श्रीजयदेवकृतौ गीतगोविन्दे

From Wikisource

Jump to: navigation, search
॥ जयदेवकृत गीतगोविन्दं ( अष्टपदी) ॥

॥ श्री गोपालक ध्यानम् ॥

यद्गोपीवदनेन्दुमण्डनमभूत्कस्तूरिकापत्रकं यल्लक्ष्मीकुचशातकुंभ कलशे व्यागोचमिन्दीवरम् ।
यन्निर्वाणविधानसाधनविधौ सिद्धाञ्जनं योगिनां तन्नश्यामळमाविरस्तु हृदये कृष्णाभिधानं महः ॥ १ ॥

॥ श्री जयदेव ध्यानम् ॥

राधामनोरमरमावररासलील-गानामृतैकभणितं कविराजराजम् ।
श्रीमाधवार्च्चनविधवनुरागसद्म-पद्मावतीप्रियतमं प्रणतोस्मि नित्यम् ॥ २ ॥

श्रीगोपलविलासिनी वलयसद्रत्नादिमुग्धाकृति श्रीराधापतिपादपद्मभजनानन्दाब्धिमग्नोऽनिशम् ॥
लोके सत्कविराजराज इति यः ख्यातो दयाम्भोनिधिः तं वन्दे जयदेवसद्गुरुमहं पद्मावतीवल्लभम् ॥ ३ ॥

॥ प्रथमः सर्गः ॥
॥ सामोददामोदरः ॥ 

मेघैर्मेदुरमम्बरं वनभुवः श्यामास्तमालद्रुमै-र्नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय ।
इत्थं नन्दनिदेशितश्चलितयोः प्रत्यध्वकुञ्जद्रुमं राधामाधवयोर्जयन्ति यमुनाकूले रहःकेलयः ॥ १ ॥

वाग्देवताचरितचित्रितचित्तसद्मा पद्मावतीचरणचारणचक्रवर्ती ।
श्रीवासुदेवरतिकेलिकथासमेतं एतं करोति जयदेवकविः प्रबन्धम् ॥ २ ॥

वाचः पल्लवयत्युमापतिधरः सन्दर्भशुद्धिं गिरां जानीते जयदेव एव शरणः श्लाघ्यो दुरूहद्रुते ।
शृङ्गारोत्तरसत्प्रमेयरचनैराचार्यगोवर्धन-स्पर्धी कोऽपि न विश्रुतः श्रुतिधरो धोयी कविक्ष्मापतिः ॥ ३ ॥

यदि हरिस्मरणे सरसं मनो यदि विलासकलासु कुतूहलम् ।
मधुरकोमलकान्तपदावलीं शृणु तदा जयदेवसरस्वतीम् ॥ ४ ॥

॥ गीतम् १ ॥

प्रलयपयोधिजले धृतवानसि वेदम् ।
विहितवहित्रचरित्रमखेदम् ॥
केशव धृतमीनशरीर जय जगदीश हरे ॥ १ ॥

क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे ।
धरणिधरणकिणचक्रगरिष्ठे ॥
केशव धृतकच्छपरूप जय जगदीश हरे ॥ २ ॥

वसति दशनशिखरे धरणी तव लग्ना ।
शशिनि कलङ्ककलेव निमग्ना ॥
केशव धृतसूकररूप जय जगदीश हरे ॥ ३ ॥

तव करकमलवरे नखमद्भुतशृङ्गम् ।
दलितहिरण्यकशिपुतनुभृङ्गम् ॥
केशव धृतनरहरिरूप जय जगदीश हरे ॥ ४ ॥

छलयसि विक्रमणे बलिमद्भुतवामन ।
पदनखनीरजनितजनपावन ॥
केशव धृतवामनरूप जय जगदीश हरे ॥ ५ ॥

क्षत्रियरुधिरमये जगदपगतपापम् ।
स्नपयसि पयसि शमितभवतापम् ॥
केशव धृतभृघुपतिरूप जय जगदीश हरे ॥ ६ ॥

वितरसि दिक्षु रणे दिक्पतिकमनीयम् ।
दशमुखमौलिबलिं रमणीयं ॥
केशव धृतरामशरीर जय जगदीश हरे ॥ ७ ॥

वहसि वपुषि विशदे वसनं जलदाभम् ।
हलहतिभीतिमिलितयमुनाभम् ॥
केशव धृतहलधररूप जय जगदीश हरे ॥ ८ ॥

निन्दति यज्ञविधेरहह श्रुतिजातम् ।
सदयहृदयदर्शितपशुघातम् ॥
केशव धृतबुद्धशरीर जय जगदीश हरे ॥ ९ ॥

म्लेच्छनिवहनिधने कलयसि करवालम् ।
धूमकेतुमिव किमपि करालम् ॥
केशव धृतकल्किशरीर जय जगदीश हरे ॥ १० ॥

श्रीजयदेवकवेरिदमुदितमुदारम् ।
शृणु सुखदं शुभदं भवसारम् ॥
केशव धृतदशविधरूप जय जगदीश हरे ॥ ११ ॥

वेदानुद्धरते जगन्निवहते भूगोलमुद्बिभ्रते दैत्यं दारयते बलिं छलयते क्षत्रक्षयं कुर्वते ।
पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते म्लेच्छान्मूर्च्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः ॥ ५ ॥

॥ गीतम् २ ॥

श्रितकमलाकुचमण्डल धृतकुण्डल ए ।
कलितललितवनमाल जय जयदेव हरे ॥ १ ॥

दिनमणीमण्दलमण्डन भवखण्डन ए ।
मुनिजनमानसहंस जय जयदेव हरे ॥ २ ॥

कालियविषधरगञ्जन जनरञ्जन ए ।
यदुकुलनलिनदिनेश जय जयदेव हरे ॥ ३ ॥

मधुमुरनरकविनाशन गरुडासन ए ।
सुरकुलकेलिनिदान जय जयदेव हरे ॥ ४ ॥

अमलकमलदललोचन भवमोचन् ए ।
त्रिभुवनभवननिधान जय जयदेव हरे ॥ ५ ॥

जनकसुताकृतभूषण जितदूषण ए ।
समरशमितदशखण्ठ जय जयदेव हरे ॥ ६ ॥

अभिनवजलधरसुन्दर धृतमन्दर ए ।
श्रीमुखचन्द्रचकोर जय जयदेव हरे ॥ ७ ॥

श्रीजयदेवकवेरिदं कुरुते मुदम् ए ।
मङ्गलमुज्ज्वलगीतं जय जयदेव हरे ॥ ८ ॥

पद्मापयोधरतटीपरिरम्भलग्न-काश्मीरमुद्रितमुरो मधुसूदनस्य ।
व्यक्तानुरागमिव खेलदनङ्गखेद-स्वेदाम्बुपूरमनुपूरयतु प्रियं वः ॥ ६ ॥

वसन्ते वासन्तीकुसुमसुकुमारैरवयवै-र्भ्रमन्तीं कान्तारे बहुविहितकृष्णानुसरणाम् ।
अमन्दं कन्दर्पज्वरजनितचिन्ताकुलतया वलद्बाधां राधां सरसमिदमुचे सहचरी ॥ ७ ॥

॥ गीतम् ३ ॥

ललितलवङ्गलतापरिशीलनकोमलमलयसमीरे ।
मधुकरनिकरकरम्बितकोकिलकूजितकुञ्जकुटीरे ॥
विहरति हरिरिह सरसवसन्ते नृत्यति युवतिजनेन समं सखि विरहिजनस्य दुरन्ते ॥ १ ॥

उन्मदमदनमनोरथपथिकवधूजनजनितविलापे ।
अलिकुलसंकुलकुसुमसमूहनिराकुलबकुलकलापे ॥ २ ॥

मृगमदसौरभरभसवशंवदनवदलमालतमाले ।
युवजनहृदयविदारणमनसिजनखरुचिकिंशुकजाले ॥ ३ ॥

मदनमहीपतिकनकदण्डरुचिकेशरकुसुमविकासे ।
मिलितशिलीमुखपाटलिपटलकृतस्मरतूणविलासे ॥ ४ ॥

विगलितलज्जितजगदवलोकनतरुणकरुणकृतहासे ।
विरहिनिकृन्तनकुन्तमुखाकृतिकेतकदन्तुरिताशे ॥ ५ ॥

