सूर्य उपनिषद्

From Wikisource

Jump to: navigation, search

.. सूर्योपनिषत् ..

अथर्ववेदीय सामान्योपनिषत् .

सूदितस्वातिरिक्तारिसूरिनन्दात्मभावितम् . सूर्यनारायणाकारं नौमि चित्सूर्यवैभवम् ..

ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः . भद्रं पश्येमाक्षभिर्यजत्राः . स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः . स्वस्ति न इन्द्रो वृद्धश्रवाः . स्वस्ति नः पूषा विश्ववेदाः . स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः . स्वस्ति नो बृहस्पतिर्दधातु .. ॐ शान्तिः शान्तिः शान्तिः ..

हरिः ॐ अथ सूर्याथर्वाङ्गिरसं व्याख्यास्यामः . ब्रह्मा ऋषिः . गायत्री छन्दः . आदित्यो देवता . हंसः सोऽहमग्निनारायणयुक्तं बीजम् . हृल्लेखा शक्तिः . वियदादिसर्गसंयुक्तं कीलकम् . चतुर्विधपुरुषार्थसिद्ध्यर्थे विनियोगः . षट्स्वरारूढेन बीजेन षडङ्गं रक्ताम्बुजसंस्थितम् . सप्ताश्वरथिनं हिरण्यवर्णं चतुर्भुजं पद्मद्वयाभयवरदहस्तं कालचक्रप्रणेतारं श्रीसूर्यनारायणं य एवं वेद स वै ब्राह्मणः . ॐ भूर्भुवःसुवः . ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि . धियो यो नः प्रचोदयात् . सूर्य आत्मा जगतस्तस्थुषश्च . सूर्याद्वै खल्विमानि भूतानि जायन्ते . सूर्याद्यज्ञः पर्जन्योऽन्नमात्मा नमस्त आदित्य . त्वमेव प्रत्यक्षं कर्मकर्तासि . त्वमेव प्रत्यक्षं ब्रह्मासि . त्वमेव प्रत्यक्षं विष्णुरसि . त्वमेव प्रत्यक्षं रुद्रोऽसि . त्वमेव प्रत्यक्षमृगसि . त्वमेव प्रत्यक्षं यजुरसि . त्वमेव प्रत्यक्षं सामासि . त्वमेव प्रत्यक्षमथर्वासि . त्वमेव सर्वं छन्दोऽसि . आदित्याद्वायुर्जायते . आदित्याद्भूमिर्जायते . आदित्यादापो जायन्ते . आदित्याज्ज्योतिर्जायते . आदित्याद्व्योम दिशो जायन्ते . आदित्याद्देवा जायन्ते . आदित्याद्वेदा जायन्ते . आदित्यो वा एष एतन्मण्डलं तपति . असावादित्यो ब्रह्म . आदित्योऽन्तःकरणमनोबुद्धिचित्ताहङ्काराः . आदित्यो वै व्यानः समानोदानोऽपानः प्राणः . आदित्यो वै श्रोत्रत्वक्चक्षूरसनघ्राणाः . आदित्यो वै वाक्पाणिपादपायूपस्थाः . आदित्यो वै शब्दस्पर्शरूपरसगन्धाः . आदित्यो वै वचनादानागमनविसर्गानन्दाः . आनन्दमयो ज्ञानमयो विज्ञानानमय आदित्यः . नमो मित्राय भानवे मृत्योर्मा पाहि . भ्राजिष्णवे विश्वहेतवे नमः . सूर्याद्भवन्ति भूतानि सूर्येण पालितानि तु . सूर्ये लयं प्राप्नुवन्ति यः सूर्यः सोऽहमेव च . चक्षुर्नो देवः सविता चक्षुर्न उत पर्वतः . चक्षुर्धाता दधातु नः . आदित्याय विद्महे सहस्रकिरणाय धीमहि . तानः सूर्यः प्रचोदयात् . सविता पश्चात्तात्सविता पुरस्तात्सवितोत्तरात्तात्सविताधरात्तात् . सविता नः सुवतु सर्वतातिं सविता नो रासतां दीर्घमायुः . ॐइत्येकाक्षरं ब्रह्म . घृणिरिति द्वे अक्षरे . सूर्य इत्यक्षरद्वयम् . आदित्य इति त्रीण्यक्षराणि . एतस्यैव सूर्यस्याष्टाक्षरो मनुः . यः सदाहरहर्जपति स वै ब्राह्मणो भवति स वै ब्राह्मणो भवति . सूर्याभिमुखो जप्त्वा महाव्याधिभयात्प्रमुच्यते . अलक्ष्मीर्नश्यति . अभक्ष्यभक्षणात्पूतो भवति . अगम्यागमनात्पूतो भवति . पतितसम्भाषणात्पूतो भवति . असत्सम्भाषणात्पूतो भवति . मध्याह्ने सूराभिमुखः पठेत् . सद्योत्पन्नपञ्चमहापातकात्प्रमुच्यते . सैषां सावित्रीं विद्यां न किञ्चिदपि न कस्मैचित्प्रशंसयेत् . य एतां महाभागः प्रातः पठति स भाग्यवाञ्जायते . पशून्विन्दति . वेदार्थं लभते . त्रिकालमेतज्जप्त्वा क्रतुशतफलमवाप्नोति . यो हस्तादित्ये जपति स महामृत्युं तरति य एवं वेद .. इत्युपनिषत् .. हरिः ॐ भद्रं कर्णेभिरिति शान्तिः .. इति सूर्योपनिषत्समाप्ता ..