रामरहस्य उपनिषद्
From Wikisource
.. रामरहस्योपनिषत् .. कैवल्यश्रीस्वरूपेण राजमानं महोऽव्ययम् . प्रतियोगिविनिर्मुक्तं श्रीरामपदमाश्रये .. ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः . भद्रं पश्येमाक्षभिर्यजत्राः . स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः . व्यशेम देवहितं यदायुः .. स्वस्ति न इन्द्रो वृद्धश्रवाः . स्वस्ति नः पूषा विश्ववेदाः . स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः . स्वस्ति नो बृहस्पतिर्दधातु .. ॐ शान्तिः शान्तिः शान्तिः .. ॐ रहस्यं रमतपतं वासुदेवं च मुद्गलम् . शाण्डिल्यं पैङ्गलं भिक्षुं महच्छारीरकं शिखा .. १.. सनकाद्या योगिवर्या अन्ये च ऋषयस्तथा . प्रह्लादाद्या विष्णुभक्ता हनूमन्तमथाब्रुवन् .. २.. वायुपुत्र महाबाहो किंतत्त्वं ब्रह्मवादिनाम् . पुराणेष्वष्टादशसु स्मृतिष्वष्टादशस्वपि .. ३.. चतुर्वेदेषु शास्त्रेषु विद्यास्वाध्यात्मिकेऽपि च . सर्वेषु विद्यादानेषु विघ्नसूर्येशशक्तिषु . एतेषु मध्ये किं तत्त्वं कथय त्वं महाबल .. ४.. हनूमान्होवाच .. भो योगीन्द्राश्चैव ऋषयो विष्णुभक्तास्तथैव च . श्रुणुध्वं मामकीं वाचं भवबन्धविनाशिनीम् .. ५.. एतेषु चैव सर्वेषु तत्त्वं च ब्रह्म तारकम् . राम एव परं ब्रह्म तत्त्वं श्रीरामो ब्रह्म तारकम् .. ६.. वायुप्त्रेणोक्तास्ते योगीन्द्रा ऋषयो विष्णुभक्ता हनूमन्तं पप्रच्छुः रामस्याङ्गानि नो ब्रूहीति . हनूमान्होवाच . वायुपुत्रं विघ्नेशं वाणीं दुर्गां क्षेत्रपालकं सूर्यं चन्द्रं नारायणं नारसिंहं वायुदेवं वाराहं तत्सर्वान्त्समात्रान्त्सीतं लक्ष्मणं शत्रुघ्नं भरतं विभीषणं सुग्रीवमङ्गदं जाम्बवन्तं प्रणवमेतानि रामस्याङ्गानि जानीथाः . तान्यङ्गानि विना रामो विघ्नकरो भवति . पुनर्वायुपुत्रेणोक्तास्ते हनूमन्तं पप्रच्छुः . आञ्जनेय महाबल विप्राणां गृहस्थानां प्रणवाधिकारः कथं स्यादिति . स होवाच श्रीराम एवोवाचेति . येषामेव षडक्षराधिकारो वर्तते तेषां प्रणवाधिकारः स्यान्नान्येषाम् . केवलमकारोकारमकारार्धमात्रासहितं प्रणवमूह्य यो राममन्त्रं जपति तस्य शुभकरोऽहं स्याम् . तस्य प्रणवस्थाकारस्योकारस्य मकरास्यार्धमात्रायाश्च ऋषिश्छन्दो देवता तत्तद्वर्णावर्णावस्थानं स्वरवेदाग्निगुणानुच्चार्यान्वहं प्रणवमन्त्रद्द्विगुणं जप्त्वा पश्चाद्राममन्त्रं यो जपेत् स रामो भवतीति रामेणोक्तास्तस्माद्रामाङ्गं प्रणवः कथित इति .. विभीषण उवाच .. सिंहासने समासीनं रामं पौलस्त्यसूदनम् . प्रणम्य दण्डवद्भूमौ पौलस्त्यो वाक्यमब्रवीत् . . ७.. रघुनाथ महाबाहो केवलं कथितं त्वया . अङ्गानां सुलभं चैव कथनीयं च सौलभम् .. ८.. श्रीराम उवाच . अथ पञ्च दण्डकानि पितृघ्नो मातृघ्नो ब्रह्मघ्नो गुरुहननः कोटियतिघ्नोऽनेककृतपापो यो मम षण्णवतिकोटिनामानि जपति स तेभ्यः पापेभ्यः प्रमुच्यते . स्वयमेव सच्चिदानन्दस्वरूपो भवेन्न किम् . पुनरुवाच विभीषणः . तत्राप्य शक्तोऽयं किं करोति . स होवाचेमम् . कैकसेय पुरश्चरणविधावशक्तो यो मम महोपनिषदं मम गीतां मन्नामसहस्रं मद्विश्वरूपं ममाष्टोत्तरशतं