रामतापणि उपनिषद्

From Wikisource

Jump to: navigation, search

.. रामतापिन्युपनिषत् .. श्रीरामतापनीयार्थं भक्तध्येयकलेवरम् . विकलेवरकैवल्यं श्रीरामब्रह्म मे गतिः .. ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः . स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः .. स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः . स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु .. ॐ शान्तिः शान्तिः शान्तिः .. ॐ चिन्मयेऽस्मिन्महाविष्णौ जाते दशरथे हरौ . रघोः कुलेऽखिलं राति राजते यो महीस्थितः .. १.. स राम इति लोकेषु विद्वद्भिः प्रकटीकृतः . राक्षसा येन मरणं यान्ति स्वोद्रेकतोऽथवा .. २.. रामनाम भुवि ख्यातमभिरामेण वा पुनः . राक्षसान्मर्त्यरूपेण राहुर्मनसिजं यथा .. ३.. प्रभाहीनांस्तथा कृत्वा राज्यार्हाणां महीभृताम् . धर्ममार्गं चरित्रेण ज्ञानमार्गं च नामतः .. ४.. तथा ध्यानेन वैराग्यमैश्वर्यं स्वस्य पूजनात् . तथा रात्यस्य रामाख्या भुवि स्यादथ तत्त्वतः .. ५.. रमन्ते योगिनोऽनन्ते नित्यानन्दे चिदात्मनि . इति रामपदेनासौ परं ब्रह्माभिधीयते .. ६.. चिन्मयस्याद्वितीयस्य निष्कलस्याशरीरिणः . उपासकानां कार्यार्थं ब्रह्मणो रूपकल्पना .. ७.. रूपस्थानां देवतानां पुंस्त्र्यङ्गास्त्रादिकल्पना . द्वित्तत्वारिषडष्टानां दश द्वादश षोडश .. ८.. अष्टादशामी कथिता हस्ताः शङ्खादिभिर्युताः . सहस्रान्तास्तथा तासां वर्णवाहनकल्पना .. ९.. शक्तिसेनाकल्पना च ब्रह्मण्येवं हि पञ्चधा . कल्पितस्य शरीरस्य तस्य सेनादिकल्पना .. १०.. ब्रह्मादीनां वाचकोऽयं मन्त्रोऽन्वर्थादिसंज्ञकः . जप्तव्यो मन्त्रिणा नैवं विना देवः प्रसीदति .. ११.. क्रियाकर्मेज्यकर्तॄणामर्थं मन्त्रो वदत्यथ . मननान्त्राणनान्मन्त्रः सर्ववाच्यस्य वाचकः .. १२.. सोऽभयस्यास्य देवस्य विग्रहो यन्त्रकल्पना . विना यन्त्रेण चेत्पूजा देवता न प्रसीदति .. १३.. इति रामपूर्वतापिन्युपनिषदि प्रथमोपनिषत् .. १.. स्वर्भूर्ज्योतिर्मयोऽनन्तरूपी स्वेनैव भासते . जीवत्वेन समो यस्य सृष्टिस्थितिलयस्य च .. १.. कारणत्वेन चिच्छक्त्या रजःसत्त्वतमोगुणैः . यथैव वटबीजस्थः प्राकृतश्च महान्द्रुमः .. २.. तथैव रामबीजस्थं जगदेतच्चराचरम् . रेफारूढा मूर्तयः स्युः शक्तयस्तिस्र एव चेति .. ३.. इति रामतापिन्युओअनिषदि द्वितीयोपनिषत् .. २.. सीतारामौ तन्मयावत्र पूज्यौ

    जातान्याभ्यां भुवनानि द्विसप्त .

स्थितानि च प्रहितान्येव तेषु

    ततो रामो मानवो माययाधात् .. १..

जगत्प्राणायात्मनेऽस्मै नमः स्या-

    न्नमस्त्वैक्यं प्रवदेत्प्राग्गुणेनेति .. २..

