॥ प्रथमोऽध्यायः॥ जनमेजय उवाच। कथं विराटनगरे मम पूर्वपितामहाः। अज्ञातवासमुषिता दुर्योधनभयार्दिताः॥१॥ वैशंपायन उवाच। तथा तु स वराँल्लब्ध्वा धर्माद्धर्मभृतां वरः। गत्वाश्रमं ब्राह्मणेभ्य आचख्यौ सर्वमेव तत्॥२॥