वराह उपनिषद्
From Wikisource
.. वराहोपनिषत् .. श्रीमद्वाराहोपनिषद्वेद्याखण्डसुखाकृति . त्रिपान्नारायणाख्यं तद्रामचन्द्रपदं भजे .. ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै .. तेजस्विनावधी तमस्तु मा विद्विषावहै .. ॐ शान्तिः शान्तिः शान्तिः ..
हरिः ॐ .. अथ ऋभुर्वै महामुनिर्देवमानेन द्वादशवत्सरं तपश्चचार . तदवसाने वराहरूपी भगवान्प्रादुरभूत् . स होवाचोत्तिष्ठोत्तिष्ठ वरं वृणीश्वेति . सोदतिष्ठत् . तस्मै नमस्कृत्योवाच भगवन्कामिभिर्यद्यत्कामितं तत्तत्त्वत्सकाशात्स्वप्नेऽपि न याचे . समस्तवेदशास्त्रेतिहासपुराणानि समस्तविद्याजालानि ब्रह्मादयः सुराः सर्वे त्वद्रूपज्ञानान्मुक्तिमाहुः . अतस्त्वद्रूपप्रतिपादिकां ब्रह्मविद्यां ब्रूहीति होवाच . तथेति स होवाच वराहरूपी भगवान् . चतुर्विंशतितत्त्वानि केचिदिच्छन्ति वादिनः . केचित्षट्त्रिंशत्तत्त्वानि केचित्षण्णवतीनि च .. १.. तेषां क्रमं प्रवक्ष्यामि सावधानमनाः शृणु . ज्ञानेन्द्रियाणि पञ्चैव श्रोत्रत्वग्लोचनादयः .. २.. कर्मेन्द्रियाणि पञ्चैव वाक्पाण्यङ्घ्र्यादयः क्रमात् . प्राणादतस्तु पञ्चैव पञ्च शब्दादयस्तथा .. ३.. मनोबुद्धिरहंकारश्चित्तं चेति चतुष्टयम् . चतुर्विंशतितत्त्वानि तानि ब्रह्मविदो विदुः .. ४.. एतैस्तत्त्वैः समं पञ्चीकृतभूतानि पञ्च च . पृथिव्यापस्तथा तेजो वायुराकाशमेव च .. ५.. देहत्रयं स्थूलसूक्ष्मकारणानि विदुर्बुधाः . अवस्थात्रितयं चैव जाग्रत्स्वप्नसुषुप्तयः .. ६.. आहत्य तत्त्वजातानां षट्त्रिंशन्मुनयो विदुः . पूर्वोक्तैस्तत्त्वजातैस्तु समं तत्त्वानि योजयेत् .. ७.. षड्भावविकृतिश्चास्ति जायते वर्धतेऽपि च . परिणामं क्षयं नाशं षड्भावविकृतिं विदुः .. ८.. अशना च पिपासा च शोकमोहौ जरा मृतिः . एते षडूर्मयः प्रोक्ताः षट्कोशानथ वच्मि ते .. ९.. त्वक्च रक्तं मांसमेदोमज्जास्थीनि निबोधत . कामक्रोधौ लोभमोहौ मदो मात्सर्यमेव च .. १०.. एतेऽरिषड्वा विश्वश्च तैजसः प्राज्ञ एव च . जीवत्रयं सत्त्वरजस्तमांसि च गुणत्रयम् .. ११.. प्रारब्धागाम्यर्जितानि कर्मत्रयमितीरितम् . वचनादानगमनविसर्गानन्दपञ्चकम् .. १२.. संकल्पोऽध्यवसायश्च अभिमानोऽवधारणा . मुदिता करुणा मैत्री उपेक्षा च चतुष्टयम् .. १३.. दिग्वातार्कप्रचेतोऽश्विवह्नीन्द्रोपेन्द्रमृत्युकाः . तथा चन्द्रश्चतुर्वक्त्रो रुद्रः क्षेत्रज्ञ ईश्वरः .. १४.. आहत्य तत्त्वजातानां षण्णवत्यस्तु कीर्तिताः . पूर्वोक्ततत्त्वजातानां वैलक्षण्यमनामयम् .. १५.. वराहरूपिणं मां ये भजन्ति मयि भक्तितः . विमुक्ताज्ञानतत्कार्या जीवन्मुक्ता भवन्ति ते .. १६.. ये षण्णवतितत्त्वज्ञा यत्र कुत्राश्रमे रताः . जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः .. १७.. इति.. इति प्रथमोऽध्यायः ..
ऋभुर्नाम महायोगी क्रोडरूपं रमापतिम् . वरिष्ठां ब्रह्मविद्यां त्वमधीहि भगवन्मम . एवं स स्पृष्टो भगवान्प्राह भक्तार्तिभञ्जनः .. १.. स्ववर्णाश्रमधर्मेण तपसा गुरुतोषणात् . साधनं प्रभवेत्पुंसां वैराग्यादिचतुष्टयम् .. २.. नित्यानित्यविवेकश्च इहामुत्र विरागता . शमादिषट्कसंपत्तिर्मुमुक्षा तां समभ्यसेत् .. ३.. एवं जितेन्द्रियो भूत्वा सर्वत्र ममतामतिम् . विहाय साक्षिचैतन्ये मयि कुर्यादहंमतिम् .. ४.. दुर्लभं प्राप्य मानुष्यं तत्रापि नरविग्रहम् . ब्राह्मण्यं च महाविष्णोर्वेदान्तश्रवणादिना .. ५.. अतिवर्णाश्रमं रूपं सच्चिदानन्दलक्षणम् . यो न जानाति सोऽविद्वान्कदा मुक्तो भविष्यति .. ६.. अहमेव सुखं नान्यदन्यच्चेन्नैव तत्सुखम् . अमदर्थं न हि प्रेयो मदर्थं न स्वतःप्रियम् .. ७.. परप्रेमास्पदतया मा न भूवमहं सदा . भूयासमिति यो द्रष्टा सोऽहं विष्णुर्मुनीश्वर .. ८.. न प्रकाशोऽहमित्युक्तिर्यत्प्रकाशैकबन्धना . स्वप्रकाशं तमात्मानमप्रकाशः कथं स्पृशेत् .. ९.. स्वयं भातं निराधारं ये जानन्ति सुनिश्चितम् . ते हि विज्ञानसंपन्ना इति मे निश्चिता मतिः .. १०.. स्वपूर्णात्मातिरेकेण जगज्जीवेश्वरादयः . न सन्ति नास्ति माया च तेभ्यश्चाहं विलक्षणः .. ११.. अज्ञानान्धतमोरूपं कर्मधर्मादिलक्षणम् . स्वयंप्रकाशमात्मानं नैव मां स्प्रष्टुमार्हति .. १२.. सर्वसाक्षिणमात्मानं वर्णाश्रमविवर्जितम् . ब्रह्मरूपतया पश्यन्ब्रह्मैव भवति स्वयम् .. १३.. भासमानमिदं सर्वं मानरूपं परं पदम् . पश्यन्वेदान्तमानेन सद्य एव विमुच्यते .. १४.. देहात्मज्ञानवज्ज्ञानं देहात्मज्ञानबाधकम् . आत्मन्येव भवेद्यस्य स नेच्छन्नपि मुच्यते .. १५.. सत्यज्ञानानन्दपूर्णलक्षणं तमसः परम् . ब्रह्मानन्दं सदा पश्यन्कथं बध्येत कर्मणा .. १६.. त्रिधामसाक्षिणं सत्यज्ञानानन्दादिलक्षणम् . त्वमहंशब्दलक्ष्यार्थमसक्तं सर्वदोषतः .. १७.. सर्वगं सच्चिदात्मानं ज्ञानचक्षुर्निरीक्षते . अज्ञानचक्षुर्नेक्षेत भास्वन्तं भानुमन्धवत् .. १८.. प्रज्ञानमेव तद्ब्रह्म सत्यप्रज्ञालक्षणम् . एवं ब्रह्मपरिज्ञानादेव मर्त्योऽमृतो भवेत् .. १९.. तद्ब्रह्मानन्दमद्वन्द्वं निर्गुणं सत्यचिद्घनम् . विदित्वा स्वात्मनो रूपं न बिभेति कुतश्चन .. २०.. चिन्मात्रं सर्वगं नित्यं संपूर्णं सुखमद्वयम् . साक्षाद्ब्रह्मैव नान्योऽस्तीत्येवं ब्रह्मविदां स्थितिः .. २१.. अज्ञस्य दुःखौघमयं ज्ञस्यानन्दमयं जगत् . अन्धं भुवनमन्धस्य प्रकाशं तु सुचक्षुषाम् .. २२.. अनन्ते सच्चिदानन्दे मयि वाराहरूपिणी . स्थितेऽद्वितीयभावः स्यात्को बन्धः कश्च मुच्यते .. २३.. स्वस्वरूपं तु चिन्मात्रं सर्वदा सर्वदेहिनाम् . नैव देहादिसङ्घातो घटवद्दृशिगोचरः .. २४.. स्वात्मनोऽन्यदिवाभातं चराचरमिदं जगत् . स्वात्ममात्रतया बुद्ध्वा तदस्मीति विभावय .. २५.. स्वस्वरूपं स्वयं भुङ्क्ते नास्ति भोज्यं पृथक् स्वतः . अस्ति चेदस्तितारूपं ब्रह्मैवास्तित्वलक्षणम् .. २६.. ब्रह्मविज्ञानसंपन्नः प्रतीतमखिलं जगत् . पश्यन्नपि सदा नैव पश्यति स्वात्मनः पृथक् .. २७.. मत्स्वरूपपरिज्ञानात्कर्मभिर्न स बध्यते .. २८.. यः शरीरेन्द्रियादिभ्यो विहीनं सर्वसाक्षिणम् . परमार्थैकविज्ञानं सुखात्मानं स्वयंप्रभम् .. २९.. स्वस्वरूपतया सर्वं वेद स्वानुभवेन यः . स धीरः स तु विज्ञेयः सोऽहं तत्त्वं ऋभो भव .. ३०.. अतः प्रपञ्चानुभवः सदा न हि
स्वरूपबोधानुभवः सदा खलु .
इति प्रपश्यन्परिपूर्णवेदनो
न बन्धमुक्तो न च बद्ध एव तु .. ३१..
स्वस्वरूपानुसन्धानान्नृत्यन्तं सर्वसाक्षिणम् . मुहूर्तं चिन्तयेन्मां यः सर्वबन्धैः प्रमुच्यते .. ३२.. सर्वभूतान्तरस्थाय नित्यमुक्तचिदात्मने . प्रत्यक्चैतन्यरूपाय मह्यमेव नमोनमः .. ३३.. त्वं वहमस्मि भगवो देवतेऽहं वै त्वमसि . तुभ्यं मह्यमनन्ताय मह्यं तुभ्यं चिदात्मने .. ३४.. नमो मह्यं परेशाय नमस्तुभ्यं शिवाय च . किं करोमि क्व गच्छामि किं गृह्णामि त्यजामि किम् .. ३५.. यन्मया पूरितं विश्वं महाकल्पांबुना यथा . अन्तःसङ्गं बहिःसङ्गमात्मसङ्गं च यस्त्यजेत् . सर्वसङ्गनिवृत्तात्मा स मामेति न संशयः .. ३६.. अहिरिव जनयोगं सर्वदा वर्जयेद्यः
कुणपमिव सुनारीं त्यक्तुकामो विरागी .
विषमिव विषयादीन्मन्यमानो दुरन्ता-
ञ्जगति परमहंसो वासुदेवोऽहमेव .. ३७..
इदं सत्यमिदं सत्यं सत्यमेतदिहोच्यते . अहं सत्यं परं ब्रह्म मत्तः किंचिन्न विद्यते .. ३८.. उप समीपे यो वासो जीवात्मपरमात्मनोः . उपवासः स विज्ञेयो न तु कायस्य शोषणम् .. ३९.. कायशोषणमात्रेण का तत्र ह्यविवेकिनाम् . वल्मीकताडनादेव मृतः किं नु महोरगः .. ४०.. अस्ति ब्रह्मेति चेद्वेद परोक्षज्ञानमेव तत् . अहं ब्रह्मेति चेद्वेद साक्षात्कारः स उच्यते .. ४१.. यस्मिन्काले स्वमात्मानं योगी जानाति केवलम् . तस्मात्कालात्समारभ्य जीवन्मुक्तो भयेदसौ .. ४२.. अहं ब्रह्मेति नियतं मोक्षहेतुर्महात्मनाम् . द्वे पदे बन्धमोक्षाय निर्ममेति ममेति च .. ४३.. ममेति बध्यते जन्तुर्निर्ममेति विमुच्यते . बाह्यचिन्ता न कर्तव्या तथैवान्तरचिन्तिका . सर्वचिन्तां समुत्सृज्य स्वस्थो भव सदा ऋभो .. ४४.. संकल्पमात्रकलनेन जगत्समग्रं
संकल्पमात्रकलने हि जगद्विलासः .