माधविकापरिमलललिते नवमालिकजातिसुगन्धौ ।
मुनिमनसामपि मोहनकारिणि तरुणाकारणबन्धौ ॥ ६ ॥

स्फुरदतिमुक्तलतापरिरम्भणमुकुलितपुलकितचूते ।
बृन्दावनविपिने परिसरपरिगतयमुनाजलपूते ॥ ७ ॥

श्रीजयदेवभणितमिदमुदयति हरिचरणस्मृतिसारम् ।
सरसवसन्तसमयवनवर्णनमनुगतमदनविकारम् ॥ ८ ॥

दरविदलितमल्लीवल्लिचञ्चत्पराग-प्रकटितपटवासैर्वासयन् काननानि ।
इह हि दहति चेतः केतकीगन्धबन्धुः प्रसरदसमबाणप्राणवद्गन्धवाहः ॥ ८ ॥

उन्मीलन्मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुर-क्रीडत्कोकिलकाकलीकलकलैरुद्गीर्णकर्णज्वराः ।
नीयन्ते पथिकैः कथंकथमपि ध्यानावधानक्षण-प्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः ॥ ९ ॥

अनेकनारीपरिरम्भसम्भ्रम-स्फुरन्मनोहारिविलासलालसम् ।
मुरारिमारादुपदर्शयन्त्यसौ सखी समक्षं पुनराह राधिकाम् ॥ १० ॥

॥ गीतम् ४ ॥

चन्दनचर्चितनीलकलेवरपीतवसनवनमाली ।
केलिचलन्मणिकुण्डलमण्डितगण्डयुगस्मितशाली ॥
हरिरिहमुग्धवधूनिकरे विलासिनि विलसति केलिपरे ॥ १ ॥

पीनपयोधरभारभरेण हरिं परिरम्य सरागम् ।
गोपवधूरनुगायति काचिदुदञ्चितपञ्चमरागम् ॥ २ ॥

कापि विलासविलोलविलोचनखेलनजनितमनोजम् ।
ध्यायति मुग्धवधूरधिकं मधुसूदनवदनसरोजम् ॥ ३ ॥

कापि कपोलतले मिलिता लपितुं किमपि श्रुतिमूले ।
चारु चुचुम्ब नितम्बवती दयितं पुलकैरनुकूले ॥ ४ ॥

केलिकलाकुतुकेन च काचिदमुं यमुनाजलकूले ।
मञ्जुलवञ्जुलकुञ्जगतं विचकर्ष करेण द्कूले ॥ ५ ॥

करतलतालतरलवलयावलिकलितकलस्वनवंशे ।
रासरसे सहनृत्यपरा हरिणा युवतिः प्रशशंसे ॥ ६ ॥

श्लिष्यति कामपि चुम्बति कामपि कामपि रमयति रामाम् ।
पश्यति सस्मितचारुपरामपरामनुगच्छति वामाम् ॥ ७ ॥

श्रीजयदेवकवेरिदमद्भुतकेशवकेलिरहस्यम् ।
वृन्दावनविपिने ललितं वितनोतु शुभानि यशस्यम् ॥ ८ ॥

विश्वेषामनुरञ्जने जनयन्नानन्दमिन्दीवर-श्रेणीश्यामलकोमलैरुपनयन्नङ्गैरनङ्गोत्सवम् ।
स्वच्छन्दं व्रजसुन्दरीभिरभितः प्रत्यङ्गमालिङ्कितः शृङ्गारः सखि मूर्तिमानिव मदहु मुग्धो हरिः क्रीडति ॥ ११ ॥

अद्योत्सङ्गवसद्भुजङ्गकवलक्केशादिवेशाचलं प्रालेयप्लवनेच्छयानुसरति श्रीखण्डशैलानिलः ।
किं च स्निग्धरसालमौलिमुकुलान्यालोक्य हर्षोदया-दुन्मीलन्ति कुहूः कुहूरिति कलोत्तलाः पिकानां गिरः ॥ १२ ॥

रासोल्लासभरेणविभ्रमभृतामाभीरवामभ्रुवा-मभ्यर्णं परिरम्यनिर्भरमुरः प्रेमान्धया राधया ।
साधु त्वद्वदनं सुधामयमिति व्याहृत्य गीतस्तुत्-व्याजादुद्भटचुम्बितस्मितमनोहरी हरिः पातु वः ॥ १३ ॥

॥ इति श्रीगीतगोविन्दे सामोददामोदरो नाम प्रथमः सर्गः ॥

॥ द्वितीयः सर्गः ॥
॥ अक्लेशकेशवः ॥

विहरति वने राधा साधारणप्रणये हरौ विगलितनिजोत्कर्षादीर्ष्यावशेन गतान्यतः ।
क्वचिदपि लताकुञ्जे गुञ्जन्मधुव्रतमण्डली-मुखरशिखरे लीना दीनाप्युवाच रहः सखीम् ॥ १४ ॥

॥ गीतम् ५ ॥

संचरदधरसुधामधुरध्वनिमुखरितमोहनवंशम् ।
चलितदृगञ्चलचञ्चलमौलिकपोलविलोलवतंसम् ॥
रासे हरिमिह विहितविलासं स्मरति मनो मम कृतपरिहासम् ॥ १ ॥

चन्द्रकचारुमयूरशिखण्डकमण्डलवलयितकेशम् ।
प्रचुरपुरन्दरधनुरनुरञ्जितमेदुरमुदिरसुवेशम् ॥ २ ॥

गोपकदम्बनितम्बवतीमुखचुम्बनलम्भितलोभम् ।
बन्धुजीवमधुराधरपल्लवमुल्लसितस्मितशोभम् ॥ ३ ॥

विपुलपुलकभुजपल्लववलयितवल्लवयुवतिसहस्रम् ।
करचरणोरसि मणिगणभूषणकिरणविभिन्नतमिस्रम् ॥ ४ ॥

जलदपटलवलदिन्दुविनन्दकचन्दनतिलकललाटम् ।
पीनघनस्त्तनमण्डलमर्दननिर्दयहृदयकपाटम् ॥ ५ ॥

मणिमयमकरमनोहरकुण्डलमण्डितगण्डमुदारम् ।
पीतवसनमनुगतमुनिमनुजसुरासुरवरपरिवारम् ॥ ६ ॥

विशदकदम्बतले मिलितं कलिकलुषभयं शमयन्तम् ।
मामपि किमपि तरङ्गदनङ्गदृशा मनसा रमयन्तम् ॥ ७ ॥

श्रीजयदेवभणितमतिसुन्दरमोहनमधुरिपुरूपम् ।
हरिचरणस्मरणं प्रति संप्रति पुण्यवतामनुरूपम् ॥ ८ ॥

गणयति गुणग्रामं भामं भ्रमादपि नेहते वहति च परितोषं दोषं विमुञ्चति दूरतः ।
युवतिषु वलस्तृष्णे कृष्णे विहारिणी मां विना पुनरपि मनो वामं कामं करोति करोमि किम् ॥ १५ ॥

॥ गीतम् ६ ॥

निभृतनिकुञ्जगृहं गतया निशि रहसि निलीय वसन्तम् ।
चकितविलोकितसकलदिशा रतिरभसरसेन हसन्तम् ॥
सखि हे केशिमथनमुदारम् रमय मया सह मदनमनोरथभावितया सविकारम् ॥ १ ॥

प्रथमसमागमलज्जितया पटुचाटुशतैरनुकूलम् ।
मृदुमधुरस्मितभाषितया शिथिलीकृतजधनदुकूलम् ॥ २.

