श्री प्रह्लाद चरित्र
From Wikisource
प्रह्लाद कथा
श्री विष्णु पुराण में कथित प्रह्लाद जी के चरित्र का व्यख्यान । हिन्दी अनुवाद के लिये नीचे देखें ।
मैत्रय श्रूयतां सम्यक चरितं तस्य धीमतः । प्रह्लादस्य सदोदारचरितस्य महात्मनः ॥ दिते पुत्रो महावीर्यो हिरण्यकशिपुः पुरा । त्रैलोक्यं वशमानिन्ये ब्राह्मणो वरदर्पितः ॥ इन्द्रत्वमकरोद्दैत्यः स चासीत्सविता स्वयम् । वायुरग्निरपां नाथः सोमश्चाभून्महासुरः ॥ धनानामधिपः सोऽभूत्स एवासीत्स्वयं यमः । यज्ञभागानशेषांस्तु स स्वयं बुभुजेऽसुरः ॥ देवाः स्वर्ग परित्यज्य तत्त्रासान्मुनिसत्तम । विचेरूरवनौ सर्वे बिभ्राणा मानुषीं तनुम् ॥ जित्वा त्रिभुवनं सर्वं त्रैलोक्यैश्वर्यदर्पितः । उपगीयमानो गन्धर्वबुभुजे विषयान्प्रियान् ॥ पानासक्तं महात्मानं हिरण्यकशिपुं तदा । उपासाञ्चक्रिरे सर्वे सिद्धगन्धर्वपन्नगाः ॥ अवादयन् जगुश्चान्ये जयशब्दं तथापरे । दैत्यराजस्य पुरतश्चक्रुः सिद्धा मुदान्विताः ॥ तत्र प्रनृत्ताप्सरसि स्फाटिकाभ्रमयेऽसुरः । पपौ पानं मुदा युक्तः प्रासादे सुमनोहरे ॥ तस्य पुत्रो महाभागः प्रह्लादो नाम नामतः । पपाठ बालपाठयानि गुरुगेहङ्गतोऽर्भकः ॥ एकदा तु स धर्मात्मा जगाम गुरुणा सह । पानासक्तस्य पुरतः पितुर्दैत्यपतेस्तदा ॥ पादप्रणामावनतं तमुत्थाप्य पिता सुतम । हिरण्यकशिपुः प्राह प्रह्लादममितौजसम् ॥ हिरण्यकशिपुरुवाच पठयतां भवता वत्य सारभूतं सुभाषितम् । कालेनैतावता यत्ते सदोद्युक्तेन शिक्षितम् ॥ प्रह्लाद उवाच श्रूयतां तात वक्ष्यामि सारभूतं तवाज्ञया । समाहितमना भूत्वा यन्मे चेतस्यवस्थितम् ॥ अनादिमध्यान्तमजमवृद्धिक्षयमच्युतम् । प्रणतोऽस्म्यन्तसन्तानं सर्वकारणकारणम् ॥ श्रीपराशर उवाच एतन्निशम्य दैत्येन्द्रः सकोपो रक्तलोचनः । विलोक्य तदगुरुं प्राह स्फुरिताधरपल्लवः ॥ हिरण्यकशिपुरुवाच ब्रह्मबन्धो किमेतत्ते विपक्षस्तुतिसंहितम् । असारं ग्राहितो बालो मामवज्ञाय दुर्मते ॥ गुरुरुवाच दैत्येश्वर न कोपस्य वशमागन्तुमर्हसि । ममोपदेशजनितं नायं वदति ते सुतः ॥ हिरण्यकशिपुरुवाच अनुशिष्टोऽसि केनेदृग्वत्स प्रह्लाद कथ्यताम् । मयोपदिष्टं नेत्येष प्रब्रवीति गुरुस्तव ॥ प्रह्लाद उवाच शास्ता विष्णुरशेषस्य जगतो यो हृदि स्थितः । तमृते परमात्मानै तात कः केन शास्यते ॥ हिरण्यकशिपुरुवाच कोऽयं विष्णुः सुदुर्बुद्धे यं ब्रवीषि पुनः पुनः । जगतामीश्वरस्येह पुरतः प्रसभं मम ॥ प्रह्लाद उवाच न शब्दगोचरं यस्य योगिध्येयं परं पदम् । यतो यश्च स्वयं विश्वं स विष्णुः परमेश्वरः ॥ हिरण्यकशिपुरुवाच परमेश्वरसंज्ञोऽज्ञ किमन्यो मय्यवस्थिते । तथापि मर्तुकामस्त्वं प्रब्रवीषि पुनः पुनः ॥ प्रह्लाद उवाच न केवलं तात मम प्रजानां स ब्रह्मभूतो भवतश्व विष्णुः । धाता विधाता परमेश्वरश्च प्रसीद कोपं कुरुषे किमर्थम् ॥ हिरण्यकशिपुरुवाच प्रविष्टः कोऽस्य हृदये दुर्बुद्धेरतिपापकृत् । येनेदृशान्यसाधूनि वदत्याविष्टमानसः ॥ प्रह्लाद उवाच न केवलं पद्हृदयं स विष्णुराक्रम्य लोकानखिलानवस्थितः । स मां त्वदादींश्च पितस्समस्तान्समस्तचेष्टासु युनक्ति सर्वगः ॥ हिरण्यकशिपुरुवाच निष्कास्यतामयं पापः शास्यतां च गुरोर्गृहे । योजितो दुर्मतिः केन विपक्षविषयस्तुतौ ॥ श्रीपराशर उवाच इत्युक्तोऽसौ तदा दैत्यैर्नीतो गुरुगृहे पुनः । जग्राह विद्यामनिशं गुरुशुश्रूषणोद्यतः ॥ कालेऽतीतेऽति महति पर्ह्लादमसुरेश्वरः । समाहूयाब्रवीद्गाथा काचित्पुत्रक गीयताम् ॥ प्रह्लाद उवाच यतः प्रधानपुरुषौ यतश्चैतच्चराचरम् । कारणं सकलस्यास्य स नो विष्णुः प्रसीदतु ॥ हिरण्यकशिपुरुवाच दुरात्मा वध्यतामेष नानेनार्थोऽस्ति जीवता । स्वपक्षहानिकर्तृत्वाद्यः कुलाङ्गारतां गतः ॥ श्रीपराशर उवाच इत्याज्ञप्तास्ततस्तेन प्रगृहीतमहायुधाः । उद्यतास्तस्य नाशाय दैत्याः शतसहस्रशः ॥ प्रह्लाद उवाच विष्णुः शस्त्रेषु युष्मासु मयि चासौ व्यवस्थितः । दैतेयास्तेन सत्येन माक्रमन्त्वायुधानि मे ॥ श्रीपराशर उवाच ततस्तैश्शतशो दैत्यैः शस्त्रौघैराहतोऽपि सन् । नावाप वेदनामल्पामभूच्चैव पुनर्नवः ॥ हिरण्यकशिपुरुवाच दुर्बुद्धे विनिवर्तस्व वैरिपक्षस्तवार्दतः । अभयं ते प्रयच्छामि मातिमूढमतिर्भव ॥ प्रह्लाद उवाच भयं भयानामपहारिणि स्थिते मनस्यनन्ते मम कुत्र तिष्ठति । यस्मिन्स्मृते जन्मजरान्तकादिभयानि सर्वाण्यपयान्ति तात ॥ हरिण्यकशिपुरुवाच भो भोः सर्पा दुराचारमेनमत्यन्तदुर्मतिम । विषज्वालाकुलैर्वक्त्रैः सद्यो नयत सङ्क्षयम् ॥ श्रीपराशर उवाच इत्युक्तास्ते ततः सर्पाः कुहकास्तक्षकादयः । अदशन्त समस्तेषु गात्रेष्वतिविषोल्बणाः ॥ स त्वासक्तमतिः कृष्णे दश्यमानो महोरगैः । न विवेदात्मनो गात्रं तत्स्मृत्याह्लादसुस्थितः ॥ सर्पा ऊचुः द्रंष्ट्रा विशीर्णा मणयः स्फुतन्ति फणेषु तापो हृदयेषु कम्पः । नास्य त्वचः स्वल्पमपीह भिन्नं प्रशाधि दैत्येश्वर कार्यमन्यत् ॥ हिरण्यकशिपुरुवाच हे दिग्गजाः सङ्कटदन्तमिश्रा घ्नतैनमस्मद्रिपुपक्षभीन्नम् तज्जा विनाशाय भवन्ति तस्य यथाहणेः प्रज्वलितो हुताशः ॥ श्री पराशर उवाच ततः स दिग्गजैर्बालो भूभृच्छिखरसन्निभैः । पातितो धरणीपृष्ठे विषाणैर्वावपीडितः ॥ स्मरस्तस्य गोविन्दमिभदन्ताः सहस्त्रशः । शीर्णा वक्षःस्थलं प्राप्य स प्राह पितरं ततः ॥ दन्ता गजानां कुलिशाग्रनिष्ठुराः शीर्णा यदैते न बलं ममैतत् । महीविपत्तापविनाशनोऽयं जनार्दनानुस्मरणानुभावः ॥ हिरण्यकशिपुरुवाच ज्वाल्यतामसुरा वह्निरपसर्पत दिग्गजाः । वायो समेधयाग्नि त्वं दह्यतामेष पापकृत् ॥ श्रीपराशर उवाच पहाकाष्ठचयस्थं तमसुरेन्द्रसुतं ततः । प्रज्वाल्य दानवा वह्निं ददहुः स्वामिनोदिताः ॥ प्रह्लाद उवाच तातैष वह्निः पवनेरितोऽपि न मां दहत्यत्र समन्ततौऽहम् । पश्यामि पद्मास्तरणास्तृताति शीतानि सर्वाणि दिशाम्मुखानि ॥ श्रीपराशर उवाच अथ दैत्येश्वर प्रोचुर्भार्गवस्यात्मजा द्विजाः । पुरोहिता महात्मानः साम्ना संस्तूय वाग्मिनः ॥ पुरोहिता ऊचुः राजन्नियम्यतां कोपो बालेऽपि तनये निजे । कोपो देवनिकायेषु तेषु ते सफलो यतः ॥ ततः परोहितैरुक्तो हिरणयकशिपुः स्वकैः तथातथैनं बालं ते शासितारो वयं नृप । यथा बिलक्षनाशाय विनीतस्ते भविष्यति ॥ बालत्वं सर्वदोषाणां दैत्यराजास्पदं यतः । ततोऽत्र कोपमत्यर्थं योक्तुमर्हसि नार्भके ॥ न त्यक्ष्यति हरेः पक्षमस्माकं वचनाद्यदि । ततः कृत्यां वधायास्य करिष्यामोंऽनिवर्त्तिनीम् ॥ श्रीपराशर उवाच एवमभ्यर्थितस्तैस्तु दैत्यराजः पुरोहितैः । दैत्यैर्निष्कासयामास पुत्रं पावकसञ्चयात् ॥ ततो गुरुगृहे बालः स वसन्बालदानवान् । अध्यापयामास मुहुरुपदेशान्तरे गुरोः ॥ प्रह्लाद उवाच श्रूयतां परमार्थो मे दैतेया दितिजात्मजाः । न चान्यथैतन्मन्तव्यं नात्र लोभादिकारणम् ॥ जन्म बाल्यं ततः सर्वो जन्तुः प्राप्नोति यौवनम् । अव्याहतैव भवति ततोऽनुदिवसं जरा ॥ ततश्च मृत्युमभ्येति जन्तुर्दैत्येश्वरात्मजाः । प्रत्यक्षं दृश्यते चैतदस्माकं भवतां तथा ॥ मृतस्य च पुनर्जन्म भवत्येतच्च नान्यथा । आगमोऽयं तथा यच्च नोपादानं विनोद्भवः ॥ गर्भवासादि यावत्तु पुनर्जन्मोपपादनम् । समस्तावस्थकं तावद्दुःखमेवावगम्यताम् ॥ क्षुत्तृष्णोपशमं तद्वच्छीताद्युपशमं सुखम् । मन्यते बालबुद्धित्वाद्दुःखमेव हि तत्पुनः ॥ अत्यन्तस्तिमिताङगानां व्यायामेन सुखैषिणाम् । भ्रान्तिज्ञानावृताक्षाणां दुःखमेव सुखायते ॥ क शरीरमशेषाणां श्लेष्मादीनां महाचयः । क कान्तिशोभासौन्दर्यरमणायादयो गुणाः ॥ मांसासृक्पूयविमूत्रस्नायुमञ्जास्थिसंहतौ । देहे चेत्प्रीतिमान् मूढो भविता नरकेऽप्यसौ ॥ अग्नेःशीतेन तोयस्य तृषा भक्तस्य च क्षुधा । क्रियते सुखकर्तृत्वं तद्विलोमस्य चेतरैः ॥ करोति हे दैत्यसुता यावन्मात्रं परिग्रहम् । तावन्मात्रं स एवास्य दुःखं चेतसि यच्छति ॥ यावतः कुरुते जन्तुःसम्बन्धान्मनसः प्रियान् । तावन्तोऽस्य निखन्यन्ते हृदये शोकशङकवः । यद्यदगृहे तन्मनसि यत्र तत्रावतिष्ठतः । नाशादाहोपकरणं तस्य तत्रैव तिष्ठति ॥ जन्मन्यत्र महद्दुःखं म्रियमाणास्य चापि तत् । यातनासु यमस्योग्रं गर्भसङक्रमणेषु च ॥ गर्भेषु सुखलेशोऽपि भवद्भिरनुमीयते । यदि तत्कथ्यतामेवं सर्वं दुःखमयं जगत् ॥ तदेवमतिदुःखानामस्पदेऽत्र भवार्णवे । भवतां कथ्यते सत्यं विष्णुरेकः परायणः ॥ मा जानीत वयं बाला देही देहेषु शाश्वतः । जरायौवनजन्माद्या धर्मा देहस्य नात्मनः ॥ बालोऽहं तावदिच्छातो यतिष्ये श्रेयसे युवा । युवाहं वार्द्धके प्राप्ते करिष्याम्यात्मनो हितम् ॥ वृद्धोऽहं मम कार्याणि समस्तानि न गोचरे । किं करिष्यामि मन्दात्मा समर्थेन न यत्कृतम् ॥ एवं दुराशया क्षिप्तमानसः पुरुषः सदा । श्रेयसोऽभिमुखं याति न कदाचित्पिपासितः ॥ बाल्ये क्रीड़नकासक्ता यौवने विषयोन्मुखाः । अज्ञा नयन्त्यशक्त्या च वार्द्धकं समुपस्थितम् ॥ तस्माद्बाल्ये विवेकात्मा यतेत श्रेयसे सदा । बाल्ययौवनवृद्धाद्यैर्देहभावैरसंयुतः ॥ तदेतद्वो मयाख्यातं यदि जानीत नानृतम् । तदस्मत्प्रीतये विष्णुः स्मर्यतां बन्धमुक्तिदः ॥ प्रयासःस्मरणे कोऽस्य स्मृतो यच्छति शोभनम् । पापक्षयश्च भवति स्मरतां तमहर्निशम् ॥ सर्वभूतस्थिते तस्मिन्मतिर्मैत्री दिवानिशम् । भवतां जायतामेवं सर्वक्लेशान्प्रहास्यथ ॥ तापत्रेयणाभिहतं यदेतदखिलं जगत् । तदा शोच्येषु भूतेषु द्वेषं प्राज्ञः करोति कः ॥ अथ भद्राणि भूतानि हीनशक्तिरहं परम् । मुदं तदापि कुर्वीत हानिद्वेषफलं यतः ॥ बद्धवैराणि भूतानि द्वेषं कुर्वन्ति चेत्ततः । सुशोच्यान्यतिमोहेन व्याप्तानीति मनीषिणाम् ॥ एते भिन्नदृशां दैत्या विकल्पाः कथिता मया । कृत्वाभ्युपगमं तत्र संक्षेप श्रूयतां मम ॥ विस्तारः सर्वभूतस्य विष्णोः सर्वमिदं जगत् । द्रष्टव्यमात्मवत्तस्मादभेदेन विचक्षणैः ॥ समुत्सृज्यासुरं भावं तस्माद्यूयं तथा वयम् । तथा यत्नं करिष्यामो यथा प्राप्स्याम निर्वृतिम् ॥ या नाग्निना न चार्केण नेन्दुना च न वायुना । पर्जन्यवरुणाभ्यां वा न सिद्धैर्न च राक्षसैः ॥ न यक्षैन च दैत्येन्द्रैर्नोरगैर्न च किन्नरैः । न मनुष्यैर्न पशुभिर्दोषैर्नैवात्मसम्भवैः ॥ ज्वाक्षिरोगातीसारप्लीहगुल्मादिकैस्तथा । द्वेषेर्ष्यामत्सराद्यैर्वा रीगलोभादिभिः क्षयम् ॥ न चान्यैर्नीयते कैश्चिन्नित्या यात्यान्तनिर्मला । तामाप्नोत्यमले न्यस्य केशवे हृदयं नरः ॥ असारसंसारविवर्तनेषु मा यात तोषं प्रसभं ब्रवीमि । सर्वत्र दैत्यास्समतामुपेत समत्वमाराधनमच्युतस्य ॥ तस्मिन्प्रसन्ने किमिहास्त्यलभ्यं धर्मार्थकामैरलमल्पकास्ते । समाश्रिताद्ब्रह्मतरोरनन्तान्निःसंशयं प्राप्स्यथ वै महत्फलम् ॥ ॥ ॐ नमः भगवते वासुदेवाये ॥ श्रीपरीशर उवाच तस्यैतां दानवाश्चेष्टां दृष्ट्वा दैत्यपतेर्भयात् । आचचक्षुः स चोवाच सूदानाहूय सत्वरः ॥ हिरण्यकशिपुरुवाच हे सूदा मम पुत्रोऽसावन्येषामपि दुर्मतिः । कुमार्गदेशिको दुष्टो हन्यतामविलम्बितम् ॥ हालाहलं विषं तस्य सर्वभक्षेषु दीयताम् । अविज्ञातमसौ पापो हन्यतां मा विचार्यताम् ॥ श्री पराशर उवाच ते तथैव ततश्चक्रुः प्रह्लादाय महात्मने । विषदानं यथाज्ञप्तं पित्रा तस्य महात्मनः ॥ हालाहलं विषं घोरमनन्तोच्चारणेन सः । अभिमन्त्र्य सहान्नेन मैत्रेय बुभुजे तदा ॥ अविकारं स तद्भुक्तवा प्रह्लादः स्वस्थमानसः । अनन्तख्यातिनिर्वीर्य जरयामास तद्विषम् ॥ ततः सूदा भयत्रस्ता जीर्णा दृष्ट्वा महद्विषम् । दैत्येश्वरमुपागम्य प्रणिपत्येदमब्रुवन् ॥ सूदा ऊचुः दैत्यराज विषं दत्तमस्माभिरतिभीषणम् । जीर्ण तेन सहान्नेन प्रह्लादेन सुतेन ते ॥ हिरण्यकशिपुरुवाच त्वर्यतां त्वर्यतां हे हे सद्यो दैत्यपुरोहिताः । कृत्यां तस्य विनाशाय उत्पाद्यत मा चिरम् ॥ श्रीपराशर उवाच सकाशमागम्य ततः प्रह्लादस्य पुरोहिताः । सामपूर्वमथोचुस्ते प्रह्लादं विनयान्वितम् ॥ पुरोहिता ऊचुः जातस्त्रैलोक्यविख्यात आयुष्मन्ब्रह्मणःकुले । दैत्यराजस्य तनयो हिरण्यकशिपोर्भवान् ॥ किं देवैः किमनन्तेन किमन्येन तवाश्रयः । पिता ते सर्वलोकानां त्वं तथैव भविष्यसि ॥ तस्मात्परित्यजैनां त्वं विपक्षस्तवसंहिताम् । श्र्लाघ्यः पिता समस्तानां गुरुणां परमो गुरुः ॥ प्रह्लाद उवाच एवमेतन्महाभागाः श्र्लाघ्यमेतन्महाकुलम् । मरीचेःसकलेऽप्यस्मिन् त्रैलोक्ये नान्यथावदेत् ॥ पिता च मम सर्वस्मि़ञ्जगत्युत्कृष्टचेष्टितः । एतदप्यवगच्छामि सत्यमत्रापि नानृतम् ॥ गुरुणामपि सर्वेषां पिता परमको गुरुः । यदुक्तं भ्रान्तिस्तत्रापि स्वल्पापि हि न विद्यते ॥ पिता गुरुर्न सन्देहः पूजनीयः प्रयत्नतः । तत्रापि नापराध्यामीत्येवं मनसि मे स्थितम् ॥ यत्त्वेतत्किमनन्तेनेत्युक्तं युष्माभिरीदृशम् । को ब्रवीति यथान्याय्यं किं तु नैतद्वचोऽर्थवत् ॥ इत्युक्त्वा सोऽभवन्मौनी तेषां गौरवयन्त्रितः । प्रहस्य च पुनः प्राह किमनन्तेन साध्विति ॥ साधु भो किमनन्तेन साधु भो गुरवो मम । श्रूयतां यदनन्तेन यदि खेदं न यास्यथ ॥ धर्मार्थकाममोक्षाश्च पुरुषार्था उदाहृताः । चतुष्टयमिदं यस्मात्तस्मात्किं किमिदं वचः ॥ मरीचिमिश्रैर्दक्षाद्यैस्तथैवान्यैरनन्ततः । धर्मः प्राप्तस्तथा चान्यैरर्थः कामस्तथापरैः ॥ तत्तत्त्ववेदिनो भूत्वा ज्ञानध्यानसमाधिभिः । अवापुर्मुक्तिमपरे पुरुषा ध्वस्तबन्धनाः ॥ सम्पदैश्वर्यमाहात्म्यज्ञानसन्ततिकर्मणाम् । विमुक्तेश्चैकतो लभ्यं मूलमाराधनं हरेः ॥ यतो धर्मार्थकामाख्यं मुक्तिश्चापि फलं द्विजाः । तेनापि किं किमित्येवमनन्तेन किमुच्यते ॥ किं चापि बहुनोक्तेन भवन्तो गुरवो मम । वदन्तु साधु वासाधु विवेकोऽस्माकमल्पकः ॥ बहुनात्र किमुक्तेन स एव जगतः पतिः । स कर्ता च विकर्ता स संहर्ता च हृदि स्थितः ॥ स भोक्ता भोज्यमप्येवं स एव जगदीश्वरः । भवद्भिरेतत्क्षन्तव्यं बाल्यादुक्तं तु यन्मया ॥ पुरोहिता ऊचुः दह्यमानस्त्वमस्माभिरग्निना बाल रक्षितः । भूयो न वक्ष्यसीत्येवं नैव ज्ञातोऽस्यबुद्धिमान् ॥ यदास्माद्वचनान्मोहग्राहं न त्यक्ष्यते भवान् । ततः कृत्या विनाशाय तव सृच्याम दुर्मते ॥ प्रह्लाद उवाच कः केन हन्यते जन्तुर्जन्तुः कः केन रक्ष्यते । हन्ति रक्षति चैवात्मा ह्यसत्साधु समाचरन् ॥ कर्मणा जायते सर्वं कर्मैव गतिसाधनम् । तस्मात्सर्वप्रयत्नेन साधुकर्म समाचरत् ॥ श्रीपराशर उवाच इत्युक्तास्तेन ते क्रुद्धा दैत्यराजपुरोहिताः । कृत्यामुत्पादयामासुर्ज्वालामालोज्ज्वलाकृतिम् ॥ अतिभीमा समागम्य पादन्यासक्षतक्षितिः । शूलेन साधु सङ्क्रुद्धा तं जघानाशु वक्षसि ॥ तत्तस्य हृदयं प्राप्य शूलं बालस्य दीप्तिमत् । जगाम खण्डितं भूमौ तत्रापि शतघा गतम् ॥ यत्रानपायी भगवान् हृद्यास्ते हरिरीश्वरः । भङ्गो भवति वज्रस्य तत्र शूलस्य का कथा ॥ अपापे तत्र पापैश्च पातिता दैत्ययाजकैः । तानेव सा जघानाशु कृत्या नाशं जगाम च ॥ कृत्यया दह्यमानांस्तान्विलोक्य स महामतिः । त्राहि कृष्णेत्यनन्तेति वदन्नभ्यवपद्यत ॥ प्रह्लाद उवाच सर्वव्यापिन् जगद्रूप जगत्स्रष्टर्जनार्दन । पाहि विप्रानिमानस्माद्दुःसहान्मन्त्रपावकात् ॥ यथा सर्वेषु भूतेषु सर्वव्यापी जगदगुरुः । विष्णुरेव तथा सर्वे जीवन्त्वेते पुरोहिताः ॥ यथा सर्वगतं विष्णुं मन्यमानोऽनपायिनम् । चिन्तयाम्यरिपक्षेऽपि जीवन्त्वेते पुरोहिता- ॥ ये हन्तुमागता दत्तं यैर्विषं यैर्हुताशनः । यैर्दिग्गजैरहं क्षुण्णो द्रष्टः सर्पश्च यैरपि ॥ तेष्वहं मित्रभावेन समः पापोऽस्मि न क्वचित् । यथा तनाद्य सत्येन जीवन्त्वसुरयाजकाः ॥ श्रीपराशर उवाच इत्युक्तास्तेन ते सर्वे संस्पृष्टाश्च निरामयाः । समुत्तस्थुर्द्विजा भूयस्तमूचुः प्रश्रयान्वितम् ॥ पुरोहिता ऊचुः दीर्घायुरप्रतिहतो बलवीर्यसमन्वितः । पुत्रपौत्रधनैश्वर्यैर्युक्तो वत्स भवोत्तमः ॥ श्रापराशर उवाच इत्युक्त्वा तं ततो गत्वा यथावृत्तं पुरोहिताः । दैत्यराजाय सकलमाचचक्षुर्महामुने ॥ श्रीपराशर उवाच हिरण्यकशिपुः श्रुत्वा तां कृत्यां वितथीकृताम् । आहूय पुत्रं पप्रच्छ प्रभावस्यास्य कारणम् ॥ हिरण्यकशिपुरुवाच प्रह्लाद सुप्रभावोऽसि किमेतत्ते विचेष्टितम् । एतन्मन्त्रादिजनितमुताहो सहजं तव ॥ श्रीपराशर उवाच एवं पृष्टस्तदा पित्रा प्रह्लादोऽसुरबालकः । प्रणिपत्य पितुः पादाविदं वचनमब्रवीत् ॥ न मन्त्रादिकृतं तात न च नैसर्गिको मम । प्रभाव एष सामान्यो यस्य यस्याच्युतो हृदि ॥ अन्येषां यो न पापानि चिन्तयत्यात्मनो यथा । तस्य पापागमस्तात हेत्वभावान्न विद्यते ॥ कर्मणा मनसा वाचा परपीड़ां करोति यः । तद्बीजं जन्म फलति प्रभूतं तस्य चाशुभम् ॥ सोऽहं न पापमिच्छामि न करोमि वादामि वा । चिन्तयन्सर्वभूतस्थमात्मन्यपि च केशवम् ॥ शारीरं मानसं दुःखं दैवं भूतभवं तथा । सर्वत्र शुभचित्तस्य तस्य मे जायते कुतः ॥ एवं सर्वेषु भूतेषु भक्तिरव्यभिचारिणी । कर्तव्या पण्डितैर्ज्ञात्वा सर्वभूतमयं हरिम् ॥ श्रीपराशर उवाच इति श्रुत्वा स दैत्येन्द्रः प्रासादशिखरे स्थितः । क्रोधान्धकारितमुखः प्राह दैतेयकिङ्करान् ॥ हिरण्यकशिपुरुवाच दुरात्मा क्षिप्यतामस्मात्प्रसादाच्छतयोजनात् । गिरिपृष्ठे पतत्वस्मिन् शिलाभिन्नाङ्गसंहति ॥ श्रीपराशर उवाच ततस्तं चिक्षिपुः सर्वे बालं दैतेयदानवाः । पपात सोऽप्यघः क्षिपातो हृदयेनोहन्हरिम् ॥ पतमानं जगद्धात्री जगद्धातरि केशवे । भक्तियुक्तं दधारैनमुपसङ्गम्य मेदिनी ॥ ततो विलोक्य तं स्वस्थमविशीर्णास्थिपञ्जरम् । हिरण्यकशिपुः प्राह शम्बरं मायिनां वरम् ॥ हिरण्यकशिपुरुवाच नास्माभिः शक्यते हन्तुमसौ दुर्बुद्धिबालकः । मायां वेत्ति भवांस्तस्मान्माययैनं निषूदय ॥ शम्बर उवाच सूदयामायेव दैत्येन्द्र पश्य मायाबलं मम । सहस्त्रमत्र मायानां पश्य कोटिशतं तथा ॥ श्रीपराशर उवाच ततः स ससृजे मायां प्रह्लादे शम्बरोऽसुरः । विनाशमिच्छन्दुर्बुद्धिः सर्वत्र समदर्शिनि ॥ समाहितमतिर्भूत्या शम्बरेऽपि विमत्सरः । मैत्रेय सोऽपि प्रह्लादः सस्मार मधुसूदनम् ॥ ततो भगवता तस्य रक्षार्थं चक्रमुत्तमम् । आजगाम समाज्ञप्तं ज्वालामालि सुदर्शनम् ॥ तेन मायासहस्रं तच्छम्बरस्याशुगामिना । बालस्य रक्षता देहमेकैकं च विशोधितम् ॥ संशोषकं तथा वायुं दैत्येन्द्रस्त्विदमब्रवीत् । शीघ्रमेष ममादेशाद् दुरात्मा नीयतां क्षयम् ॥ तथेत्युक्त्वा तु सोऽप्येनं विवेश पवनो लघु । शीतोऽतिरूक्षः शोषाय तद्देहस्यातिदुःसहः ॥ तेनाविष्टमथात्मानं स बुद्ध्वा दैत्यबालकः । हृदयेन महात्मानं दधार धरणीधरम् ॥ हृदयस्थस्ततस्तस्य तं वायुमति भीषणम् । पपौ जनार्दनः क्रुद्धः स ययौ पवनः क्षयम् ॥ क्षीणासु सर्वमायासु पवने च क्षयं गते । जगाम सोऽपि भवनं गुरोरेव महामतिः ॥ अहन्यहन्यथाचार्यो नीतिं राज्यफलप्रदाम् । ग्राहयामास तं बालं राज्ञामुशनसा कृताम् ॥ गृहीतनीतिशास्त्रं तं विनीतं च यदा गुरुः । मेने तदैनं तत्पित्रे कथयामास शिक्षितम् ॥ आचार्य उवाच गृहीतनीतिशास्त्रस्ते पुत्रो दैत्यपते कृतः । प्रह्लादस्तत्त्वतो वेत्ति भार्गवेण यदीरितम् ॥ हिरण्यकशिपुरुवाच मुत्रेषु वर्तेत कथमरिवर्गेषु भूपतिः । प्रह्लाद त्रिषु लोकेषु मध्यस्थेषु कथं चदेत् ॥ कथं मन्त्रिष्वमात्येषु बाह्येष्वाभ्यन्तरेषु च । चारेषु पौरवर्गेषु शङ्कितेष्वितरेषु च ॥ कृत्याकृत्यविधानश्च दुर्गाटविकसाधनम् । प्रह्लाद कथ्यतां सम्यक् तथा कण्टकशोधनम् ॥ एतच्चान्यच्च सकलमधीतं भवता यथा । कथा मे कथ्यतां ज्ञातुं तवेच्छामि मनोगतम् ॥ श्रीपराशर उवाच प्रणिपत्य पितुः पादौ तदा प्रश्रयभूषणः । प्रह्लादः प्राह दैत्येन्द्रं कृताञ्जलिपुटस्तथा ॥ प्रह्लाद उवाच ममोपदिष्टं सकलं गुरुणा नात्र संशयः । गृहीतन्तु मया किन्तु न सदेतन्मतम्मम ॥ साम चोपप्रदानं च भेददण्डौ तथापरौ । उपायाः कथिताः सर्वे मित्रादीनां च साधने ॥ तानेवाहं न पश्यामि मित्रादींस्तात मा क्रुधः । साध्याभावे महाबाहो साधनैः किं प्रयोजनम् ॥ सर्वभूतात्मके तात जगन्नाथे जगन्मये । परमात्मनि गोविन्दे मित्रामित्रकथा कुतः ॥ त्वय्यस्ति भगवान् विष्णुर्मति चान्यत्र चास्ति सः । यतस्ततोऽयं मित्र मे शत्रुश्चेति पृथक्कुतः ॥ तदेभिरलमत्यर्थं दुष्टारम्भोक्तिविस्तरैः । अविद्यान्तर्गतैर्यत्नः कर्त्तव्यस्तात शोभने ॥ विद्याबुद्धिरविद्यायामज्ञानात्तात जायते । बालोऽग्नि किं न खद्योतमसुरेश्वर मन्यते ॥ तत्कर्म यन्न बन्धाय सा विद्या या विमुक्तये । आयासायापरं कर्म विद्यान्या शिल्पनैपुणम् ॥ तदेतदवगम्याहमसारं सारमुत्तमम् । निशामय महाभाग प्रणिपत्य ब्रवीमि ते ॥ न चिन्तयति को राज्यं को धनं नाभिवाञ्छति । तथापि भावमेवैतदुभयं प्राप्यते नरैः ॥ सर्व एव महाभाग महत्त्वं प्रति सोद्यमाः । तथापि पुंसां भाग्याति नोद्यमा भूतिहेतवः ॥ जड़ानामविवेकानामशूराणामपि प्रभो । भाग्यभोच्यानि राज्यानि सन्त्यनीतिमतामपि ॥ तस्माद्यतेत पुण्येषु य इच्छेन्महतीं श्रियम् । यतितव्यं समत्वे च निर्वाणमपि चेच्छता ॥ देवा मनुष्याः पशवः पक्षिवृक्षसरीसृपाः । रुपमेतदनन्तस्य विष्णोर्भिन्नमिव स्थितम् ॥ एतद्विजानता सर्व जगत्स्थावरजङ्गमम् । द्रष्टव्यमात्मवद्विष्णुर्यतोऽयं विश्वरुपधृक् ॥ एवं ज्ञाते स भगवाननादिः परमेश्वरः । प्रसीदत्यच्युतस्तस्मिन्प्रसन्ने क्लेशसंक्षयः ॥ श्रीपराशर उवाच एतच्छ्रुत्वा तु कोपेन समुत्थाय वरासनात् । हिरण्यकशिपुः पुत्रं पदा वक्षस्यताङयत् ॥ उवाच च स कोपेन सामर्षः प्रज्वलन्निव । निष्पिष्य पाणिना पाणि हन्तुकामो जगद्यथा ॥ हिरण्यकशिपुरुवाच हे विप्रचित्ते हे रारो हे बलैष महार्णवे । नागपाशैर्दृढैर्बद्ध्वा क्षिप्यतां मा विलम्ब्यताम् ॥ अन्यथा सकला लोकास्तथा दैतेयदानवाः । अनुयास्यन्ति मूढस्य मतमस्य दुरात्मनः ॥ बहुशो वारितोऽस्माभिरयं पापस्तथाप्यरेः । स्तुतिं करोति दुष्टानां वध एवोपकारकः ॥ श्रीपराशर उवाच ततस्ते सत्वरा दैत्या बद्ध्वातं नागबन्धनैः । भर्तुराज्ञां पुरस्कृत्य चिक्षिपुः सलिलार्णवे ॥ ततश्चचाल चलता प्रह्लादेन महार्णवः । उद्वेलोऽभूत्परं क्षोभमुपेत्य च समन्ततः ॥ भूर्लोकमखिलं दृष्ट्वा प्लाव्यमानो महाम्भसा । हिरण्यकशिपुर्दैत्यानिदमाह महामते ॥ हिरण्यकशिपुरुवाच दैतेयाः सकलैः शैलैरत्रैव वरुणालये । निश्छिद्रैः सर्वशः सर्वैश्चीयतामेष दुर्मतिः ॥ नाग्निर्दहति नैवायं शस्त्रैश्छिन्नो न चोरगैः । क्षयं नीतो न वातेन न विषेण न कृत्यया ॥ न मायाभिर्न चैवोच्चात्पातितो न च दिग्गजैः । बालोऽतिदुष्टचित्तोऽयं नानेनार्तोऽस्ति जीवता ॥ तदेष तोयमध्ये तु समाक्रान्तो महीधरैः । तिष्ठत्वब्दसहस्रान्तं प्राणान्हास्यति दुर्मतिः ॥ ततो दैत्या दानवाश्च पर्वतैस्तं महोदधौ । आक्रम्य चयनो चक्रुर्योजनानि सहस्रशः ॥ स चितः पर्वतैरन्तः समुद्रस्य महामतिः तुष्टावाह्निकवेलायामेकाग्रमतिरच्युतम् ॥ प्रह्लाद उवाच नमस्ते पुण्डरीकाक्ष नमस्ते पुरुषोत्तम । नमस्ते सर्वलोकात्मन्नमस्ते तिग्मचक्रिणे ॥ नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च । जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥ ब्रह्मत्वे सृजते विश्वं स्थितौ पालयते पुनः । रूद्ररूपाय कल्पान्ते नमस्तुभ्यं त्रिमूर्तये ॥ देवा यक्षासुराः सिद्धा नागा गन्धर्वकिन्नराः । पिशाचा राक्षसाश्चैव मनुष्याः पशवस्तथा ॥ पक्षिणः स्थावराश्चैव पिपीलिकसरीसृपाः । भूस्यापोऽग्निर्नभो वायुः शब्दः स्पर्शस्तथा रसः ॥ रूपं गन्धो मनो बुद्धिरात्मा कालस्तथा गुणाः । एतेषां परमार्थश्च सर्वमेतत्त्वमच्युत ॥ विद्याविद्ये भवान्सत्यमसत्यं त्वं विषामृते । प्रवृत्तं च नुवृत्तं च कर्म वेदोदितं भवान् ॥ समस्तकर्मभोक्ता च कर्मोपकरणानि च । त्वमेव विष्णो सर्वाणि सर्वकर्मफलं च यत् ॥ मय्यन्यत्र तथान्येषु भूतेषु भुवनेषु च । तवैव व्याप्तिरैश्वर्यगुणसंसूचिकी प्रभो ॥ त्वां योगिनश्चिन्तयन्ति त्वां यजन्ति च याजकाः । हव्यकव्यभिगेकस्त्वं पितृदेवस्वरूपधृक् ॥ रूपं महत्त स्थितमत्र विश्वं ततश्च सूक्ष्मं जगदेतदीश । रूपाणि सर्वाणि चाभूतभेदास्तेष्वन्तरात्माख्यमतीव सूक्ष्मम् ॥ तस्माच्च सूक्ष्मादि विशेषणानामगोचरे यत्परमात्मरूपम् । किमप्यचिन्त्यं तव रूपमस्ति तस्मै नमसते पुरुषोत्तमाय ॥ सर्वभूतेषु सर्वात्मन्या शक्तिरपरा तव । गुणाश्रया नमस्तस्यै शाश्वतायै सुरेश्वर ॥ यातीतगोचरा वाचां मनसां चाविशेषणा । ज्ञानिज्ञानपरिच्छेद्या तां वन्दे स्वेश्वरीं पराम् ॥ ॐ नमो वासुदेवाय तस्मै भगवते सदा । व्यतिरिक्तं न यस्यास्ति व्यतिरिक्तोऽखिलस्य यः ॥ नमस्तस्मै नमसतस्मै नमस्तस्मै महात्मने । नाम रूपं न यस्यैको योऽस्तित्वेनोपलभ्यते ॥ यस्यावतारूपाणि समर्चन्ति दिवौकसः । अपश्यन्तः परं रूपं नमस्तस्मै महात्मने ॥ योऽन्तस्तिष्ठन्नशेषस्य पश्यतीशः शुभाशुभम् । तं सर्वसाक्षिणं विश्वं नमस्ये परमेश्वरम् ॥ नमोऽस्तु विष्णवे तस्मै यस्याभिन्नमिदं जगत् । ध्येयः स जगतामाद्यः स प्रसीदतु मेऽव्ययः ॥ यत्रोतमेतत्प्रोतं च विश्वमक्षरमव्ययम् । आधारभूतः सर्वस्य स प्रसीदतु मे हरिः ॥ ॐ नमो विष्णवे तस्मै नमस्तस्मै पुनः पुनः । यत्र सर्वं यतः सर्वं यः सर्वं सर्वसंश्रयः ॥ सर्वगत्वादनन्तस्य स एवाहमवस्थितः । मत्तः सर्वमहं सर्वं मयि सर्वं सनातने ॥ अहमेवाक्षयो नित्यः परमात्मात्मसंश्रयः छ ब्रह्मसंज्ञोऽहमेवाग्रे तथान्ते च परः पुमान् ॥ श्री पराशर उवाच एवं सञ्चिन्तयन्विष्णुमभेदेनात्मनो द्विज । तन्मयत्वमवाप्यग्रूयं मेने चात्मानमच्युतम् ॥ विसस्मार तथात्मानं नान्यत्किञ्चिदजानत । अहमेवाव्ययोऽनन्तः परमात्मेत्यचिन्तयत् ॥ तस्य तद्भावनायोगात्क्षीणपापस्य वै क्रमात् । शुद्धेऽन्तःकरणे विष्णुस्तस्थौ ज्ञानमयोऽच्युतः ॥ योगप्रभावात्प्रह्लादे जाते विष्णुमयेऽसुरे । चलत्युरगलन्धैस्तैस्तैर्मैत्रेय त्रुटितं क्षणात् ॥ भ्रान्तग्राहगणः सोर्मिर्ययौ क्षोभं महार्णवः । चचाल च मही सर्वा सशैलवनकानना ॥ स च तं शैलसङ्गातं दैत्यैर्न्यस्तमथोपरि । उत्क्षिप्य तस्मात्सलिलान्निश्चक्राम महामतिः ॥ दृष्ट्वा च स जगद्भूयो गगनाद्युपलक्षणम् । प्रह्लादोऽस्मीति सस्मार पुनरात्मानमात्मनि ॥ तुष्टाव च पुनर्धीमाननादिं पुरुषोत्तमम् । एकाग्रमतिरव्यग्रो यतवाक्कायमानसः ॥ प्रह्लाद उवाच ॐ नमः परमार्थार्थ स्थूलसूक्ष्म क्षराक्षर । व्यक्ताव्यक्त कलातीत सकलेश निरञ्जन ॥ गुणाञ्जन गुणाधार निर्गुणात्मन् गुणस्थित । मूर्तामूर्तमहामूर्ते सूक्ष्ममूर्ते स्फुटास्फुट ॥ करालसोम्यरुपात्मन्विद्याविद्यामयाच्युत । सदसद्रूपसद्भाव सदसद्भावभावन ॥ नित्यानित्यप्रपञ्चात्मन्निष्प्रपञ्चामलाश्रित । एकानेक नमस्तुभ्यं वासुदेवादिकारण ॥ यः स्थूलसूक्ष्मः प्रकटप्रकाशो यः सर्वभूतो न च सर्वभूतः । विश्वं यतश्चैतदविश्वहेतोर्नमोऽस्तु तस्मै पुरुषोत्तमाय ॥ श्रीपराशर उवाच तस्य तच्चेतसो देवः स्तुतिमित्थं प्रकुर्वतः । आविर्बभूव भगवान् पीताम्बरधरो हरिः ॥ ससम्भ्रमस्तमालोक्य समुत्थायाकुलाक्षरम् । नमोऽस्तु विष्मवेत्येतद् व्याजाहारासकृद् द्विज ॥ प्रह्लाद उवाच देव प्रपन्नार्तिहर प्रसादं कुरु केशव । अवलोकनदानेन भूयो मां पावयाच्युत ॥ श्रीभगवानुवाच कुर्वतस्ते प्रसन्नोऽहं भक्तिमव्याभिचारिणीम् । यथाभिलषितो मत्तः प्रह्लाद व्रियतां वरः ॥ प्रह्लाद उवाच नाथ योनिसहस्रेषु येषु येषु व्रजाम्यहम् । तेषु तेष्वच्युता भक्तिरच्युतास्तु सदा त्वयि ॥ या प्रीतिरविवेकानां विषयेष्वनपायिनी । त्वामनुस्मरतः सा मे हृदयान्मापसर्पतु ॥ श्रीभगवानुवार मयि भक्तिस्तवास्त्येव भूयोऽप्येवं भविष्यति । वरस्तु मत्तः प्रह्लाद व्रियतां यस्तवेप्सितः ॥ प्रह्लाद उवाच मयि द्वेषानुबन्धोऽभूत्संस्तुतावुद्यते तव । मत्पितुस्तत्कृतं पापं देव तस्य प्रणश्यतु ॥ शस्त्राणि पातितान्यङ्गे क्षिप्तो यच्चाग्निसंहतौ । दंशितश्चोरगैर्दत्तं यद्विषं मम भोजने ॥ बद्ध्वा समुद्रे यत्क्षिप्तो यच्चितोऽस्मि शिलोच्चयैः । अन्यानि चाप्यसाधूनि यानि पित्रा कृतानि मे ॥ त्वयि भक्तिमतो द्वेषादघं तत्सम्भवं च यत् । त्वत्प्रसादात्प्रभो सद्यस्तेन मुच्येत मे पिता ॥ श्रीभगवानुवाच प्रह्लाद सर्वमेतत्ते मत्प्रसादाद्भविष्यति । अन्यच्च ते वरं दद्मि व्रियतामसुरात्मज ॥ प्रह्लाद उवाच कृतकृक्योऽस्मि भगवन्वेणानेन यत्त्वयि । भवित्री त्वत्प्रसादेव भक्तिरव्यभिचारिणी ॥ धर्मार्थकामैः किं तस्य मुक्तिस्तस्य करे स्थिता । समस्तजगतां मूले यस्य भक्तिः स्थिरा त्वयि ॥ श्रीभगवानुवाच यथा ते निश्चलं चेतो मयि भक्तिसमन्वितम् । तथा त्वं मत्प्रसादेन निर्वाणम्परमाप्स्यसि ॥ श्रीपराशर उवाच इत्युक्त्वान्तर्दधे विष्णुस्तस्य मैत्रेय पश्यतः । स चापि पुनरागम्य ववन्दे चरणौ पितुः ॥ तं पिता मूर्ध्न्युपाघ्राय परष्विज्य च पीड़ितम् । जीवसीत्याह वत्येति बाष्पार्द्रनयने द्विज ॥ प्रीतिमांश्चाभवत्तस्मिन्ननुतापी महासुरः । गुरुपित्रोश्चकारैवं शुश्रूषां सोऽपि धर्मवित् ॥ पितर्युपरतिं नीते नरसिंहस्वरूपिणा । विष्णुना सोऽपि दैत्यानां मैत्रेयाभूत्पतिस्ततः ॥ ततो राज्यद्युतिं प्राप्य कर्मशुद्धिकरीं द्विज । पुत्रपौत्रांश्च सुबुहूनवाप्यैश्वर्यमेव च ॥ क्षीणाधिकारः स यदा पुण्यपापविवर्जितः । तदा स भगनद्धयानात्परं निर्वाणमाप्तवान् ॥ एवंप्रभावो दैत्योऽसौ मैत्रेयासिन्महामतिः । प्रह्लादो भगवद्भक्तो यं त्वं मामनुपृच्छसि ॥ यस्त्वेतच्चरितं तस्य प्रह्लादस्य महात्मनः । शृणोति तस्य पापानि सद्यो गच्छन्ति सङ्क्षयम् ॥ अहोरात्रकृतं पापं प्रह्लादचरितं नरः । शृणवन् पठंश्च मैत्रेय व्यपोहति न संशयः ॥ पौर्णमास्याममावास्यामष्टम्यामथ वा पठन् । द्वादश्यां वा तदाप्नोत गोप्रदानफलं द्विज ॥ प्रह्लादं सकलापत्सु यथा रक्षितवान्हरिः । तथा रक्षति यस्तस्य शृणोति चरितं सदा ॥ ॥ ॐ नमः भगवते वासुदेवाये ॥