इति रामतापिन्युपनिषदि तृतीयोपनिषत् .. ३.. जीववाची नमो नाम चात्मारामेति गीयते . तदात्मिका या चतुर्थी तथा मायेति गीयते .. १.. मन्त्रोयं वाचको रामो रामो वाच्यः स्याद्योगएतयोः . फलतश्चैव सर्वेषां साधकानां न संशयः .. २.. यथा नामी वाचकेन नाम्ना योऽभिमुखो भवेत् . तथा बीजात्मको मन्त्रो मन्त्रिणोऽभिमुखो भवेत् .. ३.. बीजशक्तिं न्यसेद्दक्षवामयोः स्तनयोरपि . कीलो मध्ये विना भाव्यः स्ववाञ्छाविनियोगवान् .. ४.. सर्वेषामेव मन्त्राणामेष साधारणः क्रमः . अत्र रामोऽनन्तरूपस्तेजसा वह्निना समः .. ५.. सत्त्वनुष्णगुविश्वश्चेदग्नीषोमात्मकं जगत् . उत्पन्नः सीतया भाति चन्द्रश्चन्द्रिकया यथा .. ६.. प्रकृत्या सहितः श्यामः पीतवासा जटाधरः . द्विभुजः कुण्डली रत्नमाली धीरो धनुर्धरः .. ७.. प्रसन्नवदनो जेता घृष्ट्यष्टकविभूषितः . प्रकृत्या परमेश्वर्या जगद्योन्याङ्किताङ्कभृत् .. ८.. हेमाभया द्विभुजया सर्वालङ्कृतया चिता . श्लिष्टः कमलधारिण्या पुष्टः कोसलजात्मजः .. ९.. दक्षिणे लक्ष्मणेनाथ सधनुष्पाणिना पुनः . हेमाभेनानुजेनैव तथा कोणत्रयं भवेत् .. १०.. तथैव तस्य मन्त्रस्य यस्याणुश्च स्वङेन्तया . एवं त्रिकोणरूपं स्यात्तं देवा ये समाययुः .. ११.. स्तुतिं चक्रुश्च जगतः पतिं कल्पतरौ स्थितम् . कामरूपाय रामाय नमो मायामयाय च .. १२.. नमो वेदादिरूपाय ओङ्काराय नमो नमः . रमाधराय रामाय श्रीरामायात्ममूर्तये .. १३.. जानकीदेहभूषाय रक्षोघ्नाय शुभाङ्गिने . भद्राय रघुवीराय दशास्यान्तकरूपिणे .. १४.. रामभद्र महेश्वास रघुवीर नृपोत्तम . भो दशास्यान्तकास्माकं रक्षां देहि श्रियं च ते .. १५.. त्वमैश्वर्यं दापयाथ संप्रत्याश्वरिमारणम् . कुर्विति स्तुत्य देवाद्यास्तेन सार्धं सुखं स्थिताः .. १६.. स्तुवन्त्येवं हि ऋषयस्तदा रावण आसुरः . रामपत्नीं वनस्थां यः स्वनिवृत्त्यर्थमाददे .. १७.. स रावण इति ख्यातो यद्वा रावाच्च रावणः . तद्व्याजेनेक्षितुं सीतां रामो लक्ष्मण एव च .. १८.. विचेरतुस्तदा भूमौ देवीं संदृश्य चासुरम् . हत्वा कबन्धं शबरीं गत्वा तस्याज्ञया तया .. १९.. पूजितो वायुपुत्रेण भक्तेन च कपीश्वरम् . आहूय शंसतां सर्वमाद्यन्तं रामलक्ष्मणौ .. २०.. स तु रामे शङ्कितः सन्प्रत्ययार्थं च दुन्दुभेः . विग्रहं दर्शयामास यो रामस्तमचिक्षिपत् .. २१.. सप्त सालान्विभिद्याशु मोदते राघवस्तदा . तेन हृष्टः कपीन्द्रोऽसौ स रामस्तस्य पत्तनम् .. २२.. जगामागर्जदनुजो वालिनो वेगतो गृहात् . तदा वाली निर्जगाम तं वालिनमथाहवे .. २३.. निहत्य राघवो राज्ये सुग्रीवं स्थापयत्ततः . हरीनाहूय सुग्रीवस्त्वाह चाशाविदोऽधुना .. २४.. आदाय मैथिलीमद्य ददताश्वाशु गच्छत . ततस्ततार हनुमानब्धिं लङ्कां समाययौ .. २५.. सीतां दृष्ट्वाऽसुरान्हत्वा पुरं दग्ध्वा तथा स्वयम् . आगत्य रामेण सह न्यवेदयत तत्त्वतः .. २६.. तदा रामः क्रोधरूपी तानाहूयाथ वानरान् . तैः सार्धमादायास्त्राणि पुरीं लङ्कां समाययौ .. २७.. तां दृष्ट्वा उदधीशेन सार्धं युद्धमकारयत् . घटश्रोत्रसहस्राक्षजिद्भ्यां युक्तं तमाहवे.. २८.. हत्वा बिभीषणं तत्र स्थाप्याथ जनकात्मजाम् . आदायाङ्कस्थितां कृत्वा स्वपुरं तैर्जगाम सः .. २९.. ततः सिंहासनस्थः सन् द्विभुजो रघुनन्दनः . धनुर्धरः प्रसन्नात्मा सर्वाभरणभूषितः .. ३०.. मुद्रां ज्ञानमयीं याम्ये वामे तेजप्रकाशिनीम् . धृत्वा व्याख्याननिरतश्चिन्मयः परमेश्वरः .. ३१.. उदग्दक्षिणयोः स्वस्य शत्रुघ्नभरतौ ततः . हनूमन्तं च श्रोतारमग्रतः स्यात्त्रिकोणगम् .. ३२.. भरताधस्तु सुग्रीवं शत्रुघ्नाधो बिभीषणम् . पश्चिमे लक्ष्मणं तस्य धृतच्छ्रत्रं सचामरम् .. ३३.. तदधस्तौ तालवृन्तकरौ त्र्यस्रं पुनर्भवेत् . एवं षट्कोणमादौ स्वदीर्घाङ्गैरेष संयुतः .. ३४.. द्वितीयं वासुदेवाद्यैराग्नेयादिषु