संन्यास उपनिषद्

From Wikisource

Jump to: navigation, search

.. संन्यासोपनिषत्.. संन्यासोपनिषद्वेद्यं संन्यासिपटलाश्रयम् . सत्तासामान्यविभवं स्वमात्रमिति भावये .. ॐ आप्यायन्तु मामाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च .. सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरण- मस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु . ॐ शान्तिः शान्तिः शान्तिः .. हरिः ॐ अथातः संन्यासोपनिषदं व्याख्यास्यामो योऽनुक्रमेण संन्यस्यति स संन्यस्तो भवति . कोऽयं संन्यास उच्यते कथं संन्यस्तो भवति . य आत्मानं क्रियाभिर्गुप्तं करोति मातरं पितरं भार्यां पुत्रान्बन्धूननुमोदयित्वा ये चास्यर्त्विजस्तान्सर्वांश्च पूर्ववत्प्राणित्वा वैश्वानरेष्टिं निर्वपेत्सर्वस्वं दद्याद्यजमानस्य गा ऋत्विजः सर्वैः पात्रैः समारोप्य यदाहवनीये गार्हपत्ये वान्वहार्यपचने सभ्यावसथ्योश्च प्राणापानव्यानोदानसमानान्सर्वान्सर्वेषु समारोपयेत् . सशिखान्केशान्विसृज्य यज्ञोपवीतं छित्त्वा पुत्रं दृष्ट्वा त्वं यज्ञस्त्वं सर्वमित्यनुमन्त्रयेत् . यद्यपुत्रो भवत्यात्मानमेवेमं ध्यात्वाऽनवेक्षमाणः प्राचीमुदीचिं वा दिशं प्रव्रजेच्च . त्रिषु वर्णेषु भिक्षाचर्यं चरेत् . पाणिपात्रेणानाशनं कुर्यात् . औषधवदहनमाचरेत् . औषधवदशनं प्राश्नीयात् . यथालाभमश्नीयात्प्राणसन्धारणार्थं यथा मेदोवृद्धिर्न जायते . कृशो भूत्वा ग्राम एकरात्रं नगरे पञ्चरात्रं चतुरोमासान्वार्षिकान्ग्रामे वा नगरे वापि वसेत् . विशीर्णवस्त्रं वल्कलं वा प्रतिगृह्णीयानान्यत्प्रतिगृह्णीयाद्यद्यशक्तो भवति क्लेशतस्तप्यते तप इति . यो वा एवं क्रमेण संन्यस्यति यो वा एवं पश्यति किमस्य यज्ञोपवीतं कास्य शिखा कथं वास्योपस्पर्शनमिति . तं होवाचेदमेवास्य तद्यज्ञोपवीतं यदात्मध्यानं विद्या शिखा नीरैः सर्वत्रावस्थितैः कार्यं निर्वर्तयन्नुदरपात्रेण जलतीरे निकेतनम् . ब्रह्मवादिनो वदन्त्यस्तमित आदित्ये कथं वास्योपस्पर्शनमिति . तान्होवाच यथाहनि तथा रात्रौ नास्य नक्तं न दिवा तदप्येतदृषिणोक्तम् . संकृद्दिवा हैवास्मै भवति य एवंविद्वानेतेनात्मानं संधत्ते .. इति प्रथमोऽध्यायः .. १.. ॐ चत्वारिंषत्संस्कारसंपन्नः सर्वतो विरक्तश्चित्तशुद्धिमेत्याशासूयेर्ष्याहंकारं दग्ध्वा साधनचतुष्टयसंपन्न एव संन्यस्तुमर्हति . संन्यासं निश्चयं कृत्वा पुनर्न च करोति यः . स कुर्यात्कृच्छ्रमात्रं तु पुनः संन्यस्तुमर्हति ., १.. संन्यासं पातयेद्यस्तु पतितं न्यासयेत्तु यः . संन्यासविघ्नकर्ता च त्रीनेतान्पतितान्विदुः .. २.. इति.. अथ षण्डः पतितोऽङ्गविकलः