[edit] हिन्दी में प्रह्लाद जी की कहानी
श्री पराशर जी बोले - हे मैत्रय तुम ध्यान से महात्मा प्रह्लाद जी के उदार चरित्र का वर्णन सुनो । बहुत पहले दिति के एक महावीर पुत्र था जिसका नाम था हिरण्यकशिपु । उस ने ब्रह्मा जी के दिये वर से त्रिलोकी को अपने वश में कर लिया था । वह स्वयं ही वायु अग्नि जल चन्द्र पर राज करने लगा था, तथा धन का स्वामी भी स्वयं ही बन गया था और यम का पद भी उसने छीन लिया था । वह स्वयं ही सभी यज्ञ फलों को भी भोगता था ।
उस समय सभी देवता स्वर्ग त्याग कर मनुषी रुपों में धरती पर विचरने लगे । और वह असुर ब्रह्मा जी के दिये वर से गर्वित हुआ गन्धर्वों द्वारा गीयमान होती हुआ प्रिय लगने वाले विषयों को भोगता था । मदिरापान में लगे उस महान असुर हरिण्यकशिपु की सभी नाग और गन्धर्व उपासना करते थे ।
हिरण्यकशिपु का एक बहुत ही महाभाग पुत्र था जिसका नाम था प्रह्लाद । वह अपने गुरु के यहां पढता था । एक दिन जब हरिण्यकशिपु मदिरापान में लगा हुआ था, तो उस के सामने उसका वह धर्मात्मा पुत्र अपने गुरु के साथ आया । अपने उस तेजस्वी पुत्र को प्रणाम करते देख हिरण्यकशिपु बोला:
हे वत्स । अब तक तूने जो कुछ भी पढा है, उसे तु हमे सार रूप से बता ।
प्रह्लाद बोले: सुनिये पिताजी, आप की आज्ञा से मैं वह सार बताता हूं जो मेरे मन में समाया हुआ है । 'जिसका कोई आदि नहीं है, मध्य नहीं है, अन्त नहीं है, जो वृद्धि और क्षय से परे है, उन अच्युत को मैं प्रणाम करता हूं जो अन्त करण में स्थित हैं और सभी कारणों के कारण हैं' ।
श्री पराशर बोले: यह सुन कर वह दैत्य क्रोध से लाल हुई आँखों से उन के गुरु को देखते हुए, काँपते होंठों से बोला: हे दुर्मति ब्राह्मण, तुने मेरी आज्ञा के विरुद्ध इसे क्यों विपक्ष की स्तुती करने की प्रेरणा दी ।
इस पर गुरु बोले: हे दैत्येश्वर, आप क्रोधित न हों । आपका यह पुत्र मेरा सिखाया हुई नहीं बोल रहा है ।
हरिण्यकशिपु होला: इस प्रकार की अनुचित बातें तुमने कहां से सीखीं प्रह्लाद । तुम्हारे गुरु तो कहते हैं कि उन्होंने यह नहीं सिखाया ।
प्रह्लाद बोलेः वह विष्णु तो सबके हृदय में स्थित हो कर सभी को सिखाते हैं । उन परमात्मा के अतिरिक्त और भला कौन किसे कुछ सिखा ही सकता है ।
हिरण्यकशिपु बोला: कौन है यह विष्णु जिसकी तू महादुर्बिद्धि बार बार बात किये जा रहा है । इस जगत का ईश्वर तो मैं हूं जिसके सामने तू यह सब कह रहा है ।
प्रह्लाद बोले: जो शब्दों के विषय नहीं हैं, योगीयों द्वारा चिन्तनीय परं पद हैं । जिनसे यह संसार आया है, वही विष्णु परेश्वर हैं ।
हिरण्यकशिपु बोले: मेरे सामने तु और किस को परमेश्वर कहता है । इस प्रकार बार बार मृत्यु की इच्छा क्यों कर रहा है ।
प्रह्लाद बोले: हे पिता । न केवल मेरे और इस प्रजा के, वह परमेश्वर तो आप के भी धाता और विधाता हैं । प्रसन्न होईये, क्रोध क्यों करते हैं ।
हिरण्यकशिपु बोले : न जाने कौन इस दुरबुद्धि के हृदय में प्रवेश कर चुका है जिसके कारण यह पापी कठोर हृदय से ऐसी असाधु बाते कर रहा है ।
प्रह्लाद बोले: न केवल मेरे हृदय में, वह विष्णु तो इस संपूर्ण संसार में स्थित हैं । वह मुझे, आपको और सभी अन्य लोगों को अपनी अपनी चेष्टाओं में प्रवृत करते हैं ।
हिरण्यकशिपु बोले: इस पापी को यहां से निकालो और गुरुगृह में सही से सिखाओ । न जोने किसने इसे विपक्ष की स्तुति करने में लगा दिया है ।
श्री पराशर बोले: उन के इस प्रकार कहने पर प्रह्लाद जी पुनः अपने गुरु घर में आ गये और गुरु सेवा और शिक्षा प्राप्त करने लगे । बहुत समय बीत जाने पर वे फिर अपने पिता के पास गये । तब उनके पिता नें उन्हें कुछ सुनाने को कहा ।
प्रह्लाद बोले: जिन से प्रधान (मूल प्राकृति) और पुरुष (आत्मा) आये हैं, जिन से यह चर अचर जगत उत्पन्न हुआ है, जो इस सकल सृष्टि के कारण हैं, वह विष्णु हम पर प्रसन्न हों ।
हिरण्यकशिपु बोले: इस दुरात्मा को मार डालो । इस के जीने से अब कोई लाभ नहीं है क्योंकि यह स्वयं के कुल के लिये ही हानिकारक हो गया है ।
श्री पराशर जी बोले: हिरण्यकशिपु के इस आदेश पर हजारों दैत्य श्री प्रह्लाद जी को मारने के लिये उन पर टूट पडे ।
प्रह्लाद बोले: भगवान विष्णु शस्त्रों में हैं, मुझ मैं और जो भी यहां लोग हैं सब में हैं । इस सत्य के पराक्रम से इन शस्त्रों का मुझ पर कोई प्रभाव न हो ।
श्री पराशर बोले: तब सैंकडों दैत्यों द्वारा शस्त्रों के प्रहार होते हुऐ भी प्रह्लाद जी को कुछ नहीं हुआ और न ही तनिक भी वेदना हुई ।
हिरण्यकशिपु बोले: हे दुर्बुद्धि । विपक्ष की स्तुति करना बंद कर दे । मैं तुझे अभय दान देता हूं, ज्यादा मूर्ख मत बन ।
प्रह्लाद बोले: भयों का नाश करने वाले अनन्त जब मन में स्थित हों तो मुझे भला भय कैसे हो सकता है हे तात । जिन्हें याद करने से मनुष्य जन्म जरा अन्त आदि सभी भयों से मुक्ति पा लेता है ।
हिरण्यकशिपु बोले: हे सर्पा । इस दुराचारी अत्यन्त दुर्मति का तुम अपने विष ज्वाला भरे दांतों से अन्त कर दो ।
श्री पराशर जी बोले: यह सुनकर साँपों ने प्रह्लाद जी को काटना शुरु किया । लेकिन भगवान में आसक्त मति के कारण उन्हें जरा सी भी वेदनी नहीं हुई ।
सर्प बोले: हमारे दाँत टूट गये, मणियां हिलने लगीं, फण तपित हो गये हैं और हृदय काँपने लगा है, लेकिन इसकी त्वचा तनिक भी भेद नहीं पाये । हमे कोई और कार्य दीजीये हे दैत्येश्वर ।
हिरण्यकशिपु बोले: हे हाथिओ । तुम अपने दाँतों से इसे रौंध डालो ।
श्री पराशर बोले: फिर प्रह्लाद जी को हाथिओं ने जमीन पर गिरा कर अपने पैरों और दाँतों से कुचला शुरु किया । लेकिन गोविन्द को याद करते रहने के कारण हाथियों के हजारों दाँत प्रह्लाद जी की छाती से टकरा कर टूट गये । तब प्रह्लाद जी अपने पिता से बोले : यह जो हाथियों के कठोर दाँत टूट गये हैं, यह मेरा बल नहीं है । यह तो महा विपत्ति नाशक भगवान जनार्दन का स्मरण करने का प्रभाव है ।
हिरण्यकशिपु बोले: हट जाओ हाथियो । ज्वाला जलाओ असुरो और हे वायु तुम अग्नि को प्रज्वलित करो । इस पापकृत को जला डालो ।
श्री पराशर बोले: अपने स्वामी का आदेश सुन कर दैत्यों ने एक बहुत बडे कुण्ड में अग्नि प्रज्वलित की ।
प्रह्लाद बोले: हे पिताजी । वायु द्वारा बढी हुई आग भी मुझे नहीं जला रही है । मुझे तो ऐसा लग रहा है जैसे सभी दिशायें कमल के पत्तों के समान शीतल हैं ।
श्री पराशर बोले: तब भार्गव के पुत्र और अन्य पुरोहितों ने राजा हिरण्यकशिपु से यह कहा ।
पुरोहित बोले: हे राजन । आप अपना क्रोध त्याग दीजिये । यह आप का अपना पुत्र है । क्रोध तो देवतायों पर करना चाहिये । बचपन तो सभी दोषों का घर होता है । हम इसे समझायेंगें, और यदि फिर भी यह न माना तो हम इस के वध के लिये अग्नि कृत्या उत्पन्न कर देंगें जिस से धुटकारा पाना संभव नहीं है ।
श्री पराशर जी बोले: पुरोहितो की यह बात सुनकर दैत्यराज ने अपने पुत्र को वहां से निकलवाया और वे वापिस अपने गुरुघर चले गये । वहां उन्होंने दूसरे बालकों को कहा ।