संकल्पमात्रमिदमुत्सृज निर्विकल्प-
माश्रित्य मामकपदं हृदि भावयस्व .. ४५..
मच्चिन्तनं मत्कथनमन्योन्यं मत्प्रभाषणम् . मदेकपरमो भूत्वा कालं नय महामते .. ४६.. चिदिहास्तीति चिन्मात्रमिदं चिन्मयमेव च . चित्त्वं चिदहमेते च लोकाश्चिदिति भावय .. ४७.. रागं नीरागतां नीत्वा निर्लेपो भव सर्वदा . अज्ञानजन्यकर्त्रादिकारकोत्पन्नकर्मणा .. ४८.. श्रुत्युत्पन्नात्मविज्ञानप्रदीपो बाध्यते कथम् . अनात्मनां परित्यज्य निर्विकारो जगत्स्थितौ .. ४९.. एकनिष्ठतयान्तस्थसंविन्मात्रपरो भव . घटाकाशमठाकाशौ महाकाशे प्रतिष्ठितौ .. ५०.. एवं मयि चिदाकाशे जीवेशौ परिकल्पितौ . या च प्रागात्मनो माया तथान्ते च तिरस्कृता .. ५१.. ब्रह्मवादिभिरुद्गीता सा मायेति विवेकतः . मायातत्कार्यविलये नेश्वरत्वं न जीवता .. ५२.. ततः शुद्धश्चिदेवाहं व्योमवन्निरुपाधिकः . जीवेश्वरादिरूपेण चेतनाचेतनात्मकम् .. ५३.. ईक्षणादिप्रवेशान्ता सृष्टिरीशेन कल्पिता . जाग्रदादिविमोक्षान्तः संसारो जीवकल्पितः .. ५४.. त्रिणाचिकादियोगान्ता ईश्वरभ्रान्तिमाश्रिताः . लोकायतादिसांख्यान्ता जीवविश्रान्तिमाश्रिताः .. ५५.. तस्मान्मुमुक्षिभिर्नैव मतिर्जीवेशवादयोः . कार्या किंतु ब्रह्मतत्त्वं निश्चलेन विचार्यताम् .. ५६. अद्वितीयब्रह्मतत्त्वं न जानन्ति यथा तथा . भ्रान्ता एवाखिलास्तेषां क्व मुक्तिः क्वेह वा सुखम् .. ५७.. उत्तमाधमभावश्चेत्तेषां स्यादस्ति तेन किम् . स्वप्नस्थराज्यभिक्षाभ्यां प्रबुद्धः स्पृशते खलु .. ५८.. अज्ञाने बुद्धिविलये निद्रा सा भण्यते बुधैः . विलीनाज्ञानतत्कार्ये मयि निद्रा कथं भवेत् .. ५९.. बुद्धेः पूर्णविकासोऽयं जागरः परिकीर्त्यते . विकारादिविहीनत्वाज्जागरो मे न विद्यते .. ६०.. सूक्ष्मनाडिषु संचारो बुद्धेः स्वप्नः प्रजायते . संचारधर्मरहिते मयि स्वप्नो न विद्यते .. ६१.. सुषुप्तिकाले सकले विलीने तमसावृते . स्वरूपं महदानन्दं भुङ्क्ते विश्वविवर्जितः .. ६२.. अविशेषेण सर्वं तु यः पश्यति चिदन्वयात् . स एव साक्षाद्विज्ञानी स शिवः स हरिर्विधिः .. ६३.. दीर्घस्वप्नमिदं यत्तद्दीर्घं वा चित्तविभ्रमम् . दीर्घं वापि मनोराज्यं संसारं दुःखसागरम् . सुप्तेरुत्थाय सुप्त्यन्तं ब्रह्मैकं प्रविचिन्त्यताम् .. ६४.. आरोपितस्य जगतः प्रविलापनेन
चित्तं मदात्मकतया परिकल्पितं नः .
शत्रून्निहत्य गुरुषट्कगणान्निपाता-
द्गन्धद्विपो भवति केवलमद्वितीयः .. ६५..
अद्यास्तमेतु वपुराशशितारमास्तां
कस्तावतापि मम चिद्वपुषो विशेषः .
कुम्भे विनश्यति चिरं समवस्थिते वा
कुम्भाम्बरस्य नहि कोऽपि विशेषलेशः .. ६६..
अहिनिर्ल्वयनी सर्पनिर्मोको जीववर्जितः . वल्मीके पतितस्तिष्ठेत्तं सर्पो नाभिमन्यते .. ६७.. एवं स्थूलं च सूक्ष्मं च शरीरं नाभिमन्यते . प्रत्यग्ज्ञानशिखिध्वस्ते मिथ्याज्ञाने सहेतुके . नेति नेतीति रूपत्वादशरीरो भवत्ययम् .. ६८.. शास्त्रेण न स्यात्परमार्थदृष्टिः
कार्यक्षमं पश्यति चापरोक्षम् .
प्रारब्धनाशात्प्रतिभाननाश
एवं त्रिधा नश्यति चात्ममाया .. ६९..
ब्रह्मत्वे योजिते स्वामिञ्जीवभावो न गच्छति . अद्वैते बोधिते तत्त्वे वासना विनिवर्तते .. ७०.. प्रारब्धान्ते देहहानिर्मायेति क्षीयतेऽखिला . अस्तीत्युक्ते जगत्सर्वं सद्रसं ब्रह्म तद्भवेत् .. ७१.. भातीत्युक्ते जगत्सर्वं भानं ब्रह्मैव केवलम् . मरुभूमौ जलं सर्वं मरुभूमात्रमेव तत् . जगत्त्रयमिदं सर्वं चिन्मात्रं स्वविचारतः .. ७२.. अज्ञानमेव न कुतो जगतः प्रसङ्गो
जीवेशदेशिकविकल्पकथातिदूरे .
एकान्तकेवलचिदेकरसस्वभावे
ब्रह्मैव केवलमहं परिपूर्णमस्मि .. ७३..
बोधचन्द्रमसि पूर्णविग्रहे
मोहराहुमुषितात्मतेजसि .
स्नानदानयजनादिकाः
क्रिया मोचनावधि वृथैव तिष्ठते .. ७४..