किसलयशयननिवेशितया चिरमुरसि ममैव शयानम् ।
कृतपरिरम्भणचुम्बनया परिरभ्य कृताधरपानम् ॥ ३ ॥

अलसनिमीलितलोचनया पुलकावलिललितकपोलम् ।
श्रमजलसकलकलेवरया वरमदनमदादतिलोलम् ॥ ४ ॥

कोकिलकलरवकूजितया जितमनसिजतन्त्रविचारम् ।
श्लथकुसुमाकुलकुन्तलया नखलिखितघनस्तनभारम् ॥ ५ ॥

चरणरणितमनिनूपुरया परिपूरितसुरतवितानम् ।
मुखरविशृङ्खलमेखलया सकचग्रहचुम्बनदानम् ॥ ६ ॥

रतिसुखसमयरसालसया दरमुकुलितनयनसरोजम् ।
निःसहनिपतिततनुलतया मधुसूदनमुदितमनोजम् ॥ ७ ॥

श्रीजयदेवभणितमिदमतिशयमधुरिपुनिधुवनशीलम् ।
सुखमुत्कण्ठितगोपवधूकथितं वितनोतु सलीलम् ॥ ८ ॥

हस्तस्रस्तविलासवंशमनृजुभ्रूवल्लीमद्बल्लवी-वृन्दोत्सारिदृगन्तवीक्षितमतिस्वेदार्द्रगण्दस्थलम् ।
मामुद्वीक्ष्य विलक्षितं स्मितसुधामुग्धाननं कानने गोविन्दं व्रजसुन्दरीगणवृतं पश्यामि हृष्यामि च ॥ १६ ॥

दुरालोकस्तोकस्तबकनवकाशोकलतिका-विकासः कासारोपवनपवनोऽपि व्यथयति ।
अपि भ्राम्यद्भृङ्गीरणितरमणीया न मुकुल-प्रसूतिश्चूतानां सखि शिखरिणीयं सुखयति ॥ १७ ॥

॥ इति गीतगोविन्दे अक्लेशकेशवो नाम द्वितीयः सर्गः ॥

॥ तृतीयः सर्गः ॥
॥ मुग्धमधुसूदनः ॥

कंसारिरपि संसारवासनाबन्धशृङ्खलाम् ।
राधामाधाय हृदये तत्याज व्रजसुन्दरीः ॥ १८ ॥

इतस्ततस्तामनुसृत्य राधिका-मनङ्गबाणव्रणखिन्नमानसः ।
कृतानुतापः स् कलिन्दनन्दिनी-तटान्तकुञ्जे विषसाद माधवः ॥ १९ ॥

॥ गीतम् ७ ॥

मामियं चलिता विलोक्य वृतं वधूनिचयेन ।
सापराधतया मयापि वारितातिभयेन ॥
हरिहरि हतादरतया गता सा कुपितेव ॥ १ ॥

किं करिष्यति किं वदिष्यति सा चिरं विरहेण ।
किं धनेन जनेन किं मम जीवनेन गृहेण ॥ २ ॥

चिन्तयामि तदाननं कुटिलभ्रु कोपभरेण ।
शोणपद्ममिवोपरि भ्रमताकुलं भ्रमरेण ॥ ३ ॥

तामहं हृदि संगतामनिशं भृशं रमयामि ।
किं वनेऽनुसरामि तामिह किं वृथा विलपामि ॥ ४ ॥

तन्वि खिन्नमसूयया हृदयं तवाकलयामि ।
तन्न वेद्मि कुतो गतासि न तेन तेऽनुनयामि ॥ ५ ॥

दृश्यते पुरतो गतागतमेव मे विदधासि ।
किं पुरेव समंभ्रमं परिरम्भणं न ददासि ॥ ६ ॥

क्षम्यतामपरं कदापि तवेदृशं न करोमि ।
देहि सुन्दरि दर्शनं मम मन्मथेन दुनोमि ॥ ७ ॥

वर्णितं जयदेवकेन हरेरिदं प्रवणेन ।
किन्दुबिल्वसमुद्रसम्भवरोहिणीरमणेन ॥ ८ ॥

हृदि बिसलताहारो नायं भुजङ्गमनायकः कुवलयदलश्रेणी कण्ठे न सा गरलद्युतिः ।
मलयजरजो नेदं भस्म प्रियारहिते मयि प्रहर न हरभ्रान्त्यानङ्ग क्रुधा किमु धावसि ॥ २० ॥

पाणौ मा कुरु चूतसायकममुं मा चापमारोपय क्रीडानिर्जितविश्व मूर्छितजनाघातेन किं पौरुषम् ।
तस्या एव मृगीदृशो मनसिजप्रेङ्खत्कटाक्षाशुग-श्रेणीजर्जरितं मनागपि मनो नाद्यापि संधुक्षते ॥ २१ ॥

भ्रूचापे निहितः कटाक्षविशिखो निर्मातु मर्मव्यथां श्यामात्मा कुटिलः करोतु कबरीभारोऽपि मारोद्यमम् ।
मोहं तावदयं च तन्वि तनुतां बिम्बादरो रागवन् सद्वृत्तस्तनमण्दलस्तव कथं प्राणैर्मम क्रीडति ॥ २२ ॥

तानि स्पर्शसुखानि ते च तरलाः स्निग्ध दृशोर्विभ्रम-स्तद्वक्त्राम्बुजसौरभं स च सुधास्यन्ती गिरां वक्रिमा ।
सा बिम्बाधरमाधुरीति विषयासङ्गेऽपि चेन्मानसं तस्या लग्नसमाधि हन्त विरहव्याधिः कथं वर्धते ॥ २३ ॥

भ्रूपल्लवं धनुरपाङ्गतरङ्गितनि बाणाः गुणः श्रवणपालिरिति स्मरेण ।
तस्यामनङ्गजयजङ्गमदेवतायाम् अस्त्राणि निर्जितजगन्ति किमर्पितानि ॥ २४ ॥

॥ इति श्रीगितगोविन्दे मुग्धमधुसूदनो नाम तृतीयः सर्गः ॥

॥ चतुर्थः सर्गः ॥
॥ स्निग्धमधुसूदनः ॥

यमुनातीरवानीरनिकुञ्जे मन्दमास्थितम् ।
प्राह प्रेमभरोद्भ्रान्तं माधवं राधिकासखी ॥ २५ ॥

॥ गीतम् ८ ॥

निन्दति चन्दनमिन्दुकिरणमनु विन्दति खेदमधीरम् ।
व्यालनिलयमिलनेन गरलमिव कलयति मलयसमीरम् ॥
सा विरहे तव दीना माधव मनसिजविशिखभयादिव भावनया त्वयि लीना ॥ १ ॥

अविरलनिपतितमदनशरादिव भवदवनाय विशालम् ।
स्वहृदयर्मणी वर्म करोति सजलनलिनीदलजालम् ॥ २ ॥

कुसुमविशिखशरतल्पमनल्पविलासकलाकमनीयम् ।
व्रतमिव तव परिरम्भसुखाय करोति कुसुमशयनीयम् ॥ ३ ॥

वहति च गलितविलोचनजलभरमाननकमलमुदारम् ।
विधुमिव विकटविधुन्तुददन्तदलनगलितामृतधारम् ॥ ४ ॥

विलिखति रहसि कुरङ्गमदेन भवन्तमसमशरभूतम् ।
प्रणमति मकरमधो विनिधाय करे च शरं नवचूतम् ॥ ५ ॥

प्रतिपदमिदमपि निगतति माधव तव चरणे पतिताहम् ।
त्वयि विमुखे मयि सपदि सुधानिधिरपि तनुते तनुदाहम् ॥ ६ ॥

ध्यानलयेन पुरः परिकल्प्य भवन्तमतीव दुरापम् ।
विलपति हसति विषीदति रोदिति चञ्चति मुञ्चति तापम् ॥ ७ ॥

श्रीजयदेवभणितमिदमधिकं यदि मनसा नटनीयम् ।
हरिविरहाकुलबल्लवयुवतिसखीवचनं पठनीयम् ॥ ८ ॥

आवासो विपिनायते प्रियसखीमालापि जालायते तापोऽपि श्वसितेन दावदहनज्वालाकलापायते ।
सापि त्वद्विरहेण हन्त हरिणीरूपायते हा कथं कन्दर्पोऽपि यमायते विरचयञ्शार्दूलविक्रीडितम् ॥ २६ ॥

