|क्१४|त्२१|श्२६
संनद्ध-सैन्यः च आगत्य दस्योः तस्य रुरोध तत्|
भू-गृह-द्वार-विवरम् रसत्-तूर्य-अ-कुलैः बलैः|
|क्१४|त्२१|श्२७
ततः रुद्धे गृहे वृत्तम् प्रतिभेदम् अवेत्य सः|
मरणे निः-चितः चौरः शूरः युद्धाय निर्ययौ|
|क्१४|त्२१|श्२८
निः-गतः च रणे चक्रे पराक्रमम् अ-मानुषम्|
करान् चकर्त करिणाम् जङ्घाः चिच्चेद वाजिनाम्|
|क्१४|त्२१|श्२९
जहार च शिरांसि एकः भटानाम् खड्ग-चर्म-भृत्|
ततः तम् क्षपित-अनीकम् अभ्यधावत् स्वयम् नृ-पः|
|क्१४|त्२१|श्३०
सः तस्य खड्ग-विद्या-ज्ञः राजा करण-युक्तितः|
हस्तात् जहार निः-त्रिंशम् अथ ताम् क्षुरिकाम् अपि|
|क्१४|त्२१|श्३१
अ-शस्त्रम् मुक्त-शस्त्रः अथ बाहु-युद्धेन तम् नृ-पः|
चौरम् निहत्य धरणौ स-जीव-ग्राहम् अग्रहीत्|
|क्१४|त्२१|श्३२
निनाय तम् च संयम्य स-धनम् नगरीम् निजाम्|
प्रातः च अज्ञापयत् तस्य शूल-आरोपण-निग्रहम्|
|क्१४|त्२१|श्३३
नीयमानम् च तम् वध्य-भूमिम् चौरम् स-डिण्डिमम्|
ददर्श सा रत्नवती वणिक्-कन्या अत्र हर्म्यतः|
|क्१४|त्२१|श्३४
व्रणितम् धूलि-लिप्त-अङ्गम् अपि एतम् मार-मोहिता|
दृष्ट्वा एव गत्वा पितरम् रत्नदत्तम् उवाच सा|
|क्१४|त्२१|श्३५
वधाय नीयते यः अयम् एष भर्ता वृतः मया|
तत् नृ-पात् रक्ष तात एनम् न चेत् एनम् अनु म्रिये|
|क्१४|त्२१|श्३६
तत् श्रुत्वा ताम् पिता अवादीत् किम् इदम् पुत्रि भाषसे|
या त्वम् न इच्चसि भू-पालाम् अपि भर्त्क़्न् अभीप्सतः|
|क्१४|त्२१|श्३७
सा पापम् तस्करम् इमम् वाञ्चसि आपद्-गतम् कथम्|
इति आदि पित्रा प्रोक्ता अपि निः-चयात् न चचाल सा|
|क्१४|त्२१|श्३८
ततः सः तत्-पिता गत्वा तस्य चौरस्य स-त्वरम्|
सर्व-स्वेन अपि राजानम् वधान् मोक्षम् अयाचत|
|क्१४|त्२१|श्३९
राजा तु तम् न तत्याज हेम-कोटि-शतैः अपि|
स्व-शरीर-पण-आनीतम् चौरम् सर्व-अपहारिणम्|
|क्१४|त्२१|श्४०
ततः पितरि उपायाते विमुखे सा वणिक्-सुता|
अनुमर्तुम् कृत-स्नाना वार्यमाणा अपि बन्धुभिः|
|क्१४|त्२१|श्४१
आरुह्य शिबिकाम् तस्य दस्योः वध्य-भुवम् ययौ|
अन्वीयमाना रुदता पित्रा मात्रा जनेन च|
|क्१४|त्२१|श्४२
तावत् च वधकैः सः अत्र चौरः शूले अधिरोपितः|
ताम् ददर्श गलत्-प्राणः तथा स-ज्ञातिम् आगताम्|
|क्१४|त्२१|श्४३
जनात् श्रुत्वा च वृत्तान्तम् अश्रु मुक्त्वा क्षणम् ततः|