सलिले सैन्धवं यद्वत्साम्यं भवति योगतः . तथात्ममनसोरैक्यं समाधिरिति कथ्यते .. ७५.. दुर्लभो विषयत्यागो दुर्लभं तत्त्वदर्शनम् . दुर्लभा सहजावस्था सद्गुरोः करुणां विना .. ७६.. उत्पन्नशक्तिबोधस्य त्यक्तनिःशेषकर्मणः . योगिनः सहजावस्था स्वयमेव प्रकाशते .. ७७.. रसस्य मनसश्चैव चञ्चलत्वं स्वभावतः . रसो बद्धो मनो बद्धं किं न सिद्ध्यति भूतले .. ७८.. मूर्च्छितो हरति व्याधिं मृतो जीवयति स्वयम् . बद्धः खेचरतां धत्ते ब्रह्मत्वं रसचेतसि .. ७९.. इन्द्रियाणां मनो नाथो मनोनाथस्तु मारुतः . मारुतस्य लयो नाथस्तन्नाथं लयमाश्रय .. ८०.. निश्चेष्टो निर्विकारश्च लयो जीवति योगिनाम् . उच्छिन्नसर्वसंकल्पो निःशेषाशेषचेष्टितः . स्वावगम्यो लयः कोऽपि मनसां वागगोचरः .. ८१.. पुङ्खानुपुङ्खविषयेक्षणतत्परोऽपि
ब्रह्मावलोकनधियं न जहाति योगी .
सङ्गीतताललयवाद्यवशं गतापि
मौलिस्थकुम्भपरिरक्षणधीर्नटीव .. ८२..
सर्वचिन्तां परित्यज्य सावधानेन चेतसा . नाद एवानुसन्धेयो योगसाम्राज्यमिच्छता .. ८३.. इति द्वितीयोऽध्यायः .. २..
नहि नानास्वरूपं स्यादेकं वस्तु कदाचन . तस्मादखण्ड एवास्मि यन्मदन्यन्न किंचन .. १.. दृश्यते श्रूयते यद्यद्ब्रह्मणोऽन्यन्न तद्भवेत् . नित्यशुद्ध विमुक्तैकमखण्डानन्दमद्वयम् . सत्यं ज्ञानमनन्तं यत्परं ब्रह्माहमेव तत् .. २.. आनन्दरूपोऽहमखण्डबोधः
परात्परोऽहं घनचित्प्रकाशः .
मेघा यथा व्योम न च स्पृशन्ति
संसारदुःखानि न मां स्पृशन्ति .. ३..
सर्वं सुखं विद्धि सुदुःखनाशा-
त्सर्वं च सद्रूपमसत्यनाशात् .
चिद्रूपमेव प्रतिभानयुक्तं
तस्मादखण्डं मम रूपमेतत् .. ४..
न हि जनिर्मरणं गमनागमौ
न च मलं विमलं न च वेदनम् .
चिन्मयं हि सकलं विराजते
स्फुटतरं परमस्य तु योगिनः .. ५..
सत्यचिद्घनमखण्डमद्वयं
सर्वदृश्यरहितं निरामयम् .
यत्पदं विमलमद्वयं शिवं
तत्सदाहमिति मौनमाश्रय .. ६..
जन्ममृत्युसुखदुःखवर्जितं
जातिनीतिकुलगोत्रदूरगम् .
चिद्विवर्तजगतोऽस्य कारणं
तत्सदाहमिति मौनमाश्रय .. ७..
पूर्णमद्वयमखण्डचेतनं
विश्वभेदकलनादिवर्जितम् .
अद्वितीयपरसंविदंशकं
तत्सदाहमिति मौनमाश्रय .. ८..
केनाप्यबाधितत्वेन त्रिकालेऽप्येकरूपतः . विद्यमानत्वमस्त्येतत्सद्रूपत्वं सदा मम .. ९.. निरुपाधिकनित्यं यत्सुप्तौ सर्वसुखात्परम् . सुखरूपत्वमस्त्येतदानन्दत्वं सदा मम .. १०.. दिनकरकिरणैर्हि शार्वरं तमो
निबिडतरं झटिति प्रणाशमेति .
घनतरभवकारणं तमो यद्द्-
हरिदिनकृत्प्रभया न चान्तरेण .. ११..
मम चरणस्मरणेन पूजया च
स्वकतमसः परिमुच्यते हि जन्तुः .
न हि मरणप्रभवप्रणाशहेतु-
र्मम चरणस्मरणादृतेऽस्ति किंचित् .. १२..
आदरेण यथा स्तौति धनवन्तं धनेच्छया . तथा चेद्विश्वकर्तारं को न मुच्येत बन्धनात् .. १३.. आदित्यसंनिधौ लोकश्चेष्टते स्वयमेव तु . तथा मत्संनिधावेव समस्तं चेष्टते जगत् .. १४.. शुक्तिकाया यथा तारं कल्पितं मायया तथा . महदादि जगन्मायामयं मय्येव केवलम् .. १५.. चण्डालदेहे पश्वादिस्थावरे ब्रह्मविग्रहे . अन्येषु तारतम्येन स्थितेषु न तथा ह्यहम् .. १६.. विनष्टदिग्भ्रमस्यापि यथापूर्वं विभाति दिक् . तथा विज्ञानविध्वस्तं जगन्मे भाति तन्न हि .. १७.. न देहो नेन्द्रियप्राणो न मनोबुद्ध्यहंकृति . न चित्तं नैव माया च न च व्योमादिकं जगत् .. १८.. न कर्ता नैव भोक्ता च न च भोजयिता तथा . केवलं चित्सदानन्दब्रह्मैवाहं जनार्दनः .. १९.. जलस्य चलनादेव चञ्चलत्वं यथा रवेः . तथाहंकारसम्बधादेव संसार आत्मनः .. २०.. चित्तमूलं हि संसारस्तत्प्रयत्नेन शोधयेत् . हन्त चित्तमहत्तायां कैषा विश्वासता तव .. २१.. क्व धनानि महीपानां ब्रह्मणः क्व जगन्ति वा . प्राक्तनानि प्रयातानि गताः सर्गपरम्परः . कोटयो ब्रह्मणां याता भूपा नष्टाः परागवत् .. २२.. स चाध्यात्माभिमानोऽपि विदुषोऽयासुरत्वतः . विदुषोऽप्यासुरश्चेत्स्यान्निष्फलं तत्त्वदर्शनम् .. २३.. उत्पाद्यमाना रागाद्या विवेकज्ञानवह्निना . यदा तदैव दह्यन्ते कुतस्तेषां प्ररोहणम् .. २४.. यथा सुनिपुणः सम्यक् परदोषेक्षणे रतः . तथा चेन्निपुणः स्वेषु को न मुच्येत बन्धनात् .. २५.. अनात्मविदमुक्तोऽपि सिद्धिजालानि वाञ्छति . द्रव्यमन्त्रक्रियाकालयुक्त्याप्नोति मुनीश्वर .. २६.. नात्मज्ञस्यैष विषय आत्मज्ञो ह्यात्ममात्रदृक् . आत्मनात्मनि संतृप्तो नाविद्यामनुधावति .. २७.. ये केचन जगद्भावास्तानविद्यामयान्विदुः . कथं तेषु किलात्मज्ञस्त्यक्ताविद्यो निमज्जति .. २८.. द्रव्यमन्त्रक्रियाकालयुक्तयः साधुसिद्धिदाः . परमात्मपदप्राप्तौ नोपकुर्वन्ति काश्चन .. २९.. सर्वेच्छाकलनाशान्तावात्मलाभोदयाभिधः . स पुनः सिद्धिवाञ्छायां कथमर्हत्यचित्ततः .. ३०.. इति.. इति तृतीयोध्यायः .. ३..