संयुतः . तृतीयं वायुसूनुं च सुग्रीवं भरतं तथा .. ३५.. बिभीषणं लक्ष्मणं च अङ्गदं चारिमर्दनम् . जाम्बवन्तं च तैर्युक्तस्ततो धृष्टिर्जयन्तकः .. ३६.. विजयश्च सुराष्ट्रश्च राष्ट्रवर्धन एव च . अशोको धर्मपालश्च सुमन्त्रश्चैभिरावृतः .. ३७.. ततः सहस्रदृग्वह्निर्धर्मज्ञो वरुणोऽनिलः . इन्द्वीशधात्रनन्ताश्च दशभिश्चैभिरावृतः .. ३८.. बहिस्तदायुधैः पूज्यो नीलादिभिरलङ्कृतः . वसिष्ठवामदेवादिमुनिभिः समुपासितः .. ३९.. एवमुद्देशतः प्रोक्तं निर्देशस्तस्य चाधुना . त्रिरेखापुटमालिख्य मध्ये तारद्वयं लिखेत् .. ४०.. तन्मध्ये बीजमालिख्य तदधः साध्यमालिखेत् . द्वितीयान्तं च तस्योर्ध्वं षष्ठ्यन्तं साधकं तथा .. ४१.. कुरु द्वयं च तत्पार्श्वे लिखेद्बीजान्तरे रमाम् . तत्सर्वं प्रणवाभ्यां च वेष्टयेच्छुद्धबुद्धिमान् .. ४२.. दीर्घभाजि षडस्रे तु लिखेद्बीजं हृदादिभिः . कोणपार्श्वे रमामाये तदग्रेऽनङ्गमालिखेत् .. ४३.. क्रोधं कोणाग्रान्तरेषु लिख्य मन्त्र्यभितो गिरम् . वृत्तत्रयं साष्टपत्रं सरोजे विलिखेत्स्वरान् .. ४४.. केसरे चाष्टपत्रे च वर्गाष्टकमथालिखेत् . तेषु मालामनोर्वर्णान्विलिखेदूर्मिसंख्यया .. ४५.. अन्ते पञ्चाक्षराण्येवं पुनरष्टदलं लिखेत् . तेषु नारायणाष्टार्णां_लिख्य तत्केसरे रमाम् .. ४६.. तद्बहिर्द्वादशदलं विलिखेद्द्वादशाक्षरम् . अथों नमो भगवते वासुदेवाय इत्ययम् .. ४७.. आदिक्षान्तान्केसरेषु वृत्ताकारेण स.म्लिखेत् . तद्बहिः षोडशदलं लिख्य तत्केसरे हृयम् .. ४८.. वर्मास्त्रनतिसंयुक्तं दलेषु द्वादशाक्षरम् . तत्सन्धिष्विरजादीनां मन्त्रान्मन्त्री समालिखेत् .. ४९.. ह्रं स्रं भ्रं व्रं लूॅं श्रं ज्रं च लिखेत्सम्यक्ततो बहिः . द्वात्रिंशारं महापद्मं नादबिन्दुसमायुतम् .. ५०.. विलिखेन्मन्त्रराजार्णांस्तेषु पत्रेषु यत्नतः . ध्यायेदष्टवसूनेकादशरुद्रांश्च तत्र वै .. ५१.. द्वादशेनांश्च धातारं वषट्कारं च तद्बहिः . भूगृहं वज्रशूलाढ्यं रेखात्रयसमन्वितम् .. ५२.. द्वारोपतं च राश्यादिभूषितं फणिसंयुतम् . अनन्तो वासुकिश्चैव तक्षः कर्कोटपद्मकः .. ५३.. महापद्मश्च शङ्खश्च गुलिकोऽष्टौ प्रकीर्तिताः . एवं मण्डलमालिख्य तस्य दिक्षु विदिक्षु च .. ५४.. नारसिंहं च वाराहं लिखेन्मन्त्रद्वयं तथा . कूटो रेफानुग्रहेन्दुनादशक्त्यादिभिर्युतः .. ५५.. यो नृसिंहः समाख्यातो ग्रहमारणकर्मणि . अन्त्याङ्घ्रीशवियद्बिन्दुनादैर्बीजं च सौकरम् .. ५६.. हुंकारं चात्र रामस्य मालमन्त्रोऽधुनेरितः . तारो नतिश्च निद्रायाः स्मृतिर्भेदश्च कामिका .. ५७.. रुद्रेण संयुता वह्निमेधामरविभूषिता . दीर्घा क्रूरयुता ह्लादिन्यथो दीर्घसमायुता .. ५८.. क्षुधा क्रोधिन्यमोघा च विश्वमप्यथ मेधया . युक्ता दीर्घज्वालिनी च सुसूक्ष्मा मृत्युरूपिणी .. ५९.. सप्रतिष्ठा ह्लादिनी त्वक्क्ष्वेलप्रीतिश्च सामरा . ज्योतिस्तीक्ष्णाग्निसंयुक्ता श्वेतानुस्वारसंयुता .. ६०.. कामिकापञ्चमूलान्तस्तान्तान्तो थान्त इत्यथ . स सानन्तो दीर्घयुतो वायुः सूक्ष्मयुतो विषः .. ६१.. कामिका कामका रुद्रयुक्ताथोऽथ स्थिरातपा . तापनी दीर्घयुक्ता भूरनलोऽनन्तगोऽनिलः .. ६२.. नारायणात्मकः कालः प्राणाभो विद्यया युतः . पीतारातिस्तथा लान्तो योन्या युक्तस्ततो नतिः .. ६३.. सप्तचत्वारिंशद्वर्णगुणान्तःस्पृङ्मनुः स्वयम् . राज्याभिषिक्तस्य तस्य रामस्योक्तक्रमाल्लिखेत् .. ६४.. इदं सर्वात्मकं यन्त्रं प्रागुक्तमृषिसेवितम् . सेवकानां मोक्षकरमायुरारोग्यवर्धनम् .. ६५.. अपुत्राणां पुत्रदं च बहुना किमनेन वै . प्राप्नुवन्ति क्षणात्सम्यगत्र धर्मादिकानपि .. ६६.. इदं रहस्यं परममीश्वरेणापि दुर्गमम् . इदं यन्त्रं समाख्यातं न देयं प्राकृते जने .. ६७.. इति.. इति तुरीयोपनिषत् .. ॐ भूतादिकं शोधयेद्द्वारपूजां