हसन् सः चौरः किम् अपि प्राणान् शूल-गतः जहौ|
|क्१४|त्२१|श्४४
ततः अवतारितम् शूलात् सा तत्-चौर-कलेवरम्|
आदाय च आरुरोह अत्र चिताम् साध्वी वणिक्-सुता|
|क्१४|त्२१|श्४५
तत् क्षणम् च श्मशाने अत्र भैरवः कृत-संनिधिः|
अ-दृश्यः भगवान् एवम् ताम् उवाच अन्तरिक्षतः|
|क्१४|त्२१|श्४६
अस्मिन् स्वयम्-वर-पतौ एवम् भक्त्या तव अनया|
तुष्टः अस्मि तत् वरम् मत्तः प्रार्थयस्व पति-व्रते|
|क्१४|त्२१|श्४७
तत् श्रुत्वा एव वरम् देवात् एवम् वव्रे प्रणम्य सा|
नाथ पुत्र-शतम् भूयात् अ-पुत्रस्य अपि मत्-पितुः|
|क्१४|त्२१|श्४८
येन अन्-अन्य-सुतः न एषः प्राणान् जह्यात् मया विना|
इति प्रोक्तवतीम् एनाम् साध्वीम् देवः अब्रवीत् पुनः|
|क्१४|त्२१|श्४९
पितुः पुत्र-शतम् ते अस्तु वरम् अन्यम् वृणीष्व च|
त्वादृशी दृढ-सत्त्वा हि न एतावत्-मात्रम् अर्हति|
|क्१४|त्२१|श्५०
तत् आकर्ण्य अथ सा अवादीत् प्रसन्नः मयि चेत् प्रभुः|
तत् जीवतु एषः भर्ता मे धार्मिकः च सदा अस्तु इति|
|क्१४|त्२१|श्५१
एवम् अस्तु अ-क्षतः जीवन् उत्तिष्ठतु एषः ते पतिः|
धार्मिकः च अस्तु राजास्य वीरकेतुः च तुष्यतु|
|क्१४|त्२१|श्५२
इति उक्तवति अन्-आलक्ष्य-मूर्तौ शर्वे नभः-स्थिते|
उत्तस्थौ अ-क्षत-अङ्गः अत्र चौरः जीवन् तदा एव सः|
|क्१४|त्२१|श्५३
ततः विस्मित-हृष्टः सन् रत्नदत्तः सुताम् वणिक्|
आदाय ताम् रत्नवतीम् चौरम् जामातरम् च तम्|
|क्१४|त्२१|श्५४
प्रहृष्टैः बान्धवैः साकम् प्रविश्य निज-मन्दिरम्|
लब्ध-पुत्र-वरः चक्रे स्व-आनन्द-उचितम् उत्सवम्|
|क्१४|त्२१|श्५५
ज्ञात-वृत्तान्त-तुष्टः च तदा एव आनाय्य तम् नृ-पः|
एक-वीरम् वीरकेतुः चौरम् सेना-पतिम् व्यधात्|
|क्१४|त्२१|श्५६
चौर्यात् निवृत्तः अथ सः ताम् परिणीय वणिक्-सुताम्|
एक-वीरः सुखम् तस्थौ मार्ग-स्थः राज-संमतः|
|क्१४|त्२१|श्५७
इति कथयित्वा सः कथाम् वेतालः दत्त-पूर्व-शाप-भयम्|
अंस-स्थितः त्रिविक्रमसेनम् पप्रच्च तम् क्षिति-पम्|
|क्१४|त्२१|श्५८
राजन् ब्रूहि स-पितृकाम् उपस्थिताम् ताम् वणिक्-सुताम् दृष्ट्वा|
चौरेण शूल-पृष्टे रुदितम् हसितम् च किम् तेन|
|क्१४|त्२१|श्५९
अथ राजा प्रत्यवदत् रुदितम् चौरेण दुःखतः तेन|
न अस्य अन्-ऋण्यम् अ-कारण-बन्धोः यातः अस्मि वणिजः इति|
|क्१४|त्२१|श्६०
आश्चर्यतः च हसितम् किम् इयम् कन्या नृ-पान् वरान् हित्वा|