अथ ह ऋभुं भगवन्तं निदाघः पप्रच्छ जीवन्मुक्तिलक्षणमनुब्रूहीति . तथेति स होवाच . सप्तभूमिषु जीवन्मुक्ताश्चत्वारः . शुभेच्छा प्रथमा भूमिका भवति . विचारणा द्वितीया . तनुमानसी तृतीया . सत्त्वापत्तिस्तुरीया . असंसक्तिः पञ्चमी . पदार्थभावना षष्ठी . तुरीयगा सप्तमी . प्रणवात्मिका भूमिका अकारोकारमकारार्धमात्रात्मिका . स्थूलसूक्ष्मबीजसाक्षिभेदेनाकारादयश्चतुर्विधाः . तदवस्था जाग्रत्स्वप्नसुषुप्तितुरीयाः . अकारस्थूलांशे जाग्रद्विश्वः . सूक्ष्मांशे तत्तैजसः . बीजांशे तत्प्राज्ञः . साक्ष्यंशे तत्तुरीयः . मकारस्थूलांशे सुषुप्तविश्वः . सूक्ष्मांशे तत्तैजसः . बीजांशे तत्प्राज्ञः . साक्ष्यंशे तत्तुरीयः . अर्धमात्रास्थूलांशे तुरीयविश्वः . सूक्ष्मांशे तत्तैजसः . बीजांशे तत्प्राज्ञः . साक्ष्यंशे तुरीयतुरीयः . अकारतुरीयांशाः प्रथमद्वितीयतृतीयभूमिकाः . उकारतुरीयांशा चतुर्थी भूमिका . मकारतुरीयांशा पञ्चमी . अर्धमात्रातुरीयांशा षष्ठी . तदतीता सप्तमी . भूमित्रयेषु विहरन्मुमुक्षुर्भवति . तुरीयभूम्यां विहरन्ब्रह्मविद्भवति . पञ्चमभूम्यां विहरन्ब्रह्मविद्वरो भवति . षष्ठभूम्यां विहरन्ब्रह्मविद्वरीयान्भवति . सप्तमभूम्यां विहरन्ब्रह्मविद्वरिष्ठो भवति . तत्रैते श्लोका भवन्ति .
ज्ञानभूमिः शुभेच्छा स्यात्प्रथमा समुदीरिता . विचारणा द्वितीया तु तृतीया तनुमानसा .. १.. सत्त्वापत्तिश्चतुर्थी स्यात्ततोऽसंसक्तिनामिका . पदार्थभावना षष्ठी सप्तमी तुर्यगा स्मृता .. २.. स्थितः किं मूढ एवास्मि प्रेक्ष्योऽहं शास्त्रसज्जनैः . वैराग्यपूर्णमिच्छेति शुभेच्छेत्युच्यते बुधैः .. ३.. शास्त्रसज्जनसंपर्कवैराग्याभ्यासपूर्वकम् . सदाचारप्रवृत्तिर्या प्रोच्यते सा विचारणा .. ४.. विचारणाशुभेच्छाभ्यामिन्द्रियार्थेषु रक्तता . यत्र सा तनुतामेति प्रोच्यते तनुमानसी .. ५.. भूमिकात्रितयाभ्यासाचित्तेऽर्थविरतेर्वशात् . सत्वात्मनि स्थिते शुद्धे सत्त्वापत्तिरुदाहृता .. ६.. दशाचतुष्टयाभ्यासादसंसर्गफला तु या . रूढसत्त्वचमत्कारा प्रोक्ता संसक्तिनामिका .. ७.. भूमिकापञ्चकाभ्यासात्स्वात्मारामतया भृशम् . आभ्यन्तराणां बाह्यानां पदार्थानामभावनात् .. ८.. परप्रयुक्तेन चिरं प्रत्ययेनावबोधनम् . पदार्थभावनानाम षष्ठी भवति भूमिका .. ९.. षड्भूमिकाचिराभ्यासद्भेदस्यानुपलम्भनात् . यत्स्वभावैकनिष्ठत्वं सा ज्ञेया तुर्यगा गतिः .. १०.. शुभेच्छादित्रयं भूमिभेदाभेदयुतं स्मृतम् . यथावद्वेद बुद्ध्येदं जगज्जाग्रति दृश्यते .. ११.. अद्वैते स्थैर्यमायाते द्वैते च प्रशमं गते . पश्यन्ति स्वप्नवल्लोकं तुर्यभूमि सुयोगतः .. १२.. विच्छिन्नशरदभ्रांशविलयं प्रविलीयते . सत्वावशेष एवास्ते हि निदाघ दृढीकुरु .. १३.. पञ्चभूमिं समारुह्य सुषुप्तिपदनामिकाम् . शान्ताशेषविशेषांशस्तिष्ठत्यद्वैतमात्रके .. १४.. अन्तर्मुखतया नित्यं बहिर्वृत्तिपरोऽपि सन् . परिश्रान्ततया नित्यं निद्रालुरिव लक्ष्यते .. १५.. कुर्वन्नभ्यासमेतस्यां भूम्यां सम्यग्विवासनः . सप्तमी गाढसुप्ताख्या क्रमप्राप्ता पुरातनी .. १६.. यत्र नासन्न सद्रूपो नाहं नाप्यनहंकृतिः . केवलं क्षीणमनन आस्तेऽद्वैतेऽतिनिर्भयः .. १७.. अन्तःशून्यो बहिःशून्यः