॥ गीतम् ९ ॥

स्तनविनिहितमपि हारमुदारम् ।
सा मनुते कृशतनुरतिभारम् ॥
राधिका विरहे तव केशव ॥ १ ॥

सरसमसृणमपि मलयजपङ्कम् ।
पश्यति विषमिव वपुषि सशङ्कम् ॥ २ ॥

श्वसितपवनमनुपमपरिणाहम् ।
मदनदहनमिव वहति सदाहम् ॥ ३ ॥

दिशि दिशि किरति सजलकणजालम् ।
नयननलिनमिव विगलितनालम् ॥ ४ ॥

नयनविषयमपि किसलयतल्पम् ।
कलयति विहितहुताशविकल्पम् ॥ ५ ॥

त्यजति न पाणितलेन कपोलम् ।
बालशशिनमिव सायमलोलम् ॥ ६ ॥

हरिरिति हरिरिति जपति सकामम् ।
विरहविहितमरणेन निकामम् ॥ ७ ॥

श्रीजयदेवभणितमिति गीतम् ।
सुखयतु केशवपदमुपुनीतम् ॥ ८ ॥

सा रोमाञ्चति सीत्करोति विलपत्युत्क्म्पते ताम्यति ध्यायत्युद्भ्रमति प्रमीलति पतत्युद्याति मूर्च्छत्यपि ।
एतावत्यतनुज्वरे वरतनुर्जीवेन्न किं ते रसात् स्वर्वैद्यप्रतिम प्रसीदसि यदि त्यक्तोऽन्यथा नान्तकः ॥ २७ ॥

स्मरातुरां दैवतवैद्यहृद्य त्वदङ्गसङ्गामृतमात्रसाध्याम् ।
विमुक्तबाधां कुरुषे न राधा-मुपेन्द्र वज्रादपि दारुणोऽसि ॥ २८ ॥

कन्दर्पज्वरसंज्वरस्तुरतनोराश्चर्यमस्याश्चिरं चेतश्चन्दनचन्द्रमःकमलिनीचिन्तासु संताम्यति ।
किंतु क्लान्तिवशेन शीतलतनुं त्वामेकमेव प्रियं ध्यायन्ती रहसि स्थिता कथमपि क्षीणा क्षणं प्राणिति ॥ २९ ॥

क्षणमपि विरहः पुरा न सेहे नयननिमीलनखिन्नया यया ते ।
श्वसिति कथमसौ रसालशाखां चिरविरहेण विलोक्य पुष्पिताग्राम् ॥ ३० ॥

॥ इति गीतगोविन्दे स्निग्धमाधवो नाम चतुर्थः सर्गः ॥
॥ पञ्चमः सर्गः ॥
॥ साकांक्षपुण्डरीकाक्षः ॥

अहमिह निवसामि याहि राधां अनुनय मद्वचनेन चानयेथाः ।
इति मधुरिपुणा सखी नियुक्ता स्वयमिदमेत्य पुनर्जगाद राधाम् ॥ ३१ ॥

॥ गीतम् १० ॥

वहति मलयसमीरे मदनमुपनिधाय ।
स्फुटति कुसुमनिकरे विरहिहृदयदलनाय ॥
तव विरहे वनमाली सखि सीदति ॥ १ ॥

दहतो शिशिरमयूखे मरणमनुकरोति ।
पतति मदनविशिखे विलपति विकलतरोऽति ॥ २ ॥

ध्वनति मधुपसमूहे श्रवणमपिददाति ।
मनसि वलितविरहे निशि निशि रुजमुपयति ॥ ३ ॥

वसति विपिनविताने त्यजति ललितधाम ।
लुठति धरणिशयने बहु विलपति तव नाम ॥ ४ ॥

भणति कविजयदेवे विरहिविलसितेन ।
मनसि रभसविभवे हरिरुदयतु सुकृतेन ॥ ५ ॥

पूर्वं यत्र समं त्वया रतिपतेरासादितः सिद्धय-स्तस्मिन्नेव निकुञ्जमन्मथमहातीर्थे पुनर्माधवः ।
ध्यायंस्त्वामनिशं जपन्नपि तवैवालापमात्रावलीं भूयस्त्वत्कुचकुम्भनिर्भरपरीरम्भामृतं वाञ्छति ॥ ३२ ॥

॥ गीतम् ११ ॥

रतिसुखसारे गतमभिसारे मदनमनोहरवेशम् ।
न कुरु नितम्बिनि गमनविलम्बनमनुसर तं हृदयेशम् ॥
धीरसमीरे यमुनातीरे वसति वने वनमाली ॥ १ ॥

नाम समेतं कृतसंकेतं वादयते मृदुवेणुम् ।
बहु मनुते ननु ते तनुसंगतपवनचलितमपि रेणुम् ॥ २ ॥

पतति पतत्रे विचलति पत्रे शङ्कितभवदुपयानम् ।
रचयति शयनं सचकितनयनं पश्यति तव पन्थानम् ॥ ३ ॥

मुखरमधीरं त्यज मञ्जीरं रिपुमिव केलिसुलोलम् ।
चल सखि कुञ्जं सतिमिरपुञ्जं शीलय नीलनिचोलम् ॥ ४ ॥

उरसि मुरारेरुपहितहारे घन इव तरलबलाके ।
तडिदिव पीते रतिविपरीते राजसि सुकृतविपाके ॥ ५ ॥

विगलितवसनं परिहृतरसनं घटय जघनमपिधानम् ।
किसलयशयने पङ्कजनयने निधिमिव हर्षनिदानम् ॥ ६ ॥

हरिरभिमानी रजनिरिदानीमियमपि याति विरामम् ।
कुरु मम वचनं सत्वररचनं पूरय मधुरिपुकामम् ॥ ७ ॥

श्रीजयदेवे कृतहरिसेवे भणति परमरमणीयम् ।
प्रमुदितहृदयं हरिमतिसदयं नमत सुकृतकमनीयम् ॥ ८ ॥

विकिरति मुहुः श्वासानाशाः पुरो मुहुरीक्षते प्रविशति मुहुः कुञ्जं गुञ्जन्मुहुर्बहु ताम्यति ।
रचयति मुहुः शय्यां पर्याकुलं मुहुरीक्षते मदनकदनक्लान्तः कान्ते प्रियस्तव वर्तते ॥ ३३ ॥

त्वद्वाम्येन समं समग्रमधुना तिग्मांशुरस्तं गतो गोविन्दस्य मनोरथेन च समं प्राप्तं तमः सान्द्रताम् ।
कोकानां करुणस्वनेन सदृशी दीर्घा मदभ्यर्थना तन्मुग्धे विफलं विलम्बनमसौ रम्योऽभिसारक्षणः ॥ ३४ ॥

आश्लेषादनु चुम्बनादनु नखोल्लेखादनु स्वान्तज-प्रोद्बोधादनु संभ्रमादनु रतारम्भादनु प्रीतयोः ।
अन्यार्थं गतयोर्भ्रमान्मिलितयोः सम्भाषणैर्जानतो-र्दम्पत्योरिह को न को न तमसि व्रीडाविमिश्रो रसः ॥ ३५ ॥

सभयचकितं विन्यस्यन्तीं दृशं तिमिरे पथि प्रतितरु मुहुः स्थित्वा मन्दं पदानि वितन्वतीम् ।
कथमपि रहः प्राप्तामङ्गैरनङ्गतरङ्गिभिः सुमुखि सुभगः पश्यन्स त्वामुपैतु ऋतार्थताम् ॥ ३६ ॥

॥ इति श्रीगीतगोविन्देऽभिसारिकवर्णने साकाङ्क्षपुण्डरीकाक्षो नाम पञ्चमः सर्गः ॥ 

॥ षष्ठः सर्गः ॥ 
॥ कुण्ठवैकुण्ठः ॥ 

अथ तां गन्तुमशक्तां चिरमनुरक्तां लतागृहे दृष्ट्वा ।
तच्चरितं गोविन्दे मनसिजमन्दे सखी प्राह ॥ ३७ ॥

पश्यति दिशि दिशि रहसि भवन्तम् ।
तदधरमधुरमधूनि पिबन्तम् ॥
नाथ हरे सीदति राधा वासगृहे ॥ १ ॥

