योग-कुण्डलिनि उपनिषद्
From Wikisource
.. योगकुण्डल्युपनिषत् .. योगकुण्डल्युपनिषद्योगसिद्धिहृदासनम् . निर्विशेषब्रह्मतत्त्वं स्वमात्रमिति चिन्तये .. ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै . तेजस्विनावधीतमस्तु मा विद्विषावहै .. ॐ शान्तिः शान्तिः शान्तिः .. हरिः ॐ .. हेतुद्वयं हि चित्तस्य वासना च समीरणः . तयोर्विनष्ट एकस्मिंस्तद्द्वावपि विनश्यतः .. १.. तयोरादौ समीरस्य जयं कुर्यानरः सदा . मिताहारश्चासनं च शक्तिश्चालस्तृतीयकः .. २.. एतेषां लक्षणं वक्ष्ये शृणु गौतम सादरम् . सुस्निग्धमधुराहारश्चतुर्थांशविवर्जितः .. ३.. भुज्यते शिवसंप्रीत्यै मिताहारः स उच्यते . आसनं द्विविधं प्रोक्तं पद्मं वज्रासनं तथा .. ४.. ऊर्वोरुपरि चेद्धत्ते उभे पादतले यथा . पद्मासनं भवेदेतत्सर्वपापप्रणाशनम् .. ५.. वामाङ्घ्रिमूलकन्दाधो ह्यन्यं तदुपरि क्षिपेत् . समग्रीवशिरःकायो वज्रासनमितीरितम् .. ६.. कुण्डल्येव भवेच्छक्तिस्तां तु संचालयेद्बुध . स्वस्थानादाभ्रुवोर्मध्यं शक्तिचालनमुच्यते .. ७.. तत्साधने द्वयं मुख्यं सरस्वत्यास्तु चालनम् . प्राणरोधमथाभ्यासादृज्वी कुण्डलिनी भवेत् .. ८.. तयोरादौ सरस्वत्याश्चालनं कथयामि ते . अरुन्धत्येव कथिता पुराविद्भिः सरस्वती .. ९.. यस्याः संचालनेनैव स्वयं चलति कुण्डली . इडायां वहति प्राणे बद्ध्वा पद्मासनं दृढम् .. १०.. द्वादशाङ्गुलदैर्घ्यं च अम्बरं चतुरङ्गुलम् . विस्तीर्य तेन तन्नाडीं वेष्टयित्वा ततः सुधीः .. ११.. अङ्गुष्ठतर्जनीभ्यां तु हस्ताभ्यां धारयेद्धृढम् . स्वशक्त्या चालयेद्वामे दक्षिणेन पुनःपुनः .. १२.. मुहूर्तद्वयपर्यन्तं निर्भयाच्चालयेत्सुधीः . ऊर्ध्वमाकर्षयेत्किंचित्सुषुम्नां कुण्डलीगताम् .. १३.. तेन कुण्डलिनी तस्याः सुषुम्नाया मुखं व्रजेत् . जहाति तस्मात्प्राणोऽयं सुषुम्नां व्रजति स्वतः .. १४.. तुन्दे तु ताणं कुर्याच्च कण्ठसंकोचने कृते . सरस्वत्यां चालनेन वक्षसश्चोर्ध्वगो मरुत् .. १५.. सूर्येण रेचयेद्वायुं सरवत्यास्तु चालने . कण्ठसंकोचनं कृत्वा वक्षसश्चोर्ध्वगो मरुत् .. १६.. तस्मात्संचालयेन्नित्यं शब्दगर्भां सरस्वतीम् . यस्याः संचालनानेनैव योगी रोगैः प्रमुच्यते .. १७.. गुल्मं जलोदरः प्लीहा ये चान्ये तुन्दमध्यगाः . सर्वे ते शक्तिचालेन रोगा नश्यन्ति निश्चयम् .. १८.. प्राणरोधमथेदानीं प्रवक्ष्यामि समासतः . प्राणश्च दहनो वायुरायामः कुम्भकः स्मृतः .. १९.. स