योगशिखा उपनिषद्

From Wikisource

Jump to: navigation, search

.. योगशिखोपनिषत् .. योगज्ञाने यत्पदाप्तिसाधनत्वेन विश्रुते . तत्रैपदं ब्रह्मतत्त्वं स्वमात्रमवशिष्यते .. ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै . तेजस्विनावधीतमस्तु मा विद्विषावहै .. ॐ शान्तिः शान्तिः शान्तिः .. सर्वे जीवाः सुखैर्दुःखैर्मायाजालेन वेष्टिताः . तेषां मुक्तिः कथं देव कृपया वद शङ्कर .. १.. सर्वसिद्धिकरं मार्गं मायाजालनिकृन्तनम् . जन्ममृत्युजराव्याधिनाशनं सुखदं वद .. २.. इति हिरण्यगर्भः पप्रच्छ स होवाच महेश्वरः . नानामार्गैस्तु दुष्प्रापं कैवल्यं परमं पदम् .. ३.. सिद्धिमार्गेण लभते नान्यथा पद्मसंभव . पतिताः शास्त्रजालेषु प्रज्ञया तेन मोहिताः .. ४.. स्वात्मप्रकाशरूपं तत्किं शास्त्रेण प्रकाश्यते . निष्कलं निर्मलं शान्तं सर्वातीतं निरामयम् .. ५.. तदेव जीवरूपेण पुण्यपापफलैर्वृतम् . परमात्मपदं नित्यं तत्कथं जीवतां गतम् .. ६.. तत्त्वातीतं महादेव प्रसादात्कथयेश्वर . सर्वभावपदातीतं ज्ञानरूपं निरञ्जनम् .. ७.. वायुवत्स्फुरितं स्वस्मिंस्तत्राहंकृतिरुत्थिता . पञ्चात्मकमभूत्पिण्डं धातुबद्धं गुणात्मकम् .. ८.. सुखदुःखैः समायुक्तं जीवभावनया कुरु . तेन जीवामिधा प्रोक्ता विशुद्धे परमात्मनि .. ९.. कामक्रोधभयं चापि मोहलोभमथो रजः . जन्म मृत्युश्च कार्पण्यं शोकस्तन्द्रा क्षुधा तृषा .. १०.. तृष्णा लज्जा भयं दुःखं विषादो हर्ष एव च . एभिर्दोषैर्विनिर्मुक्तः स जीवः शिव उच्यते .. ११.. तस्माद्दोषविनाशार्थमुपायं कथयामि ते . ज्ञानं केचिद्वदन्त्यत्र केवलं तन्न सिद्धये .. १२.. योगहीनं कथं ज्ञानं मोक्षदं भवतीह भोः . योगोऽपि ज्ञानहीनस्तु न क्षमो मोक्षकर्मणि .. १३.. तस्माज्ज्ञानं च योगं च मुमुक्षुर्दृढमभ्यसेत् . ज्ञानस्वरूपमेवादौ ज्ञेयं ज्ञानैकसाधनम् .. १४.. अज्ञानं कीदृशं चेति प्रविचार्यं मुमुक्षुणा . ज्ञातं येन निजं रूपं कैवल्यं परमं पदम् .. १५.. असौ दोषैर्विनिर्मुक्तः कामक्रोधभयादिभिः . सर्वदोषैर्वृतो जीवः कथं ज्ञानेन मुच्यते .. १६.. स्वात्मरूपं यथा ज्ञानं पूर्णं तद्व्यापकं तथा . कामक्रोधादिदोषाणां स्वरूपान्नास्ति भिन्नता .. १७.. पश्चात्तस्य विधिः किंनु निषेधोऽपि कथं भवेत् . विवेकी सर्वदा मुक्तः संसारभ्रमवर्जितः .. १८.. परिपूर्णं स्वरूपं तत्सत्यं कमलसंभव . सकलं