रामशताभिधानं नारदोक्तस्तवराजं हनूमत्प्रोक्तं मन्त्रराजात्मकस्तवं सीतास्तवं च रामषडक्षरीत्यादिभिर्मन्त्रैर्यो मां नित्यं स्तौति तत्सदृशो भवेन्न किं भवेन्न किम् .. इति प्रथमोऽध्यायः .. १.. सनकाद्या मुनयो हनूमन्तं पप्रच्छुः . आञ्जनेय महाबल तारकब्रह्मणो रामचन्द्रस्य मन्त्रग्रामं नो ब्रूहीति . हनूमान्होवाच . वह्निस्थं शयनं विष्णोरर्धचन्द्रविभूषितम् . एकाक्षरो मनुः प्रोक्तो मन्त्रराजः सुरद्रुमः .. १.. ब्रह्मा मुनिः स्याद्गायत्रं छन्दो रामस्य देवता . दीर्घार्धेन्दुयुजाङ्गानि कुर्याद्वह्न्यात्मनो मनोः .. २.. बीजशक्त्यादि बीजेन इष्टार्थे विनियोजयेत् . सरयूतीरमन्दारवेदिकापञ्कजासने .. ३.. श्यामं विरासनासीनं ज्ञानमुद्रोपशोभितम् . वामोरुन्यस्ततद्धस्तं सीतालक्ष्मणसंयुतम् .. ४.. अवेक्षमाणमात्मानमात्मन्यमिततेजसम् . शुद्धस्फटिकसंकाशं केवलं मोक्षकाङ्क्षया .. ५.. चिन्तयन्परमात्मानं भानुलक्षं जपेन्मनुम् . वह्निर्नारायणो नाड्यो जाठरः केवलोऽपि च .. ६.. द्व्यक्षरो मन्त्रराजोऽयं सर्वाभीष्टप्रदस्ततः . एकाक्षरोक्तमृष्यादि स्यादाद्येन षडङ्गकम् .. ७.. तारमायारमानङ्गवाक्स्वबीजैश्च षड्विधः , त्र्यक्षरो मन्त्रराजः स्यात्सर्वाभीष्टफलप्रदः .. ८.. द्व्यक्षरश्चन्द्रभद्रान्तो द्विविधश्चतुरक्षरः . ऋष्यादि पूर्ववज्ज्ञेयमेतयोश्च विचक्षणैः .. ९.. सप्रतिष्ठौ रमौ वायौ हृत्पञ्चार्णो मनुर्मतः . विश्वामित्रऋषिः प्रोक्तः पङ्क्तिश्छन्दोऽस्य देवता ..१०.. रामभद्रो बीजशक्तिः प्रथमार्णमिति क्रमात् . भ्रूमध्ये हृदि नाभ्यूर्वोः पादयोर्विन्यसेन्मनुम् .. ११.. षडङ्गं पूर्ववद्विद्यान्मन्त्रार्णैर्मनुनास्त्रकम् . मध्ये वनं कल्पतरोर्मूले पुष्पलतासने .. १२.. लक्ष्मणेन प्रगुणितमक्ष्णः कोणेन सायकम् . अवेक्षमाणं जानक्या कृतव्यजनमीश्वरम् .. १३.. जटाभारलसच्छीर्षं श्यामं मुनिगणावृतम् . लक्ष्मणेन धृतच्छत्रमथवा पुष्पकोपरि .. १४.. दशाअस्यमथनं शान्तं ससुग्रीवविभीषणम् . एवं लब्ध्वा जयार्थी तु वर्णलक्षं जपेन्मनुम् .. १५.. स्वकामशक्तिवाग्लक्ष्मीस्तवाद्याः पञ्चवर्णकाः . षडक्षरः षड्विधः स्याच्चतुर्वर्गफलप्रदः .. १६.. पञ्चाशन्मातृकामन्त्रवर्णप्रत्येकपूर्वकम् . लक्ष्मीवाङ्मन्मथादिश्च तारादिः स्यादनेकधा .. १७.. श्रीमायामन्मथैकैक बीजाद्यन्तर्गतो मनुः . चतुर्वर्णः स एव स्यात्षड्वर्णो वाञ्छितप्रदः .. १८.. स्वाहान्तो हुंफडन्तो वा नत्यन्तो वा भवेदयम् . अष्टाविंशत्युत्तरशतभेदः षड्वर्ण ईरितः .. १९.. ब्रह्मा संमोहनः शक्तिर्दक्षिणामूर्तिरेव च . अगस्त्यश्च शिवः प्रोक्ता मुनयोऽक्रमादिमे .. २०.. छन्दो गायत्रसंज्ञं च श्रीरामश्चैव देवता . अथवा कामबीजादेर्विश्वामित्रो मुनिर्मनोः .. २१.. छन्दो देव्यादिगायत्री रामभद्रोऽस्य देवता . बीजशक्ती यथापूर्वं षड्वर्णान्विन्यसेत्क्रमात् .. २२.. ब्रह्मरन्ध्रे भ्रुवोर्मध्ये हृन्नाभ्यूरुषु पादयोः . बीजैः षड्दीर्घयुक्तैर्वा मन्त्रार्णैवा षडङ्गकम् .. २३.. कालाभोधरकान्तिकान्तमनिशं वीरासनाध्यासितं
मुद्रां ज्ञानमयीं दधानमपरं हस्तांबुजं जानुनि .