    कृत्वा पद्माद्यासनस्थः प्रसन्नः .

अर्चाविधावस्य पीठाधरोर्ध्व-

    पार्श्वार्चनं मध्यपद्मार्चनं च .. १..

कृत्वा मृदुश्लक्ष्णसुतूलिकायां

    रत्नासने देशिकमर्चयित्वा .

शक्तिं चाधाराख्यकां कूर्मनागौ

    पृथिव्यब्ज स्वासनाधः प्रकल्प्य .. २..

विघ्नेशं दुर्गां क्षेत्रपालं च वाणीं

    बीजादिकांश्चाग्निदेशादिकांश्च .

पीठस्याङ्घ्रिष्वेव धर्मादिकांश्च

    नत्वा पूर्वाद्यासु दीक्ष्वर्चयेच्च .. ३..

मध्ये क्रमादर्कविध्वग्नितेजां-

    स्युपर्युपर्यादिमैरर्चितानि .

रजः सत्वं तम एतान् वृत्त-

    त्रयं बीजाढ्यं क्रमाद्भावयेच्च .. ४..

आशाव्याशास्वप्यथात्मानमन्त-

    रात्मानं वा परमात्मानमन्तः .

ज्ञानात्मानं चार्चयेत्तस्य दिक्षु

    मायाविद्ये ये कलापारतत्त्वे .. ५..

संपूजयेद्विमलादीश्च शक्ती-

    रभ्यर्चयेद्देवमवाहयेच्च .

अङ्गव्यूहानिलजाद्यैश्च पूज्य

    घृष्ट्यादिकैर्लोकपालैस्तदस्त्रैः .. ६..

वसिष्ठाद्यैर्मुनिभिर्नीलमुख्यै-

    राराधयेद्राघवं चन्दनाद्यैः .

मुख्योपहारैर्विविधैश्च पूज्यै-

    स्तस्मै जपादींश्च सम्यक्प्रकल्प्य .. ७..

एवंभूतं जगदाधारभूतं

    रामं वन्दे सच्चिदानन्दरूपम् .

गदारिशङ्खाब्जधरं भवारिं

    स यो ध्यायेन्मोक्षमाप्नोति सर्वः .. ८..

विश्वव्यापी राघवो यस्तदानी-

    मन्तर्दधे श्ङ्खचक्रे गदाब्जे .

धृत्वा रमासहितः सानुजश्च

    सपत्तनः सानुगः सर्वलोकी .. ९..

तद्भक्ता ये लब्धकामांश्च भुक्त्वा

    तथा पदं परमं यान्ति ते च .