शून्यकुम्भ इवाम्बरे . अन्तःपूर्णो बहिःपूर्णः पूर्णकुम्भ इवार्णवे .. १८.. मा भव ग्राह्यभावात्मा ग्राहकात्मा च मा भव . भावनामखिलां त्यक्त्वा यच्छिष्टं तन्मयो भव .. १९.. द्र्ष्टृदर्शनदृश्यानि त्यक्त्वा वासनया सह . दर्शनप्रथमाभासमात्मानं केवलं भज .. २०.. यथास्थितमिदं यस्य व्यवहारयतोऽपि च . अस्तंगतं स्थितं व्योम स जीवन्मुक्त उच्यते .. २१.. नोदेति नास्तमायाति सुखे दुःखे मनःप्रभा . यथाप्राप्तस्थितिर्यस्य स जीवन्मुक्त उच्यते .. २२.. यो जागर्ति सुषुप्तिस्थो यस्य जाग्रन्न विद्यते . यस्य निर्वासनो बोधः स जीवन्मुक्त उच्यते .. २३.. रागद्वेषभयादीनामनुरूपं चरन्नपि . योऽन्तर्व्योमवदच्छन्नः स जीवन्मुक्त उच्यते .. २४.. यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते . कुर्वतोऽकुर्वतो वापि स जीवन्मुक्त उच्यते .. २५.. यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः . हर्षामर्षभयोन्मुक्तः स जीवन्मुक्त उच्यते .. २६.. यः समस्तार्थजालेषु व्यवहार्यपि शीतलः . परार्थेष्विव पूर्णात्मा स जीवन्मुक्त उच्यते .. २७.. प्रजहाति यदा कामान्सर्वांश्चित्तगतान्मुने . मयि सर्वात्मके तुष्टः स जीवन्मुक्त उच्यते .. २८.. चैत्यवर्जितचिन्मात्रे पदे परमपावने . अक्षुब्धचित्तो विश्रान्तः स जीवन्मुक्त उच्यते .. २९.. इदं जगदहं सोऽयं दृश्यजातमवास्तवम् . यस्य चित्ते न स्फुरति स जीवन्मुक्त उच्यते .. ३०.. सद्ब्रह्मणि स्थिरे स्फारे पूर्णे विषयवर्जिते . आचार्यशास्त्रमार्गेण प्रविश्याशु स्थिरो भव .. ३१.. शिवो गुरुः शिवो वेदः शिव देवः शिवः प्रभुः . शिवोऽस्म्यहं शिवः सर्वं शिवदन्यन्न किंचन .. ३२.. तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः . नानुध्यायाद्बहूञ्छब्दान्वाचो विग्लापनं हि तत् .. ३३.. शुको मुक्तो वामदेवोऽपि मुक्त-
स्ताभ्यां विना मुक्तिभाजो न सन्ति .
शुकमार्गं येऽनुसरन्ति धीराः
सद्यो मुक्तास्ते भवन्तीह लोके .. ३४..
वामदेवं येऽनुसरन्ति नित्यं
मृत्वा जनित्वा च पुनःपुनस्तत् .
ते वै लोके क्रममुक्ता भवन्ति
योगैः सांख्यैः कर्मभिः सत्त्वयुक्तैः .. ३५..
शुकश्च वामदेवश्च द्वे सृती देवनिर्मिते . शुकः विहङ्गमः प्रोक्तो वामदेवः पिपीलिका .. ३६.. अतद्व्यावृत्तिरूपेण साक्षाद्विधिमुखेन वा . महावाक्यविचारेण सांख्ययोगसमाधिना .. ३७.. विदित्वा स्वात्मनो रूपं संप्रज्ञातसमाधितः . शुकमार्गेण विरजाः प्रयान्ति परमं पदम् .. ३८.. यमाद्यासनजायासहठाभ्यासात्पुनःपुनः . विघ्नबाहुल्यसंजात अणिमादिवशादिह .. ३९.. अलब्ध्वापि फलं सम्यक्पुनर्भूत्वा महाकुले . पुनर्वासनयैवायं योगाभ्यासं पुनश्चरन् .. ४०.. अनेकजन्माभ्यासेन वामदेवेन वै पथा . सोऽपि मुक्तिं समाप्नोति तद्विष्णोः परमं पदम् .. ४१.. द्वाविमावपि पन्थानौ ब्रह्मप्राप्तिकरौ शिवौ . सद्योमुक्तिप्रदश्चैकः क्रममुक्तिप्रदः परः . अत्र को मोहः कः शोक एकत्वमनुपश्यतः .. ४२.. यस्यानुभवपर्यन्ता बुद्धिस्तत्त्वे प्रवर्तते . तद्दृष्टिगोचराः सर्वे मुच्यन्ते सर्वपातकैः .. ४३.. खेचरा भूचराः सर्वे ब्रह्मविद्दृष्टिगोचराः . सद्य एव विमुच्यन्ते कोटिजन्मार्जितैरघैः .. ४४.. इति.. इति चतुर्थोऽद्यायः .. ४..