सीतां पार्श्वगतां सरोरुहकरां विद्युन्निभां राघवं
पश्यन्तं मुकुटाङ्गदादिविविधाकल्पोज्ज्वलाङ्गं भजे .. २४..
श्रीरामश्चन्द्रभद्रान्तो ङेन्तो नतियुतो द्विधा . सप्ताक्षरो मन्त्रराजः सर्वकामफलप्रदः .. २५.. तारादिसहितः सोऽपि द्विविधोऽष्टाक्षरो मतः . तारं रामश्चतुर्थ्यतः क्रोडास्त्रं वह्नितल्पगा .. २६.. अष्टार्णोऽयं परो मन्त्रो ऋष्यादिः स्यात्षडर्णवत् . पुनरष्टाक्षरस्याथ राम एव ऋषिः स्मृतः .. २७.. गायत्रं छन्द इत्यस्य देवता राम एव च . तारं श्रीबीजयुग्मं च बीजशक्त्यादयो मताः .. २८.. षडङ्गं च ततः कुर्यान्मन्त्रार्णैरेव बुद्धिमान् . तारं श्रीबीजयुग्मं च रामाय नम उच्चरेत् .. २९.. ग्लौंमों बीजं वदेन्मायां हृद्रामाय पुनश्च ताम् . शिवोमाराममन्त्रोऽयं वस्वर्णस्तु वसुप्रदः .. ३०.. ऋषिः सदाशिवः प्रोक्तो गायत्रं छन्द उच्यते . शिवोमारामचन्द्रोऽत्र देवता परिकीर्तितः .. ३१.. दीर्घया माययाङ्गानि तारपञ्चार्णयुक्तया . रामं त्रिनेत्रं सोमार्धधारिणं शूलिनं परम् . भस्मोद्धूलितसर्वाङ्गं कपर्दिनमुपास्महे .. ३२.. रामाभिरामां सौन्दर्यसीमां सोमावतंसिकाम् . पाशाङ्कुशधनुर्बाणधरां ध्यायेत्त्रिलोचनाम् .. ३३.. ध्यायन्नेवं वर्णलक्षं जपतर्पणतत्परः . बिल्वपत्रैः फलैः पुष्पैस्तिलाज्यैः पङ्कजैर्हुनेत् .. ३४.. स्वयमायान्ति निधयः सिद्धयश्च सुरेप्सिताः . पुनरष्टाक्षरस्याथ ब्रह्मगायत्र राघवाः .. ३५.. ऋष्यादयस्तु विज्ञेयाः श्रीबीजं मम शक्तिकम् . तत्प्रीत्यै विनियोगश्च मन्त्रार्णैरङ्गकल्पना .. ३६.. केयूराङ्गदकङ्कणैर्मणिगतैर्विद्योतमानं सदा
रामं पार्वणचन्द्रकोटिसदृशच्छत्रेण वै राजितम् .
हेमस्तम्भसहस्रषोडशयुते मध्ये महामण्डपे
देवेशं भरतादिभिः परिवृतं रामं भजे श्यामलम् .. ३७..
किं मन्त्रैर्बहुभिर्विनश्वरफलैरायाससाध्यैर्वृता
किंचिल्लोभवितानमात्रविफलैः संसारदुःखावहैः .
एकः सन्नपि सर्वमन्त्रफलदो लोभादिदोषोज्झितः
श्रीरामः शरणं ममेति सततं मन्त्रोऽयमष्टाक्षरः .. ३८..