मयि अस्मिन् अनुरक्ता स्त्री-चित्तम् अहो विचित्रम् इति|
|क्१४|त्२१|श्६१
इति उक्त-वाक्यस्य मही-भृतः अंसात् मायी स्व-शक्त्य एव तदा जगाम|
स्वम् धाम वेताल-वरः सः राजा अपि एतम् पुनः पूर्ववत् अन्वगच्चत्|
|क्१५|त्२२|श्१
ततः गत्वा पुनः प्राप्य वेतालम् शिंशपा-तरोः|
सः त्रिविक्रमसेनः तम् आदाय उदचलत् पुनः|
|क्१५|त्२२|श्२
आयान्तम् तम् च राजानम् सः वेतालः अंस-पृष्ठ-गः|
जगाद भूयः अपि एताम् ते राजन् वच्मि कथाम् शृणु|
|क्१५|त्२२|श्३
अभूत् नेपाल-विषये नाम्ना शिवपुरम् पुरम्|
यथा-अर्थ-नामा तत्र आसीत् यशःकेतुः पुरा नृ-पः|
|क्१५|त्२२|श्४
सः मन्त्रिणि न्यस्य भरम् प्रज्ञासागर-संज्ञके|
चन्द्रप्रभा-आख्यया देव्या सार्धम् भोगान् असेवत|
|क्१५|त्२२|श्५
कालेन तस्याम् देव्याम् च तस्य आजायत कन्यका|
राज्ञः शशिप्रभा नाम जगत्-नेत्र-शशि-प्रभा|
|क्१५|त्२२|श्६
क्रमेण यौवन-स्था सा मधु-मासे कदा-चन|
ययौ यात्रा-उत्सवम् द्रष्टुम् उद्यानम् स-परिच्चदा|
|क्१५|त्२२|श्७
तत्र एक-देशे अपश्यत् ताम् कुसुम-अवचय-उद्यताम्|
उत्क्षिप्त-बाहु-लतिका-लक्षित-एक-पयः-धराम्|
|क्१५|त्२२|श्८
प्रसून-वृन्त-विगलत्-संदंश-कर-शोभिनीम्|
आढ्य-पुत्रः मनःस्वामी नाम यात्रा-आगतः द्वि-जः|
|क्१५|त्२२|श्९
सः तया दृष्टया सद्यः हृतस्य मनसः युवा|
मनःस्वामी अपि न एव अभूत् स्वामी मदन-मोहितः|
|क्१५|त्२२|श्१०
मार्गणानाम् कृते किम् स्वित् रतिः एषा मनः-भुवः|
वसन्त-संभृतानि इह पुष्पाणि उच्चिनुते स्वयम्|
|क्१५|त्२२|श्११
किम् वा अर्चयितु-कामा इयम् माधवम् वन-देवता|
इति संचिन्तयन्तम् तम् सा अपि अपश्यत् नृ-प-आत्म-जा|
|क्१५|त्२२|श्१२
दृष्ट-मात्रे च सा तस्मिन् स-अङ्गे नवे इव स्मरे|
न पुष्पाणि न च अङ्गानि स-उत्का न आत्मानम् अस्मरत्|
|क्१५|त्२२|श्१३
इति अन्यः-अन्य-नव-प्रेम-स-रसौ यावत् अत्र तौ|
तिष्ठतः तावत् उदभूत् हा हा हा इति महा-रवः|
|क्१५|त्२२|श्१४
किम् एतत् इति च उत्क्षिप्त-कम्-धरम् पश्यतोः तयोः|
आयात् अत्र उपलब्ध-अन्य-गज-गन्ध-उत्थया रुषा|
|क्१५|त्२२|श्१५
भग्न-आलानः विनिर्गत्य मत्तः मार्ग-द्रुमान् रुजन्|
पतित-आधोरनः धावन् लम्बमान-अङ्कुशः करी|
|क्१५|त्२२|श्१६
ततः परिजने त्रस्त-विद्रुते ताम् स-संभ्रमम्|
राज-पुत्रीम् प्रधाव्य एव दोर्भ्याम् उत्क्षिप्य च एककाम्|