एव द्विविधः प्रोक्तः सहितः केवलस्तथा . यावत्केवलसिद्धिः स्यात्तावत्सहितमभ्यसेत् .. २०.. सूर्योज्जायी शीतली च भस्त्री चैव चतुर्थिका . भेदैरेव समं कुम्भो यः स्यात्सहितकुम्भकः .. २१.. पवित्रे निर्जने देशे शर्करादिविवर्जिते . धनुःप्रमाणपर्यन्ते शीताग्निजलवर्जिते .. २२.. पवित्रे नात्युच्चनीचे ह्यासने सुखदे सुखे . बद्धपद्मासनं कृत्वा सरस्वत्यास्तु चालनम् .. २३.. दक्षनाड्या समाकृष्य बहिष्ठं पवनं शनैः . यथेष्टं पूरयेद्वायुं रेचयेदिडया ततः .. २४.. कपालशोधने वापि रेचयेत्पवनं शनैः . चतुष्कं वातदोषं तु कृमिदोषं निहन्ति च .. २५.. पुनः पुनरिदं कार्यं सूर्यभेदमुदाहृतम् . मुखं संयम्य नाडिभ्यामाकृष्य पवनं शनैः .. २६.. यथा लगति कण्ठात्तु हृदयावधि सस्वनम् . पूर्ववत्कुम्भयेत्प्राणं रेचयेदिडया ततः .. २७.. शीर्षोदितानलहरं गलश्लेष्महरं परम् . सर्वरोगहरं पुण्यं देहानलविवर्धनम् .. २८.. नाडीजलोदरं धातुगतदोषविनाशनम् . गच्छतस्तिष्ठतः कार्यमुज्जायाख्यं तु कुम्भकम् .. २९.. जिह्वया वायुमाकृष्य पूर्ववत्कुम्भकादनु . शनैस्तु घ्राणरन्ध्राभ्यां रेचयेदनिलं सुधीः .. ३०.. गुल्मप्लीहादिकान्दोषान्क्षयं पित्तं ज्वरं तृषाम् . विषाणि शीतली नाम कुम्भकोऽयं निहन्ति च .. ३१.. ततः पद्मासनं बद्ध्वा समग्रीवोदरः सुधीः . मुखं संयम्य यत्नेन प्राणं घ्राणेन रेचयेत् .. ३२.. यथा लगति कण्ठात्तु कपाले सस्वनं ततः . वेगेन पूरयेत्किंचिद्हृत्पद्मावधि मारुतम् .. ३३.. पुनर्विरेचयेत्तद्वत्पूरयेच्च पुनः पुनः . यथैव लोहकाराणां भस्त्रा वेगेन चाल्यते .. ३४.. तथैव स्वशरीरस्थं चालयेत्पवनं शनैः . यथा श्रमो भवेद्देहे तथा सूर्येण पूरयेत् .. ३५.. यथोदरं भवेत्पूर्णं पवनेन तथा लघु . धारयन्नासिकामध्यं तर्जनीभ्यां विना दृढम् .. ३६.. कुम्भकं पूर्ववत्कृत्वा रेचेयेदिडयानिलम् . कण्ठोत्थितानलहरं शरीराग्निविवर्ध्नम् .. ३७.. कुण्डलीबोधकं पुण्यं पापघ्नं शुभदं सुखम् . ब्रह्मनाडीमुखान्तस्थ कफाद्यर्गलनाशनम् .. ३८.. गुणत्रयसमुद्भूतग्रन्थित्रयविभेदकम् . विशेषेणैव कर्तव्यं भस्त्राख्यं कुम्भकं त्विदम् .. ३९.. चतुर्णामपि भेदानां कुम्भके समुपस्थिते . बन्धत्रयमिदं कार्यं योगिभिर्वीतकल्मषैः .. ४०.. प्रथमो मूलबन्धस्तु द्वितीयोड्डीयणाभिधः . जालन्धरस्तृतीयस्तु तेषां लक्षणमुच्यते .. ४१.. अधोगतिमपानं वै ऊर्ध्वगं कुरुते बलात् . आकुञ्चनेन तं प्राहुर्मूलबन्धोऽयमुच्यते .. ४२.. अपाने