शात्यायनि उपनिषद्
From Wikisource
॥ शाट्यायनीयोपनिषत् ॥
शाट्यायनीब्रह्मविद्याखण्डाकारसुखाकृति । यतिवृन्दहृदागारं रामचन्द्रपदं भजे ॥ ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ ॥ मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धाय विषयासक्तं मुक्त्यै निर्विषयं स्मृतम् ॥ १ ॥ समासक्तं सदा चित्तं जन्तोर्विषयगोचरे । यद्येवं ब्रह्मणि स्यात्तत्को न मुच्येत बन्धनात् ॥ २ ॥ वित्तमेव हि संसारस्तत्प्रयत्नेन शोधयेत् । यच्चित्तस्तन्मयो भवति गुह्यमेतत्सनातनम् ॥ ३ ॥ नावेदविन्मनुते तं बृहन्तं नाब्रह्मवित्परमं प्रैति धाम । विष्णुक्रान्तं वासुदेवं विजान-न्विप्रो विप्रत्वं गच्छते तत्त्वदर्शी ॥ ४ ॥ अथाह यत्परमं ब्रह्म सनातनं ये श्रोत्रिया अकामहता अधीयुः । शान्तो दान्त उपरतिस्तितिक्षुहु-र्योऽनूचानो ह्यभिजज्ञौ समानः ॥ ५ ॥ त्यक्तेषणो ह्यनृणस्तं विदित्वा मौनी वसेदाश्रमे यत्र कुत्र । अथाश्रमं चरमं संप्रविश्य यथोपपत्तिं पञ्चमात्रां दधानः ॥ ६ ॥ त्रिदण्डमुपवीतं च वासः कौपीनवेष्टनम् । शिक्यं पवित्रमित्येतद्विभृयाद्यावदायुषम् ॥ ७ ॥ पञ्चैतास्तु यतेर्मात्रास्ता मात्रा ब्रह्मणे श्रुताः । न त्यजेद्यावदुत्क्रान्तिरन्तेऽपि निखनेत्सह ॥ ८ ॥ विष्णुलिङ्गं द्विधा प्रोक्तं व्यक्तमव्यक्तमेव च । तयोरेकमपि त्यक्त्वा पतत्येव न संशयः ॥ ९ ॥ त्रिदण्डं वैष्णवं लिङ्गं विप्राणां मुक्तिसाधनम् । निर्वाणं सर्वधर्माणामिति वेदानुशासनम् ॥ १० ॥ अथ खलु सौम्य कुटीचको बहूदको हंसः परमहंस इत्येते परिव्राजकाश्चतुर्विधा भवन्ति । सर्व एते विष्णुलिङ्गिनः शिखिनोपवीतिनः शुद्धचित्ता आत्मानमात्मना ब्रह्म भावयन्तः शुद्धचिद्रूपोपासनरता जपयमवन्तो नियमवन्तः सुशीलिनः पुण्यश्लोका भवन्ति । तदेतदृचाभ्युक्तम् । कुटीचको बहूदकश्चापि हंसः परमहंस इव वृत्त्या च भिन्नाः । सर्व एते विष्णुलिङ्गं दधाना वृत्त्या व्यक्तं बहिरन्तश्च नित्यम् । पञ्चयज्ञा वेदशिरःप्रविष्टाः क्रियावन्तोऽमी सङ्गता ब्रह्मविद्याम् । त्यक्त्वा वृक्षं वृक्षमूलं श्रितासः संन्यस्तपुष्पा रसमेवाश्नुवानाः । विष्णुक्रीडा विष्णुरतयो विमुक्ता विष्ण्वात्मका विष्णुमेवापियन्ति ॥ ११ ॥ त्रिसन्ध्यं शक्तितः स्नानं तर्पणं मार्जनं तथा । उपस्थानं पञ्चयज्ञान्कुर्यादामरणान्तिकम् ॥ १२ ॥ दशभिः प्रणवैः सप्तव्याहृतिभिश्चतुष्पदा । गायत्रीजपयज्ञश्च त्रिसन्ध्यं शिरसा सह ॥ १३ ॥ योगयज्ञः सदैकाग्रभक्त्या सेवा हरेर्गुरोः । अहिंसा तु तपोयज्ञो वाङ्मनःकायकर्मभिः ॥ १४ ॥ नानोपनिषदभ्यासः स्वाध्यायो यज्ञ ईरितः । ॐइत्यात्मानमव्यग्रो ब्रह्मण्यग्ना जुहोति यत् ॥ १५ ॥ ज्ञानयज्ञः स विज्ञेयः सर्वयज्ञोत्तमोत्तमः । ज्ञानदण्डा ज्ञानशिखा ज्ञानयज्ञोपवीतिनः ॥ १६ ॥ शिखा ज्ञानमयी यस्य उपवीतं च तन्मयम् । ब्राह्मण्यं सकलं तस्य इति वेदानुशासनम् ॥ १७ ॥ अथ खलु सौम्येत परिव्राजका यथा प्रादुर्भवन्ति तथा भवन्ति । कामक्रोधलोभमोहदम्भदर्पासूया- ममत्वाहङ्कारादींस्तितीर्य मानावमानौ निन्दास्तुती च वर्जयित्वा वृक्ष इव तिष्ठासेत् । छिद्यमानो न ब्रूयात् । तदैवं विद्वांस इहैवामृता भवन्ति । तदेतदृचाभ्युक्तम् । बन्धुपुत्रमनुमोदयित्वा-नवेक्ष्यमाणो द्वन्द्वसहः प्रशान्तः । प्राचीमुदीचिं वा निर्वर्तयंश्चरेत पात्री दण्डी युगमात्रावलोकी । शिखी मुण्डी चोपवीती कुटुम्बी यात्रामात्रं प्रतिगृह्णन्मनुष्यात् ॥ १८ ॥ अयाचितं याचितं वोत भैक्षं मृद्दार्वलाबूफलपर्णपात्रम् । क्षीणं क्षौमं तृणं कन्थाजिने च पर्ण-माच्छादनं स्यादहतं वा विमुक्तः ॥ १९ ॥ ऋतुसन्धौ मुण्डयेन्मुण्डमात्रं नाधो नाक्षं जातु शिखां न वापयेत् । चतुरो मासान्ध्रुवशीलतः स्या-त्स यावत्सुप्तोऽन्तरात्मा पुरुषो विश्वरूपः । अन्यानथाष्टौ पुनरुत्थितेऽस्मि-न्स्वकर्मलिप्सुर्विहरेद्वा वसेद्वा ॥ २० ॥ देवाग्न्यगारे तरुमूले गुहायां वसेदसङ्गोऽलक्षितशीलवृत्तः । अनिन्धनो ज्योतिरिवोपशान्तो न चोद्विजेदुद्विजेद्यत्र कुत्र ॥ २१ ॥ आत्मानं चेद्विजानीयादयमस्मीति पूरुषः । किमिच्छन्कस्य कामाय शरीरमनुसंज्वरेत् ॥ २२ ॥ तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः । नानुध्यायाद्बहूञ्छब्दान्वाचो विग्लापनं हि तत् ॥ २३ ॥ बाल्येनैव हि तिष्ठासेन्निर्विद्य ब्रह्मवेदनम् । ब्रह्मविद्या च बाल्यं च निर्विद्य मुनिरात्मवान् ॥ २४ ॥ यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ॥ २५ ॥ अथ खलु सौम्येदं परिव्राज्यं नैष्ठिकमात्मधर्मं यो विजहाति स वीरहा भवति । स ब्रह्महा भवति । स भ्रूणहा भवति । स महापातकी भवति । य इमां वैष्णवीं निष्ठां परित्यज्यति । स स्तेनो भवति । स गुरुतल्पगो भवति । स मित्रध्रुग्भवति । स कृतघ्नो भवति । स सर्वस्माल्लोकात्प्रच्युतो भवति । तदेतदृचाभ्युक्तम् । स्तेनः सुरापो गुरुतल्पगामी मित्रध्रुगेते निष्कृतेर्यान्ति शुद्धिम् । व्यक्तमव्यक्तं वा विधृतं विष्णुलिङ्गं त्यजन्न शुद्ध्येदखिलैरात्मभासा ॥ २६ ॥ त्यक्त्वा विष्णोर्लिङ्गमन्तर्बहिर्वा यः स्वाश्रमं सेवतेऽनाश्रमं वा । प्रत्यपत्तिं भजते वातिमूढो नैषां गतिः कल्पकोट्यापि दृष्टा ॥ २७ ॥ त्यक्त्वा सर्वाश्रमान्धीरो वसेन्मोक्षाश्रमे चिरम् । मोक्षाश्रमात्परिभ्रष्टो न गतिस्तस्य विद्यते ॥ २८ ॥ पारिव्राज्यं गृहीत्वा तु यः स्वधर्मे न तिष्ठति । तमारूढच्युतं विद्यादिति वेदानुशासनम् ॥ २९ ॥ अथ खलु सौम्येमं सनातनमात्मधर्मं वैष्णवीं निष्ठां लब्ध्वा यस्तामदूषयन्वर्तते स वशी भवति । स पुण्यश्लोको भवति । स लोकज्ञो भवति । स वेदान्तज्ञो भवति । स ब्रह्मज्ञो भवति । स सर्वज्ञो भवति । स स्वराड् भवति । स परं ब्रह्म भगवन्तमाप्नोति । स पितॄन्सम्बन्धिनो बान्धवान्सुहृदो मित्राणि च भवादुत्तरयति । तदेतदृचाभ्युक्तम् । शतं कुलानां प्रथमं बभूव तथा पराणां त्रिशतं समग्रम् । एते भवन्ति सुकृतस्य लोके येषं कुले संन्यसतीह विद्वान् ॥ ३० ॥ त्रिंशत्परास्त्रिंशदपरांस्त्रिंशच्च परतः परान् । उत्तरयति धर्मिष्ठः परिव्राडिति वै श्रुतिः ॥ ३१ ॥ संयस्तमिति यो ब्रूयात्कण्ठस्थप्राणवानपि । तारिताः पितरस्तेन इति वेदानुशासनम् ॥ ३२ ॥ अथ खलु सौम्येमं सनातनमात्मधर्मं वैष्णवीं निष्ठां नासमाप्य प्रब्रूयात् । नानूचानाय नानात्मविदे नावीतरागाय नाविशुद्धाय नानुपसन्नाय नाप्रयतमानसायेति ह स्माहुः । तदेतदृचाभ्युक्तम् । विद्या ह वै ब्राह्मणमाजगाम गोपाय मां शेवधिष्टेऽहमस्मि । असूयकायानृजवे शठाय मा मा ब्रूया वीर्यवती तथा स्याम् ॥ ३३ ॥ यमेव विद्याश्रुतमप्रमत्तं मेधाविनं ब्रह्मचर्योपपन्नम् । अस्मा इमामुपसन्नाय सम्यक् परीक्ष्य दद्याद्वैष्णवीमात्मनिष्ठाम् ॥ ३४ ॥ अध्यापिता ये गुरुं नाद्रियन्ते विप्रा वाचा मनसा कर्मणा वा । यथैव तेन न गुरुर्भोजनीय-स्तथैव चानं न भुनक्ति श्रुतं तत् ॥ ३५ ॥ गुरुरेव परो धर्मो गुरुरेव परा गतिः । एकाक्षरप्रदातारं यो गुरुं नाभिनन्दति । तस्य श्रुतं तथा ज्ञानं स्रवत्यामघटाम्बुवत् ॥ ३६ ॥ यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । स ब्रह्मवित्परं प्रेयादिति वेदानुशासनम् ॥ ३७ ॥ इत्युपनिषत् ॥ ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ हरिः ॐ तत्सत् ॥ इति शाट्यायनीयोपनिषत्समाप्ता ॥