|क्१५|त्२२|श्१७
अङ्गैः किम्-चित् कृत-आश्लेषाम् भय-प्रेम-त्रपा-आकुलाम्|
निनाय सः मनःस्वामी सु-दूरम् गज-गोचरात्|
|क्१५|त्२२|श्१८
अथ आगतैः परिजनैः स्तुवद्भिः तम् द्वि-ज-उत्तमम्|
मुहुः विवृत्य पश्यन्ती सा निन्ये निज-मन्दिरम्|
|क्१५|त्२२|श्१९
तत्र तस्थौ तम् एव आर्ता स्मरन्ती प्राण-दायिनम्|
स्मर-अग्नि-पुट-पाकेन पच्यमाना दिवा-निशम्|
|क्१५|त्२२|श्२०
सः अपि उद्यानात् मनःस्वामी तदा तस्मात् अनुव्रजन्|
स्व-अन्तः-पुर-प्रविष्टाम् ताम् दृष्ट्वा स-उत्कः व्यचिन्तयत्|
|क्१५|त्२२|श्२१
न एताम् विना अधुना स्थातुम् जीवितुम् वा अहम् उत्सहे|
तत् मे श्री- मूलदेवः अत्र धूर्थः सिद्धः गुरुः गतिः|
|क्१५|त्२२|श्२२
इति संचिन्त्य कथम् अपि अस्मिन् अवसिते दिने|
प्रतः ययौ गुरोः तस्य मूलदेवस्य सः अन्तिकम्|
|क्१५|त्२२|श्२३
ददर्श तम् च मित्रेण शशिना नित्य संगतम्|
सिद्ध-माया-अद्भुत-पथम् स-शरीरम् इव अम्बरम्|
|क्१५|त्२२|श्२४
न्यवेदयत् च तत् तस्मै प्रणम्य स्व-मनीषितम्|
सः अपि साधयितुम् तस्य प्रतिपेदे विहस्य तत्|
|क्१५|त्२२|श्२५
ततः सः योग-गुलिकाम् क्षिप्त्वा धूर्त-पतिः मुखे|
मूलदेवः व्यधात् वृद्ध-ब्राह्मण-आकृतिम् आत्मनः|
|क्१५|त्२२|श्२६
द्वितीयाम् गुलिकाम् दत्त्वा मुख-क्षेप्याम् चकार च|
सु-कान्त-कन्यका-रूपम् तम् मनःस्वामिनम् द्वि-जम्|
|क्१५|त्२२|श्२७
तत्-रूपम् तम् समादाय गत्वा धूर्त-अधिपः अथ सः|
तत्-प्रिया-जनकम् भू-पम् आस्थाने तम् व्यजिज्ञपत्|
|क्१५|त्२२|श्२८
राजन् एकः अस्ति मे पुत्रः कन्या दूरात् च तत्-कृते|
मया एषा याचिता आनीता सः च क्व अपि गतः अधुना|
|क्१५|त्२२|श्२९
तम् अन्वेष्टुम् अहम् यामि तत् एषा रक्ष्यताम् त्वया|
आनयामि सुतम् यावत् त्वम् हि विश्वस्य रक्षिता|
|क्१५|त्२२|श्३०
तत् श्रुत्वा शाप-भीत्या च प्रतिपद्य सः भू-पतिः|
सुताम् आनाययामास यशःकेतुः शशिप्रभाम्|
|क्१५|त्२२|श्३१
जगाद च एताम् पुत्री इमाम् कन्याम् रक्षेः स्व-मन्दिरे|
स्व-पार्श्वे एव च आहारम् शय्याम् च अस्याः प्रकल्पयेः|
|क्१५|त्२२|श्३२
इति पित्रा उक्तया निन्ये कन्या-रूपः तथा इति सः|
अन्तः-पुरम् मनःस्वामी राज-पुत्र्या तया निजम्|
|क्१५|त्२२|श्३३
यथा-रुचि ततः याते मुलदेवे द्वि-ज-आकृतौ|
कन्या-रूपः सः तत्र आसीत् मनःस्वामी प्रिया-अन्तिके|