त्वदभिसरणरभसेन वलन्ती ।
पतति पदानि कियन्ति चलन्ती ॥ २ ॥

विहितविशदबिसकिसलयवलया ।
जीवति परमिह तव रतिकलया ॥ ३ ॥

मुहुरवलोकितमण्डनलीला ।
मधुरिपुरहमिति भावनशीला ॥ ४ ॥

त्वरितमुपैति न कथमभिसारम् ।
हरिरिति वदति सखीमनुवारम् ॥ ५ ॥

श्लिष्यति चुम्बति जलधरकल्पम् ।
हरिरुपगत इति तिमिरमनल्पम् ॥ ६ ॥

भवति विलम्बिनि विगलितलज्जा ।
विलपति रोदिति वासकसज्जा ॥ ७ ॥

श्रीजयदेवकवेरिदमुदितम् ।
रसिकजनं तनुतामतिमुदितम् ॥ ८ ॥

विपुलपुलकपालिः स्फीतसीत्कारमन्त-र्जनितजडिमकाकुव्याकुलं व्याहरन्ती ।
तव कितव विधायामन्दकन्दर्पचिन्तां रसजलधिनिमग्ना ध्यानलग्ना मृगाक्षी ॥ ३८ ॥

अङ्गेष्वाभरणं करोति बहुशः पतेऽपि संचारिणि प्राप्तं त्वां परिशङ्कते वितनुते शय्यां चिरं ध्यायति ।
इत्याकल्पविकल्पतल्परचनासंकल्पलीलाशत-व्यासक्तापि विना त्वया वरतनुर्नैषा निशां नेष्यति ॥ ३९ ॥

॥ इति गीतगोविन्दे वासकसज्जावर्णने कुण्ठवैकुण्ठो नाम षष्टः सर्गः ॥ 

॥ सप्तमः सर्गः ॥
॥ नागरनारायणः ॥

अत्रान्तरे च कुलटाकुलवर्त्मपात-संजातपातक इव स्फुटलाञ्छनश्रीः ।
वृन्दावनान्तरमदीपयदंशुजालै-र्दिक्सुन्दरीवदनचन्दनबिन्दुरिन्दुः ॥ ४० ॥

प्रसरति शशधरबिम्बे विहितविलम्बे च माधवे विधुरा ।
विरचितविविधविलापं सा परितापं चकारोच्चैः ॥ ४१ ॥

॥ गीतं १३ ॥

कथितसमयेऽपि हरिरहह न ययौ वनम् ।
मम विफलमिदममलरूपमपि यौवनम् ॥
यामि हे कमिह शरणं सखीजनवचनवञ्चिता ॥ १ ॥

यदनुगमनाय निशि गहनमपि शीलितम् ।
तेन मम हृदयमिदमसमशरकीलितम् ॥ २ ॥

मम मरणमेव वरमतिवितथकेतना ।
किमिह विषहामि विरहानलचेतना ॥ ३ ॥

मामहह विधुरयति मधुरमधुयामिनी ।
कापि हरिमनुभवति कृतसुकृतकामिनी ॥ ४ ॥

अहह कलयामि वलयादिमणीभूषणम् ।
हरिविरहदहनवहनेन बहुदूषणम् ॥ ५ ॥

कुसुमसुकुमारतनुमतनुशरलीलया ।
स्रगपि हृदि हन्ति मामतिविषमशीलया ॥ ६ ॥

अहमिह निवसामि नगणितवनवेतसा ।
स्मरति मधुसूदनो मामपि न चेतसा ॥ ७ ॥

हरिचरणशरणजयदेवकविभारती ।
वसतु हृदि युवतिरिव कोमलकलावती ॥ ८ ॥

तत्किं कामपि कामिनीमभिसृतः किं वा कलाकेलिभि-र्बद्धो बन्धुभिरन्धकारिणि वनोपान्ते किमु भ्राम्यति ।
कान्तः क्लान्तमना मनागपि पथि प्रस्थातुमेवाक्षमः संकेतीकृतमञ्जुवञ्जुललताकुञ्जेऽपि यन्नागतः ॥ ४२ ॥

अथागतं माधवमन्तरेण सखीमियं वीक्ष्य विषादमूकाम् ।
विशङ्क्माना रमितं कयापि जनार्दनं दृष्टवदेतदाह ॥ ४३ ॥

॥ गीतम् १४ ॥

स्मरसमरोचितविरचितवेशा ।
गलितकुसुमदरविलुलितकेशा ॥
कापि मधुरिपुणा विलसति युवतिरधिकगुणा ॥ १ ॥

हरिपरिरम्भणवलितविकारा ।
कुचकलशोपरि तरलितहारा ॥ २ ॥

विचलदलकललिताननचन्द्रा ।
तदधरपानरभसकृततन्त्रा ॥ ३ ॥

चञ्चलकुण्डलदलितकपोला ।
मुखरितरसनजघनगलितलोला ॥ ४ ॥

दयितविलोकितलज्जितहसिता ।
बहुविधकूजितरतिरसरसिता ॥ ५ ॥

विपुलपुलकपृथुवेपथुभङ्गा ।
श्वसितनिमीलितविकसदनङ्गा ॥ ६ ॥

श्रमजलकणभरसुभगशरीरा ।
परिपतितोरसि रतिरणधीरा ॥ ७ ॥

श्रीजयदेवभणितहरिरमितम् ।
कलिकलुषं जनयतु परिशमितम् ॥ ८ ॥

विरहपाण्डुमुरारिमुखाम्बुज-द्युतिरियं तिरयन्नपि चेतनाम् ।
विधुरतीव तनोति मनोभुवः सहृदये हृदये मदनव्यथाम् ॥ ४४ ॥

॥ गीतम् १५ ॥

समुदितमदने रमणीवदने चुम्बनवलिताधरे ।
मृगमदतिलकं लिखति सपुलकं मृगमिव रजनीकरे ॥
रमते यमुनापुलिनवने विजयी मुरारिरधुना ॥ १ ॥

घनचयरुचिरे रचयति चिकुरे तरलिततरुणानने ।
कुरबककुसुमं चपलासुषमं रतिपतिमृगकानने ॥ २ ॥

घटयति सुघने कुचयुगगगने मृगमदरुचिरूषिते ।
मणिसरममलं तारकपटलं नखपदशशिभूषिते ॥ ३ ॥

जितबिसशकले मृदुभुजयुगले करतलनलिनीदले ।
मरकतवलयं मधुकरनिचयं वितरति हिमशीतले ॥ ४ ॥

रतिगृहजघने विपुलापघने मनसिजकनकासने ।
मणिमयरसनं तोरणहसनं विकरति कृतवासने ॥ ५ ॥

चरणकिसलये कमलनिलये नखमणिगणपूजिते ।
बहिरपवरणं यावकभरणं जनयति हृदि योजिते ॥ ६ ॥

रमयति सदृशं कामपि सुभृशं खलहलधरसोदरे ।
किमफलमवसं चिरमिह विरसं वद सखि विटपोदरे ॥ ७ ॥

इह रसभणने कृतहरिगुणने मधुरिपुपदसेवके ।
कलियुगचरितं न वसतु दुरितं कविनृपजयदेवके ॥ ८ ॥

नायातः सखि निर्दयो यदि शठस्त्वं दूति किं दूयसे स्वच्छन्दं बहुवल्लभः स रमते किं तत्र ते दूषणम् ।
पश्याद्य प्रियसम्गमाय दयितस्याकृष्यमाणं गणै-रुत्कण्ठार्तिभरादिव स्फुटदिदं चेतः स्वयं यास्यति ॥ ४५ ॥