स्त्रैणो बधिरोऽर्भको मूकः पाषण्डश्चक्री लिङ्गी कुष्ठी वैखानसहरद्विजौ भृतकाध्यापकः शिपिविष्टोऽनग्निको नास्तिको वैराग्यवन्तोऽप्येते न संन्यासार्हाः . संन्यस्ता यद्यपि महावाक्योपदेशे नाधिकारिणः .. आरूढपतितापत्यं कुनखी श्यावदन्तकः . क्षीबस्तथाङ्गविकलो नैव संन्यस्तुमर्हति .. ३.. संप्रत्यवसितानां च महापातकिनां तथा . व्रात्यानामभिशस्तानां संन्यासं न कारयेत् .. ४.. व्रतयज्ञतपोदानहोमस्वाध्यायवर्जितम् . सत्यशौचपरिभ्रष्टं संन्यासं न कारयेत् .. ५.. एते नार्हन्ति संन्यासमातुरेण विना क्रमम् . ॐ भूः स्वाहेति शिखामुत्पाट्य यज्ञोपवीतं बहिर्न निवसेत् . यशो बलं ज्ञानं वैराग्यं मेधां प्रयच्छेति यज्ञोपवीतं छित्त्वा ॐ भूः स्वाहेत्यप्सु वस्त्रं कटिसूयं च विसृज्य संन्यस्तं मयेति त्रिवारमभिमन्त्रयेत् . संन्यासिनं द्विजं दृष्ट्वा स्थानाच्चलति भास्करः . एष मे मण्डलं भित्त्वा परं ब्रह्माधिगच्छति .. ६.. षष्टिं कुलान्यतीतानि षष्टिमागामिकानि च . कुलान्युद्धरते प्राज्ञः संन्यस्तमिति यो वदेत् .. ७.. ये च सन्तानजा दोषा ये दोषा देहसंभवाः . प्रैषाग्निर्निर्दहेत्सर्वांस्तुषारिन्निव काञ्चनम् .. ८.. सखा मा गोपायेति दण्डं परिग्रहेत् . दण्डं तु वाणवं सौम्यं सत्वचं समपर्वकम् . पुण्यस्थलसमुत्पन्नं नानाकल्मषशोधितम् .. ९.. अदग्धमहतं कीटैः पर्वग्रन्थिविराजितम् . नासादघ्नं शिरस्तुल्यं भ्रुवोर्वा बिभृयाद्यतिः .. १०.. दण्डात्मनोस्तु संयोगः सर्वथा तु विधीयते . न दण्डेन विना गच्छेदिषुक्षेपत्रयं बुधः .. ११.. जगज्जीवनं जीवनाधारभूतं माते मामन्त्रयस्व सर्वसौम्येति कमण्डलुं परिगृह्य योगपट्टाभिषिक्तो भूत्वा यथासुखं विहरेत् .. त्यज धर्ममधर्मं च उभे सत्यानृते त्यज . उभे सत्यानृते त्यक्त्वा येन त्यजसि तत्त्यज .. १२.. वैराग्यसंन्यासी ज्ञानसंन्यासी ज्ञानवैराग्यसंन्यासी कर्मसंन्यासीति चातुर्विध्यमुपागतः . तद्यथेति दृष्टानुश्रविक- विषयवैतृष्ण्यमेत्य प्राक्पुण्यकर्मविशेषात्संन्यस्तः स वैराग्यसंन्यासी . शास्त्रज्ञानात्पापपुण्यलोकानुभवश्रवणा- त्प्रपञ्चोपरतो देहवासनां शास्त्रवासनां लोकवासनां त्यक्त्वा वमनान्नमिव प्रवृत्तिं सर्वं हेयं मत्वा साधनचतुष्टयसंपन्नो यः संन्यस्यति स एव ज्ञानसंन्यासी . क्रमेण सर्वमभ्यस्य सर्वमनुभूय ज्ञानवैराग्याभ्यां स्वरूपानुसन्धानेन देहमात्रावशिष्टः संन्यस्य जातरूपधरो भवति स ज्ञानवैराग्यसंन्यासी . ब्रह्मचर्यं समाप्य गृही भूत्वा वानप्रस्थाश्रममेत्य वैराग्याभावेऽप्याश्रमक्रमानुसारेण यः संन्यस्यति स कर्मसंन्यासी . स संन्यासः षड्विधो भवति