|क्१५|त्२२|श्३४
दिनैः च ताम् सखी-प्रीति-विस्रम्भम् सम्यक्-आगताम्|
एकदा विरह-क्षामाम् शयनीय-लुठत्-तनुम्|
|क्१५|त्२२|श्३५
रात्रौ रहः राज-सुताम् आसन्न-शयन-स्थितः|
कन्या-रूप-प्रतिच्चन्नः मनःस्वामी सः पृष्टवान्|
|क्१५|त्२२|श्३६
सखि किम् पाण्डुर-चाया क्षीयमाणा दिने दिने|
कान्त-पक्ष-वियुक्ता इव दुःखिता असि शशिप्रभे|
|क्१५|त्२२|श्३७
ब्रूहि मे कः हि अ-विश्वासः स्निग्ध-मुग्धे सखि-जने|
इदानीम् न एव भोक्ष्ये अहम् न वदिष्यसि चेत् मम|
|क्१५|त्२२|श्३८
तत् श्रुत्वा सा विनिःश्वस्य शनैः राज-सुता अब्रवीत्|
किम् मे त्वयि अपि अ-विश्वासः शृणु तत् सखि वच्मि ते|
|क्१५|त्२२|श्३९
एकदा अहम् मधु-उद्यान-यात्राम् द्रष्टुम् गता अभवम्|
तत्र अपश्यम् च सु-भगम् कम्-चित् ब्राह्मण-पुत्रकम्|
|क्१५|त्२२|श्४०
हिम-मुक्त-इन्दु-स-श्रीकम् दर्शन-उद्दीपित-स्मरम्|
मधु-मासम् इव आलोक-क्रीड-अलंकृत-काननम्|
|क्१५|त्२२|श्४१
चकोरायितुम् एते च प्रवृत्ते यावत् उन्मुखे|
तत्-मुख-इन्दु-द्युति-सुधा-पायिनी मे विलोचने|
|क्१५|त्२२|श्४२
तावत् स्रवन्-मद-जलः तत्र अकस्मात् निः-अर्गलः|
अ-काल-काल-मेघ-आभः गर्जन् आगात् महा-गजः|
|क्१५|त्२२|श्४३
तत्-संभ्रमात् परिजने नष्टे अहम् भय-विह्वला|
उत्क्षिप्य विप्र-पुत्रेण नीता तेन एव दूरतः|
|क्१५|त्२२|श्४४
श्री-खण्डेन अनुलिप्ता इव सिक्ता इव सुधया तथा|
अहम् तत्-अङ्ग-स्पर्शेन न जाने काम् दशाम् अगाम्|
|क्१५|त्२२|श्४५
क्षनात् च परिवारेण मिलितेन अ-वशा ततः|
इह आनीता अस्मि निक्षिप्ता स्वर्गात् इव भुवः तले|
|क्१५|त्२२|श्४६
तदा-प्रभृति संकल्पैः तैः तैः कल्पित-संगमम्|
पश्यामि तम् प्रबुद्धा अपि पार्श्व-स्थम् प्राण-दम् पतिम्|
|क्१५|त्२२|श्४७
सुप्ता स्वप्ने च कुर्वाणम् चाटूनि आलोकयामि तम्|
त्याजयन्तम् हठात् लज्जाम् चुम्बन-आलिङ्गन-आधिभिः|
|क्१५|त्२२|श्४८
न च प्राप्नोमि अभव्या तत्-नाम-आदि-अज्ञान-मोहिता|
तत् एवम् माम् दहति एषः प्राण-ईश-विरह-अनलः|
|क्१५|त्२२|श्४९
इति वाक्-सुधया तस्याः पूर्ण-स्व-श्रवण-उदरः|
स-आनन्दः सः मनःस्वामी विप्र-कन्या-वपुः-धरः|
|क्१५|त्२२|श्५०
कृत-अर्थ-मानी मत्वा तम् कालम् आत्म-प्रकाशने|
स्व-रूपम् प्रकटी-चक्रे निष्कृष्य गुलिकाम् मुखात्|
|क्१५|त्२२|श्५१