इमा ऋचः सर्वकामार्थदाश्च

    ये ते पठन्त्यमला यान्ति मोक्षम् .. १०..

इति पञ्चमोऽपनिषत् .. चिन्मयेऽस्मिंस्त्रयोदश . स्वभूर्ज्योतिस्तिस्रः . सीतारामावेका . जीववाची षट्षष्टिः . भूतादिकमेकादश . पञ्चखण्डेषु त्रिनवतिः . इति श्रीरामपूर्वतापिन्युपनिषत्समाप्ता .. रामोत्तरतापिन्युपनिषत् ॐ बृहस्पतिरुवाच याज्ञवल्क्यम् . यदनु कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनमविमुक्तं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् . तस्माद्यत्र क्वचन गच्छति तदेव मन्येतेतीदं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् . अत्र हि जन्तोः प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृतीभूत्वा मोक्षीभवति . तस्मादविमुक्तमेव निषेवेत . अविमुक्तं न विमुञ्चेत् . एवमेवैतद्याज्ञवल्क्य .. १.. अथ हैनं भारद्वाजः पप्रच्छ याज्ञवल्क्यं किं तारकं किं तारयतीति . स होवाच याज्ञवल्क्यस्तारकं दीर्घानलं बिन्दुपूर्वकं दीर्घानलं पुनर्मायां नमश्चन्द्राय नमो भद्राय नम इत्येतद्ब्रह्मात्मिकाः सच्चिदानन्दाख्या इत्युपासितव्यम् . अकारः प्रथमाक्षरो भवति . उकारोद्वितीयाक्षरो भवति . मकारस्तृतीयाक्षरो भवति . अर्धमात्रश्चतुर्थाक्षरो भवति . बिन्दुः पञ्चमाक्षरो भवति . नादः षष्ठाक्षरो भवति . तारकत्वात्तारको भवति . तदेव तारकं ब्रह्म त्वं विद्धि . तदेवोपासितव्यमिति ज्ञेयम् . गर्भजन्मजरामरणसंसारमहद्भयात्संतारयतीति . तस्मादुच्यते षडक्षरं तारकमिति . . य एतत्तारकं ब्रह्म ब्राह्मणो नित्यमधीते . स पाप्मानं तरति . स मृत्युं तरति . स ब्रह्महत्यां तरति . स भ्रूणहत्यां तरति. स संसारं तरति . स सर्वं तरति . सोऽविमुक्तमाश्रितो भवति . स महान्भवति . सोऽमृतत्वं च गच्छति .. २.. अत्रैते श्लोका भवन्ति . अकारक्षरसंभूतः सौमित्रिर्विश्वभावनः . उकाराक्षरसंभूतः शत्रुघ्नस्तैजसात्मकः .. १.. प्राज्ञात्मकस्तु भरतो मकाराक्षरसंभवः . अर्धमात्रात्मको रामो ब्रह्मानन्दैकविग्रहः .. २.. श्रीरामसांनिध्यवशाज्जगदाधारकारिणी . उत्पत्तिस्थितिसंहारकारिणी सर्वदेहिनाम् .. ३.. सा सीता भवति ज्ञेया मूलप्रकृतिसंज्ञिता . प्रणवत्वात्प्रकृतिरिति वदन्ति ब्रह्मवादिनः .. ४.. इति.. ओमित्येतदक्षरमिदं सर्वं तस्योपव्याख्यानं भूतं भव्यं भविष्यदिति सर्वमोङ्कार एव . यच्चान्यत्त्रिकालातीतं तदप्योङ्कार एव . सर्वं ह्येतद्ब्रह्म . अयमात्मा ब्रह्म सोऽयमात्मा चतुष्पाज्जागरितस्थानो बहिःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः .. स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः प्रविविक्तभुक् तैजसो द्वितीयः पादः . यत्र सुप्तो न कंचन कामं कामयते न कंचन स्वप्नं पश्यति तत्सुषुप्तम् . सुषुप्तस्थान एकीभूतः प्रज्ञानघनएवानन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः . एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम् . नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञं नाप्रज्ञं न प्रज्ञानघनमदृश्य- मव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्य- मेकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते . स आत्मा स विज्ञेयः सदोज्ज्वलोऽविद्यातत्कार्यहीनः स्वात्मबन्धहरः सर्वदा द्वैतरहित आनन्दरूपः सर्वाधिष्ठानसन्मात्रो निरस्ताविद्यातमोमोहोऽहमेवेति संभाव्याहमोंत- त्सद्यत्परंब्रह्म रामचन्द्रश्चिदात्मकः . सोऽहमोन्तद्रामभद्रपरंज्योतीरसोऽहमोमित्या- त्मानमादाय मनसा ब्रह्मणैकीकुर्यात् .. सदा रामोऽहमस्मीति तत्त्वतः प्रवदन्ति ये . न ते संसारिणो नूनं राम एव न संशयः .. इत्युपनिषत् .. य एवं वेद स मुक्तो भवतीति याज्ञवल्क्यः .. अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं य एषोऽनन्तोऽव्यक्तपरिपूर्णानन्दैकचिदात्मा तं कथमहं विजानीयामिति . स होवाच याज्ञवल्क्यः . सोऽविमुक्त उपास्योऽयम् . एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति . सोऽविमुक्तः कस्मिन्प्रतिष्ठित इति . वरणायां नास्यां च मध्ये प्रतिष्ठित इति .. का वै वरणा का च नासीति . जन्मान्तरकृतान्सर्वा- न्दोषन्वारयतीति तेन वरणा भवतीति . सर्वानिन्द्रियकृतान्पापान्नाशयतीति तेन नासी भवतीति . कतमच्चास्य स्थानं भवतीति . भ्रुवोर्घ्राणस्य च यः सन्धिः स एष द्यौर्लोकस्य परस्य च सन्धिर्भवतीति . एतद्वै सन्धिं सन्ध्यां ब्रह्मविद उपासत इति .. सोऽविमुक्त उपास्य इति . सोऽविमुक्तं ज्ञानमाचष्टे यो वा एतदेवं वेद .. अथ तं प्रत्युवाच . श्रीरामस्य मनुं काश्यां जजाप वृषभध्वजः . मन्वन्तरसहस्रैस्तु जपहोमार्चनादिभिः ..१.. ततः प्रसन्नो भगवाञ्छ्रीरामः प्राह शंकरम् . वृणीश्व यदभीष्टं तद्दास्यामि परमेश्वर .. २.. इति .. अथ सच्चिदानन्दात्मानं श्रीराममीश्वरः पप्रच्छ . मणिकर्ण्यां मम क्षेत्रे गङ्गायां वा तटे पुनः . म्रियेत देही तज्जन्तोर्मुक्तिर्नाऽतो वरान्तरम् .. ३.. इति .. अथ स होवाच श्रीरामः .. क्षेत्रेऽस्मिंस्तव देवेश यत्र कुत्रापि वा मृताः . कृमिकीटादयोऽप्याशु मुक्ताः सन्तु न चान्यथा .. ४.. अविमुक्ते तव क्षेत्रे सर्वेषां मुक्तिसिद्धये . अहं संनिहितस्तत्र पाषाणप्रतिमादिषु .. ५.. क्षेत्रेऽस्मिन्योऽर्चयेद्भक्त्या मन्त्रेणानेन मां शिव . ब्रह्महत्यादिपापेभ्यो मोक्षयिष्यामि मा शुचः .. ६.. त्वत्तो वा ब्रह्मणो वापि ये लभन्ते षडक्षरम् . जीवन्तो मन्त्रसिद्धाः स्युर्मुक्ता मां प्राप्नुवन्ति ते .. ७.. मुमूर्षोर्दक्षिणे कर्णे यस्य कस्यापि वा स्वयम् . उपदेक्ष्यसि मन्मन्त्रं स मुक्तो भविता शिव .. ८.. इति श्रीरामचन्द्रेणोक्तम् .. अथ हैनं भारद्वाजो याज्ञवल्क्यमुवाचाथ कैर्मन्त्रैः स्तुतः श्रीरामचन्द्रः प्रीतो भवति . स्वात्मानं दर्शयति तान्नो ब्रूहि भगवन्निति . स होवाच याज्ञवल्क्यः .. पूर्वं सत्यलोके श्रीरामचन्द्रेणैवं शिक्षितो ब्रह्मा पुनरेतया गाथया नमस्करोति .. विश्वरूपधरं विष्णुं नारायणमनामयम् . पूर्णानन्दैकविज्ञानं परं ब्रह्मस्वरूपिणम् .. मनसा संस्मरन्ब्रह्म तुष्टाव परमेश्वरम् . ॐ यो ह वै श्रीरामचन्द्रः स भगवानद्वैतपरमानन्द आत्मा यत्परं ब्रह्म भूर्भुवः सुवस्तस्मै वै नमो नमः .. १.. यथा प्रथममन्त्रोक्तावाद्यन्तौ तथा सर्वमन्त्रेषु ज्ञातव्यौ .. यश्चाखण्डैकरसात्मा .. २.. यच्च ब्रह्मानन्दामृतम् .. ३.. यत्तारकं