अथ हैनं ऋभुं भगवन्तं निदाघः पप्रच्छ योगाभ्यासविधिमनुब्रूहीति . तथेति स होवाच . पञ्चभूतात्मको देहः पञ्चमण्डलपूरितः . काठिन्यं पृथिवीमेका पानीयं तद्द्रवाकृति .. १.. दीपनं च भवेत्तेजः प्रचारो वायुलक्षणम् . आकाशः सत्त्वतः सर्वं ज्ञातव्यं योगमिच्छता .. २.. षट्शतान्यधिकान्यत्र सहस्राण्येकविंशतिः . अहोरात्रवहिः श्वासैर्वायुमण्डलघाततः .. ३.. तत्पृथ्वीमण्डले क्षीणे वलिरायाति देहिनाम् . तद्वदापो गणापाये केशाः स्युः पाण्डुराः क्रमात् .. ४.. तेजःक्षये क्षुधा कान्तिर्नश्यते मारुतक्षये . वेपथुः संभवेन्नित्यं नाम्भसेनैव जीवति .. ५.. इत्थंभूतं क्षयान्नित्यं जीवितं भूतधारणम् . उड्ड्याणं कुरुते यस्मादविश्रान्तं महाखगः .. ६.. उड्डियाणं तदेव स्यात्तत्र बन्धोऽभिधीयते . उड्डियाणो ह्यसौ बन्धो मृत्युमातङ्गकेशरी .. ७.. तस्य मुक्तिस्तनोः कायात्तस्य बन्धो हि दुष्करः . अग्नौ तु चालिते कुक्षौ वेदना जायते भृशम् .. ८.. न कार्या क्षुधि तेनापि नापि विण्मूत्रवेगिना . हितं मितं च भोक्तव्यं स्तोकं स्तोकमनेकधा .. ९.. मृदुमध्यममन्त्रेषु क्रमान्मन्त्रं लयं हठम् . लयमन्त्रहठा योगा योगो ह्यष्टाङ्गसंयुतः .. १०.. यमश्च नियमश्चैव तथा चासनमेव च . प्राणायमस्तथा पश्चात्प्रत्याहारस्तथा परम् .. ११.. धारणा च तथा ध्यानं समधिश्चाष्टमो भवेत् . अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम् .. १२.. क्षमा धृतिर्मिताहारः शौचं चेति यमा दश . तपः सन्तोषमास्तिक्यं दानमीश्वरपूजनम् .. १३.. सिद्धान्तश्रवणं चैव ह्रीर्मतिश्च जपो व्रतम् . एते हि नियमाः प्रोक्ता दशधैव महामते .. १४.. एकादशासनानि स्युश्चक्रादि मुनिसत्तम . चक्रं पद्मासनं कूर्मं मयूरं कुक्कुटं तथा .. १५.. वीरासनं स्वस्तिकं च भद्रं सिंहासनं तथा . मुक्तासनं गोमुखं च कीर्तितं योगवित्तमैः .. १६.. सव्योरु दक्षिणे गुल्फे दक्षिणं दक्षिणेतरे . निदध्यादृजुकायस्तु चक्रासनमिदं मतम् .. १७.. पूरकः कुम्भकस्तद्वद्रेचकः पूरकः पुनः . प्राणायामः स्वनाडीभिस्तस्मान्नाडीः प्रचक्षते .. १८.. शरीरं सर्वजन्तूनां षण्णवत्यङ्गुलात्मकम् . तन्मध्ये पायुदेशात्तु द्व्यङ्गुलात्परतः परम् .. १९.. मेढ्रदेशादधस्तात्तु द्व्यङ्गुलान्मध्यमुच्यते . मेढ्रान्नताङ्गुलादूर्ध्वं नाडीनां कन्दमुच्यते .. २०.. चतुरङ्गुलमुत्सेधं चतुरङ्गुलमायतम् . अण्डाकारं परिवृतं मेदोमज्जास्थिशोणितैः .. २१.. तत्रैव नाडीचक्रं तु द्वादशारं प्रतिष्ठितम् . शरीरं ध्रियते येन वर्तते तत्र कुण्डली .. २२.. ब्रह्मरन्ध्रं सुषुम्णा या वदनेन पिधाय सा . अलम्बुसा सुषुम्णायाः कुहूर्नाडी वसत्यसौ .. २३.. अनन्तरारयुग्मे तु वारुणा च यशस्विनी . दक्षिणारे सुषुम्णायाः पिङ्गला वर्तते क्रमात् .. २४.. तदन्तरारयोः पूषा वर्तते च पयस्विनी . सुषुम्ना पश्चिमे चारे स्थिता नाडी सरस्वती .. २५.. शङ्खिनी चैव गान्धारी तदनन्तरयोः स्थिते . उत्तरे तु सुषुम्नाया इडाख्या निवसत्यसौ .. २६.. अनन्तरं हस्तिजिह्वा ततो विश्वोदरी स्थिता . प्रदक्षिणक्रमेणैव चक्रस्यारेषु नाडयः .. २७.. वर्तन्ते द्वादश ह्येता द्वादशानिलवाहकाः . पटवत्संस्थिता नाड्यो नानावर्णाः समीरिताः .. २८.. पटमध्यं तु यत्स्थानं नाभिचक्रं तदुच्यते . नादाधारा समाख्याता ज्वलन्ती नादरूपिणी .. २९.. पररन्ध्रा सुषुम्ना च चत्वारो रत्नपूरिताः . कुण्डल्या पिहितं शश्वद्ब्रह्मरन्ध्रस्य मध्यमम् .. ३०.. एवमेतासु नाडीषु धरन्ति दशवायवः . एवं नाडीगतिं वायुगतिं ज्ञात्वा विचक्षणः .. ३१.. समग्रीवशिरः कायः संवृतास्यः सुनिश्चलः . नासाग्रे चैव हृन्मध्ये बिन्दुमध्ये तुरीयकम् .. ३२.. स्रवन्तममृतं पश्येन्नेत्राभ्यां सुसमाहितः . अपानं मुकुलीकृत्य पायुमाकृष्य चोन्मुखम् .. ३३.. प्रणवेन समुत्थाप्य श्रीबीजेन निवर्तयेत् . स्वात्मानं च श्रियं ध्यायेदमृतप्लावनं तथा .. ३४.. कालवञ्चनमेतद्धि सर्वमुख्यं प्रचक्षते . मनसा चिन्तिता कार्यं मनसा येन सिध्यति .. ३५.. जलेऽग्निज्वलनाच्छाखापल्लवानि भवन्ति हि . नाधन्यं जागतं वाक्यं विपरीता भवेत्क्रिया .. ३६.. मार्गे बिन्दुं समाबध्य वह्निं प्रज्वाल्य जीवने . शोषयित्वा तु सलिलं तेन कायं दृढं भवेत् .. ३७.. गुदयोनिसमायुक्त आकुञ्चत्येककालतः . अपानमूर्ध्वगं कृत्वा समानोन्ने नियोजयेत् .. ३८.. स्वात्मानं च श्रियं ध्यायेदमृतप्लावनं ततः . बलं समारभेद्योगं मध्यमद्वारभागतः .. ३९.. भावयेदूर्ध्वगत्यर्थं प्राणापानसुयोगतः . एष योगो वरो देहे सिद्धिमार्गप्रकाशकः .. ४०.. यथैवापाङ्गतः सेतुः प्रवाहस्य