कुटीचकबहूदकहंसपरमहंसतुरीयातीतावधूताश्चेति . कुटीचकः शिखायज्ञोपवीति दण्डकमण्डलुधरः कौपीनशाटीकन्थाधरः पितृमातृगुर्वाराधनपरः पिठरखनित्रशिक्यादिमात्रसाधनपर एकत्रान्नादनपरः श्वेतोर्ध्वपुण्ड्रधारी त्रिदण्डः . बहूदकः शिखादिकन्थाधर- स्त्रिपुण्ड्रधारी कुटीचकवत्सर्वसमो मधुकरवृत्त्याष्टकवलाशी . हंसो जटाधारी त्रिपुण्ड्रोर्ध्वपुण्ड्रधारी असंक्लृप्तमाधूकरान्नाशी कौपीनखण्डतुण्डधारी . परमहंसः शिखायज्ञोपवीतरहितः पञ्चगृहेषु करपात्री एककौपीनधारी शाटीमेकामेकं वैणवं दण्डमेकशाटीधरो वा भस्मोद्धृलनपरः सर्वत्यागी तुरीयातीतो गोमुखवृत्त्या फलाहारी अन्नाहारी चेद्गृहत्रये देहमात्रावशिष्टो दिगंबरः कुणपवच्छरीन्वृत्तिकः . अवधूतस्त्वनियमः पतिताभिशस्तवर्जनपूर्वकं सर्ववर्णेष्वजगरवृत्त्याहारपरः स्वरूपानुसन्धानपरः . जगत्तावदिदं नाहं सवृक्षतृणपर्वतम् . यद्बाह्यं जडमत्यन्तं तत्स्यां कथमहं विभुः .. १३.. कालेनाल्पेन विलयी देहो नाहमचेतनः . जडया कर्णशष्कुल्या कल्पमानक्षणस्थया .. १४.. शून्याकृतिः शून्यभवः शब्दो नाहमचेतनः . त्वचा क्षणविनाशिन्या प्राप्योऽप्राप्योऽयमन्यथा .. १५.. चित्प्रसादोपलब्धात्मा स्पर्शो नाहमचेतनः . लब्धात्मा जिह्वया तुच्छो लोलया लोलसत्तया .. १६.. स्वल्पस्यन्दो द्रव्यनिष्ठो रसो नाहमचेतनः . दृश्यदर्शनयोर्लीनं क्षयिक्षणविनाशिनोः .. १७.. केवले द्रष्टरि क्षीणं रूपं नाहमचेतनम् . नासया गन्धजडया क्षयिण्या परिकल्पितः .. १८.. पेलवो नियताकारो गन्धो नाहमचेतनः . निर्ममोऽमननः शान्तो गतपञ्चेन्द्रियभ्रमः .. १९.. शुद्धचेतन एवाहं कलाकलनवर्जितः . चैत्यवर्जितचिन्मात्रमहमेषोऽवभासकः .. २०.. सबाह्याभ्यन्तरव्यापी निष्कलोऽहं निरञ्जनः . निर्विकल्पचिदाभास एक आत्मास्मि सर्वगः .. २१.. मयैव चेतनेनेमे सर्वे घटपटादयः . सूर्यान्ता अवभास्यन्ते दीपेनेवात्मतेजसा .. २२.. मयैवैताः स्फुरन्तीह विचित्रेन्द्रियवृत्तयः . तेजसान्तःप्रकाशेन यथाग्निकणपङ्क्तयः .. २३.. अनन्तानन्दसंभोगा परोपशमशालिनी . शुद्धेयं चिन्मयी दृष्टिर्जयत्यखिलदृष्टिषु .. २४.. सर्वभावान्तरस्थाय चैत्यमुक्तचिदात्मने . प्रत्यक्चैतन्यरूपाय मह्यमेव नमो नमः .. २५.. विचित्राः शक्तयः स्वच्छाः समा या निर्विकारया . चिता क्रियन्ते समया कलाकलनमुक्तया .. २६.. कालत्रयमुपेक्षित्र्या हीनायाश्चैत्यबन्धनैः . चितश्चैत्यमुपेक्षित्र्याः समतैवावशिष्यते .. २७.. सा हि वाचामगम्यत्वादसत्तामिव शाश्वतीम् . नैरात्मसिद्धात्मदशामुपयातैव शिष्यते .. २८.. ईहानीहामयैरन्तर्या चिदावलिता मलैः . सा चिन्नोत्पादितुं शक्ता पाशबद्धेव पक्षिणी .. २९.. इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन जन्तवः . धराविवरमग्नानां कीटानां समतां गताः .. ३०.. आत्मनेऽस्तु नमो मह्यमविच्छिन्नचिदात्मने . परामृष्टोऽस्मि लब्धोऽस्मि प्रोदितोऽस्म्यचिरादहम् . उद्धृतोऽस्मि विकल्पेभ्यो योऽस्मि सोऽस्मि नमोऽस्तु ते .. ३१.. तुभ्यं मह्यमनन्ताय मह्यं तुभ्यं चिदात्मने . नमस्तुभ्यं परेशाय नमो मह्यं शिवाय च .. ३२.. तिष्ठन्नपि हि नासीनो गच्छन्नपि न गच्छति . शान्तोऽपि व्यवहारस्थः कुर्वन्नपि न लिप्यते .. ३३.. सुलभश्चायमत्यन्तं सुज्ञेयश्चाप्तबन्धुवत् . शरीरपद्मकुहरे सर्वेषामेव षट्पदः .. ३४.. न मे भोगस्थितौ वाञ्छा न मे भोगविसर्जने . यदायाति तदायातु यत्प्रयाति प्रयातु तत् .. ३५.. मनसा मनसि च्छिन्ने निरहंकारं गते . भावेन गलिते भावे स्वस्थस्तिष्ठामि केवलः .. ३६.. निर्भावं निरहंकारं निर्मनस्कमनीहितम् . केवलास्पन्दशुद्धात्मन्येव तिष्ठति मे रिपुः .. ३७.. तृष्णारज्जुगणं छित्वा मच्छरीरकपञ्जरात् . न जाने क्व गतोड्डीय निरहंकारपक्षिणी .. ३८.. यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते . यः समः सर्वभूतेषु जीवितं तस्य शोभते .. ३९.. योऽन्तःशीतलया बुद्ध्या रागद्वेषविमुक्तया . साक्षिवत्पश्यतीदं हि जीवितं तस्य शोभते .. ४०.. येन सम्यक्परिज्ञाय हेयोपादेयमुज्झता . चित्तस्यान्तेऽर्पितं चित्तं जीवितं तस्य शोभते .. ४१.. ग्राह्यग्राहकसंबन्धे क्षीणे शान्तिरुदेत्यलम् . स्थितिमभ्यागता शान्तिर्मोक्षनामाभिधीयते .. ४२.. भ्रष्टबीजोपमा भूयो जन्माङ्कुअरविवर्जिता . हृदि जीवद्विमुक्तानां शुद्धा भवति वासना .. ४३.. पावनी परमोदारा शुद्धसत्त्वानुपातिनी . आत्मध्यानमयी नित्या सुषुप्तिस्थेव तिष्ठति .. ४४.. चेतनं चित्तरिक्तं हि प्रत्यक्चेतनमुच्यते . निर्मनस्कस्वभावत्वान्न तत्र कलनामलम् .. ४५.. सा सत्यता सा शिवता सावस्था पारमात्मिकी . सर्वज्ञता सा संतृप्तिर्नतु यत्र मनः क्षतम् .. ४६.. प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि . निरस्तमननानन्दः संविन्मात्रपरोऽस्म्यहम् .. ४७.. मलं संवेद्यमुत्सृज्य मनो निर्मूलयन्परम् . आशापाशानलं छित्त्वा संविन्मात्रपरोऽस्म्यहम् .. ४८.. अशुभाशुभसंकल्पः संशान्तोऽस्मि निरामयः . नष्टेष्टानिष्टकलनः संमात्रपरोस्म्यहम् .. ४९.. आत्मतापरते त्यक्त्वा निर्विभागो जगत्स्थितौ . वज्रस्तंभवदात्मानमवलंब्य स्थिरोऽस्म्यहम् .. ५०.. निर्मलायां निराशायां स्वसंवित्तौ स्थितोऽस्म्यहम् . ईहितानीहितैर्मुक्तो हेयोपादेयवर्जितः .. ५१.. कदान्तस्तोषमेष्यामि स्वप्रकाशपदे स्थितः . कदोपशान्तमननो धरणीधरकन्दरे .. ५२.. समेष्यामि शिलासाम्यं