ब्रह्म .. ४.. यो ब्रह्मा विष्णुर्महेश्वरो यः सर्वदेवात्मा .. ५.. ये सर्वे वेदाः साङ्गाः सशाखाः सेतिहासपुराणाः .. ६.. यो जीवान्तरात्मा .. ७.. यः सर्वभूतान्तरात्मा .. ८.. ये देवासुरमनुष्यादिभावाः .. ९.. ये मत्स्यकूर्माद्यवताराः .. १०.. योऽन्तःकरणचतुष्टयात्मा .. ११.. यश्च प्राणः .. १२.. यश्च यमः .. १३.. यश्चान्तकः .. १४.. यश्च मृत्युः .. १५.. यच्चामृतम् .. १६.. यानि च पञ्चमहाभूतानि .. १७.. यः स्थावरजङ्गमात्मा .. १८.. ये पञ्चाग्नयः .. १९.. याः सप्त महाव्याहृतयः .. २०.. या विद्या .. २१.. या सरस्वती .. २२.. या लक्ष्मीः .. २३.. या गौरी .. २४.. या जानकी .. २५.. यच्च त्रैलोक्यम् .. २६.. यः सूर्यः .. २७.. यः सोमः .. २८.. यानि च नक्षत्राणि .. २९.. ये च नव ग्रहाः .. ३०.. ये चाष्टौ लोकपालाः .. ३१.. ये चाष्टौ वसवः .. ३२.. ये चैकादश रुद्राः .. ३३.. ये च द्वदिशादित्याः .. ३४.. यच्च भूतं भव्यं भविष्यत् .. ३५.. यद्ब्रह्माण्डस्य बहिर्व्याप्तम् .. ३६.. यो हिरण्यगर्भः .. ३७.. या प्रकृतिः .. ३८.. यश्चोङ्कारः .. ३९.. याश्चतस्रोऽर्धमात्राः .. ४०.. यः परमपुरुषः .. ४१.. यश्च महेश्वरः .. ४२.. यश्च महादेवः .. ४३.. य ॐ नमो भगवते वासुदेवाय .. ४४.. यो महाविष्णुः .. ४५.. यः परमात्मा .. ४६.. यो विज्ञानात्मा .. ४७.. ॐ यो ह वै श्रीरामचन्द्रः स भगवानद्वैतपरमानन्द आत्मा . यः सच्चिदानन्दाद्वैतैकचिदात्मा भूर्भुवः सुवस्तस्मै वै नमो नमः .. इति तान्ब्रह्माब्रवीत् . सप्तचत्वारिंशन्मन्त्रैर्नित्यं देवं स्तुवध्वम् . ततो देवः प्रीतो भवति . स्वात्मानं दर्शयति . तस्माद्य एतैर्मन्त्रैर्नित्यं देवं स्तौति स देवं पश्यति . सोऽमृतत्वं गच्छतीति महोपनिषत् .. ५.. अथ हैनं भारद्वाजो याज्ञवल्क्यमुपसमेत्योवाच श्रीराममन्त्रराजस्य माहात्म्यमनुब्रूहीति . स होवाच याज्ञवल्क्यः . स्वप्रकाशः परंज्योतिः स्वानुभूत्यैकचिन्मयः . तदेव रामचन्द्रस्य मनोराद्यक्षरः स्मृतः .. १.. अखण्डैकरसानन्दस्तारकब्रह्मवाचकः . रामायेति सुविज्ञेयः सत्यानन्दचिदात्मकः .. २.. नमःपदं सुविज्ञेयं पूर्णानन्दैककारणम् . सदा नमन्ति हृदये सर्वे देवा मुमुक्षवः .. ३.. इति .. य एवं मन्त्रराजं श्रीरामचन्द्रषडक्षरं नित्यमधीते . सोऽग्निपूतो भवति . स वायुपूतो भवति . स आदित्यपूतो भवति . स सोमपूतो भवति . स ब्रह्मपूतो भवति . स विष्णुपूतो भवति . स रुद्रपूतो भवति . सर्वैर्देवैर्ज्ञातो भवति . सर्वक्रतुभिरिष्टवान्भवति . तेनेतिहासपुराणानां रुद्राणां शतसहस्राणि जप्तानि फलानि भवन्ति . श्रीरामचन्द्रमनुस्मरणेन गायत्र्यः शतसहस्राणि जप्तानि फलानि भवन्ति . प्रणवानामयुतकोटिजपा भवन्ति . दश पूर्वान्दशोत्तरान्पुनाति . स पङ्क्तिपावनो भवति . स महान्भवति . सोऽमृतत्वं च गच्छति .. अत्रैते श्लोका भवन्ति . गाणपत्येषु शैवेषु शाक्तसौरेष्वभीष्टदः . वैष्णवेष्वपि सर्वेषु राममन्त्रः फलाधिकः .. ४.. गाणपत्यादि मन्त्रेषु कोटिकोटिगुणाधिकः . मन्त्रस्तेष्वप्यनायासफलदोऽयं षडक्षरः .. ५.. षडक्षरोऽयं मन्त्रः स्यात्सर्वाघौघनिवारणः . मन्त्रराज इति प्रोक्तः सर्वेषामुत्तमोत्तमः .. ६.. कृतं