प्रह्लाद बोले: सुनो हे दैत्यो, दिति के पुत्रो । मेरी इन बातों को आप अन्यथा न जानें क्योंकि इन में किसी भी प्रकार का लोभ आदि कारण नहीं हैं । सभी जीव जन्म बाल्य अवस्था और फिर यौवन प्राप्त करते हैं । और फिर दिन पर दिन जरा को प्राप्त हो जाते हैं । और इसके बाद जीव मृत्यु को प्राप्त हो जाते हैं - यह हमे और आपको प्रत्यक्ष दिखता है । जिसकी मृत्यु होती है, वह फिर जन्म ले कर उत्पन्न होता है, इस में कोई अन्यथा नहीं है (मतलब सत्य है) । गर्भवास आदि जितनी भी पुनर्जन्म देने वाली आवस्थाऐं हैं, उन सभी को आप दुख ही जानें ।
जिनकी अस्थियां बैठे बैठे दुखने लगती हैं, उन्हें जैसे व्ययाम सुखमयी लगती है, उसी तरहां अज्ञानवश ही मनुष्य दुख को ही सुख समझ बैठता है । कहां तो यह शरीर जो की सब प्रकार के घृणित पदार्थों का घर है, और कहां कान्ति शोभी सौन्दर्य रमणीयता आदि गुण । इस मास, मूत्र, पसीने, हडियों के ढेर मैं अगर किसी मूर्ख की प्रीति हो सकती है, तो उसे नरक भी प्रिय लग सकता है ।
हे दैत्य पुत्रो । मनुष्य जितनी चीजें इक्ट्ठी करता जाता है, उतना ही उस के मन में दुख बढता जाता है । जन्तु जितने भी सम्बन्धों को अपने मन से प्रिय करता है, उतने ही उस के हृदय में शोक रुपी कांटे घर कर लेते हैं ।
जन्म से लेकर मनुष्य दुख भोगता है, और फिर मृत्यु के पश्चात भी यम यातनाओं को भोगता हुआ फिर गर्भ में प्रवेश करता है । यदी आप को गर्भ में लेशभर भी सुख का अनुमान होता है तो बताईये । इस प्रकार यह संपूर्ण संसार ही दुखमयी है । इस अत्यन्त दुखों के महासागर में मैं आप लोगों से सत्य कहता हूं, एक विष्णु ही सहारा हैं ।
यह मत जानो की हम बालक हैं, क्योंकि देही इन देहों में शाश्वत है । बुढापा, यौवन, जन्म आदि देह के धर्म हैं आत्मा के नहीं । अबी तो हम बालक हैं, खेलने का मन करता हैं, बडे होने पर श्रेय का प्रयत्न करेंगें । युवा आवस्था प्राप्त कर लेने पर यह कहना की बुढापे में श्रेय के लिये मेहनत करेंगें । और वृद्ध आवस्था आने पर मैं मन्द आत्मा हूं मैं क्या करूं मैं असमर्थ हूं । इस प्रकार दुराशाओं में गिरा मनुष्य श्रेय से हाथ धो कभी अपना कल्याण नहीं कर पाता । बचपन में खेलने में लगे हुये, यौवन में विषयों में पडे, और बुढापा आ जाने पर शक्तिहीन होने के कारण वह श्रय से अभिमुख हो जाता है । इसलिये बाल्यावस्था में हीं बुद्धिमान पुरुष को सदा श्रेय के लिये प्रयत्न करना चाहिये । बाल्य यौवन वृद्ध आदि देह के भाव हैं ।
यदि आप मेरी बातों को अन्यथा नहीं जानते तो मेरी प्रीति के चलते आप विष्णु को याद करियें जो बन्धन से मुक्ति देने वाले हैं । और उन्हें याद करने में प्रयास भी क्या हैं । समरण करने पर ये उत्तम फल देते हैं, और रात दिन उन्हें याद करने वाले के पापों का भी क्षय हो जाता है ।
जो हर जगह स्थित हैं, उन में मति और उन्हीं में मैत्री (लगाव) दिन रात - इस से आप के सभी कलेशों का अन्त हो जायेगा ।
जब यह सारा जगत ही जल रहा है, तो इन शोचनीय (शोक मनाने लायक) जीवों से कौन बुद्धिमान द्वेष करेगा । और यदी यह भी कहा जाये की और तो सभी बहुत सुख में हैं, मैं ही परम शक्तिहीन हूं, तब भी खुश ही होना चाहिये क्योंकि द्वेष का फल तो हानि ही है । यदि दूसरे जीव हम से वैर भी रखें तो यह भी मुनियों के लिये यह सोच कर शोक करने लायक है कि वे अत्यन्त मोह में फसे हुये हैं ।
इस प्रकार मैंने आप को विभिन्न विभिन्न बातें कहीं । क्या करना चाहिये यह आप मुझ से संक्षेप में सुनें । यह संपूर्ण संसार भगवान विष्णु की ही विस्तार है । इसलिये बुद्धिमान मनुष्य इसे अपने सामान ही अभेद देखे । असुर भाव का त्याग करके आप और हम, ऐसा यत्न करें जिससे निवृत्ति को प्राप्त हों । जो ना अग्नि से, ना चर्क से, ना चन्द्र से, न वायु से, व पानी से, न सिद्धों से, न राक्षसों से, न यक्षों से, न दैत्यराज से, न किन्नरों से, न मनुष्यों से, न पशुयों से, स्वयं के दोषों से, न रोगों से, न मूर्खता आदि, लोभ आदि से या और भी किसी जीज से जिसका क्षय नहीं होता, जो अत्यन्त निर्मल है, मनुष्य उस अमल (मल रहित) शान्ति को केशव में हृदय लगाने से प्राप्त कर लेता है ।
संसार के विषय असार हैं, इन में आप कभी संतुष्ट नहीं होयें । हर जगह हे दैत्य पुत्रो, आप समता से ही देखें, क्योंकि समता अच्युत की अराधना है । उन के प्रसन्न होने पर अलभ्य ही क्या है । धर्म अर्थ (धन) काम आदि तो छोटे हैं, उन ब्रह्म परमेश्वर का आश्रय ले कर आप असंशय ही महान फल भी प्राप्त कर लेंगें ।
श्री पराशर बोले: उन की इन चेष्ठाओं को देख कर, दैन्यों ने राजा का भय उन्हें यह सब बताया । दैत्यराजा में अपने रसोईयों को बुलाकर कहा ।
हिरण्यकशिपु बोले: हे रसोईयो । तुम इस दुर्मति कुमार्गदेशि दुष्ट बालक को अभी मार दो । इसके सभी खानों में हलाहल विष मिला कर इसे दे दो । ज्यादा सोचो नहीं ।
श्री पराशर बोले: रसोईयों नें वैसा ही किया । उन महात्मा प्रह्लाद नें उस घोर हलाहल विष को अनन्त के नाम के उच्चारण के साथ आमन्त्रित कर खा लिया । अनन्त के नाम से वीर्यहीन हुई उस विष को वेअसर देख रसोईयों में भयभीत हो कर हिरण्यकशिपु को सब कुछ बताया ।
रसोईये बोले: हे राजा । हमने अत्यन्त भीषण विष दिया था । लेकिन आप के पुत्र ने उसे पचा लिया ।
हिरण्यकशिपु बोले: हे दैत्य पुरोहितो । इस के विनाश के लिये आप कृत्य उत्पन्न करें । देरी मत करें ।
श्री पराशर बोले: तब पुरोहितों ने प्रह्लाद जी के पास जा कर उन्हें यह कहा ।
पुरोहित बोले: तुम त्रिलोक प्रसिद्ध ब्रह्मा के कुल में पैदा हुए हो । तुम्हारे पिता हिरण्यकशिपों दैत्यों के राजा हैं । तुम्हें भगवान से क्या लेना है, तुम्हारे पिता संपूर्ण संसार के राजा हैं और भविष्य में तुम भी होगे । इसलिये तुम विपक्ष की स्तुति करना बंद कर दो । पिता ही सभी गुरुओं में सब से परम गुरु होता है ।
प्रह्लाद बोले: आप ने जो कहा है कि यह कुल त्रिलोकी में प्रसिद्ध है इस में कुछ भी अन्यथा नहीं है । मेरे पिता भी सारे संसार में उत्कृष्ट हैं, यह भी सत्य है । और सभी गुरुओं में पिता परम गुरु है, इस में भी कोई गलत नहीं । पिता ही प्रयत्न के साथ पूजनीय हैं यह सही है, और मेरे हिसाब से तो मैं उनकी अपराधी भी नहीं हूं । लेकिन जो आपने कहा है कि मुझे भगवान से क्या लेना है, आपकी इस बात को कौन न्यायपूर्ण कहेगा ।
यह कह कर वे गुरुओं का मान रखने के लिये मौन हो गये । और फिर कहने लगे साधु साधु (अर्थात बहुत अच्छे बहुत अच्छे), यदि आप खेद न मानें तो मुझे भगवान से क्या लेना है सुनें । मनुष्य के चार पुरुषार्थ बताये जाते हैं, धर्म अर्थ काम और मोक्ष । यह चारो ही जिन से प्राप्त होते हैं उन के लिये आप यह क्यों कहते हैं कि तुझे अनन्त से क्या लेना है । मरीचि, दक्ष और अन्य बहुतों ने उन अनन्त से ही धर्म प्राप्त किया, अन्यों ने धन, और औरों नें ईच्छापूर्ति (काम) । उन्हीं के तत्व को ज्ञान और ध्यान द्वारा जान कर बहुत से पुरुषों ने अपने बंधनों को धवस्त कर मुक्ति प्राप्त की ।