चोर्ध्वगे याते संप्राप्ते वह्निमण्डले . ततोऽनलशिखा दीर्घा वर्धते वायुनाहता .. ४३.. ततो यातौ वह्न्यमानौ प्राणमुष्णस्वरूपकम् . तेनात्यन्तप्रदीप्तेन ज्वलनो देहजस्तथा .. ४४.. तेन कुण्डलिनी सुप्ता संतप्ता संप्रबुध्यते . दण्डाहतभुजङ्गीव निःश्वस्य ऋजुतां व्रजेत् .. ४५.. बिलप्रवेशतो यत्र ब्रह्मनाड्यन्तरं व्रजेत् . तस्मान्नित्यं मूलबन्धः कर्तव्यो योगिभिः सदा .. ४६.. कुम्भकान्ते रेचकादौ कर्तव्यस्तूड्डियाणकः . बन्धो येन सुषुम्नायां प्राणस्तूड्डीयते यतः .. ४७.. तस्मादुड्डीयणाख्योऽयं योगिभिः समुदाहृतः . सति वज्रासने पादौ कराभ्यां धारयेधृढम् .. ४८.. गुल्फदेशसमीपे च कन्दं तत्र प्रपीडयेत् . पश्चिमं ताणमुदरे धारयेद्हृदये गले .. ४९.. शनैः शनैर्यदा प्राणस्तुन्दसन्धिं निगच्छति . तुन्ददोषं विनिर्धूय कर्तव्यं सततं शनैः .. ५०.. पूरकान्ते तु कर्तव्यो बन्धो जालन्धराभिधः . कण्ठसंकोचरूपोऽसौ वायुमार्गनिरोधकः .. ५१.. अधस्तात्कुञ्चनेनाशु कण्ठसंकोचने कृते . मध्ये पश्चिमताणेन स्यात्प्राणो ब्रह्मनाडिगः .. ५२.. पूर्वोक्तेन क्रमेणैव सम्यगासनमास्थितः . चालनं तु सरस्वत्याः कृत्वा प्राणं निरोधयेत् .. ५३.. प्रथमे दिवसे कार्यं कुम्भकानां चतुष्टयम् . प्रत्येकं दशसंख्यांकं द्वितीये पञ्चभिस्तथा .. ५४.. विशत्यलं तृतीयेह्नि पञ्चवृद्ध्या दिनेदिने . कर्तव्यः कुम्भको नित्यं बन्धत्रयसमन्वितः .. ५५.. दिवा सुप्तिर्निशायां तु जागरादतिमैथुनात् . बहुसंक्रमणं नित्यं रोधान्मूत्रपुरीषयोः .. ५६.. विषमाशनदोषाच्च प्रयासप्राणचिन्तनात् . शीघ्रमुत्पद्यते रोगः स्तम्भयेद्यदि संयमी .. ५७.. योगाभ्यासेन मे रोग उत्पन्न इति कथ्यते . ततोऽभ्यासं त्यजेदेवं प्रथमं विघ्नाच्यते .. ५८.. द्वितीयं संशयाख्यं च तृतीयं च प्रमत्तता . आलस्याख्यं चतुर्थं च निद्रारूपं तु पञ्चमम् .. ५९.. षष्ठं तु विरतिर्भ्रान्तिः सप्तमं परिकीर्तितम् . विषमं चाष्टमं चैव अनाख्यं नवमं स्मृतम् .. ६०.. अलब्धिर्योगतत्त्वस्य दशमं प्रोच्यते बुधैः . इत्येतद्विघ्नदशकं विचारेण त्यजेद्बुधः .. ६१.. प्राणाभ्यासस्ततः कार्यो नित्यं सत्त्वस्थया धिया . सुषुम्ना लीयते चित्तं तथा वायुः प्रधावति .. ६२.. शुष्के मले तु योगी च स्याद्गतिश्चलिता ततः . अधोगतिमपानं वै ऊर्ध्वगं कुरुते बलात् .. ६३.. आकुञ्चनेन तं प्राहुर्मूलबन्धोऽयमुच्यते . अपानश्चोर्ध्वगोभूत्वा वह्निना सह गच्छति .. ६४.. प्राणस्थानं ततो