दिने यद्दुरितं पक्षमासर्तुवर्षजम् . सर्वं दहति निःशेषं तूलराशिमिवानलः .. ७.. ब्रह्महत्यासहस्राणि ज्ञानाज्ञानकृतानि च . स्वर्णस्तेयसुरापानगुरुतल्पायुतानि च .. ८.. कोटिकोटिसहस्राणि उपपातकजान्यपि . सर्वाण्यपि प्रणश्यन्ति राममन्त्रानुकीर्तनात् .. ९.. भूतप्रेतपिशाचाद्याः कूष्माण्डब्रह्मराक्षसाः . दूरादेव प्रधावन्ति राममन्त्रप्रभावतः .. १०.. ऐहलौकिकमैश्वर्यं स्वर्गाद्यं पारलौकिकम् . कैवल्यं भगवत्त्वं च मन्त्रोऽयं साधयिष्यति .. ११.. ग्राम्यारण्यपशुघ्नत्वं संचितं दुरुतं च यत् . मद्यपानेन यत्पापं तदप्याशु विनाशयेत् .. १२.. अभक्ष्यभखक्षणोत्पन्नं मिथ्याज्ञानसमुद्भवम् . सर्वं विलीयते राममन्त्रस्यास्यैव कीर्तनात् .. १३.. श्रोत्रियस्वर्णहरणाद्यच्च पापमुपस्थितम् . रत्नादेश्चापहारेण तदप्याशु विनाशयेत् .. १४.. ब्राह्मणं क्षत्रियं वैश्यं शूद्रं हत्वा च किल्बिषम् . संचिनोति नरो मोहाद्यद्यत्तदपि नाशयेत् .. १५.. गत्वापि मातरं मोहादगम्याश्चैव योषितः . उपास्यानेन मन्त्रेण रामस्तदपि नाशयेत् .. १६.. महापातकपापिष्ठसङ्गत्या संचितं च यत् . नाशयेत्तत्कथालापशयनासनभोजनैः .. १७.. पितृमातृवधोत्पन्नं बुद्धिपूर्वमघं च यत् . तदनुष्ठानमात्रेणसर्वमेतद्विलीयते .. १८.. यत्प्रयागादितीर्थोक्तप्रायश्चित्तशतैरपि . नैवापनोद्यते पापं तदप्याशु विनाशयेत् .. १९.. पुण्यक्षेत्रेषु सर्वेषु कुरुक्षेत्रादिषु स्वयम् . बुद्धिपूर्वमघं कृत्वा तदप्याशुविनाशयेत् .. २०.. कृच्छ्रैस्तप्तपराकाद्यैर्नानाचान्द्रायणैरपि . पापं च नापनोद्यं यत्तदप्याशु विनाशयेत् .. २१.. आत्मतुल्यसुवर्णादिदानैर्बहुविधैरपि . किंचिदप्यपरिक्षीणं तदप्याशु विनाशयेत् .. २२.. अवस्थात्रितयेष्वेवबुद्धिपूर्वमघं च यत् . तन्मन्त्रस्मरणेनैव निःशेषं प्रविलीयते .. २३.. अवस्थात्रितयेष्वेवं मूलबन्धमन्त्रं च यत् . तत्तन्मन्त्रोपदेशेन सर्वमेतत्प्रणश्यति .. २४.. आब्रह्मबीजदोषाश्च नियमातिक्रमोद्भ्वाः . स्त्रीणां च पुरुषाणां च मन्त्रेणानेन नाशिताः .. २५.. येषु येष्वपि देशेषु रामभद्र उपास्यते . दुर्भिक्षादिभयं तेषु न भवेत्तु कदाचन .. २६.. शान्तः प्रसन्नवदनो ह्यक्रोधो भक्तवत्सलः . अनेन सदृशो मन्त्रो जगत्स्वपि न विद्यते .. २७.. सम्यगाराधितो रामः प्रसीदत्येव सत्वरम् . ददात्यायुष्यमैश्वर्यमन्ते विष्णुपदं च यत् .. २८.. तदेतदृचाभ्युक्तम् . ऋचो अक्षरे परमे व्योमन्यस्मिन्देवा अधि विश्वे निषेदुः . यस्तन्न वेद किमृचा करिष्यति य इत्तद्विदुस्त इमे समासते . तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः . दिवीव चक्षुराततम् . तद्विप्रासो विपन्यवो जागृवांसः समिन्धते . विष्णोर्यत्परमं पदम् . ॐ सत्यमित्युपनिषत् .. ६.. ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः . स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः .. स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः . स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु .. ॐ शान्तिः शान्तिः शान्तिः .. इति रामोत्तरतापिन्युपनिषत्समाप्ता .. इति रामतापिन्युपनिषत्समाप्ता..

Personal tools