सम्पदा, ऐश्वर्य़, महात्मय, ज्ञान, सन्तति, विमुक्ति आदि की मूल (जड) भगवान हरि की अराधना ही है । जिनसे धर्म, अर्थ, काम और मुक्ति भी प्राप्त होती है, उनहीं अनन्त के प्रति आप ऐसे क्यों कहते हैं ।
और बहुत कहने का क्या लाभ । आप मेरे गुरु हैं । कुछ भी कह सकते हैं और मुझे तो बुद्धि भी कम है । ज्यादा कहने से क्या लाभ । वे ही जगत पति हैं । वे ही कर्ता हैं विकर्ता हैं और संहर्ता (अन्त हैं), हृदय में स्थित हैं । वे ही भोक्ता हैं (भोगने वाले), भोज्य हैं, वे ही जगदीश्वर हैं । मुझ से बाल्यवश कुछ गलत कहा गया हो तो क्षमा कर दें ।
पुरोहित बोले: हम तो तेरी अग्नि से रक्षा करना चाहते थे । फिर तुम्हें यह सब नहीं कहेंगें । हमे नहीं पता था कि तु इतना बुद्धिमान है । अगर तु हमारा कहना नहीं मानेगा तो हे दुर्मति, हम तेरे विनाश के लिये कृत्या उत्पन्न करेंगें ।
प्रह्लाद जी बोले: कौन जन्तु किसे मारता है, और कौन जन्तु किस की रक्षा करता है । आत्मा स्वयं ही साधु असाधु आचरण से मरती और रक्षती है । कर्मों से ही सब पैदा होते हैं, कर्म ही गति (स्थिति) निर्धारित करते हैं । इसलिये सभी प्रयत्नों द्वारा साधु कर्म ही करने चाहिये ।
श्री पराशर बोले: यह सुन कर दैत्य पुरोहित क्रोधित हो उठे और उन्हेंने कृत्या उत्पन्न की । वह ज्वाला से हर और भरी अग्नि की आकृति थी, अत्यन्त भीम, विषाल और पैरों से पृथ्वि को हिलाती । उस ने प्रह्लाद पर शूल फेंका । वह जलता हुआ भाला उन की छाटी से टकराते ही सैंकडों टुकडे होकर जमीन पर गिर गया । जहां भगवान हरि ईश्वर बसते हों वहीं वज्र टूट जाता है तो शूल की क्या बात है । पापहीन पर कृत्या का उपयोग करने के कारण वह कृत्या उन्हीं पर आकृमण किया और उन पुरोहितों को जला कर स्वयं नष्ट हो गई । कृत्या की अग्नि में उन पुरोहितों को जलते देख प्रह्लाद जी 'हे कृष्ण रक्षा करियें । हे अनन्त रक्षा करिये ' कहते उस ओर भागने लगे ।
श्री प्रह्लाद बोले: हे सर्व व्यापि जनार्दन, हे जगद रूप, हे जगद स्रष्ट, इन विप्रों की इस दुसह मन्त्र अग्नि से रक्षा करिये । जैसे सभी जीवों में आप व्याप्त हैं हे जगदगुरु विष्णु, इसी सत्य से यह पुरोहित जी उठें । जैसे भगवान विष्णु को सभी जगह देखते हुये मैंनें सदा उन्हें विपक्षीयों में भी देखा है, उस सत्य से यह पुरोहित जी उठें । जो मुझे मारने आये, जिन्होंने मुझे विष दिया, या अग्नि में जलाया, जिन्होंने मुझे हाथी के पैरो तले कुचला, साँपों से डसवाया, उन के प्रति भी यदी मैं मित्र भाव ही रहा हूं और मेरे मन में कभी पाप (द्वेष) नहीं हुआ है तो इस सत्य के पराक्रम से यह सभी असुर याजक जी उठें ।
श्री पराशर बोले: यह कह कर उन्हें ने उन्हें स्पर्श किया तो वे पुरोहित फिर से उठ बैठे ।
पुरोहित बोले: दीर्घ आयु हो तुम्हारी पुत्र, बल वीर्य पाओ, पुत्र पौत्र धन ऐश्वर्य युक्त हो वत्स, तुम उत्तम हो ।
श्री पराशर जी बोले: पुरोहितों ने फिर राजा के पास जा कर सारा किस्सा ज्यों का त्यों सुनाया । कृत्या को विफल हुई सुन कर हिरण्यकशिपु ने प्रह्लाद को बुलाया और पूछा ।
हिरण्यकशिपु बोले: प्रह्लाद तुम्हारे इस महान प्रभाव का क्या कारण है । क्या ये जन्म से ही है या मन्त्र से उत्पन्न है ।
श्री पराशर बोले: अपने पिता द्वारा इस प्रकार पूछे जाने पर प्रह्लाद ने उन्हें हाथ जोड कर प्रणाम किया और कहा । हे पिताजी, न यह मन्त्र जनित है, और नी ही यह जन्म से है । यह प्रभाव तो उस के लिये सामान्य है जिसका हृदय अच्युत में है । जो अन्यों के लिये अपने ही सामान कोई पाप नहीं सोचता, उसके लिये पाप प्राप्त होने का कोई कारण भी नहीं रहता हे तात । कर्म मन या वाक्यों से जो किसी को पीडा पहुंचाता है, उसके फल स्वरूप उसे अशुभ फल प्राप्त होता है । इसलिये, सभी जीवों में और स्वयं में केशव का चिन्तन करते हुये मैं न पाप की इच्छा करता हूं, न करता हूं और न ही बोलता हूं । शारीरिक, मानसिक दुख, दैविक या लौकिक - सदा हर जगह शुभ चित रहते हुए मुझे कैसे प्राप्त हो सकता है । इस प्रकार ज्ञानमन्द को सभी जावों में सर्वभूतमयी हरि को ही जान कर उन की अव्यभिचारिणी भक्ति करनी चाहिये ।
श्री पराशर जी बोले: यह सुन कर दैत्यराज क्रोध से अन्धकारित मुख से बोला । इस दुरात्मा को इस यौ योजन ऊँचे महल से नीचे जमीन पर गिरा दो । धरती पर शीलाओं पर गिर कर इसके अंग भिन्न जायेंगें ।
श्री पराशर जी बोले: तब सभी दैत्य दानवों नें उस बालक को वहां से फेंक दिया और वे भी हृदय में हरि जी को याद करते गिरने लगे । तब जगद धात्री धरती माता मेदिनी नें केशव की भक्ति से युक्त उस बालक को गिरते देख उसके पास जा कर उसे उठा लिया । तब उसे स्वस्थ और अस्थियां टूटे बिना देख कर हिरण्यकशिपु नें मायावीयी शम्बर से कहा ।
हिरण्यकशिपु बोले: हम इस दुर्बुद्धि बालक का अन्त नहीं कर सकते । आप माया जानते हैं । इसे माया से ही मार दीजिये ।
शम्बर बोला: मैं इसे मार देता हूं, हे दैत्येन्द्र, आप मेरे माया बल देखिये और मेरी हजारों करोडों मायाओं को देखिये ।
श्री पराशर जी बोले: तब उस दुर्बुद्धि असुर शम्बर में हर जगह सम बुद्धि प्रह्लाद जी को मारने के लिये मायायें रचना शुरु किया । लेकिन प्रह्लाद जी फिर भी समाहित मति से मधुसूदन को याद करने लगे । तब उन की रक्षा करने के लिये भगवान का अति उत्तम अत्यन्त वेगवान ज्वाला मालाओं से युक्त सुदर्शन चक्र वहां आया । उस ने उस बालक की रक्षा करते हुये शम्बर की सभी मायाओं का अन्त करते हुय़े शम्बर का अन्त कर दिया ।
यह देख कर हिरण्यकशिपु ने अति दारुण शीत पवन से कहा कि जल्दि से वह प्रह्लाद में प्रवेश कर उसका अन्त कर दे । अपने शरीर में उस अति दुसह सूखी अती दारुण शीत पवन को प्रवेश किया जान उस दैत्य बालक (प्रह्लाद जी) में हृदय में भगवान धरणीधर को धारण किया । उस अति भीषण वायु को जनार्द ने तब क्रोधित हो कर पी लिया जिस से उस का क्षय हो गया ।
तब सभी मायाओं का क्षय हो जाने पर, तथा पवन का भी क्षय हो जाने पर, वे महामति अपने गुरुघर चले गये । चिरकाल बाद वहां वे शिक्षी स्माप्त कर अपने गुरु के साथ दैत्यराज के पास आये । गुरु ने हिरण्यकशिपु से कहा कि प्रह्लाद अब नीतिशास्त्र में निपुर्ण हो गया है ।
हिरणयकशिपु बोले: हे प्रह्लाद बता की मित्र से कैसे और वैरी पक्ष से राजा को कैसा व्यवहार करना चाहिये । मध्य स्थित से कैसे, मन्त्रियों से कैसे, बाहर के और अन्दर के लोगों से कैसे, और चारों वर्गों के लोगों से कैसा व्यवहार करना चाहिये । अपने रस्ते के काँटे को कैसे निकाले आदि और भी जो कुछ तूने सीखा है सब मुझे बता । मैं तेरे विचार सुनने की इच्छुक हूँ ।
श्री पराशर जी बोले: तब प्रह्लाद जी ने हाथ जोड कर अपने पिता को प्रणाम किया और कहा ।
श्री प्रह्लाद बोले: मुझे गुरु जी ने सब सिखा दिया है और मैंने सीख भी लिया है इस में कोई संदेह नहीं है । लेकिन मेरे मत से यह सद नहीं हैं । साम दान दंड भेद अदि उपाय बताये गये हैं मित्र आदि पर इस्तेमाल करने के लिये । लेकिन मुझे मित्रादि ही नहीं दिखाई देते हे तात । जब मित्र आदि ही नहीं दिखाई देते तो उन पर उपयोग करने वाले उपायों से क्या लाभ । हे तात, सर्वभूतमयी जगतमयी भगवान जगन्नाथ में परमात्मा गोविन्द में मित्र वैरी की बात ही कहां है ।