एवमष्टाक्षरः सम्यक् सप्तधा परिकीर्तितः . रामसप्ताक्षरो मन्त्र आद्यन्ते तारसंयुतः .. ३९.. नवार्णो मन्त्रराजः स्याच्छेषं षड्वर्णवन्न्यसेत् . जानकीवल्लभं ङेन्तं वह्नेर्जायाहुमादिकम् .. ४०.. दशाक्षरोऽयं मन्त्रः स्यात्सर्वाभीष्टफलप्रदः . दशाक्षरस्य मन्त्रस्य वसिष्ठोऽस्य ऋषिर्विराट् .. ४१.. छन्दोऽस्य देवता रामः सीतापाणिपरिग्रहः . आद्यो बीजं द्विठः शक्तिः कामेनाङ्गक्रिया मता .. ४२.. शिरोललाटभ्रूमध्ये तालुकर्णेषु हृद्यपि . नाभूरुजानुपादेषु दशार्णान्विन्यसेन्मनोः .. ४३.. अयोध्यानगरे रत्नचित्रे सौवर्णमण्डपे . मन्दारपुष्पैराबद्धविताने तोरणाञ्चिते .. ४४.. सिंहासने समासीनं पुष्पकोपरि राघवम् . रक्षोभिर्हरिभिर्देवैर्दिव्ययानगतैः शुभैः .. ४५.. संस्तूयमानं मुनिभिः प्रह्वैश्च परिसेवितम् . सीतालङ्कृतवामाङ्गं लक्ष्मणेनोपसेवितम् ..४६.. श्यामं प्रसन्नवदनं सर्वाभरणभूषितम् . ध्यायन्नेवं जपेन्मन्त्रं वर्णलक्षमनन्यधीः .. ४७.. रामं ङेन्तं धनुष्पाणयेऽन्तः स्याद्वह्निसुन्दरी . दशाक्षरोऽयं मन्त्रः स्यान्मुनिर्ब्रह्मा विराट् स्मृतः .. ४८.. छन्दस्तु देवता प्रोक्तो रामो राक्षसमर्दनः . शेषं तु पूर्ववत्कुर्याच्चापबाणधरं स्मरेत् .. ४९.. तारमायारमानङ्गवाक्स्वबीजैश्च षड्विधः . दशार्णो मन्त्रराजः स्याद्रुद्रवर्णात्मको मनुः .. ५०.. शेषं षडर्णवज्ज्ञेयं न्यासध्यानादिकं बुधैः . द्वादशाक्षरमन्त्रस्य श्रीराम ऋषिरुच्यते .. ५१.. जगती छन्द इत्युक्तं श्रीरामो देवता मतः . प्रणवो बीजमित्युक्तः क्लीं शक्तिर्ह्रीं च कीलकम् .. ५२.. मन्त्रेणाङ्गानि विन्यस्य शिष्टं पूर्ववदाचरेत् . तारं मायां समुच्चार्य भरताग्रज इत्यपि .. ५३.. रामं क्लीं वह्निजायान्तं मन्त्रोयं द्वादशाक्षरः . ॐ हृद्भगवते रामचन्द्रभद्रौ च ङेयुतौ .. ५४.. अर्कार्णो द्विविधोऽप्यस्य ऋषिध्यानादिपूर्ववत् . छन्दस्तु जगती चैव मन्त्रार्णैरङ्गकल्पना .. ५५.. श्रीरामेति पदं चोक्त्वा जयराम ततः परम् . जयद्वयं वदेत्प्राज्ञो रामेति मनुराजकः .. ५६.. त्रयोदशार्ण ऋष्यादि पूर्ववत्सर्वकामदः . पदद्वयद्विरावृत्तेरङ्गं ध्यानं दशार्णवत् .. ५७.. तारादिसहितः सोऽपि स चतुर्दशवर्णकः . त्रयोदशार्णमुच्चार्य पश्चाद्रामेति योजयेत् .. ५८.. स वै पञ्चदशार्णस्तु जपतां कल्पभूरुहः . नमश्च सीतापतये रामायेति हनद्वयम् .. ५९.. ततस्तु कवचास्त्रान्तः षोडशाक्षर ईरितः . तस्यागस्त्यऋषिश्छन्दो बृहती देवता च सः .. ६०.. रां बीजं शक्तिरस्त्रं च कीलकं हुमितीरितम् . द्विपञ्चत्रिचतुर्वर्णैः सर्वैरङ्गं न्यसेत्क्रमात् .. ६१.. तारादिसहितः सोऽपि मन्त्रः सप्तदशाक्षरः . तारं नमो भगवते रां ङेन्तं महा ततः .. ६२.. पुरुषाय पदं पश्चाद्धृदन्तोऽष्टदशाक्षरः . विश्वामित्रो मुनिश्छन्दो गायत्रं देवता च सः .. ६३.. कामादिसहितः सोऽपि मन्त्र एकोनविंशकः . तारं नामो भगवते रामायेति पदं वदेत् .. ६४.. सर्वशब्दं समुच्चार्य सौभाग्यं देहि मे वदेत् . वह्निजायां तथोच्चार्य मन्त्रो