निरोधकः . तथा शरीरगा च्छाया ज्ञातव्या योगिभिः सदा .. ४१.. सर्वासामेव नाडीनामेष बन्धः प्रकीर्तितः . बन्धस्यास्य प्रसादेन स्फुटीभवति देवता .. ४२.. एवं चतुष्पथो बन्धो मार्गत्रयनिरोधकः . एकं विकासयन्मार्गं येन सिद्धाः सुसङ्गताः .. ४३.. उदानमूर्ध्वगं कृत्वा प्राणेन सह वेगतः . बन्धोऽयं सर्वनाडीनामूर्ध्वं याति निरोधकः .. ४४.. अयं च संपुटो योगो मूलबन्धोऽप्ययं मतः . बन्धत्रयमनेनैव सिद्ध्यत्यभ्यासयोगतः .. ४५.. दिवारात्रमविच्छिन्नं यामेयामे यदा यदा . अनेनाभ्यासयोगेन वायुरभ्यसितो भवेत् .. ४६.. वायावभ्यसिते वह्निः प्रत्यहं वर्धते तनौ . वह्नौ विवर्धमाने तु सुखमन्नादि जीर्यते .. ४७.. अन्नस्य परिपाकेन रसवृद्धिः प्रजायते . रसे वृद्धिं गते नित्यं वर्धन्ते धातवस्तथा .. ४८.. धातूनां वर्धनेनैव प्रबोधो वर्तते तनौ . दह्यन्ते सर्वपापानि जन्मकोट्यर्जितानि च .. ४९.. गुदमेढ्रान्तरालस्थं मूलाधारं त्रिकोणकम् . शिवस्य बिन्दुरूपस्य स्थानं तद्धि प्रकाशकम् .. ५०.. यत्र कुण्डलिनी नाम परा शक्तिः प्रतिष्ठिता . यस्मादुत्पद्यते वायुर्यस्माद्वह्निः प्रवर्धते .. ५१.. यस्मादुत्पद्यते बिन्दुर्यस्मान्नादः प्रवर्धते . यस्मादुत्पद्यते हंसो यस्मादुत्पद्यते मनः .. ५२.. मूलाधारादिषट्चक्रं शक्तिस्थानमुदीरितम् . कण्ठादुपरि मूर्धान्तं शांभवं स्थानमुच्यते .. ५३.. नाडीनामाश्रयः पिण्डो नाड्यः प्राणस्य चाश्रयः . जीवस्य निलयः प्राणो जीवो हंसस्य चाश्रयः .. ५४.. हंसः शक्तेरधिष्ठानं चराचरमिदं जगत् . निर्विकल्पः प्रसन्नात्मा प्राणायां समभ्यसेत् .. ५५.. सम्यग्बन्धत्रयस्थोऽपि लक्ष्यलक्षणकारणम् . वेद्यं समुद्धरेन्नित्यं सत्यसंधानमानसः .. ५६.. रेचकं पूरकं चैव कुम्भमध्ये निरोधयेत् . दृश्यमाने परे लक्ष्ये ब्रह्मणि स्वयमाश्रितः .. ५७.. बाह्यस्थविषयं सर्वं रेचकः समुदाहृतः . पूरकं शास्त्रविज्ञानं कुम्भकं स्वगतं स्मृतम् .. ५८.. एवमभ्यासचित्तश्चेत्समुक्तो नात्र संशयः . कुम्भकेन समारोप्य कुम्भकेन पूरयेत् .. ५९.. कुम्भेन कुम्भयेत्कुम्भं तदन्तस्थः परं शिवम् . पुनरास्फालयेदद्य सुस्थिरं कण्ठमुद्रया .. ६०.. वायूनां गतिमावृत्य धृत्वा पूरककुम्भकौ . समहस्तयुगं भूमौ समं पादयुगं तथा .. ६१.. वेधकक्रमयोगेन चतुष्पीठं तु वायुना . आस्फालयेन्महामेरुं वायुवक्त्रे प्रकोटिभिः .. ६२.. पुटद्वयं समाकृष्य वायुः स्फुरति सत्वरम् . सोमसूर्याग्निसंबधाज्जानीयादमृताय वै .. ६३.. मेरुमध्यगता देवाश्चलन्ते मेरुचालनात् . आदौ संजायते क्षिप्रं वेधोऽस्य ब्रह्मग्रन्थितः .. ६४.. ब्रह्मग्रन्थिं ततो भित्त्वा विष्णुग्रन्थिं भिनत्त्यसौ . विष्णुग्रन्थिं ततो भित्त्वा रुद्रग्रन्थिं भिनत्त्यसौ .. ६५.. रुद्रग्रन्थिं ततो भित्त्वा छित्वा मोहमलं तथा . अनेकजन्मसंस्कारगुरुदेवप्रसादतः .. ६६.. योगाभ्यासात्ततो वेधो जायते तस्य योगिनः . इडापिङ्गलयोर्मध्ये सुषुम्नानाडिमण्डले .. ६७.. मुद्राबन्धविशेषेण वायुमूर्ध्वं च कारयेत् . ऱ्हस्वो दहति पापानि दीर्घो मोक्षप्रदायकः .. ६८.. आप्यायनः प्लुतो वापि त्रिविधोच्चारणेन तु . तैलधारामिवच्छिन्नं दीर्घघण्टानिनादवत् .. ६९.. अवाच्यं प्रणवस्याग्रं यस्तं वेद स वेदवित् . ऱ्हस्वं बिन्दुगतं दैर्घ्यं ब्रह्मरन्ध्रगतं प्लुतम् . द्वादशान्तगतं मन्त्रं प्रसादं मन्त्रसिद्धये .. ७० सर्वविघ्नहरश्चायं प्रणवः सर्वदोषहा . आरंभश्च घटश्चैव पुनः परिचयस्तथा .. ७१.. निष्पत्तिश्चेति कथिताश्चतस्रस्तस्य भूमिकाः . कारणत्रयसंभूतं बाह्यं कर्म परित्यजन् .. ७२.. आन्तरं कर्म कुरुते यत्रारंभः स उच्यते . वायुः पश्चिमतो वेधं कुर्वन्नापूर्य सुस्थिरम् .. ७३.. यत्र तिष्ठति सा प्रोक्ता घटाख्या भूमिका बुधैः . न सजीवो न निर्जीवः काये तिष्ठति निश्चलम् . यत्र वायुः स्थिरः खे स्यात्सेयं प्रथमभूमिका .. ७४.. यत्रात्मना सृष्टिलयौ जीवन्मुक्तिदशागतः . सहजः कुरुते योगं सेयं निष्पत्तिभूमिका .. ७५.. इति..
एतदुपनिषदं योऽधीते सोऽग्निपूतो भवति . स वायुपूतो भवति . सुरापानात्पूतो भवति . स्वर्णस्तेयात्पूतो भवति . स जीवन्मुक्तो भवति . तदेतदृचाभ्युक्तम् . तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः . दिवीव चक्षुराततम् . तद्विप्रासो विपन्यवो जागृवांसः समिन्धते . विष्णोर्यत्परमं पदमित्युपनिषत् .. इति पञ्चमोऽध्यायः .. .. ५..
ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै .. तेजस्विनावधी तमस्तु मा विद्विषावहै .. ॐ शान्तिः शान्तिः शान्तिः .. हरिः ॐ तत्सत् .. इति वराहोपनिषत्समाप्ता ..