॥ गीतम् १६ ॥

अनिलतरलकुवलयनयनेन ।
तपति न सा किसलयशयनेन ॥
सखि या रमिता वनमालिना ॥ १ ॥

विकसितसरसिजललितमुखेन ।
स्फुटति न सा मनसिजविशिखेन ॥ २ ॥

अमृतमधुरमृदुतरवचनेन ।
ज्वलति न सा मलयजपवनेन ॥ ३ ॥

स्थलजलरुहरुचिकरचरणेन ।
लुठति न सा हिमकरकिरणेन ॥ ४ ॥

सजलजलदसमुदयरुचिरेण ।
दलति न सा हृदि चिरविरहेण ॥ ५ ॥

कनकनिकषरुचिशुचिवसनेन ।
श्वसति न सा परिजनहसनेन ॥ ६ ॥

सकलभुवनजनवरतरुणेन ।
वहति न सा रुजमतिकरुणेन ॥ ७ ॥

श्रीजयदेवभणितवचनेन ।
प्रविशतु हरिरपि हृदयमनेन ॥ ८ ॥

मनोभवानन्दन चन्दनानिल प्रसीद रे दक्षिण मुञ्च वामताम् ।
क्षणं जगत्प्राण विधाय माधवं पुरो मम प्राणहरो भविष्यसि ॥ ४६ ॥

रिपुरिव सखीसंवासोऽयं शिखीव हिमानिलो विषमिव सुधारश्मिर्यस्मिन्दुनोति मनोगते ।
हृदयमदये तस्मिन्नेवं पुनर्वलते बलात् कुवलयदृशां वामः कामो निकामनिरङ्कुशः ॥ ४७ ॥

बाधां विधेहि मलयानिल पञ्चबाण प्राणान्गृहाण न गृहं पुनराश्रयिष्ये ।
किं ते कृतान्तभगिनि क्षमया तरङ्गै-रङ्गानि सिञ्च मम शाम्यतु देहदाहः ॥ ४८ ॥

॥ इति गीतगोविन्दे विप्रलब्धावर्णने नागनारायणो नाम सप्तमः सर्गः ॥

॥ अष्टमः सर्गः ॥
॥ विलक्ष्यलक्ष्मीपतिः ॥

अथ कथमपि यामिनीं विनीय स्मरशरजर्जरितापि सा प्रभाते ।
अनुनयवचनं वदन्तमग्रे प्रणतमपि प्रियमाह साभ्यसूयम् ॥ ४९ ॥

॥ गीतम् १७ ॥

रजनिजनितगुरुजागररागकषायितमलसनिवेशम् ।
वहति नयनमनुरागमिव स्फुटमुदितरसाभिनिवेशम् ॥
हरिहरि याहि माधव याहि केशव मा वद कैतववादं तामनुसर सरसीरुहलोचन या तव हरति विषादम् ॥ ५० ॥

कज्जलमलिनविलोचनचुम्बनविरचितनीलिमरूपम् ।
दशनवसनमरुणं तव कृष्ण तनोति तनोरनुरूपम् ॥ २ ॥

वपुरनुहरति तव स्मरसङ्गरखरनखरक्षतरेखम् ।
मरकतशकलकलितकलधौतलिपिरेव रतिजयलेखम् ॥ ३ ॥

चरणकमलगलदलक्तकसिक्तमिदं तव हृदयमुदारम् ।
दर्शयतीव बहिर्मदनद्रुमनवकिसलयपरिवारम् ॥ ४ ॥

दशनपदं भवदधरगतं मम जनयति चेतसि खेदम् ।
कथयति कथमधुनापि मया सह तव वपुरेतदभेदम् ॥ ५ ॥

बहिरिव मलिनतरं तव कृष्ण मनोऽपि भविष्यति नूनम् ।
कथमथ वञ्चयसे जनमनुगतमसमशरज्वरदूनम् ॥ ६ ॥

भ्रमति भवानबलाकवलाय वनेषु किमत्र विचित्रम् ।
प्रथयति पूतनिकैव वधूवधनिर्दयबालचरित्रम् ॥ ७ ॥

श्रीजयदेवभणितरतिवञ्चितखण्डितयुवतिविलापम् ।
शृणुत सुधामधुरं विबुधा विबुधालयतोऽपि दुरापम् ॥ ८ ॥

तदेवं पश्यन्त्याः प्रसरदनुरागं बहिरिव प्रियापादालक्तच्छुरितमरुणच्छायहृदयम् ।
ममाद्य प्रख्यातप्रणयभरभङ्गेन कितव त्वदालोकः शोकादपि किमपि लज्जां जनयति ॥ ५० ॥

॥ इति गीतगोविन्दे खण्डितावर्णने विलक्ष्यलक्ष्मीपतिर्नाम अष्ठमः सर्गः ॥

॥ नवमः सर्गः ॥
॥ मन्दमुकुन्दः ॥

तामथ मन्मथखिन्नां रतिरसभिन्नां विषादसम्पन्नाम् ।
अनुचिन्तितहरिचरितां कलहान्तरितमुवाच सखी ॥ ५१ ॥

॥ गीतम् १८ ॥

हरिरभिसरति वहति मधुपवने ।
किमपरमधिकसुखं सखि भुवने ॥
माधवे मा कुरु मानिनि मानमये ॥ १ ॥

तालफलादपि गुरुमतिसरसम् ।
किं विफलीकुरुषे कुचकलशम् ॥ २ ॥

कति न कथितमिदमनुपदमचिरम् ।
मा परिहर हरिमतिशयरुचिरम् ॥ ३ ॥

किमिति विषीदसि रोदिषि विकला ।
विहसति युवतिसभा तव सकला ॥ ४ ॥

सजलनलिनीदलशीतलशयने ।
हरिमवलोक्य सफलय् नयने ॥ ५ ॥

जनयसि मनसि किमिति गुरुखेदम् ।
शृणु मम वचनमनीहितभेदम् ॥ ६ ॥

हरिरुपयातु वदतु बहुमधुरम् ।
किमिति करोषि हृदयमतिविधुरम् ॥ ७ ॥

श्रीजयदेवभणितमतिललितम् ।
सुखयतु रसिकजनं हरिचरितम् ॥ ८ ॥

स्निग्धे यत्परुषासि यत्प्रणमति स्तब्धासि यद्रागिणि द्वेषस्थासि यदुन्मुखे विमुखतां यातासि तस्मिन्प्रिये ।
युक्तं तद्विपरीतकारिणि तव श्रीखण्डचर्चा विषं शीतांशुस्तपनो हिमं हुतवहः क्रीडामुदो यातनाः ॥ ५२ ॥

॥ इति गीतगोविन्दे कलहान्तरितावर्णने मन्दमुकुन्दो नाम नवमः सर्गः ॥

॥ दशमः सर्गः ॥
॥ चतुरचतुर्भुजः ॥

अत्रान्तरे मसृणरोषवशामसीम्-निःश्वासनिःसहमुखीं सुमुखीमुपेत्य ।
सव्रीडमीक्षितसखीवदनां दिनान्ते सानन्दगद्गदपदं हरिरित्युवाच ॥ ५३ ॥

॥ गीतम् १९ ॥

वदसि यदि किंचिदपि दन्तरुचिकौमुदी हरति दरतिमिरमतिघोरम् ।
स्फुरदधरसीधवे तव वदनचन्द्रमा रोचयतु लोचनचकोरम् ॥
प्रिये चारुशीले मुञ्च मयि मानमनिदानं सपदि मदनानलो दहति मम मानसं देहि मुखकमलमधुपानम् ॥ १ ॥

सत्यमेवासि यदि सुदति मयि कोपिनी देहि खरनखशरघातम् ।
घटय भुजबन्धनं जनय रदखण्डनं येन वा भवति सुखजातम् ॥ २ ॥

त्वमसि मम भूषणं त्वमसि मम जीवनं त्वमसि भवजलधिरत्नम् ।
भवतु भवतीह मयि सततमनोरोधिनि तत्र मम हृदयमतिरत्नम् ॥ ३ ॥

नीलनलिनाभमपि तन्वि तव लोचनं धारयति कोकनदरूपम् ।
कुसुमशरबाणभावेन यदि रञ्जयसि कृष्णमिदमेतदनुरूपम् ॥ ४ ॥

स्फुरतु कुचकुम्भयोरुपरि मणिमञ्जरी रञ्जयतु तव हृदयदेशम् ।
रसतु रशनापि तव घनजघनमण्डले घोषयतु मन्मथनिदेशम् ॥ ५ ॥

स्थलकमलगञ्जनं मम हृदयरञ्जनं जनितरतिरङ्गपरभागम् ।
भण मसृणवाणि करवाणि पदपङ्कजं सरसलसदलक्तकरागम् ॥ ६ ॥