निर्विकल्पसमाधिना . निरंशध्यानविश्रान्तिमूकस्य मम मस्तके .. ५३.. कदा तार्णं करिष्यन्ति कुलायं वनपुत्रिकाः . संकल्पपादपं तृष्णालतं छित्त्वा मनोवनम् .. ५४.. विततां भुवमासाद्य विहराभि यथासुखम् . पदं तदनु यातोऽस्मि केवलोऽस्मि जयाम्यहम् .. ५५.. निर्वाणोऽस्मि निरीहोऽस्मि निरंशोऽस्मि निरीप्सितः . स्वच्छतोर्जितता सत्ता हृद्यता सत्यता ज्ञता .. ५६.. आनन्दितोपशमता सदा प्रमुदितोदिता . पूर्णतोदारता सत्या कान्तिसत्ता सदैकता .. ५७.. इत्येवं चिन्तयन्भिक्षुः स्वरूपस्थितिमञ्जसा . निर्विकल्पस्वरूपज्ञो निर्विकल्पो बभूव ह .. ५८.. आतुरो जीवति चेत्क्रमसंन्यासः कर्तव्यः . न शूद्रस्त्रीपतितोदक्या संभाषणम् . न यतेर्देवपूजनोत्सवदर्शनम् . तस्मान्न संन्यासिन एष लोकः . आतुरकुटीचकयोर्भूलोकभुवर्लोकौ . बहूदकस्य स्वर्गलोकः . हंसस्य तपोलोकः . परमहंसस्य सत्यलोकः . तुरीयातीतावधूतयोः स्वात्मन्येव कैवल्यं स्वरूपानुसन्धानेन भ्रमरकीटन्यायवत् . स्वरूपानुसन्धानव्यतिरिक्तान्यशास्त्राभ्यास उष्ट्रकुंकुमभारवद्व्यर्थः . न योगशास्त्रप्रवृत्तिः . न सांख्यशास्त्राभ्यासः . न मन्त्रतन्त्रव्यापारः . नेतरशास्त्रप्रवृत्तिर्यतेरस्ति . अस्ति चेच्छवालंकारव- त्कर्माचर विद्यादूरः . न परिव्राण्नामसंकीर्तनपरो यद्यत्कर्म करोति तत्तत्फलमनुभवति . एरण्डतैलफेनवत्सर्वं परित्यजेत् . न देवताप्रसादग्रहणम् . न बाह्यदेवाभ्यर्चनं कुर्यात् . स्वव्यतिरिक्तं सर्वं त्यक्त्वा मधुकरवृत्त्याहारमाहरन्कृशीभूत्वा मेदोवृद्धिमकुर्वन्विहरेत् . माधूकरेण करपात्रेणास्यपात्रेण वा कालं नयेत् . आत्मसंमितमाहारमाहरेदात्मवान्यतिः . आहारस्य च भागौ द्वौ तृतीयमुदकस्य च . वायोः संचरणार्थाय चतुर्थमवशेषयेत् ..५९.. भैक्षेण वर्तयेन्नित्यं नैकान्नाशी भवेत्क्वचित् . निरीक्षन्ते त्वनुद्विग्नास्तद्गृहं यत्नतो व्रजेत् .. ६०.. पञ्चसप्तगृहाणां तु भिक्षामिच्छेत्क्रियावताम् . गोदोहमात्रमाकाङ्क्षेन्निष्क्रान्तो न पुनर्व्रजेत् .. ६१.. नक्ताद्वरश्चोपवास उपवासादयाचितः . अयाचिताद्वरं भैक्ष्यं तस्मात्भैक्षेण वर्धयेत् .. ६२.. नैव सव्यापसव्येन भिक्षाकाले विशेद्गृहान् . नातिक्रामेद्गृहं मोहाद्यत्र दोषो न विद्यते .. ६३.. श्रोत्रियान्नं न भिक्षेत श्रद्धाभक्तिबहिष्कृतम् . व्रात्यस्यापि गृहे भिक्षेच्छ्रद्धाभक्तिपुरस्कृते .. ६४.. माधूकरमसंक्लृप्तं प्राक्प्रणीतमयाचितम् . तात्कालिकं चोपपन्नं भैक्षं पञ्चविधं स्मृतम् .. ६५.. मनःसंकल्परहितांस्त्रीन्गृहान्पञ्च सप्त वा . मधुमक्षिकवत्कृत्वा माधूकरमिति स्मृतम् .. ६६.. प्रातःकाले च पूर्वेद्युर्यद्भक्तैः