वह्निः प्राणापानौ च सत्वरम् . मिलित्वा कुण्डलीं याति प्रसुप्ता कुण्डलाकृतिः .. ६५.. तेनाग्निना च संतप्ता पवनेनैव चालिता . प्रसार्य स्वशरीरं तु सुषुम्ना वदनान्तरे .. ६६.. ब्रह्मग्रन्थिं ततो भित्त्वा रजोगुणसमुद्भवम् . सुषुम्ना वदने शीघ्रं विद्युल्लेखेव संस्फुरेत् .. ६७.. विष्णुग्रन्थिं प्रयात्युच्चैः सत्वरं हृदि संस्थिता . ऊर्ध्वं गच्छति यच्चास्ते रुद्रग्रन्थिं तदुद्भवम् .. ६८.. भ्रुवोर्मध्ये तु संभिद्य याति शीतांशुमण्डलम् . अनाहताख्यं यच्चक्रं दलैः षोडशभिर्युतम् .. ६९.. तत्र शीतांशुसंजातं द्रवं शोषयति स्वयम् . चलिते प्राण वेगेन रक्तं पीतं रवेर्ग्रहात् .. ७०.. यातेन्दुचक्रं यत्रास्ते शुद्धश्लेष्मद्रवात्मकम् . तत्र सिक्तं ग्रसत्युष्णं कथं शीतस्वभावकम् .. ७१.. तथैव रभसा शुक्लं चन्द्ररूपं हि तप्यते . ऊर्ध्वं प्रवहति क्षुब्धा तदैवं भ्रमतेतराम् .. ७२.. तस्यास्वादवशाच्चित्तं बहिष्ठं विषयेषु यत् . तदेव परमं भुक्त्वा स्वस्थः स्वात्मरतो युवा .. ७३.. प्रकृत्यष्टकरूपं च स्थानं गच्छति कुण्डली . क्रोडीकृत्य शिवं याति क्रोडीकृत्य विलीयते .. ७४.. इत्यधोर्ध्वरजः शुक्लं शिवे तदनु मारुतः . प्राणापानौ समौ याति सदा जातौ तथैव च .. ७५.. भूतेऽल्पे चाप्यनल्पे वा वाचके त्वतिवर्धते . धवयत्यखिला वाता अग्निमूषाहिरण्यवत् .. ७६.. आधिभौतिकदेहं तु आधिदैविकविग्रहे . देहोऽतिविमलं याति चातिवाहिकतामियात् .. ७७.. जाड्यभावविनिर्मुक्तममलं चिन्मयात्मकम् . तस्यातिवाहिकं मुख्यं सर्वेषां तु मदात्मकम् .. ७८.. जायाभवविनिर्मुक्तिः कालरूपस्य विभ्रमः . इति तं स्वस्वरूपा हि मती रज्जुभुजङ्गवत् .. ७९.. मृषैवोदेति सकलं मृषैव प्रविलीयते . रौप्यबुद्धिः शुक्तिकायां स्त्रीपुंसोर्भ्रमतो यथा .. ८०.. पिण्डब्रह्माण्डयोरैक्यं लिङ्गसूत्रात्मनोरपि . स्वापाव्याकृतयोरैक्यं स्वप्रकाशचिदात्मनोः .. ८१.. शक्तिः कुण्डलिनी नाम बिसतन्तुनिभा शुभा . मूलकन्दं फणाग्रेण दृष्ट्वा कमलकन्दवत् .. ८२.. मुखेन पुच्छं संगृह्य ब्रह्मरन्ध्रसमन्विता . पद्मासनगतः स्वस्थो गुदमाकुञ्च्य साधकः .. ८३.. वायुमूर्ध्वगतं कुर्वन्कुम्भकाविष्टमानसः . वाय्वाघातवशादग्निः स्वाधिष्ठानगतो ज्वलन् .. ८४.. ज्वलनाघातपवनाघातोरून्निद्रितोऽहिराट् . ब्रह्मग्रन्थिं ततो भित्त्वा विष्णुग्रन्थिं भिनत्त्यतः .. ८५.. रुद्रग्रन्थिं च भित्त्वैव कमलानि भिनत्ति षट् . सहस्रकमले शक्तिः शिवेन सह मोदते .. ८६.. सैवावस्था परा ज्ञेया सैव निर्वृतिकारिणी इति .. इति प्रथमोऽध्यायः .. १.. अथाहं संप्रवक्ष्यामि विद्यां खेचरिसंज्ञिकाम् . यथा विज्ञानवानस्या लोकेऽस्मिन्नजरोऽमरः .. १.. मृत्युव्याधिजराग्रस्तो दृष्ट्वा विद्यामिमां मुने . बुद्धिं दृढतरां कृत्वा खेचरीं तु समभ्यसेत् .. २.. जरामृत्युगदघ्नो यः खेचरीं वेत्ति भूतले . ग्रन्थतश्चार्थतश्चैव तदभ्यासप्रयोगतः .. ३.. तं मुने सर्वभावेन गुरुं मत्वा समाश्रयेत् . दुर्लभा खेचरी विद्या तदभ्यासोऽपि दुर्लभः .. ४.. अभ्यासं मेलनं चैव युगपन्नैव सिध्यति . अभ्यासमात्रनिरता न विन्दन्ते ह मेलनम् .. ५.. अभ्यासं लभते ब्रह्मञ्जन्मजन्मान्तरे क्वचित् . मेलनं तु जन्मनां शतान्तेऽपि न लभ्यते .. ६.. अभ्यासं बहुजन्मान्ते कृत्वा तद्भावसाधितम् . मेलनं लभते कश्चिद्योगी जन्मान्तरे क्वचित् .. ७.. यदा तु मेलनं योगी लभते गुरुवक्त्रतः . तदा तत्सिद्धिमाप्नोति यदुक्ता शास्त्रसन्ततौ .. ८.. ग्रन्थतश्चार्थतश्चैव मेलनं लभते यदा . तदा शिवत्वमाप्नोति निर्मुक्तः सर्वसंसृतेः .. ९.. शास्त्रं विनापि संबोद्धुं गुरवोऽपि न शक्नयुः . तस्मात्सुदुर्लभतरं लभ्यं शास्त्रमिदं मुने .. १०.. यावन्न लभ्यते शास्त्रं तावद्गां पर्यटेद्यतिः . यदा संलभ्यते शास्त्रं तदा सिद्धिः करे स्थिता .. ११.. न शास्त्रेण विना सिद्धिर्दृष्टा चैव जगत्त्रये . तस्मान्मेलनदातारं शास्त्रदातारमच्युतम् .. १२.. तदभ्यासप्रदातारं शिवं मत्वा समाश्रयेत् . लब्ध्वा शास्त्रमिदं मह्यमन्येषां न प्रकाशयेत् .. १३.. तस्मात्सर्वप्रयत्नेन गोपनीयं विजानता . यत्रास्ते च गुरुर्ब्रह्मन्दिव्ययोगप्रदायकः .. १४.. तत्र गत्वा च तेनोक्तविद्यां संगृह्य खेचरीम् . तेनोक्तः सम्यगभ्यासं कुर्यादादावतन्द्रितः .. १५.. अनया विद्यया योगी खेचरीसिद्धिभाग्भवेत् . खेचर्या खेचरीं युञ्जन्खेचरीबीजपूरया .. १६.. खेचराधिपतिर्भूत्वा खेचरेषु सदा वसेत् . खेचरावसथं वह्निमम्बुमण्डलभूषितम् .. १७.. आख्यातं खेचरीबीजं तेन योगः प्रसिध्यति . सोमांशनवकं वर्णं प्रतिलोमेन चोद्धरेत् .. १८.. तस्मात्त्र्यंशकमाख्यातमक्षरं चन्द्ररूपकम् . तस्मादप्यष्टमं वर्णं विलोमेन परं मुने .. १९.. तथा तत्परमं विद्धि तदादिरपि पञ्चमी . इन्दोश्च बहुभिन्ने च कूटोऽयं परिकीर्तितः .. २०.. गुरूपदेशलभ्यं च सर्वयोगप्रसिद्धिदम् . यत्तस्य देहजा माया निरुद्धकरणाश्रया .. २१.. स्वप्नेऽपि न लभेत्तस्य नित्यं