स्मरगरलखण्डनं मम शिरसि मण्डनं देहि पदपल्लवमुदारम् ।
ज्वलति मयि दारुणो मदनकदनारुणो हरतु तदुपाहितविकारम् ॥ ७ ॥

इति चटुलचाटुपटुचारु मुरवैरिणो राधिकामधि वचनजातम् ।
जयति पद्मावतीरमणजयदेवकवि-भारतीभणितमतिशातम् ॥ ८ ॥

परिहर कृतातङ्के शङ्कां त्वया सततं घन-स्तनजघनयाक्रान्ते स्वान्ते परानवकाशिनि ।
विशति वितनोरन्यो धन्यो न कोऽपि ममान्तरं स्तनभरपरीरम्भारम्भे विधेहि विधेयताम् ॥ ५४ ॥

मुग्धे विधेहि मयि निर्दयदन्तदंश-दोर्वल्लिबन्धनिबिडस्तनपीडनानि ।
चण्डि त्वमेव मुदमञ्च न पञ्चबाण-चण्डालकाण्डदलनादसवः प्रयान्तु ॥ ५५ ॥

व्यथयति वृथा मौनं तन्वि प्रपञ्चय पञ्चमं तरुणी मधुरालापैस्तापं विनोदय दृष्टिभिः ।
सुमुखि विमुखीभावं तावद्विमुञ्च न मुञ्च मां स्वयमतिशयस्निग्धो मुग्धे प्रियिऽहमुपस्थितः ॥ ५६ ॥

बन्धूकद्युतिबान्धवोऽयमधरः स्निग्धो मधूकच्चवि-र्गण्डश्चण्डि चकास्ति नीलनलिनश्रीमोचनं लोचनम् ।
नासाभ्येति तिलप्रसूनपदवीं कुन्दाभदान्ति प्रिये प्रायस्त्वन्मुखसेवया विजयते विश्वं स पुष्पायुधः ॥ ५७ ॥

दृशौ तव मदालसे वदनमिन्दुसंदीपकं गतिर्जनमनोरमा विधुतरम्भमूरुद्वयम् ।
रतिस्तव कलावती रुचिरचित्रलेखे भ्रुवा-वहो विबुधयौवनं वहसि तन्वी पृथ्वीगता ॥ ५८ ॥

॥ इति श्रीगीतगोविन्दे मानिनीवर्णने चतुरचतुर्भुजो नाम दशमः सर्गः ॥

॥ एकादशः सर्गः ॥
॥ सानन्ददामोदरः ॥

सुचिरमनुनयने प्रीणयित्वा मृगाक्षीं गतवति कृतवेशे केशवे कुञ्जशय्याम् ।
रचितरुचिरभूषां दृष्टिमोषे प्रदोषे स्फुरति निरवसादां कापि राधां जगाद ॥ ५९ ॥

॥ गीतम् २० ॥

विरचितचाटुवचनरचनं चरणे रचितप्रणिपातम् ।
संप्रति मञ्जुलवञ्जुलसीमनि केलिशयनमनुयातम् ॥
मुग्धे मधुमथनमनुगतमनुसर राधिके ॥ १ ॥

घनजघनस्तनभारभरे दरमन्थरचरणविहारम् ।
मुखरितमणीमञ्जीरमुपैहि विधेहि मरालविकारम् ॥ २ ॥

शृणु रमणीयतरं तरुणीजनमोहनमधुपविरावम् ।
कुसुमशरासनशासनबन्दिनि पिकनिकरे भज भावम् ॥ ३ ॥

अनिलतरलकिसलयनिकरेण करेण लतानिकुरम्बम् ।
प्रेरणमिव करभोरु करोति गतिं प्रतिमुञ्च विलम्बम् ॥ ४ ॥

स्फुरितमनङ्गतरङ्गवशादिव सूचितहरिपरिरम्भम् ।
पृच्छ मनोहरहारविमलजलधारममुं कुचकुम्भम् ॥ ५ ॥

अधिगतमखिलसखीभिरिदं तव वपुरपि रतिरणसज्जम् ।
चण्डि रसितरशनारवडिण्डिममभिसर सरसमलज्जम् ॥ ६ ॥

स्मरशरसुभगनखेन करेण सखीमवलम्ब्य सलीलम् ।
चल वलयक्वणीतैरवबोधय हरमपि निजगतिशीलम् ॥ ७ ॥

श्रीजयदेवभणितमधरीकृतहारमुदासितवामम् ।
हरिविनिहितमनसामधितिष्ठतु कण्ठतटीमविरामम् ॥ ८ ॥

सा मां द्रक्ष्यति वक्ष्यति स्मरकथां प्रत्यङ्गमालिङ्गनैः प्रीतिं यास्यति रम्यते सखि समागत्येति चिन्ताकुलः ।
स त्वां पश्यति वेपते पुलकयत्यानन्दति स्विद्यति प्रत्युद्गच्छति मूर्च्छति स्थिरतमःपुञ्जे निकुञ्जे प्रियः ॥ ६० ॥

अक्ष्णोर्निक्षिपदञ्जनं श्रवणयोस्तापिच्छगुच्छावलीं मूर्ध्नि श्यामसरोजदाम कुचयोः कस्तूरिकापात्रकम् ।
धूर्तानामभिसारसत्वरहृदां विष्वङ्निकुञ्जे सखि ध्वान्तं नीलनिचोलचारु सदृशां प्रत्यङ्गमालिङ्गति ॥ ६१ ॥

काश्मीरगौरवपुषामभिसारिकाणाम् आबद्धरेखमभितो रुचिमञ्जरीभिः ।
एतत्तमालदलनीलतमं तमिश्रं तत्प्रेमहेमनिकषोपलतां तनोति ॥ ६२ ॥

हारावलीतरलकाञ्चनकाञ्चिदाम-केयूरकङ्कणमणिद्युतिदीपितस्य ।
द्वारे निकुञ्जनिलयस्यहरिं निरीक्ष्य व्रीडावतीमथ सखी निजगाह राधाम् ॥ ६३ ॥

॥ गीतम् २१ ॥

मञ्जुतरकुञ्जतलकेलिसदने ।
विलस रतिरभसहसितवदने ॥
प्रविश राधे माधवसमीपमिह ॥ १ ॥

नवभवदशोकदलशयनसारे ।
विलस कुचकलशतरलहारे ॥ २ ॥

कुसुमचयरचितशुचिवासगेहे ।
विलस कुसुमसुकुमारदेहे ॥ ३ ॥

चलमलयवनपवनसुरभिशीते ।
विलस रसवलितललितगीते ॥ ४ ॥

मधुमुदितमधुपकुलकलितरावे ।
विलस मदनरससरसभावे ॥ ५ ॥

मधुतरलपिकनिकरनिनदमुखरे ।
विलस दशनरुचिरुचिरशिखरे ॥ ६ ॥

वितत बहुवल्लिनवपल्लवघने ।
विलस चिरमलसपीनजघने ॥ ७ ॥

विहितपद्मावतीसुखसमाजे ।
भणति जयदेवकविराजे ॥ ८ ॥

त्वां चित्तेन चिरं वहन्नयमतिश्रान्तो भृशं तापितः कन्दर्पेण तु पातुमिच्छति सुधासंबाधबिम्बाधरम् ।
अस्याङ्गं तदलंकुरु क्षणमिह भ्रूक्षेपलक्ष्मीलव-क्रीते दास इवोपसेवितपदाम्भोजे कुतः सम्भ्रमः ॥ ६४ ॥

सा ससाध्वससानन्दं गोविन्दे लोललोचना ।
सिञ्जानमञ्जुमञ्जीरं प्रविवेश निवेशनम् ॥ ६५ ॥

॥ गीतम् २२ ॥

राधावदनविलोकनविकसितविविधविकारविभङ्गम् ।
जलनिधिमिव विधुमण्डलदर्शनतरलिततुङ्गतरङ्गम् ॥
हरिमेकरसं चिरमभिलषितविलासं सा ददार्श गुरुहर्षवशंवदवदनमनङ्गनिवासम् ॥ १ ॥

