सर्व-सार उपनिषद्

From Wikisource

Jump to: navigation, search
॥ सर्वसारोपनिषत् ॥

समस्तवेदान्तसारसिद्धान्तार्थकलेवरम् ।
विकलेवरकैवल्यं रामचन्द्रपदं भजे ॥
सर्वसारं निरालम्बं रहस्यं वज्रसूचिकम् ।
तेजोनादध्यानविद्यायोगतत्त्वात्मबोधकम् ॥

ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

कथं बन्धः कथं मोक्षः का विद्या काऽविद्येति । जाग्रत् स्वप्नसुषुप्ति तुरीयं च कथम् । 
अन्नमय प्राणमय मनोमय विज्ञानमय् आनन्दमयकोशाः कथम् । 
कर्ता जीवः पञ्चवर्गः क्षेत्रज्ञः साक्षी कूटस्थः अन्तर्यामी कथम् । 
प्रत्यगात्मा परात्मा माया चेति कथम् ? ॥ १ ॥ 
आत्मा ईश्वर जीवः अनात्मनां देहादीनाम् आत्मत्वेन अभिमन्यते सोऽभिमान आत्मनो बन्धः । तन्निवृत्तिर्मोक्षः ॥ २ ॥ 
या तद् अभिमानं कारयति सा अविद्या । सोऽभिमानो यया निवर्तते सा विद्या ॥ ३ ॥
मनआदि चतुर्दशकरणैः पुष्कलैः आदित्याद्यनुगृहीतैः शब्दादीन्विषयान् स्थूलान् यद् उपलभते तद् आत्मनो जागरणम् । 
तद् वासनासहितैः चतुर्दशकरणैः शब्दादि अभावेऽपि वासनामयाञ् छब्दादीन्यदोपलभते तद् आत्मनः स्वप्नम् । 
चतुर्दशकरणा उपरमाद् विशेषविज्ञानाभावाद् यदा शब्दादीन्नोपलभते तदात्मनः सुषुप्तम् । 
अवस्थात्रय भावाभावसाक्षी स्वयंभावरहितं नैरन्तर्यं चैतन्यं यदा तदा तुरीयं चैतन्यमित्युच्यते ॥ ४ ॥
अन्नकार्याणां कोशानां समूहो अन्नमयः कोश इत्युच्यते । 
प्राणादि चतुर्दशवायुभेदा अन्नमयकोशे यदा वर्तन्ते तदा प्राणमयः कोश इत्युच्यते । 
एतत् कोशद्वय संसक्तं मनादि चतुर्दशकरणैः आत्मा शब्दादि विषय सङ्कल्पादीन्धर्मान् यदा करोति तदा मनोमयः कोश इत्युच्यते । 
एतत् कोशत्रय संसक्तं तद्गत विशेषज्ञो यदा भासते तदा विज्ञानमयः कोश इत्युच्यते । 
एतत् कोशचतुष्टयं संसक्तं स्वकारणाज्ञाने वटकणिकायाम् इव वृक्षो यदा वर्तते तद् आनन्दमयः कोश इत्युच्यते ॥ ५ ॥
सुखदुःखबुद्ध्या श्रेयोऽन्तः कर्ता यदा तदा इष्टविषये बुद्धिः सुखबुद्धिः अनिष्टविषये बुद्धिर्दुःखबुद्धिः । 
शब्द स्पर्श रूप रस गन्धाः सुखदुःखहेतवः । 
पुण्यपाप कर्मानुसारी भूत्वा प्राप्त शरीरसंयोगम् अप्राप्तशरीरसंयोगम् इव कुर्वाणो यदा दृश्यते तदोपहितजीव इत्युच्यते ॥ ६ ॥
मन आदिश्च प्राणादिश्च इच्छादिश्च सत्त्वादिश्च पुण्यादिश्च एते पञ्चवर्गा इति 
एतेषां पञ्चवर्गाणां धर्मीभूतात्मा ज्ञानादृते न विनश्यत् 
इआत्मसन्निधौ नित्यत्वेन प्रतीयमान  आत्मोपाधिः यः तल्लिङ्गशरीरं हृद्ग्रन्थिरित्युच्यते ॥ ७ ॥
तत्र यत्प्रकाशते चैतन्यं स क्षेत्रज्ञ इत्युच्यते ॥ ८ ॥ 
ज्ञातृ ज्ञान ज्ञेयानाम् आविर्भाव तिरोभावज्ञाता स्वयम् आविर्भाव तिरोभावरहितः स्वयंज्योतिः साक्षीत्युच्यते ॥ ९ ॥