प्राथितं मुहुः . तद्भैक्षं प्राक्प्रणीतं स्यात्स्थितिं कुर्यात्तथापि वा .. ६७.. भिक्षाटनसमुद्योगाद्येन केन निमन्त्रितम् . अयाचितं तु तद्भैक्षं भोक्तव्यं च मुमुक्षुभिः .. ६८.. उपस्थानेन यत्प्रोक्तं भिक्षार्थं ब्राह्मणेन तत् . तात्कालिकमिति ख्यातं भोक्तव्यं यतिभिस्तदा .. ६९.. सिद्धमन्नं यदानीतं ब्राह्मणेन मठं प्रति . उपपन्नमिति प्राहुर्मुनयो मोक्षकाङ्क्षिणः .. ७०.. चरेन्माधूकरं भैक्षं यतिर्म्लेच्छकुलादपि . एकान्नं नतु भुञ्जीत बृहस्पतिसमादपि . याचितायाचिताभ्यां च भिक्षाभ्यां कल्पयेत्स्थितम् .. ७१.. न वायुः स्पर्शदोषेण नाग्निर्दहनकर्मणा . नापो मूत्रपुरीषाभ्यां नान्नदोषेण मस्करी .. ७२.. विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने . कालेऽपराह्णे भूयिष्ठे भिक्षाचरणमाचरेत् .. ७३.. अभिशतं च पतितं पापण्डं देवपूजकम् . वर्जयित्वा चरेद्भैक्षं सर्ववर्णेषु चापदि .. ७४.. घृतं स्वमूत्रसदृशं मधु स्यात्सुरया समम् . तैलं सूकरमूत्रं स्यात्सूपं लशुनसंमितम् .. ७५.. माषापूषादि गोमांसं क्षीरं मूत्रसमं भवेत् . तस्मात्सर्वप्रयत्नेन घृतादीन्वर्जयेद्यतिः . घृतसूपादिसंयुक्तमन्नं नाद्यात्कदाचन .. ७६.. पात्रमस्य भवेत्पाणिस्तेन नित्यं स्थितिं नयेत् . पाणिपात्रश्चरन्योगी नासकृद्भैक्षमाचरेत् .. ७७.. आस्येन तु यदाहारं गोवन्मृगयते मुनिः . तदा समः स्यात्सर्वेषु सोऽमृतत्वाय कल्पते .. ७८.. आज्यं रुधिरमिव त्यजेदेकत्रान्नं पललमिव गन्धलेपनमशुद्धलेपनमिव क्षारमन्त्यजमिव वस्त्रमुच्छिष्टपात्रमिवाभ्यङ्गं स्त्रीसङ्गमिव मित्राह्लादकं मूत्रमिव स्पृहां गोमांसमिव ज्ञातचरदेशं चण्डालवाटिकादिव स्त्रियमहिमिव सुवर्णं कालकूटमिव सभास्थलं श्मशानस्थलमिव राजधानीं कुंभीपाकमिव शवपिण्डवदेकत्रान्नं न देवतार्चनम् . प्रपञ्चवृत्तिं परित्यय जीवन्मुक्तो भवेत् .. आसनं पात्रलोपश्च संचयः शिष्यसंचयः . दिवास्वापो वृथालापो यतेर्बन्धकराणि षट् .. ७९.. वर्षाभ्योऽन्यत्र यत्स्थानमासनं तदुदाहृतम् . उत्कालाब्वादिपात्राणामेकस्यापीह संग्रहः .. ८०.. यतेः संव्यवहराय पात्रलोपः स उच्यते . गृहीतस्य तु दण्डादेर्द्वितीयस्य परिग्रहः .. ८१.. कालान्तरोपभोगार्थं संचयः परिकीर्तितः . शुश्रूषालाभपूजार्थं यशोर्थं वा परिग्रहः .. ८२.. शिष्याणां नतु कारुण्याच्छिष्यसंग्रह ईरितः . विद्या दिवा प्रकाशत्वादविद्या रात्रिरुच्यते .. ८३.. विद्याभ्यासे प्रमादो यः स दिवास्वाप उच्यते . आध्यात्मिकीं कथां मुक्त्वा भिक्षावार्तां विना तथा .. ८४.. अनुग्रहं परिप्रश्नं वृथाजल्पोऽन्य उच्यते . एकान्नं मदमात्सर्यं