द्वादशजप्यतः . य इमां पञ्च लक्षाणि जपेदपि सुयन्त्रितः .. २२.. तस्य श्रीखेचरीसिद्धिः स्वयमेव प्रवर्तते . नश्यन्ति सर्वविघ्नानि प्रसीदन्ति च देवताः .. २३.. वलीपलितनाशश्च भविष्यति न संशयः . एवं लब्ध्वा महाविद्यामभ्यासं कारयेत्ततः .. २४.. अन्यथा क्लिश्यते ब्रह्मन्न सिद्धिः खेचरीपथे . यदभ्यासविधौ विद्यां न लभेद्यः सुधामयीम् .. २५.. ततः संमेलकादौ च लब्ध्वा विद्यां सदा जपेत् . नान्यथा रहितो ब्रह्मन्न किंचित्सिद्धिभाग्भवेत् .. २६.. यदिदं लभ्यते शास्त्रं तदा विद्यां समाश्रयेत् . ततस्तदोदितां सिद्धिमाशु तां लभते मुनिः .. २७.. तालुमूलं समुत्कृष्य सप्तवासरमात्मवित् . स्वगुरूक्तप्रकारेण मलं सर्वं विशोधयेत् .. २८.. स्नुहिपत्रनिभं शस्त्रं सुतीक्ष्णं स्निग्धनिर्मलम् . समादाय ततस्तेन रोममात्रं समुच्छिनेत् .. २९.. हित्वा सैन्धवपथ्याभ्यां चूर्णिताभ्यां प्रकर्षयेत् . पुनः सप्तदिने प्राप्ते रोममात्रं समुच्छिनेत् .. ३०.. एवं क्रमेण षण्मासं नित्योद्युक्तः समाचरेत् . षण्मासाद्रसनामूलं सिराबद्धं प्रणश्यति .. ३१.. अथ वागीश्वरीधाम शिरो वस्त्रेण वेष्टयेत् . शनैरुत्कर्षयेद्योगी कालवेलाविधानवित् .. ३२.. पुनः षण्मासमात्रेण नित्यं संघर्षणान्मुने . भ्रूमध्यावधि चाप्येति तिर्यक्कणबिलावधिः .. ३३.. अधश्च चुबुकं मूलं प्रयाति क्रमचारिता . पुनः संवत्सराणां तु तृतीयादेव लीलया .. ३४.. केशान्तमूर्ध्वं क्रमति तिर्यक् शाखावधिर्मुने . अधस्तात्कण्ठकूपान्तं पुनर्वर्षत्रयेण तु .. ३५.. ब्रह्मरन्ध्रं समावृत्य तिष्ठेदेव न संशयः . तिर्यक् चूलितलं याति अधः कण्ठबिलावधि .. ३६.. शनैः शनैर्मस्तकाच्च महावज्रकपाटभित् . पूर्वं बीजयुता विद्या ह्याख्याता यतिदुर्लभा .. ३७.. तस्याः षडङ्गं कुर्वीत तया षट्स्वरभिन्नया . कुर्यादेवं करन्यासं सर्वसिद्ध्यादिहेतवे .. ३८.. शनैरेवं प्रकर्तव्यमभ्यासं युगपन्नहि . युगपद्वर्तते यस्य शरीरं विलयं व्रजेत् .. ३९.. तस्माच्छनैः शनैः कार्यमभ्यासं मुनिपुङ्गव . यदा च बाह्यमार्गेण जिह्वा ब्रह्मबिलं व्रजेत् .. ४०.. तदा ब्रह्मार्गलं ब्रह्मन्दुर्भेद्यं त्रिदशैरपि . अङ्गुल्यग्रेण संघृष्य जिह्वामात्रं निवेशयेत् .. ४१.. एवं वर्षत्रयं कृत्वा ब्रह्मद्वारं प्रविश्यति . ब्रह्मद्वारे प्रविष्टे तु सम्यङ्मथनमाचरेत् .. ४२.. मथनेन विना केचित्साधयन्ति विपश्चितः . खेचरीमन्त्रसिद्धस्य सिध्यते मथनं विना .. ४३.. जपं च मथनं चैव