शारीरक उपनिषद्

From Wikisource

Jump to: navigation, search

.. शारीरकोपनिषत् .. ६२.. तत्त्वग्रामोपायसिद्धं परतत्त्वस्वरूपकम् . शारीरोपनिषद्वेद्यं श्रीरामब्रह्म मे गतिः .. ॐ सह नाववतु . सह नौ भुनक्तु . सह वीर्यं करवावहै . तेजस्वि नावधीतमस्तु . मा विद्विषावहै .. ॐ शान्तिः शान्तिः शान्तिः .. ॐ अथातः पृथिव्यादिमहाभूतानां समवायं शरीरम् . यत्कठिनं सा पृथिवी यद्द्रवं तदापो यदुष्णं तत्तेजो यत्संचरति स वायुर्यत्सुषिअरं तदाकाशम् श्रोत्रादीनि ज्ञानेन्द्रियाणि . श्रोत्रमाकाशे वायौ त्वगग्नौ चक्षुरप्सु जिह्वा पृथिव्यां घ्राणमिति . एवमिन्द्रियाणां यथाक्रमेण शब्दस्पर्शरूपरसगन्धाश्चैते विषयाः पृथिव्यादिमहाभूतेषु क्रमेणोत्पन्नाः . वाक्पाणिपादपायूपस्थाख्यानि कर्मेन्द्रियाणि . तेषां क्रमेण वचनादानगमनविसर्गानन्दश्चैते विषयाः पृथिव्यादिमहाभूतेषु क्रमेणोत्पनाः . मनोबुद्धिरहङ्कारश्चित्तमत्यन्तःकरणचतुष्टयम् . तेषां क्रमेण सङ्कल्पविकल्पाध्यवसायाभिमानावधारणास्वरूपश्चैते विषयाः . मनःस्थानं गलान्तं बुद्धेर्वदनमहङ्कारस्य हृदयं चित्तस्य नाभिरिति . अस्थिचर्मनाडीरोममांसाश्चेति पृथिव्यंशाः . मूत्रश्लेष्मरक्तशुक्रस्वेदा अबंशाः . क्षुत्तृष्णालस्यमोहमैथुनान्यग्नेः . प्रचारणविलेखनस्थूलाक्ष्युन्मेषनिमेषादि वायोः . कामक्रोधलोभमोहभयान्याकाशस्य . शब्दस्पर्शरूपरसगन्धाः पृथिवीगुणाः . शब्दस्पर्शरूपरसाश्चापां गुणाः . शब्दस्पर्शरूपाण्यग्निगुणाः . शब्दस्पर्षाविति वायुगुणौ . शब्द एक आकाशस्य . सात्त्विकराजसतामसलक्षणानि त्रयो गुणाः .. अहिंसा सत्यमस्तेयब्रह्मचर्यापरिग्रहाः . अक्रोधो गुरुशुश्रुषा शौचं सन्तोष आर्जवम् .. १.. अमानित्वमदम्भित्वमास्तिकत्वमहिंस्रता . एते सर्वे गुणा ज्ञेयाः सात्त्विकस्य विशेषतः .. २.. अहं कर्ताऽस्म्यहं भोक्ताऽस्म्यहं वक्ताऽभिमानवान् . एते गुणा राजसस्य प्रोच्यन्ते ब्रह्मवित्तमैः .. ३.. निद्रालस्ये मोहरागौ मैथुनं चौर्यमेव च . एते गुणस्तामसस्य प्रोच्यन्ते ब्रह्मवादिभिः .. ४.. ऊर्ध्वे सात्विको मध्ये रजसोऽधस्तामस इति . सत्यज्ञानं सात्त्विकम् . धर्मज्ञानं राजसम् . तिमिरान्धं तामसमिति . जाग्रत्स्वप्नसुषुप्तितुरीयमिति चतुर्विधा अवस्थाः . ज्ञानेन्द्रियकर्मेन्द्रियान्तःकरणचतुष्टयं चतुर्दशकरणयुक्तं जाग्रत् . अन्तःकरणचतुष्टयैरेव संयुक्तः स्वप्नः . चित्तैककरणा सुषुप्तिः . केवलजीवयुक्तमेव तुरीयमिति . उन्मीलितनिमीलितमध्यस्थजीवपरमात्मनोर्मध्ये जीवात्मा क्षेत्रज्ञ इति विज्ञायते .. बुद्धिकर्मेन्द्रियप्राणपञ्चकैर्मनसा धिया . शरीरं सप्तदशभिः सूक्ष्मं तल्लिङ्गमुच्यते .. ५.. मनो बुद्धिरहङ्कारः खानिलाग्निजलानि भूः . एताः प्रकृतयस्त्वष्टौ विकाराः षोडशापरे .. ६.. श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं चैव तु पञ्चमम् . पायूपस्थौ करौ पादौ वाक्चैव दशमी मता .. ७.. शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च . त्रयोविंशतिरेतानि तत्त्वानि प्रकृतानि तु . चतुर्विंशतिरव्यक्तं प्रधानं पुरुषः परः .. ८.. इत्युपनिषत् .. ॐ सह नाववतु . सह नौ भुनक्तु . सह वीर्यं करवावहै . तेजस्वि नावधीतमस्तु . मा विद्विषावहै .. ॐ शान्तिः शान्तिः शान्तिः .. .. इति कृष्णयजुर्वेदीय शारीरकोपनिषत्समाप्ता ..