श्री ध्रुव चरित्र
From Wikisource
ध्रुव कथा
श्रीपराशर उवाच प्रियव्रतोत्तानपादौ मनोः स्वायंभुवस्य तु । द्वौ पुत्रौ तु महावीर्यौ धर्मज्ञौ कथितौ तव ॥ तयोरुत्तानपादस्य सुरुच्यामुत्तमः सुतः । अभीष्टायामभूद्ब्रह्मन्पितुरत्यन्तवल्लभः ॥ सुनीतिर्नाम या राज्ञस्तस्यासीन्महीषी द्विज । सनातिप्रीतिमांस्तस्यामभूद्यस्या ध्रुवः सुतः ॥ राजासनस्थितस्याङ्क पितुर्भ्रातरमाश्रितम् । दृष्टोत्तमं ध्रुवश्चक्रे तमोरोढुं मनोरथम् ॥ प्रत्यक्षं भूपतिस्तस्याः सुरुच्या नाभ्यनन्दत । प्रणयेनागतं पुत्रमुत्सङ्गारोहणोत्सुकम् ॥ सपत्नीतनयं दृष्ट्वा तमङ्कारोहणोत्सुकम् । स्वपुत्रं च तथारूढं सुरुचिर्वाक्यमब्रवीत् ॥ क्रयते किं वृथा वत्स महानेष मनोरथः । अन्यस्त्रीगर्भजातेन ह्यसम्भूय ममोदरे ॥ उत्तमोत्तममप्राप्यमविवेको हि वाञ्छसि । सत्यं सुतस्त्वमप्यस्य किन्तु न त्वं मया धृतः ॥ एतद्राजासनं सर्वभूभृत्संश्रयकेतनम् । योग्यं ममैव पुत्रस्य किमात्मा क्लिश्यते त्वया ॥ (...) उच्चैर्मनोरथस्तेऽयं मत्पुत्रस्येव किं वृथा सुनीत्यामात्मनो जन्म किं त्वया नावगम्यते ॥ श्रीपराशर उवाच उत्सृज्य पितरं बालस्तच्छ्रुत्वा मातृभाषितम् । जगाम कुपितो मातुर्निजाया द्विज मन्दिरम् ॥ तं दृष्ट्वा कुपितं पुत्रमीष्त्प्रस्फुरिताधरम् । सुनीतिरङ्कमारोप्य मैत्रेयदमभाषत ॥ वत्स कः कोपहेतुस्ते कश्च त्वां नाभिनन्दति । कोऽवजानाति पितरं वत्स यस्तेऽपराध्यति ॥ श्रीपराशर उवाच इत्युक्तः सकलं मात्रे कथयामास तद्यथा । सुरुचिः प्राह भूपालप्रत्यक्षमतिगर्विता ॥ विनिःश्चस्येति कथिते तस्मिन्पुत्रेण दुर्मनाः । श्वासक्षामेक्षणा दीना सुनीतिर्वाक्यमब्रवीत् ॥ सुनीतिरुवाच सुरुचिः सत्यमाहेदं मन्दभाग्योऽसि पुत्रक । न ही पुण्यवतां वत्स सपत्नैरेवमुच्यते ॥ नोद्वेगस्तात कर्त्तव्यः कृतं यद्भवता पुरा । तत्कोऽपहर्त्तुं शक्नोति दातुं कश्चाकृतं त्वया ॥ तत्त्वया नात्र कर्त्तव्यं दुःखं तद्वाक्यसम्भवम् ॥ राजासनं राजच्छत्रं वराश्ववरवारणाः । यस्य पुण्यानि तस्यैते मत्वैतच्छाम्य पुत्रक ॥ अन्यजन्मकृतैः पुण्यैः सुरुच्यां सुरुचिर्नृपः । भार्येति प्रोच्यते चान्या मद्विधा पुण्यवर्जिता ॥ पुण्योपचयसम्पन्नस्तस्याः पुत्रस्तथोत्तमः । मम पुत्रस्तथा जातः स्वल्पपुण्यो ध्रुवो भवान् ॥ तथापि दुःखं न भवान् कर्त्तुमर्हति पुत्रक । यस्य यावत्स तेनैव स्वेन तुष्यति मानवः ॥ यदि ते दुःखमत्यर्थं सुरुच्या वचसाभवत् । तत्पुण्योपचये यत्नं कुरु सर्वफलप्रदे ॥ सुशीलो भव धर्मात्मा मैत्रः प्राणिहिते रतः । निम्नं यथापः प्रवणाः पात्रमायान्ति सम्पदः ॥ ध्रुव उवाच अम्ब यत्त्वमिदं प्रात्थ प्रशमाय वचो मम । नैतद्दुर्घचसा भिन्ने हृदये मम तिष्ठति ॥ सोऽहं तथा यतिष्यामि यथा सर्वोत्तमोत्तमम् । स्थानं प्राप्स्याम्यशेषाणां जगतामभिपूजितम् ॥ सुरुचिर्दयिता राज्ञस्तस्या जातोऽस्मि नोदरात् । प्रभावं पश्य मेऽम्ब त्वं वृद्धस्यापि तवोदरे ॥ उत्तमः स मम भ्राता यो गर्भेण धृतस्तया । स राजासनमाप्नोतु पित्रा दत्तं तथास्तु तत् ॥ नान्यदत्तमभीप्सामि स्थानमम्ब स्वकर्मणा । इच्छामि तदहं स्थानं यन्न प्राप पिता मम ॥ श्रीपराशर उवाच निर्जगाम गृहान्मातुरित्युक्त्वा मातरं ध्रुवः । पुराच्च निर्गम्य ततस्तद्बाह्योपवनं ययौ ॥ स ददर्श मुनिस्तत्र सप्त पूर्वागतान्ध्रुवः । कृष्णाजिनोत्तरीयेषु विष्टरेपु समास्थितान् ॥ स राजपुत्रस्तान्सर्वान्प्रणिपत्याभ्याभाषत । प्रश्रयावनतः सम्यगभिवादनपूर्वकम् ॥ ध्रुव उवाच उत्तानपादतनयं मां निबोधत सत्तमाः । जातं सुनित्यां निर्वेदाद्युष्माकं प्राप्तमन्तिकम् ॥ ऋषय ऊचुः चतुःपञ्चाब्दसम्भूतो बालस्त्वं नृपनन्दन । निर्वेदकारणं किञ्चित्तव नाद्यापि वर्त्तते ॥ न चिन्तयं भवतः किञ्चिद्घ्रियते भूपतिः पिता । न चैवेष्टवियोगादि तव पश्याम बालक ॥ शरीरे न च ते व्याधिरस्माभिरुपलक्ष्यते । निर्वेदः किन्निमित्तस्ते कथ्यतां यदि विद्यते ॥ श्रीपराशर उवाच ततः स कथयामास सुरुच्या यदुदाहृतम् । तन्निशम्य ततः प्रोचुर्मुनयस्ते परस्परम् ॥ अहो क्षात्रं परं तेजो बालस्यापि यदक्षमा । सपत्न्या मातुरुक्तं यद्घृदयान्नासर्पति ॥ भो भो क्षत्रियदायाद निर्वेदाद्यत्त्वयाधुना । कर्तुं व्यवसितं तन्नः कथ्यतां यदि रोचते ॥ यच्च कार्यं तवास्माभिः साहाय्यममितद्युते । तदुच्यतां विवक्षुस्त्वमस्माभिरुपलक्ष्यसे ॥ ध्रुव उवाच नाहमर्थमभीप्सामि न राज्यम द्विजसत्तमाः । तत्स्थानमेकमिच्छामि भुक्तं नान्येन यत्पुरा ॥ एतन्मे क्रियतां सम्यक्कथ्यतां प्राप्यते यथा । स्थानमग्रयं समस्तेभ्यः स्थानेभ्यो मुनिसत्तमाः ॥ मरीचिरुवाच अनाराधितगोविन्दैर्नरैः स्थानं नृपात्मज । न हि सम्प्राप्यते श्रेष्ठं तस्मादाराधयाच्युतम् ॥ अत्रिरुवाच परः पराणां पुरुषो यस्य तुष्टो जनार्दनः । स प्राप्नोत्यक्षयं स्थानमेतत्सत्यं मयोदितम् ॥ अङ्गिरा उवाच यस्यान्त- सर्वमेवेदमच्युतस्याव्ययात्मनः । (...) पुलस्त्य उवाच परं ब्रह्म परं धाम योऽसौ ब्रह्म तथा परम् । तमाराध्य हरिं याति मुक्तिमप्यतिदुर्लभाम् ॥ पुलह उवाच एन्द्रभिन्द्रः परं स्थानं यमाराध्य जगत्पतिम् । प्राप यज्ञपतिं विष्णुं तमाराधय सुव्रत ॥ क्रतुरुवाच यो यज्ञपुरुषो यज्ञो योगेशः परमः पुमान् । तस्मिस्तुष्टे यदप्राप्यं किं तदस्ति जनार्दने ॥ विसिष्ठ उवाच प्राप्नोष्याराधिते विष्णौ मनसा यद्यदिच्छसि । त्रैलोक्यान्तर्गतं स्थानं किमु वत्सोत्तमोत्तमम् ॥ ध्रुव उवाच आराध्यः कथितो देवो भवद्भिः प्रणतस्य मे । मया तत्परितोपाय यज्जप्तव्यं तदुच्यताम् ॥ यथा चाराधनं तस्य मया कार्यं महात्मनः । प्रसादसुमुखास्तन्मे कथयन्तु महर्पयः ॥ ऋषय ऊचुः राजपुत्र यथा विष्णोराराधनपरैर्नरैः । कार्यमाराधनं तन्नो यथावच्छ्रोतुमर्हसि ॥ बाह्यार्थादखिलाच्चित्तं त्याजयेत्प्रथमं नरः । तस्मिन्नेव जगद्धाम्नि ततः कुर्वीत निश्चलम् ॥ एवमेकाग्रचित्तेन तन्मयेन धृत्यात्मनाः जप्तव्यं यन्निबोधैतत्तन्नः पार्थिवनन्दन ॥ हिरण्यगर्भपुरुषप्रधानाव्यक्तरुपिणे । ॐ नमः वासुदेवाय शुद्धज्ञानस्वरुपिणे ॥ एतज्जजाप भगवान् जप्यं स्वायम्भुवो मनुः । पितामहस्तव पुरा तस्य तुष्टो जनार्दनः ॥ ददौ यथाभिलषितां सिद्धिं त्रैलोक्यदुर्लभाम् । तथा त्वमपि गोविन्दं तोष्यैतत्सदा जपन् ॥ बारहवाँ अध्याय श्री पराशर उवाच निशम्यैतदशेषेण मैत्रेय नृपतेः सुतः । निर्जगाम वनात्तस्मात्प्रणिपत्य स तानृषीन् ॥ कृतकृत्यभिवात्मानं मन्यमानस्ततो द्विज । मधुसंज्ञं महापुण्यं जगाम यमुनातटम् ॥ पुनश्च मधुसंज्ञेन दैत्येनाधिष्ठितं यतः । ततो मधुवनं नाम्ना ख्यातमत्र महीतले ॥ हत्वा च लवणं रक्षो मधुपुत्रं महाबलम् । शत्रुघ्नो मधुरां नाम पुरीं यत्र चकार वै ॥ यत्र वै देवदेवस्य सान्निध्यं हरिमेधसः । सर्वपापहरे तस्मिंस्तपस्तीर्थे चकार सः ॥ मरीचिमुख्यैर्मुनिभिर्यथोद्दिष्टमभूत्तथा । आत्मन्यशेषदेवेशं स्थितं विष्णुममन्यत ॥ अनन्यचेतसस्तस्य ध्यायतो भगवान्हरिः । सर्वभूतगतो विप्र सर्वभावगतेऽभवत् ॥ मनस्यवस्थिते तस्मिन्विष्णौ मैत्रेय योगिनः । न शशाक धराभारमुद्वोढुं भूतधारिणी ॥ वामपादस्थिते तस्मिन्ननामार्द्धेन मेदिनी । द्वितीयं च ननामार्द्ध क्षितेर्दक्षिणतः स्थितः ॥ पादाङ्गुष्ठेन सम्पीड़य यदा स वसुधां स्थितः । तदा समस्ता वसुधा चचाल सह पर्वतैः ॥ नद्यो नदाः समुद्राश्च सङ्क्षोभं परमं ययुः । तत्क्षोभादमराः क्षोभं परं जग्मुर्महामुने ॥ यामा नाम तदा देवा मैत्रेय परमाकुलाः । इन्द्रेण सह सम्मन्त्र्य ध्यानभङ्ग प्रचक्रमुः ॥ कूष्माण्डा विविधै रुपैर्महेन्द्रेण महामुने । समाधि भङ्गमत्यन्तमारब्धाः कर्त्तुमातुराः ॥ सुनीतिर्नाम तन्माता सास्त्रा तत्पुरतः स्थिता । पुत्रेति करुणां वाचमाह मायामयी तदा ॥ पुत्रकास्मान्निवर्त्तस्व शरीरात्ययदारुणात् । निर्बन्धतो मया लब्धो बहुभिस्त्वं मनोरथैः ॥ दीनामेकां परित्यक्तुमनाथां न त्वमर्हसि । सपत्नीवचनाद्वत्स अगतेस्त्वं गतिर्मम ॥ क्क च त्वं पञ्चवर्षीयः क्क चैतद्दारुणं तपः । नीवर्ततां मनः कष्टान्निबन्धात्फलवर्जितात् ॥ कालः क्रीडनकानान्ते तदन्तेऽध्ययनस्य ते । ततः समस्तभोगोनां तदन्ते चेष्यते तपः ॥ कालः क्रीडनकानां यस्तव बालस्य पुत्रक । तस्मिंस्त्वमिच्छसि तपः किं नाशायात्मनो रतः ॥ मत्प्रीतिः परमो धर्मो वयोऽवस्थाक्रियाक्रमम् । अनुवर्त्तस्व मा मोहान्निवर्त्तास्मादधर्मतः ॥ परित्यजति वत्साद्य यद्येतन्न भवांस्तपः । त्यक्ष्याम्यहमिह प्राणांस्ततो वै पश्यतस्तव ॥ श्रीपराशर उवाच तां प्रलापवतीमेवं वाष्पाकुलविलोचनाम् । समाहितमना विष्णौ पश्यन्नपि न दृष्टवान् ॥ वत्स वत्स सुघोराणि रक्षांस्येतानि भीषणे । वनेऽभ्युद्यतशस्त्राणि समायान्त्यपगम्यताम् ॥ इत्युक्त्वा प्रययौ साथ रक्षांस्याविर्बभुस्ततः । अभ्युद्यतोग्रशस्त्राणि ज्वालामालाकुलैर्मुखैः ॥ ततो नादानतीवोग्रान् राजपुत्रस्य ते पुरः । मुमुचुर्दीप्तशस्त्राणि भ्रामयन्तो निशाचराः ॥ शिवाश्च शतशो नेदुः सज्वालाकवलैर्मुखैः । त्रासाय तस्य बालस्य योगयुक्तस्य सर्वदै ॥ हन्यतां हन्यतामेष छिद्यतां छिद्यतामयम् । भक्ष्यतां भक्ष्यतां चायमित्यूचुस्ते निशाचराः ॥ ततो नानावीधान्नादान् सिंहोष्ट्रमकराननाः । त्रासाय राजपुत्रस्य नेदुस्ते रजनीचराः ॥ रक्षांसि तानि ते नादाः शिवास्तान्यायुधानि च । गोविन्दासक्तचित्तस्य ययुर्नेन्द्रियगोचरम् ॥ एकाग्रचेत्ताः सततं विष्णुमेवात्मसंश्रयम् । दृष्टवान्पृथिवीनाथपुत्रो नान्यं कथश्चन ॥ ततः सर्वासु मायासु विलूनासु पुनः सुराः । सङ्क्षोभं परमं जग्मुस्तत्पराभवशङ्किताः ॥ ते समेत्य जगद्योनिमनादिनिधनं हरिम् । शरण्यं शरणं यातास्तपसा तस्य तापिताः ॥ देवा ऊचुः देवदेव जगन्नाथ परेश पुरुषोत्तम । ध्रुवस्य तपसा तप्तास्त्वां वयं शरणं गताः ॥ दिने दिने कलालेशैः शशाङ्कः पूर्यते यथा । तथायं तपसा देव प्रयात्यद्धिमहर्निशम् ॥ औत्तानपादितपसा वयमित्थं जनार्दन । (...) न विद्मः किं स शक्रत्वं सूर्यत्वं किमभीप्सति । वित्तपाम्बुलसेमानां साभिलाषः पदेषु किम् ॥ तदस्माकं प्रसीदेश हृदयाच्छल्यमुद्धर । उत्तानपादतनयं तपसः सन्निवर्त्तय ॥ श्रीभगवानुवाच नेन्द्रत्वं न च सूर्यत्वं नैवाम्बुपधनेशताम् । प्रार्थयत्येष यं कामं तं करोम्यखिलं सुराः ॥ यात देवा यथाकामं स्वस्थानं विगतज्वराः । निवर्त्तयाम्यहं बालं तपस्यासक्तमानसम् ॥ श्रीपराशर उवाच इत्युक्ता देवदेवेन प्रणम्य त्रिदशास्ततः । प्रययुः स्वानि धिष्ण्यानि शतक्रतुपुरोगमाः ॥ भगवानपि सर्वात्मा तन्मयत्वेन तोषितः । गत्वा ध्रुवमुवाचेदं चतुर्भुजवपुर्हरिः ॥ श्रीभगवानुवाच औत्तानपादे भद्रं ते तपसा परितोषितः । वरदोऽहमनुप्राप्तो वरं वरय सुव्रत ॥ बाह्यार्थनिरपेक्षं ते मयि चित्तं यदाहितम् । तुष्टोऽहं भवतस्तेन तदवृणीष्व वरं परम् ॥ श्रीपराशर उवाच श्रुत्वेत्थं गदितं तस्य देवदेवस्य बालकः । उन्मीलिताक्षो ददृशे ध्यानदृष्टं हरिं पुरः ॥ शङ्खचक्रगदाशार्ङ्गवरासिधरमच्युतम् । किरीटिनं समालोक्य जगाम शिरसा महीम् ॥ रोमाञ्चिताङ्गः सहसा साध्वसं परमं गतः । स्तबाय देवदेवस्य स चक्रे मानसं भुवः ॥ किं वदामि स्तुतावस्य केनोक्तेनास्य संस्तुतिः । इत्याकुलमतिर्देवं तमेव शरणं ययौ ॥ ध्रुव उवाच भगवन्यदि मे तोषं तपसा परमं गतः । स्तोतुं तदहमिच्छामि वरमेनं प्रयच्छ मे ॥ ब्रह्माद्यैर्यस्य वेदज्ञैर्ज्ञायते यस्य नो गतिः । तं त्वां कथमहं देव स्तोतुं शक्नोमि बालकः ॥ त्वद्भक्तिप्रवणं ह्येतत्परमेश्वर मे मनः । स्तोतुं प्रवृत्तं त्वत्पादौ तत्र प्रज्ञां प्रयच्छ मे ॥ श्रीपराशर उवाच शङ्खप्रान्तेन गोविन्दस्तं पस्पर्श कृताञ्जलिम् । उत्तानपादतनयं द्विजवर्य जगत्पतिः ॥ अथ प्रसन्नवदनः स क्षणान्नृपनन्दनः । तुष्टाव प्रणतो भुत्वा भूतधातारमच्युतम् ॥ ध्रुव उवाच भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । भूतादिरादिप्रकृतिर्यस्य रूपं नतोऽस्मि तम् ॥ शुद्धः सूक्ष्मोऽखिलव्यापी पर्धानात्परतः पुमान् । यस्य रुपं नमस्तस्मै पुरुषाय गुणाशिने ॥ भूरादीनां समस्तानां गन्धादीनां च शाश्वतः । बुद्ध्यादीनां प्रधानस्य पुरुषस्य च यः परः ॥ तं ब्रह्मभूतमात्मानमशेषजगतः पतिम् । प्रपद्ये शरणं शुद्धं त्वद्रूपं परमेश्वर ॥ बृहत्त्वाद् बृंहणत्वाच्च यद्रूपं ब्रह्मसंज्ञितम् । तस्मै नमस्ते सर्वात्मन्योगिचिन्त्याविकारिणे ॥ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । सर्वव्यापि भवः (...) यद्भूतं यच्च वै भव्यं पुरुषोत्तम तद्भवान् । त्वत्तो विराट् स्वराट् सम्राट् त्वत्तश्चाप्यधिपुरुषः ॥ अत्यरिच्यत सोऽधश्च तिर्यगूर्ध्वं च वै भुवः । त्वत्तो विश्वमिदं जातं त्वत्तो भूतभविष्यती ॥ त्वद्रुपधारिणश्चान्तर्भूतं सर्वमिदं जगत् । त्वत्तो यज्ञः सर्वहुतः पृषदाज्यं पशुर्द्विधा ॥ त्वत्तः ऋचोऽथ सामानि त्वत्तश्छन्दांसि जज्ञिरे । त्वत्तो यजूंष्य जायन्त त्वत्तोऽश्वाश्चैकतो दतः ॥ गावस्त्वत्तः समुद्भूतास्त्वत्तोऽजा अवयो मृगाः । त्वन्मुखाद्ब्राह्मणास्त्वत्तो बाहोः क्षत्रमजायत ॥ वैश्यास्तवोरुजाः शूद्रास्तव पद्भयां समुद्गताः । अक्ष्णोः सूर्योऽनिलः प्राणाच्चन्द्रमा मनसस्तव ॥ प्राणोऽन्तःसुषिराज्जातो मुखादग्निरजायत । नाभितो गगनं द्यौश्च शिरसः समवर्तत । दिशःश्रोत्रात्क्षितिःपद्भयां त्वत्तः सर्वमभूदिदम् ॥ न्यग्रोधःसुमहानल्पे यथा बीजे व्यवस्थितः । संयमे विश्वमखिलं बीजभूते तथा त्वयि ॥ बीजाद्ङ्करसम्भूतो न्यग्रोधस्तु समुत्थितः । विस्तारम च यथा याति त्वत्तःसृष्टौ तथा जगत् ॥ यथा हि कदली नान्या त्वक्पत्रादपि दृश्यते । एवं विश्वस्य नान्यस्त्वं त्वत्स्थायीश्वर दृश्यते ॥ ह्लादिनी सन्धिनी संवित्त्वय्येका सर्वसंस्थितौ । ह्लादतापकरी मिश्रा त्वयि नो गुणवर्जिते ॥ पृथग्भूतैकभूताय भूतभूताय ते नमः । प्रभूतभूतभूताय तुभ्यं भूतात्मने नमः ॥ व्यक्तं प्रधानपुरुषौ विराट् सम्राट् स्वराट् तथा । विभाव्यतेऽन्तःकरणे पुरुषेष्वक्षयो भवान् ॥ सर्वस्मिन्सर्वभूतस्त्वं सर्वः सर्वस्वरुपधृक् । सर्वं त्वत्तस्ततश्च त्वं नमः सर्वात्मनेऽस्तु ते ॥ सर्वात्मकोऽसि सर्वेश सर्वभूतस्थिको यतः । कथयामि ततः किं ते सर्वंवेत्सि हृदि स्थितम् ॥ सर्वात्मन्सर्वभूतेश सर्वसत्त्वसमुद्भव । सर्वभूतो भवान्वेत्ति सर्वसत्त्वमनोरथम् ॥ यो मे मनोरथो नाथ सफलः स त्वया कृतः । तपश्च तप्तं सफलं यद्दृष्टोऽसि जगत्पते ॥ श्रीभगवानुवाच तपसस्तत्फलं प्राप्तं यद्दृष्टोऽहं त्वया ध्रुव । मद्दर्शनं हि विफलं राजपुत्र न जायते ॥ वरं वरय तस्मात्त्वं यथाभिमतमात्मनः । सर्वं सम्पद्यते पुंसां मयि दृष्टिपथं गते ॥ ध्रुव उवाच भगवन्भूतभव्येश सर्वस्यास्ते भवान् हृदि । किमज्ञातं तव ब्रह्मन्मनसा यन्मयेक्षितम् ॥ तथापि तुभ्यं देवेश कथयिष्यामि यन्मया । प्रार्थ्यते दुर्विनीतेन हृदयेनातिदुर्लभम् ॥ किं वा सर्वजगत्स्रष्टः प्रसन्ने त्वयि दुर्लभम् । त्वत्प्रसादफलं भुङ्क्ते त्रैलोक्यं मघवानपि ॥ नैतद्राजासनं योग्यमजातस्य ममोदरात् । इतिगर्वादवोचन्मां सपत्नी मातुरुच्चकैः ॥ आधारभूतं जगतः सर्वेषामुत्तमोत्तमम् । प्रार्थयामि प्रभो स्थानं त्वत्प्रसादादतोऽव्ययम् ॥ श्रीभगवानुवाच यत्त्वया प्रार्थ्यते स्थानमेतत्प्राप्स्यति वै भवान् । त्वयाहं तोषितः पूर्वमन्यजन्मनि बालक ॥ त्वमासीर्बाह्मणः पूर्वं मय्येकाग्रमतिः सदा । मातापित्रोश्च शुश्रूषुर्निजधर्मानुपालकः ॥ कालेन गच्छता मित्रं राजपुत्रस्तवाभवत् । यौवनेऽखिलभोगाढयो दर्शनीयोज्ज्वलाकृतिः ॥ तत्सङ्गात्तस्य तामृद्धिमवलोक्यातिदुर्लभाम् । भवेयं राजपुत्रोऽहमिति वाञ्छा त्वया कृता ॥ ततो यथाभिलषिता प्राप्ता ते राजपुत्रता । उत्तानपादस्य गृहे जातोऽसि ध्रुव दुर्लभे ॥ अन्येषां दुर्लभं स्थानं कुले स्वायम्भुवस्य यत् । तस्यैतदपरं बाल येनाहं परितोषितः ॥ मामाराध्य नरो मुक्तिमवाप्नोत्यविलम्बिताम् । मय्यर्पितमना बाल किमु स्वर्गादिकं पदम् ॥ त्रैलोक्यादधिके स्थाने सर्वताराग्राश्रयः । भविष्यति न सन्देहो मत्प्रसादाद्भवान्ध्रुव ॥ सूर्य़ात्सोमात्तथा भौमात्सोमपुत्राद्बृहस्पतेः । सितार्कतनयादीनां सर्वर्क्षाणां तथा ध्रुव ॥ सप्तर्षीणांशेषाणां ये च वैमानिकाः सुराः । सर्वेषामुपरि स्थानं तव दत्तं मया ध्रुव ॥ केचिच्चतुर्युगं तावत्केचिन्मन्वन्तरं सुराः । तिष्ठन्ति भवतो दत्ता मया वै कल्पसंस्थितिः ॥ सुनीतिरपि ते माता त्वदासन्नातिनिर्मला । विमाने तारका भूत्वा तावत्कालं निवत्स्यति ॥ ये च त्वां मानवाः प्रातः सायं च सुसमाहिताः । कीर्त्तयिष्यन्ति तेषां च महत्पुण्यं भविष्यति ॥ श्रीपराशर उवाच एवं पूर्वं जगन्नाथाद्देवदेवाज्जनार्दनात् । वरं प्राप्य ध्रुवः स्थानमध्यास्ते स महामते ॥ स्वयं शुश्रूपणाद्धर्म्यान्मातापित्रोश्च वै तथा । द्वादशाक्षरमाहात्मयात्तपसश्च प्रभावतः ॥ तस्याभिमानमृद्धिं च महिमानं निरीक्ष्य हि । देवासुराणामाचार्याः श्लोकमत्रोशना जगौ ॥ अहोऽस्य तपसो वीर्यमहोऽस्य तपसःफलम् । यदेनं पुरतः कृत्वा ध्रुवं सप्तर्षयः स्थिताः ॥ ध्रुवस्य जननी चेयं सुनीतिर्नाम सूनृता । अस्याश्च महिमानं कःशक्तो वर्णयितुं भुवि ॥ त्रैलोक्याश्रयतां प्राप्तं परं स्थानं स्थिरायति । स्थानं प्राप्ता परं धृत्वा या कुक्षिविवरे ध्रुवम् ॥ यश्चैतत्कीर्त्तयेन्नित्यं ध्रुवस्यारोहणं दिवि । सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते ॥ स्थानभ्रंशं न चाप्नोति दिवि वा यदि वा भुवि । सर्वकल्याणसंयुक्तो दीर्घकालं स जीवति ॥ ॥ ॐ नमः भगवते वासुदेवाय ॥