कृत्वा शीघ्रं फलं लभेत् . स्वर्णजां रौप्यजां वापि लोहजां वा शलाकिकाम् .. ४४.. नियोज्य नासिकारन्ध्रं दुग्धसिक्तेन तन्तुना . प्राणान्निरुध्य हृदये सुखमासनमात्मनः .. ४५.. शनैः सुमथनं कुर्याद्भ्रूमध्ये न्यस्य चक्षुषी . षण्मासं मथनावस्था भावेनैव प्रजायते .. ४६.. यथा सुषुप्तिर्बालानां यथा भावस्तथा भवेत् . न सदा मथनं शस्तं मासे मासे समाचरेत् .. ४७.. सदा रसनया योगी मार्गं न परिसंक्रमेत् . एवं द्वादशवर्षान्ते संसिद्धिर्भवति ध्रुवा .. ४८.. शरीरे सकलं विश्वं पश्यत्यात्माविभेदतः . ब्रह्माण्डोऽयं महामार्गो राजदन्तोर्ध्वकुण्डली .. ४९.. इति.. इति द्वितीयोऽध्यायः .. २.. मेलनमनुः . ह्रीं भं सं पं फं सं क्षम् . पद्मज उवाच . अमावास्या च प्रतिपत्पौर्णमासी च शंकर . अस्याः का वर्ण्यते संज्ञा एतदाख्याहि तत्त्वतः .. १.. प्रतिपद्दिनतोऽकाले अमावास्या तथैव च . पौर्णमास्यां स्थिरीकुर्यात्स च पन्था हि नान्यथा .. २.. कामेन विषयाकाङ्क्षी विषयात्काममोहितः . द्वावेव संत्यजेन्नित्यं निरञ्जनमुपाश्रयेत् .. ३.. अपरं संत्यजेत्सर्वं यदिच्छेदात्मनो हितम् . शक्तिमध्ये मनः कृत्वा मनः शक्तेश्च मध्यगम् .. ४.. मनसा मन आलोक्य तत्त्यजेत्परमं पदम् . मन एव हि बिन्दुश्च उत्पत्तिस्थितिकारणम् .. ५.. मनसोत्पद्यते बिन्दुर्यथा क्षीरं घृतात्मकम् . न च बन्धनमध्यस्थं तद्वै कारणमानसम् .. ६.. चन्द्रार्कमध्यमा शक्तिर्यत्रस्था तत्र बन्धनम् . ज्ञात्वा सुषुम्नां तद्भेदं कृत्वा वायुं च मध्यगम् .. ७.. स्थित्वासौ बैन्दवस्थाने घ्राणरन्ध्रे निरोधयेत् . वायुं बिन्दुं समाख्यातं सत्त्वं प्रकृतिमेव च .. ८.. षट् चक्राणि परिज्ञात्वा प्रविशेत्सुखमण्डलम् . मूलाधारं स्वाधिष्ठानं मणिपूरं तृतीयकम् .. ९.. अनाहतं विशुद्धं च आज्ञाचक्रं च षष्ठकम् . आधारं गुदमित्युक्तं स्वाधिष्ठानं तु लैङ्गिकम् .. १०.. मणिपूरं नभिदेशं हृदयस्थमनाहतम् . विशुद्धिः कण्ठमूले च आज्ञाचक्रं च मस्तकम् .. ११.. षट् चक्राणि परिज्ञात्वा प्रविशेत्सुखमण्डले . प्रविशेद्वायुमाकृष्य तयैवोर्ध्वं नियोजयेत् .. १२.. एवं समभ्यसेद्वायुं स ब्रह्माण्डमयो भवेत् . वायुं बिन्दुं तथा चक्रं चित्तं चैव समभ्यसेत् .. १३.. समाधिमेकेन समममृतं यान्ति योगिनः . यथाग्निर्दारुमध्यस्थो नोत्तिष्ठेन्मथनं विना .. १४.. विना चाभ्यासयोगेन ज्ञानदीपस्तथा न हि . घटमध्यगतो दीपो बाह्ये नैव प्रकाशते .. १५.. भिन्ने तस्मिन्घटे चैव