हारममलतरतारमुरसि दधतं परिरभ्य विदूरम् ।
स्फुटतरफेनकदम्बकरम्बितमिव यमुनाजलपूरम् ॥ २ ॥

श्यामलमृदुलकलेवरमण्डलमधिगतगौरदुकूलम् ।
नीलनलिनमिव पीतपरागपतलभरवलयितमूलम् ॥ ३ ॥

तरलदृगञ्चलचलनमनोहरवदनजनितरतिरागम् ।
स्फुटकमलोदरखेलितखञ्जनयुगमिव शरदि तडागम् ॥ ४ ॥

वदनकमलपरिशीलनमिलितमिहिरसमकुण्डलशोभम् ।
स्मितरुचिरुचिरसमुल्लसिताधरपल्लवकृतरतिलोभम् ॥ ५ ॥

शशिकिरणच्छुरितोदरजलधरसुन्दरसकुसुमकेशम् ।
तिमिरोदितविधुमण्दलनिर्मलमलयजतिलकनिवेशम् ॥ ६ ॥

विपुलपुलकभरदन्तुरितं रतिकेलिकलाभिरधीरम् ।
मणिगणकिरणसमूहसमुज्ज्वलभूषणसुभगशरीरम् ॥ ७ ॥

श्रीजयदेवभणितविभवद्विगुणीकृतभूषणभारम् ।
प्रणमत हृदि सुचिरं विनिधाय हरिं सुकृतोदयसारम् ॥ ८ ॥

अतिक्रम्यापाङ्गं श्रवणपथपर्यन्तगमन-प्रयासेनेवाक्ष्णोस्तरलतरतारं पतितयोः ।
इदानीं राधायाः प्रियतमसमालोकसमये पपात स्वेदाम्बुप्रसर इव हर्षाश्रुनिकरः ॥ ६६ ॥

भवन्त्यास्तल्पान्तं कृतकपटकण्डूतिपिहित-स्मितं याते गेहाद्बहिरवहितालीपरिजने ।
प्रियास्यं पश्यन्त्याः स्मरशरसमाकूलसुभगं सलज्जा लज्जापि व्यगमदिव दूरं मृगदृशः ॥ ६७ ॥

॥ इति श्रीगीतगोविन्दे राधिकामिलने सानन्ददामोदरो नामैकादशः सर्गः ॥

॥ द्वादशः सर्गः ॥
॥ सुप्रीतपीताम्बरः ॥

गतवति सखीवृन्देऽमन्दत्रपाभरनिर्भर-स्मरपरवशाकूतस्फीतस्मितस्नपिताधरम् ।
सरसमनसं दृष्ट्वा राधां मुहुर्नवपल्लव-प्रसवशयने निक्षिप्ताक्षीमुवाच हरः ॥ ६८ ॥

॥ गीतम् २३ ॥

किसलयशयनतले कुरु कामिनि चरणनलिनविनिवेशम् ।
तव पदपल्लववैरिपराभवमिदमनुभवतु सुवेशम् ॥
क्षणमधुना नारायणमनुगतमनुसर राधिके ॥ १ ॥

करकमलेन करोमि चरणमहमागमितासि विदूरम् ।
क्षणमुपकुरु शयनोपरि मामिव नूपुरमनुगतिशूरम् ॥ २ ॥

वदनसुधानिधिगलितममृतमिव रचय वचनमनुकूलम् ।
विरहमिवापनयामि पयोधररोधकमुरसि दुकूलम् ॥ ३ ॥

प्रियपरिरम्भणरभसवलितमिव पुलकितमतिदुरवापम् ।
मदुरसि कुचकलशं विनिवेशय शोषय मनसिजतापम् ॥ ४ ॥

अधरसुधारसमुपनय भाविनि जीवय मृतमिव दासम् ।
त्वयि विनिहितमनसं विरहानलदग्धवपुषमविलासम् ॥ ५ ॥

शशिमुखि मुखरय मणिरशनागुणमनुगुणकण्ठनिदानम् ।
श्रुतियुगले पिकरुतविकले मम शमय चिरादवसादम् ॥ ६ ॥

मामतिविफलरुषा विकलीकृतमवलोकितमधुनेदम् ।
मीलितलज्जितमिव नयनं तव विरम विसृज रतिखेदम् ॥ ७ ॥

श्रीजयदेवभणितमिदमनुपदनिगदितमधुरिपुमोदम् ।
जनयतु रसिकजनेषु मनोरमतिरसभावविनोदम् ॥ ८ ॥

मारङ्के रतिकेलिसंकुलरणारम्भे तया साहस-प्रायं कान्तजयाय किञ्चिदुपरि प्रारम्भि यत्सम्भ्रमात् ।
निष्पन्दा जघनस्थली शिथिलता दोर्वल्लिरुत्कम्पितं वक्षो मीलितमक्षि पौरुषरसः स्त्रीणां कुतः सिध्यति ॥ ६९ ॥

अथ कान्तं रतिक्लान्तमपि मण्डनवाञ्छया ।
निजगाद निराबाधा राधा स्वाधीनभर्तृका ॥ ७० ॥

॥ गीतम् २४ ॥

कुरु यदुनन्दन चन्दनशिशिरतरेण करेण पयोधरे ।
मृगमदपत्रकमत्र मनोभवमङ्गलकलशसहोदरे ।
निजगाद सा यदुनन्दने क्रीडति हृदयानन्दने ॥ १ ॥

अलिकुलगञ्जनमञ्जनकं रतिनायकसायकमोचने ।
त्वदधरचुम्बनलम्बितकज्जलमुज्ज्वलय प्रिय लोचने ॥ २ ॥

नयनकुरङ्गतरङ्गविकासनिरासकरे श्रुतिमण्डले ।
मनसिजपाशविलासधरे शुभवेश निवेशय कुण्डले ॥ ३ ॥

भ्रमरचयं रचहयन्तमुपरि रुचिरं सुचिरं मम संमुखे ।
जितकमले विमले परिकर्मय नर्मजनकमलकं मुखे ॥ ४ ॥

मृगमदरसवलितं ललितं कुरु तिलकमलिकरजनीकरे ।
विहितकलङ्ककलं कमलानन विश्रमितश्रमशीकरे ॥ ५ ॥

मम रुचिरे चिकुरे कुरु मानद मानसजध्वजचामरे ।
रतिगलिते ललिते कुसुमानि शिखण्डिशिखण्डकडामरे ॥ ६ ॥

सरसघने जघने मम शम्बरदारणवारणकन्दरे ।
मणिरशनावसनाभरणानि शुभाशय वासय सुन्दरे ॥ ७ ॥

श्रीजयदेववचसि रुचिरे हृदयं सदयं कुरु मण्डने ।
हरिचरणस्मरणामृतकृतकलिकलुषभवज्वरखण्डने ॥ ८ ॥

रचय कुचयोः पत्रं चित्रं कुरुष्व कपोलयो-र्घटय जघने काञ्चीमञ्च स्रजा कबरीभरम् ।
कलय वलयश्रेणीं पाणौ पदे कुरु नूपुरा-विति निगतितः प्रीतः पीताम्बरोऽपि तथाकरोत् ॥ ७१ ॥

यद्गान्ध्गर्वकलासु कौशलमनुध्यानं च यद्वैष्णवं यच्छृङ्गारविवेकतत्वमपि यत्काव्येषु लीलायितम् ।
तत्सर्वं जयदेवपण्डितकवेः कृष्णैकतानात्मनः सानन्दाः परिशोधयन्तु सुधियः श्रीगीतगोविन्दतः ॥ ७२ ॥

श्रीभोजदेवप्रभवस्य रामादेवीसुतश्रीजयदेवकस्य ।
पराशरादिप्रियवर्गकण्ठे श्रीगीतगोविन्दकवित्वमस्तु ॥ ७३ ॥

॥ इति श्रीजयदेवकृतौ गीतगोविन्दे सुप्रीतपीताम्बरो नाम द्वादशः सर्गः ॥
॥ इति गीतगोविन्दं समाप्तम् ॥

[edit] संबंधित कड़ियाँ

[edit] बाहरी कडियाँ