जगाद च विलोल-अक्षि सः अहम् एव एषः यः त्वया|
उद्याने दर्शन-क्रीतः नीतः निः-व्याज-दासताम्|
|क्१५|त्२२|श्५२
त्वत् संस्तव-क्षण-भ्रंशात् क्लेशम् तम् च आप्तवान् अहम्|
यस्य एषः परिणामः मे कन्या-रूप-ग्रहः अभवत्|
|क्१५|त्२२|श्५३
तस्मात् सफलय एताम् मे विसोढाम् विरह-व्यथाम्|
आत्मनः च न तनु-अङ्गि क्षमते अतः परम् स्मरः|
|क्१५|त्२२|श्५४
एवम् वदन्तम् सहसा प्राण-ईशम् तम् विलोक्य सा|
आसीत् राज-सुता क्षिप्रम् स्नेह-आश्चर्य-त्रपा-आकुला|
|क्१५|त्२२|श्५५
अथ अत्यौत्सुक्य-निर्वृत्त-गान्धर्व-उद्वाहयोः तयोः|
प्रेम्णः तस्य मतः यादृक् तादृशः अभूत् रत-उत्सवः|
|क्१५|त्२२|श्५६
ततः सः अत्र मनःस्वामी कृती तस्थौ द्वि-रूप-भृत्|
दिवा स-गुलिकाः कन्या रात्रौ अ-गुलिकाः पुमान्|
|क्१५|त्२२|श्५७
गतेषु अथ दिनेषु अत्र यशःकेतोः मही-पतेः|
मृगाङ्कदत्त-संज्ञेन स्वशुर्येण निजा सुता|
|क्१५|त्२२|श्५८
दत्ता मृगाङ्कवती-आख्या महा-अर्ह-विभव-उत्तरा|
द्वि-जातये महा-मन्त्रि- प्रज्ञासागर-सूनवे|
|क्१५|त्२२|श्५९
तस्मिन् मातुल-पुत्र्याः सा राज-पुत्री शशिप्रभा|
विवाहे मातुल-गृहम् तत् जगाम निमन्त्रिता|
|क्१५|त्२२|श्६०
तया सह ययौ सः अपि कन्यका-परिवारया|
विप्र-पुत्रः मनःस्वामी कान्त-कन्या-स्व-रूप-धृत्|
|क्१५|त्२२|श्६१
तत्र तम् कन्यका-रूप-धरम् मन्त्रि-सुतः अथ सः|
दृष्ट्वा किल स्मर-व्याध-गाढ-बाण-आहतः अभवत्|
|क्१५|त्२२|श्६२
ततः मुषित-चित्तः सन् तया कपट-कन्यया|
ययौ मन्त्रि-सुतः शून्यम् स्व-गृहम् स्व-वधू-सखः|
|क्१५|त्२२|श्६३
तत्र तत्-मुख-लावन्य-ध्यान-आसक्तः जगाम सः|
तीव्र-राग-महा-व्याल-दष्टः मोहम् अ-शङ्कितम्|
|क्१५|त्२२|श्६४
किम् एतत् इति संभ्रान्ते जने तत्र उत्सव-उज्झिते|
तम् उपागात् द्रुतम् बुद्ध्वा सः प्रज्ञासागरः पिता|
|क्१५|त्२२|श्६५
तेन च आश्वास्यमानः अपि पित्रा मोहात् प्रबुध्य सः|
प्रलपन् इव स-उन्मादम् उज्जगार मनः-गतम्|
|क्१५|त्२२|श्६६
अ-स्व-अधीनम् च तम् मत्वा तत् पितरि अतिविह्वले|
तस्मिन् राजा अपि तत् बुद्ध्वा तत्र एव समुपाययौ|
|क्१५|त्२२|श्६७
सः तम् दृष्ट्वा झटिति एव गाढ-अभिष्वङ्गतः गतम्|
सप्तमीम् मदन-अवस्थाम् जगाद प्रकृतीः नृ-पः|
|क्१५|त्२२|श्६८
कथम् ब्राह्मण-निक्षेपः कन्या सा अस्मै प्रदीयते|
तया विना च नियतम् पश्चि