विंशार्णको मतः .. ६५.. तारं नमो भगवते रामाय सकलं वदेत् . आपन्निवारणायेति वह्निजायां ततो वदेत् .. ६६.. एकविंशार्णको मन्त्रः सर्वाभीष्टफलप्रदः . तारं रमा स्वबीजं च ततो दाशरथाय च .. ६७.. ततः सीतावल्लभाय सर्वाभीष्टपदं वदेत् . ततो दाय हृदन्तोऽयं मन्त्रो द्वाविंशदक्षरः .. ६८.. तारं नमो भगवते वीररामाय संवदेत् . कल शत्रून् हन द्वन्द्वं वह्निजायां ततो वदेत् .. ६९.. त्रयोविंशाक्षरोमन्त्रः सर्वशत्रुनिबर्हणः . विश्वामित्रो मुनिः प्रोक्तो गायत्रीछन्द उच्यते .. ७०.. देवता वीररामोऽसौ बीजाद्याः पूर्ववन्मताः . मूलमन्त्रविभागेन न्यासान्कृत्वा विचक्षणः .. ७१.. शरं धनुषि सन्धाय तिष्ठन्तं रावणोन्मुखम् . वज्रपाणिं रथारूढं रामं ध्यात्वा जपेन्मनुम् .. ७२.. तारं नमो भगवते श्रीरामाय पदं वदेत् . तारकब्रह्मणे चोक्त्वा मां तारय पदं वदेत् .. ७३.. नमस्तारात्मको मन्त्रश्चतुर्विंशतिमन्त्रकः . बीजादिकं यथा पूर्वं सर्वं कुर्यात्षडर्णवत् .. ७४.. कामस्तारो नतिश्चैव ततो भगवतेपदम् . रामचन्द्राय चोच्चार्य सकलेति पदं वदेत् .. ७५.. जनवश्यकरायेति स्वाहा कामात्मको मनुः . सर्ववश्यकरो मन्त्रः पञ्चविंशतिवर्णकः .. ७६.. आदौ तारेण संयुक्तो मन्त्रः षड्विंशदक्षरः . अन्तेऽपि तारसंयुक्तः सप्तविंशतिवर्णकः .. ७७.. तारं नमो भगवते रक्षोघ्नविशदाय च . सर्वविघ्नान्त्समुच्चार्य निवारय पदद्वयम् .. ७८.. स्वाहान्तो मन्त्रराजोऽयमष्टाविंशतिवर्णकः . अन्ते तारेण संयुक्त एकोनत्रिंशदक्षरः .. ७९.. आदौ स्वबीजसंयुक्तस्त्रिंशद्वर्णात्मको मनुः . अन्तेऽपि तेन संयुक्त एकत्रिंशात्मकः स्मृतः .. ८०.. रामभद्र महेश्वास रघुवीर नृपोत्तम . भो दशास्यान्तकास्माकं श्रियं दापय देहि मे .. ८१.. आनुष्टुभ ऋषी रामश्छन्दोऽनुष्टुप्स देवता . रां बीजमस्य यं शक्तिरिष्टार्थे विनियोजयेत् .. ८२.. पादं हृदि च विन्यस्य पादं शिरसि विन्यसेत् . शिखायां पञ्चभिर्न्यस्य त्रिवर्णैः कवचं न्यसेत् .. ८३.. नेत्रयोः पञ्चवर्णैश्च दापयेत्यस्त्रमुच्यते . चापबाणधरं श्यामं ससुग्रीवबिभीषणम् .. ८४.. हत्वा रावणमायान्तं कृतत्रैलोक्यरक्षणम् . रामचन्द्रं हृदि ध्यात्वा दशलक्षं जपेन्मनुम् .. ८५.. वदेद्दाशरथायेति विद्महेति पदं ततः . सीतापदं समुद्धृत्य वल्लभाय ततो वदेत् .. ८६.. धीमहीति वदेत्तन्नो रामश्चापि प्रचोदयात् तारादिरेषा गायत्री मुक्तिमेव प्रयच्छति .. ८७.. मायादिरपि वैदुष्ट्यं रामादिश्च श्रियःपदम् . मदनेनापि संयुक्तः स मोहयति मेदिनीम् .. ८८.. पञ्च त्रीणि षडर्णैश्च त्रीणि चत्वारि वर्णकैः . चत्वारि च चतुर्वर्णैरङ्गन्यासं प्रकल्पयेत् .. ८९.. बीजध्यानादिकं सर्वं कुर्यात्षड्वर्णवत्क्रमात् . तारं नमो भगवते चतुर्थ्या रघुनन्दनम् .. ९०.. रक्षोघ्नविशदं तद्वन्मधुरेति वदेत्ततः . प्रसन्नवदनं ङेन्तं वदेदमिततेजसे .. ९१.. बलरामौ चतुर्थ्यन्तौ विष्णुं ङेन्तं नतिस्ततः . प्रोक्तो मालामनुः सप्तचत्वारिंशद्भिरक्षरैः .. ९२.. ऋषिश्छन्दो देवतादि ब्रह्मानुष्टुभराघवाः . सप्तर्तुसप्तदश षड्रुद्रसंख्यैः षडङ्गकम् .. ९३.. ध्यानं दशाक्षरं प्रोक्तं लक्षमेकं जपेन्मनुम् . श्रियं सीतां चतुर्थ्यन्तां स्वाहान्तोऽयं षडक्षरः .. ९४.. जनकोऽस्य ऋषिश्छन्दो गायत्री देवता मनोः . सीता भगवती प्रोक्ता श्रीं बीजं नतिशक्तिकम् .. ९५.. कीलं सीता चतुर्थ्यन्तमिष्टार्थे विनियोजयेत् . दीर्घस्वरयुताद्येन षडङ्गानि प्रकल्पयेत् .. ९६.. स्वर्णाभामम्बुजकरां रामालोकनतत्पराम् . ध्यायेत्षट्कोणमध्यस्थरामाङ्कोपरि शोभिताम् .. ९७.. लकारं तु समुद्धृत्य लक्ष्मणाय नमोन्तकः . अगस्त्यऋषिरस्याथ गायत्रं छन्द उच्यते .. ९८.. लक्ष्मणो देवता प्रोक्तो लं बीजं शक्तिरस्य हि . नमस्तु विनियोगो हि पुरुषार्थ चतुष्टये .. ९९.. दीर्घभाजा स्वबीजेन षडङ्गानि प्रकल्पयेत् . द्विभुजं स्वर्णरुचिरतनुं पद्मनिभेक्षणम् .. १००.. धनुर्बाणधरं देवं रामाराधनतत्परम् . भकारं तु समुद्धृत्य भरताय नमोन्तकः .. १०१.. अगस्त्यऋषिरस्याथ शेषं पूर्ववदाचरेत् . भरतं श्यामलं शान्तं रामसेवापरायणम् .. १०२.. धनुर्बाणधरं वीरं कैकेयीतनयं भजे . शं बीजं तु समुद्धृत्य शत्रुघ्नाय नमोन्तकः . ऋष्यादयो यथापूर्वं विनियोगोऽरिनिग्रहे .. १०३.. द्विभुजं स्वर्णवर्णाभं रामसेवापरायणम् . लवणासुरहन्तारं सुमित्रातनयं भजे .. १०४.. हृं हनुमांश्चतुर्थ्यन्तं हृदन्तो मन्त्रराजकः . रामचन्द्र ऋषिः प्रोक्तो योजयेत्पूर्ववत्क्रमात् .. १०५.. द्विभुजं स्वर्णवर्णाभं रामसेवापरायणम् . मौञ्जीकौपीनसहितं मां ध्यायेद्रामसेवकम् .. इति.. १०६.. इति रमरहस्योपनिषदि द्वितीयोऽध्यायः .. २.. सनकाद्या मुनयो हनूमन्तं पप्रच्छुः . आञ्जनेय महाबल पूर्वोक्तमन्त्राणां पूजापीठमनुब्रूहीति . हनुमान् होवाच . आदौ षट्कोणम् . तन्मध्ये रामबीजं सश्रीकम् . तदधोभागे द्वितीयान्तं साध्यम् . बीजोर्ध्वभागे षष्ठ्यन्तं साधकम् . पार्श्वे दृष्टिबीजे तत्परितो जीवप्राणशक्तिवश्यबीजानि . तत्सर्वं सन्मुखोन्मुखाभ्यां प्रणवाभ्यां वेष्टनम् . अग्नीशासुरवायव्यपुरःपृष्ठेषु षट्कोणेषु दीर्घभाञ्जि . हृदयादिमन्त्राः क्रमेण . रां रीं रूं रैं रौं रः इति दीर्घभाजि तद्युक्तहृदयाद्यस्त्रान्तम् . षट्कोणपार्श्वे रमामायाबीजे . कोणाग्रे वाराहं हुमिति . तद्बीजान्तराले कामबीजम् . परितो वाग्भवम् . ततो वृत्तत्रयं साष्टपत्रम् . तेषु दलेषु स्वरानष्टवर्गान्प्रतिदलं मालामनुवर्णषट्कम् . अन्ते पञ्चाक्षरम् . तद्दलकपोलेष्वष्टवर्णान् . पुनरष्टदलपद्मम् . तेषु दलेषु नारायणाष्टाक्षरो मन्त्रः . तद्दलकपोलेषु श्रीबीजम् . ततो वृत्तम् . ततो द्वादशदलम् . तेषु दलेषु वासुदेवद्वादशाक्षरो मन्त्रः . तद्दलकपोलेष्वादिक्षान्तान् . ततो वृत्तम् . ततः षोडशदलम् . तेषु दलेषु हुं फट् नतिसहितरामद्वादशाक्षरम् . तद्दलकपोलेषु मायाबीजम् . सर्वत्र प्रतिकपोलं द्विरावृत्त्या ह्रं स्रं भ्रं ब्रं भ्रमं श्रुं ज्रम् . ततो वृत्तम् . ततो द्वात्रिंशद्दलपद्मम् . तेषु दलेषु नृसिंहमन्त्रराजानुष्टुभमन्रः . तद्दलकपोलेश्वष्टव- स्वेकादशरुद्रद्वादशादित्यमन्त्राः प्रणवादिनमोन्ता- श्चतुर्थ्यन्ताः क्रमेण . तद्बहिर्वषट्कारं परितः . ततो रेखात्रययुक्तं भूपुरम् . द्वादशदिक्षु राश्यादिभूषितम् . अष्टनागैरधिष्ठितम् . चतुर्दिक्षु नारसिंहबीजम् . विदिक्षु वाराहबीजम् . एतत्सर्वात्मकं यन्त्रं सर्वकामप्रदं मोक्षप्रदं च . एकाक्षरादिनवाक्षरान्तानामेतद्यन्त्रं भवति . तद्दशावरणात्मकं भवति . षट्कोणमध्ये साङ्गं राघवं यजेत् . षट्कोणेष्वङ्गैः प्रथमा वृतिः . अष्टदलमूले आत्माद्यावरणम् . तदग्रे वासुदेवाद्यावरणम् . द्वितीयाष्टदलमूले घृष्टाद्यावरणम् . तदग्रे हनूमदाद्यावरणम् . द्वादशदलेषु वसिष्ठाद्यावरणम् . षोडशदलेशु नीलाद्यावरणम् . द्वात्रिंशद्दलेषु ध्रुवाद्यावरणम् . भूपुरान्तरिन्द्राद्यावरणम् . तद्बहिर्वज्राद्यावरणम् . एवमभ्यर्च्य मनुं जपेत् .. अथ दशाक्षरादिद्वात्रिंशदक्षरान्तानां मन्त्राणां पूजापीठमुच्यते . आदौ षट्कोणम् . तन्मध्ये स्वबीजम् . तन्मध्ये साध्यनामानि . एवं कामबीजवेष्टनम् . तं शिष्टेन नवार्णेन वेष्टनम् . षट्कोणेषु षडङ्गान्यग्नीशासुरवायव्यपूर्वपृष्ठेषु . तत्कपोलेषु श्रीमाये . कोणाग्रे क्रोधम् . ततो वृत्तम् . ततोऽष्टदलम् . तेषु दलेषु षट्संख्यया मालामनुवर्णान् . तद्दलकपोलेषु षोडश स्वराः . ततो वृत्तम् . तत्परित आदिक्षान्तम् . तद्बहिर्भूपुरम् साष्टशूलाग्रम् . दिक्षु विदिक्षु नारसिंहवाराहे . एतन्महायन्त्रम् . आधारशक्त्यादिवैष्णवपीठम् . अङ्गैः प्रथमा वृतिः . मध्ये रामम् . वामभागे सीताम् . तत्पुरतः शार्ङ्गं शरं च . अष्टदलमूले हनुमदादिद्वितीयावरणम् . घृष्ट्यादितृतीयावरणम् . इन्द्रादिभिश्चतुर्थी . वज्रादिभिः पञ्चमी . एतद्यन्त्राराधन- पूर्वकं दशाक्षरादिमन्त्रं जपेत् . .. इति रामरहस्योपनिषदि तृतीयोऽध्यायः .. ३.. सनकाद्या मुनयो हनूमन्तं पप्रच्छुः . श्रीराममन्त्राणां पुरश्चरणविधिमनुब्रूहीति . हनूमान्होवाच . नित्यं त्रिषवणस्नायी पयोमूलफलादिभुक् . अथवा पायसाहारो हविष्यान्नाद एव वा .. १.. षड्सैश्च परित्यक्तः स्वाश्रमोक्तविधिं चरन् . वनितादिषु वाक्कर्ममनोभिर्निःस्पृहः शुचिः .. २.. भूमिशायी ब्रह्मचारी निष्कामो गुरुभक्तिमान् . स्नानपूजाजपध्यानहोमतर्पणतत्परः .. ३.. गुरूपदिष्टमार्गेण ध्यायन्राममनन्यधीः . सूर्येन्दुगुरुदीपादिगोब्राह्मणसमीपतः .. ४.. श्रीरामसन्निधौ मौनी मन्त्रार्थमनुचिन्तयन् . व्याघ्रचर्मासने स्थित्वा स्वस्तिकाद्यासनक्रमात् .. ५.. तुलसीपारिजातश्रीवृक्षमूलादिकस्थले . पद्माक्षतुलसीकाष्ठरुद्राक्षकृतमालया .. ६.. मातृकामालया मन्त्री मनसैव मनुं जपेत् . अभ्यर्च्य वैष्णवे पीठे जपेदक्षरलक्षकम् .. ७.. तर्पयेत्तद्दशांशेन पायसात्तद्दशांशतः . जुहुयाद्गोघृतेनैव भोजयेत्तद्दशांशतः .. ८.. ततः पुष्पाञ्जलिं मूलमन्त्रेण विधिवच्चरेत् . ततः सिद्धमनुर्भूत्वा जीवन्मुक्तो भवेन्मुनिः .. ९.. अणिमादिर्भजत्येनं यूनं वरवधूरिव . ऐहिकेषु च कार्येषु महापत्सु च सर्वदा .. १०.. नैव