गन्धपुष्पविभूषणम् .. ८५.. ताम्बूलाभ्यञ्जने क्रीडा भोगाकाङ्क्षा रसायनम् . कत्थनं कुत्सनं स्वस्ति ज्योतिश्च क्रयविक्रयम् .. ८६.. क्रियाकर्मविवादश्च गुरुवाक्यविलङ्घनम् . संधिश्च विग्रहो यानं मञ्चकं शुक्लवस्त्रकम् .. ८७.. शुक्लोत्सर्गो दिवास्वापो भिक्षाधारस्तु तैजसम् . विषं चैवायुधं बीजं हिंसां तैक्ष्ण्यं च मैथुनम् .. ८८.. त्यक्तं संन्यासयोगेन गृहधर्मादिकं व्रतम् . गोत्रादिचरणं सर्वं पितृमातृकुलं धनम् . प्रतिषिद्धानि चैतानि सेवमानो व्रजेदधः .. ८९.. सुजीर्णोऽपि सुजीर्णासु विद्वांस्त्रीषु न विश्वसेत् . सुजीर्णास्वपि कन्थासु सज्जते जीर्णमम्बरम् .. ९०.. स्थावरं जङ्गमं बीजं तैजसं विषमायुधम् . षडेतानि न गृह्णीयाद्यतिर्मूत्रपुरीषवत् .. ९१.. नैवाददीत पाथेयं यतिः किंचिदनापदि . पक्वमापत्सु गृण्हीयाद्यावदन्नं न लभ्यते .. ९२.. नीरुजश्च युवा चैव भिक्षुर्नावसथे वसेत् . परार्थं न प्रतिग्राह्यं न दद्याच्च कथंचन .. ९३.. दैन्यभावात्तु भूतानां सौभगाय यतिश्चरेत् . पक्वं वा यदि वाऽपक्वं याचमानो व्रजेदधः .. ९४.. अन्नपानपरो भिक्षुर्वस्त्रादीनां प्रतिग्रही . आविकं वानाविकं वा तथा पट्टपटानपि .. ९५.. प्रतिगृह्य यतिश्चैतान्पतत्येव न संशयः . अद्वैतं नावमाश्रित्य जीवन्मुक्तत्वमाप्नुयात् .. ९६.. वाग्दण्डे मौनमातिष्टेत्कायदण्डे त्वभोजनम् . मानसे तु कृते दण्डे प्राणायामो विधीयते .. ९७.. कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते . तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः .. ९८.. रथ्यायां बहुवस्त्राणि भिक्षा सर्वत्र लभ्यते . भूमिः शय्यास्ति विस्तीर्णा यतयः केन दुःखितः .. ९९.. प्रपञ्चमखिलं यस्तु ज्ञानाग्नौ जुहुयाद्यतिः . आत्मन्यग्नीन्समारोप्य सोऽग्निहोत्री महायतिः .. १००.. प्रवृत्तिर्द्विविधा प्रोक्ता मार्जारी चैव वानरी . ज्ञानाभ्यासवतामोतुर्वानरीभाक्त्वमेव च .. १०१.. नापृष्टः कस्यचिद्ब्रूयान्न चान्यायेन पृच्छतः . जानन्नपि हि मेधावी जडवल्लोकमाचरेत् .. १०२.. सर्वेषामेव पापानां सङ्घाते समुपस्थिते . तारं द्वादशसाहस्रमभ्यसेच्छेदनं हि तत् .. १०३.. यस्तु द्वादशसाहस्रं प्रणवं जपतेऽन्वहम् . तस्य द्वादशभिर्मासैः परं ब्रह्म प्रकाशते.. १०४.. इत्युपनिषत् हरिः ॐ तत्सत् .. इति द्वितीयोऽध्यायः .. २.. ॐ आप्यायन्तु मामाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च .. सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरण- मस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु . ॐ शान्तिः शान्तिः शान्तिः .. इति संन्यासोपनिषत्समाप्ता ..