ब्रह्मादिपिपीलिकापर्यन्तं सर्व प्राणि बुद्धिषु अवशिष्टतय उपलभ्यमानः सर्वप्राणि-बुद्धिस्थो यदा तदा कूटस्थ इत्युच्यते ॥ १० ॥
कूटस्थः अपहितभेदानां स्वरूपलाभहेतुर्भूत्वा मणिगणे सूत्रमिव 
सर्वक्षेत्रेषु अनुस्यूतत्वेन यदा काश्यते आत्मा तदान्तर्यामीत्युच्यते ॥ ११ ॥
सत्यं ज्ञानमनन्तमानन्दं सर्वोपाधिविनिर्मुक्तं कटकमुकुटादि उपाधिरहित 
सुवर्णघनवद् विज्ञान चिन्मात्रस्वभावात्मा यदा भासते तदा त्वं पदार्थः प्रत्यगात्मा इति उच्यते । 
सत्यं ज्ञानमनन्तं ब्रह्म । सत्यमविनाशि । 
अविनाशि नाम देशकालवस्तु निमित्तेषु विनश्यत्सु यन्न विनश्यति तदविनाशि । 
ज्ञानं नाम उत्पत्ति विनाशरहितं नैरन्तर्यं चैतन्यं ज्ञानमित्युच्यते । 
अनन्तं नाम मृद्विकारेषु मृदिव स्वर्णविकारेषु स्वर्णमिव तन्तुविकारेषु 
तन्तुरिव अव्यक्तादि सृष्टिप्रपञ्चेषु पूर्णं व्यापकं चैतन्यम् अनन्तमित्युच्यते । 
आनन्दं नाम सुखचैतन्यस्वरूपो अपरिमितानन्द समुद्रो अवशिष्टसुखस्वरूपश्च आनन्द इत्युच्यते ॥ १२ ॥
एतद्वस्तुचतुष्टयं यस्य लक्षणं देशकाल वस्तु निमित्तेषु आव्यभिचारी तत्पदार्थः परमात्मेत्युच्यते ॥ १३ ॥
त्वं पदार्थाद् औपाधिकात् तत् पदार्थाद् औपाधिक भेदाद् विलक्षणम् 
आकाशवत् सूक्ष्मं केवलं सत्तामात्र स्वभावं परं ब्रह्म इति उच्यते । १४ ॥ 
माया नाम अनादिः अन्तवती प्रमाणाप्रमाणसाधारणा न सती नासती न सदसती 
स्वयमधिका विकाररहिता निरूप्यमाणा सतीतरलक्षणशून्या सा माया इति उच्यते । 
अज्ञानं तुच्छाप्यसती कालत्रयेऽपि पामराणां वास्तवी च सत्त्वबुद्धिः लौकिकानाम् इदम् इत्थम् इति अनिर्वचनीया वक्तुं न शक्यते ॥ १५ ॥ 
नाहं भवाम्यहं देवो नेन्द्रियाणि दशैव तु ।
न बुद्धिर्न मनः शश्वन् न अहङ्कारः तथैव च ॥ १६ ॥
अप्राणो हि अमनाः शुभ्रो बुद्ध्यादीनां हि सर्वदा ।
साक्ष्यहं सर्वदा नित्यः चिन्मात्रोऽहं न संशयः ॥ १७ ॥
नाहं कर्ता नैव भोक्ता प्रकृतेः साक्षिरूपकः ।
मत्सान्निध्यात् प्रवर्तन्ते देहाद्या अजडा इव ॥ १८ ॥
स्थाणुर्नित्यः सदानन्दः शुद्धो ज्ञानमयोऽमलः ।
आत्माहं सर्वभूतानां विभुः साक्षी न संशयः ॥ १९ ॥
ब्रह्मैवाहं सर्ववेदान्तवेद्यं नाहं वेद्यं व्योमवातादिरूपम् ।
रूपं नाहं नाम नाहं न कर्म ब्रह्मैवाहं सच्चिदानन्दरूपम् ॥ २० ॥
नाहं देहो जन्ममृत्यु कुतो मे नाहं प्राणः क्षुत्पिपासे कुतो मे ।
नाहं चेतः शोकमोहौ कुतो मे नाहं कर्ता बन्धमोक्षौ कुतो म  इत्युपनिषत् ॥ २१ ॥
 ॐ सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥ तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

[edit] संबंधित कड़ियाँ

[edit] बाहरी कडियाँ