दीपज्वाला च भासते . स्वकायं घटमित्युक्तं यथा दीपो हि तत्पदम् .. १६.. गुरुवाक्यसमाभिन्ने ब्रह्मज्ञानं स्फुटीभवेत् . कर्णधारं गुरुं प्राप्य कृत्वा सूक्ष्मं तरन्ति च .. १७.. अभ्यासवासनाशक्त्या तरन्ति भवसागरम् . परायामङ्कुरीभूय पश्यन्तां द्विदलीकृता .. १८.. मध्यमायां मुकुलिता वैखर्यां विकसीकृता . पूर्वं यथोदिता या वाग्विलोमेनास्तगा भवेत् .. १९.. तस्या वाचः परो देवः कूटस्थो वाक्प्रबोधकः . सोहमस्मीति निश्चित्य यः सदा वर्तते पुमान् .. २०.. शब्दैरुच्चावचैर्नीचैर्भाषितोऽपि न लिप्यते . विश्वश्च तैजसश्चैव प्राज्ञश्चेति च ते त्रयः .. २१.. विराड्ढिरण्यगर्भश्च ईश्वरश्चेति ते त्रयः . ब्रह्माण्डं चैव पिण्डाण्डं लोका भूरादयः क्रमात् .. २२.. स्वस्वोपाधिलयादेव लीयन्ते प्रत्यगात्मनि . अण्डं ज्ञानाग्निना तप्तं लीयते कारणैः सह .. २३.. परमात्मनि लीनं तत्परं ब्रह्मैव जायते . ततः स्तिमितगम्भीरं न तेजो न तमस्ततम् .. २४.. अनाख्यमनभिव्यक्तं सत्किंचिदवशिष्यते . ध्यात्वा मध्यस्थमात्मानं कलशान्तरदीपवत् .. २५.. अङ्गुष्ठमात्रमात्मानमधूमज्योतिरूपकम् . प्रकाशयन्तमन्तस्थं ध्यायेत्कूटस्थमव्ययम् .. २६.. विज्ञानात्मा तथा देहे जाग्रत्स्वप्नसुषुप्तितः . मायया मोहितः पश्चाद्बहुजन्मान्तरे पुनः .. २७.. सत्कर्मपरिपाकात्तु स्वविकारं चिकीर्षति . कोऽहं कथमयं दोषः संसाराख्य उपागतः .. २८.. जाग्रत्स्वप्ने व्यवहरन्त्सुषुप्तौ क्व गतिर्मम . इति चिन्तापरो भूत्वा स्वभासा च विशेषतः .. २९.. अज्ञानात्तु चिदाभासो बहिस्तापेन तापितः . दग्धं भवत्येव तदा तूलपिण्डमिवाग्निना .. ३०.. दहरस्थः प्रत्यगात्मा नष्टे ज्ञाने ततः परम् . विततो व्याप्य विज्ञानं दहत्येव क्षणेन तु .. ३१.. मनोमयज्ञानमयान्त्सम्यग्दग्ध्वा क्रमेण तु . घटस्थदीपवच्छश्वदन्तरेव प्रकाशते .. ३२.. ध्यायन्नास्ते मुनिश्चैवमासुप्तेरामृतेस्तु यः . जीवन्मुक्तः स विज्ञेयः स धन्यः कृतकृत्यवान् .. ३३.. जीवन्मुक्तपदं त्यक्त्वा स्वदेहे कालसात्कृते . विशत्यदेहमुक्तत्वं पवनोऽस्पन्दतामिव .. ३४.. अशब्दमस्पर्शमरूपमव्ययं
तथारसं नित्यमगन्धवच्च यत् .
अनाद्यनन्तं महतः परं ध्रुवं
तदेव शिष्यत्यमलं निरामयम् .. ३५.. इत्युपनिषत् ..
ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै . तेजस्विनावधीतमस्तु मा विद्विषावहै .. ॐ शान्तिः शान्तिः शान्तिः .. हरिः ॐ तत्सत् .. इति योगकुण्डल्युपनिषत्समाप्ता ..