आप में वे भगवान विष्णु हैं, मुझ में और अन्य सभी लोगों में भी वही हैं । तो यह मेरा मित्र है और यह मेरा शत्रु यह भेद ही कहां । इसलिये इस दुष्टता को आरम्भ कराने वाले अज्ञान को व्यर्थ जान कर हमें वह करना चाहिये जो शुभ हो । मनुष्य अविद्या के कारण ही अज्ञान को विद्या मानता है, जैसे बालक अग्नि को खेलने की वस्तु मान बैठते हैं । वही सही कर्म है जो बन्धन का कारण न हो, और वही विद्या है जो विमुक्ति करे । इस प्रकार हे महाभाग इसे आसार जान कर मैं आप को प्रणाम कर उत्तम सार बताता हूं ।
कौन राज्य के बारे में नहीं सोचता । किस को धन की इच्छी नहीं होती । लेकिन यह मिलते उसी को हैं जिसे मिलने वाले होते हैं । सभी महानता के लिये प्रयत्न करते हैं, लेकिन विभूति का कारण मेहनत नहीं भाग्य होता है । क्या जडों, बुद्धिहीनों, अशूरों, अनीतिवानों को भी भाग्यवश राज्य और सन्ति आदि भोग नहीं प्राप्त हो जाते ।
इसलिये जिसे बहुत श्रेय की इच्छा हो वह पुण्य कमाने का प्रयत्न करे । और जिसे निर्वाण की इच्छा हो वह समता की तरफ मेहनत करे ।
देव मनुष्य पशु पक्षी वृक्ष आदि यह सभ अनन्त के ही रूप हैं, विष्णु से भिन्न से स्थित दिखने वाले । यह जानकर इस संपूर्ण संसार चर अचर जगत को स्वयं के जैसे ही देखना चाहिये क्योंकि विष्णु ही इस संसार का रूप धारण किये हुये हैं । यह जान लेने पर भगवान अनादि परमेश्वर प्रसन्न होते हैं, और उन के प्रसन्न होने पर कलोशों का अन्त हो जाता है ।
श्री पराशर जी बोले: यह सुन कर हिरण्यकशिपु अपने आसन से उठा और प्रह्लाद के छाती में लात मारी । फिर क्रोध से अपने हाथ मलता हुआ, मानो सारे संसार को मार देना चाहता है, बोला:
हिरण्यकशिपु बोले: हे विप्रचित्ते । हे राहो । हे बलैष । देर मत करो, इसे नाग पाश में अच्छी तरह बाँध कर महासागर में फेंक दो । वरना यह सारा संसार और दैत्य दानव इस मूर्ख दुरात्मा के मत का ही अनुसरण करने लगेंगें । इसे बहुत समझाया हमने लेकिन यह फिर भी दुष्मन की ही स्तुति करता है, इस दुष्ट का वध करना ही उपकारी है ।
श्री पराशर जी बोले: तब दैत्यों ने उन्हें नाग बन्धन में बाँध कर, जैसा उन के स्वामी ने कहा था, सागर में फेंक दिया । वहां महासागर में प्रह्लाद के हिलने से सागर में हलचल मच गई । इस से सारी भूमि को पानी से क्षोभित होते देख हरिण्यकशिपु ने दैत्यों से कहा :
हिरण्यकशिपु बोले: हे दैत्यो । इस दुर्मति को हर ओर से बडी बडी शिलाओं से ढक दो ताकि कहीं कोई भी छेद न बचे । न इसे अग्नि जलाती है, न वायु से इसे कुछ हुआ, न शस्त्र इस भेद पाये, न ही यह विष से मरा, न कृत्या से, न माया से मरा, न ही नीचे गिराने से और न ही हाथी इसे मार पाये । यह बालक अत्यन्त दुष्ट है, इसके जीवित रहने से हमे कोई मतलब नहीं है । इसे पानी में ही धरती के तल पर पडा रहने दो । वहाँ हजारो वर्ष पडे रहने पर यह स्वयं ही अपने प्राण त्याग देगा ।
तब दैत्य दानवों ने महान पर्वतों से हजारों योजन बडे ढेर से प्रह्लाद जी को सागर में दबा दिया । वहां महामति प्रह्लाद जी ने भगवान अच्य़ुत की तुष्टी के लिये एकाग्र चित से यह प्रार्थना की :
प्रह्लाद जी बोले (इसे नृसिहं सतुति भी कहा जाता है): नमस्ते पुण्डरी काक्ष, नमस्ते पुरुषोत्तम । नमस्ते सर्व लोकों के आत्मन् । नमस्ते तेज च्रक धारी । नमो ब्रह्मण देवाय गो ब्राह्मण हिताय । जगद धाता, कृष्ण, गोविन्द आप को नमस्कार है नमस्कार है । आप ब्रह्मा बन कर विष्व की स्रष्टि करते हैं, और फिर उसका पालन करते हैं, और कल्प के अन्त में रुद्र रुप से उस का अन्त करते हैं । आप को प्रणाम है हे त्रिमूर्ति ।
देव यक्ष असुर सिद्ध नाग गन्धर्व किन्नर पिशाच राक्षस और पशु पक्षी भूमि जल अग्नि आकाश वायु शब्द स्पर्श और रस, रुप गन्ध मन बुद्धि आत्मा और समय तथा गुण - यह सब और परमार्थ (परम अर्थ - मतलब मनुष्य की सबसे सर्वश्रेष्ठ प्राप्ति) यह सभी आप ही हैं हे अच्युत ।
विद्या अविद्या आप है, सत्य और असत्य भी आप ही हैं, आप ही विष भी हैं आप ही अमृत हैं । वेदों में बताये प्रवृति (कर्म चेष्ठा) कर्म भी आप ही हैं और निवृत्ति कर्म भी । आप ही सम्सत कर्मों के भोक्ता हैं और सभी कर्मों के साधन भी । आप ही सब कुछ हैं हे विष्णु, सभी कर्मों के फल भी । मुझ में और दूसरे जीवों में और सभी स्थानों में आप के ही गुण ऐश्वर्य की सूचिका व्याप्त है हे प्रभु ।
आप का ही योगी चिन्तन करते हैं, याजक लोग आप की ही यजना करते हैं । पितृदेवों का रूप धारण कर आप ही हव्य और कव्य भागों का भोग करते हैं । महान विशाल प्रकृति में यह विश्व स्थित है और इस विश्व में सूक्ष्म यह जगत है (जीव) । और इस सभी जीवों में कही अत्यन्त सूक्षम यह आत्मा है । और उस आत्मा में कहीं जो विशेषणों आदि का विषय नहीं है (जिसके कोई लक्षण नहीं बताये जा सकते) वह अचिन्तय रुप परमात्मा का रूप है - मैं उन परमात्मा आपको प्रणाम करता हूं हे पुरुषोत्तम ।
सभी जीवों में सभी आत्माओं में आप की ही अपरा शक्ति व्याप्त है, हे गुणों के आश्रय, आप को प्रणाम है हे शाश्वत, हे सुरेश्वर । जो वाक्यों मन और विशेषणों से परे हैं, ज्ञानियों को ज्ञान द्वारा दिखते हैं, मैं उन परम स्वेश्वरी को प्रणाम करता हूं ।
ॐ नमः वासुदेवाय हे भगवन आप को सदा । आप के अतिरिक्त दूसरा कोई व्यक्ति नहीं है, और इस सब के अतिरिक्त जो एक व्यक्ति हैं (भगवान) ।
आप को प्रणाम है, आप को प्रणाम है, आप को प्रणाम है हे महात्मा । जिनका कोई भी नाम और रुप नहीं है । जो स्वयं अपनी इच्छा से ही प्राप्त होते हैं ।
जिनके परम रुप को न देखने के कारण देवता लोग जिनके अवतार रुपों की सदा अर्चना करते हैं, मैं उन महात्मा को प्रणाम करता हूं ।
जो सब के अन्त करण में स्थित होकर उनके शुभ और अशुभ को देखते हैं, उन संपूर्ण विश्व के साक्षी को नमस्कार है । हे विष्णु आप को नमस्कार है, जिन से यह संसार अलग नही है । वे अव्यय जगत के आदि मुझ पर प्रसन्न हों ।
जिनसे यह विश्व ओत प्रोत है, वे अक्षर, विकार हीन (अव्यय), सब कुछ के आधार हरि मुझ पर प्रसन्न हों । हे विष्णु आप को नमस्कार है, नमस्कार है, फिर फिर नमस्कार है । जो हर जगह हैं, जिन से सब कुछ आया है, जो सब कुछ हैं, सब कुछ के आश्रय हैं, हर जगह स्थित (सर्वगत) अनन्त मुझ में भी स्थित हैं । इसलिये मुझ से ही सब कुछ है, मुझ में ही सब कुछ है, मैं ही सब कुछ हूं, सनातन हूं । मैं ही अक्षय हूं, नित्य हूं, परमात्मा हूं, ब्रह्म मेरा ही नाम है, मैं ही परम पुरुष हूं ।
श्री पराशर जी बोले: इस प्रकार चिन्तन करते हुये प्रह्लाद जी ने स्वयं को विष्णु भगवान से अभिन्न समझा । वे भगवान अच्युत से पुरी तरह तनमय हो गये । उस समय वे अपनी आत्मा को भूल कर और किसी को नही जान रहे थे । मैं ही अव्यय हूं (विकार हीन हूं), अनन्त हूं, परमात्मा हूं, इस प्रकार चिन्तन कर रहे थे । उस भावना के संयोग से उन के पाप क्षीण हो गये और उनके शुद्ध अन्त करण में ज्ञानमयी अच्युत श्री विष्णु जी स्थित हुये ।
इस योग के प्रभाव से प्रह्लाद जी विष्णुमयी हो गये । उस समय उन के तनिक से हिलते ही वह नागपाश क्षण