योज्यो राममन्त्रः केवलं मोक्षसाधकः . ऐहिके समनुप्राप्ते मां स्मरेद्रामसेवकम् .. ११.. यो रामं संस्मरेन्नित्यं भक्त्या मनुपरायणः . तस्याहमिष्टसंसिद्ध्यै दीक्षितोऽस्मि मुनीश्वराः .. १२.. वाञ्छितार्थं प्रदास्यामि भक्तानां राघवस्य तु . सर्वथा जागरूकोऽस्मि रामकार्यधुरन्धरः .. १३.. इति रामरहस्योपनिषदि चतुर्थोऽध्यायः .. ४.. सनकाद्या मुनयो हनूमन्तं पप्रच्छुः . श्रीराममन्त्रार्थमनुब्रूहीति . हनूमान्होवाच . सर्वेषु राममन्त्रेषु मन्त्रराजः षडक्षरः . एकधाय द्विधा त्रेधा चतुर्धा पञ्चधा तथा .. १.. षट्सप्तधाष्टधा चैव बहुधायं व्यवस्थितः . षडक्षरस्य माहात्म्यं शिवो जानाति तत्त्वतः .. २.. श्रीराममन्त्रराजस्य सम्यगर्थोऽयमुच्यते . नारायणाष्टाक्षरे च शिवपञ्चाक्षरे तथा . सार्थकार्णद्वयं रामो रमन्ते यत्र योगिनः . रकारो वह्निवचनः प्रकाशः पर्यवस्यति .. ३.. सच्चिदानन्दरूपोऽस्य परमात्मार्थ उच्यते . व्यञ्जनं निष्कलं ब्रह्म प्राणो मायेति च स्वरः .. ४.. व्यञ्जनैः स्वरसंयोगं विद्धि तत्प्राणयोजनम् . रेफो ज्योतिर्मये तस्मात्कृतमाकरयोजनम् .. ५.. मकारोऽभ्युदयार्थत्वात्स मायेति च कीर्त्यते . सोऽयं बीजं स्वकं यस्मात्समायं ब्रह्म चोच्यते .. ६.. सबिन्दुः सोऽपि पुरुषः शिवसूर्येन्दुरूपवान् . ज्योतिस्तस्य शिखा रूपं नादः सप्रकृतिर्मतः .. ७.. प्रकृतिः पुरुषश्चोभौ समायाद्ब्रह्मणः स्मृतौ . बिन्दुनादात्मकं बीजं वह्निसोमकलात्मकम् .. ८.. अग्नीषोमात्मकं रूपं रामबीजे प्रतिष्ठितम् . यथैव वटबीजस्थः प्राकृतश्च महाद्रुमः .. ९.. तथैव रामबीजस्थं जगदेतच्चराचरम् . बीजोक्तमुभयार्थत्वं रामनामनि दृश्यते .. १०.. बीजं मायाविनिर्मुक्तं परं ब्रह्मेति कीर्त्यते . मुक्तिदं साधकानां च मकारो मुक्तिदो मतः .. ११.. मारूपत्वादतो रामो भुक्तिमुक्तिफलप्रदः . आद्यो र तत्पदार्थः स्यान्मकरस्त्वंपदार्थवान् .. १२.. तयोः संयोजनमसीत्यर्थे तत्त्वविदो विदुः . नमस्त्वमर्थो विज्ञेयो रामस्तत्पदमुच्यते .. १३.. असीत्यर्थे चतुर्थी स्यादेवं मन्त्रेषु योजयेत् . तत्त्वमस्यादिवाक्यं तु केवलं मुक्तिदं यतः .. १४.. भुक्तिमुक्तिप्रदं चैतत्तस्मादप्यतिरिच्यते . मनुष्वेतेषु सर्वेषामधिकारोऽस्ति देहिनाम् .. १५.. मुमुक्षूणां विरक्तानां तथा चाश्रमवासिनाम् . प्रणवत्वात्सदा ध्येयो यतीनां च विशेषतः . राममन्त्रार्थविज्ञानी जीवन्मुक्तो न संशयः .. १६.. य इमामुपनिषदमधीते सोऽग्निपूतो भवति . स वायुपूतो भवति . सुरापानात्पूतो भवति . स्वर्णस्तेयात्पूतो भवति . ब्रह्महत्यापूतो भवति . स राममन्त्राणां कृतपुरश्चरणो रामचन्द्रो भवति . तदेतदृचाभ्युक्तम् . सदा रामोऽहमस्मीति तत्त्वतः प्रवदन्ति ये . न ते संसारिणो नूनं राम एव न संशयः .. ॐ सत्यमित्युपनिषत् .. ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः . स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः .. ॐ शान्तिः शान्तिः शान्तिः .. इति श्रीरमरहस्योपनिषत्समाप्ता ..