निष्कलं चैव पूर्णत्वाच्च तदेव हि .. १९.. कलिना स्फूर्तिरूपेण संसारभ्रमतां गतम् . निष्कलं निर्मलं साक्षात्सकलं गगनोपमम् .. २०.. उत्पत्तिस्थितिसंहारस्फूर्तिज्ञानविवर्जितम् . एतद्रूपं समायातः स कथं मोहसागरे .. २१.. निमज्जति महाबाहो त्यक्त्वा विद्यां पुनः पुनः . सुखदुःखादिमोहेषु यथा संसारिणां स्थितिः .. २२.. तथा ज्ञानी यदा तिष्ठेद्वासनावासितस्तदा . तयोर्नास्ति विशेषोऽत्र समा संसारभावना .. २३.. ज्ञानं चेदीदृशं ज्ञातमज्ञानं कीदृशं पुनः . ज्ञाननिष्ठो विरक्तोऽपि धर्मज्ञो विजितेन्द्रियः .. २४.. विना देहेन योगेन न मोक्षं लभते विधे . अपक्वाः परिपक्वाश्च देहिनो द्विविधाः स्मृताः .. २५.. अपक्वा योगहीनास्तु पक्वा योगेन देहिनः . सर्वो योगाग्निना देहो ह्यजडः शोकवर्जितः .. २६.. जडस्तु पार्थिवो ज्ञेयो ह्यपक्वो दुःखदो भवेत् . ध्यानस्थोऽसौ तथाप्येवमिन्द्रियैर्विवशो भवेत् .. २७.. तानि गाढं नियम्यापि तथाप्यन्यैः प्रबाध्यते . शीतोष्णसुखदुःखाद्यैर्व्याधिभिर्मानसैस्तथा .. २८.. अन्यैर्नानाविधैर्जीवैः शस्त्राग्निजलमारुतैः . शरीरं पीड्यते तैस्तैश्चित्तं संक्षुभ्यते ततः .. २९.. तथा प्राणविपत्तौ तु क्षोभमायाति मारुतः . ततो दुःखशतैर्व्यापत्ं चित्तं क्षुब्धं भवेन्नृणाम् .. ३०.. देहावसानसमये चित्ते यद्यद्विभावयेत् . तत्तदेव भवेज्जीव इत्येवं जन्मकारणम् .. ३१.. देहान्ते किं भवेज्जन्म तन्न जानन्ति मानवाः . तस्माज्ज्ञानं च वैराग्यं जीवस्य केवलं श्रमः .. ३२.. पिपीलिका यथा लग्ना देहे ध्यानाद्विमुच्यते . असौ किं वृश्चिकैर्द्रष्टो देहान्ते वा कथं सुखी .. ३३.. तस्मान्मूढा न जानन्ति मिथ्यातर्केण वेष्टिताः . अहंकृतिर्यदा यस्य नष्टा भवति तस्य वै .. ३४.. देहस्त्वपि भवेन्नष्टो व्याधयश्चास्य किं पुनः . जलाग्निशस्त्रखातादिबाधा कस्य भविष्यति .. ३५.. यदा यदा परिक्षीणा पुष्टा चाहंकृतिर्भवेत् . तमनेनास्य नश्यन्ति प्रवर्तन्ते रुगादयः .. ३६.. कारणेन विना कार्यं न कदाचन विद्यते . अहंकारं विना तद्वद्देहे दुःखं कथं भवेत् .. ३७.. शरीरेण जिताः सर्वे शरीरं योगिभिर्जितम् . तत्कथं कुरुते तेषां सुखदुःखादिकं फलम् .. ३८.. इन्द्रियाणि मनो बुद्धिः कामक्रोधादिकं जितम् . तेनैव विजितं सर्वं नासौ केनापि बाध्यते .. ३९.. महाभूतानि तत्त्वानि संहृतानि क्रमेण च . सप्तधातुमयो देहो दग्धा योगाग्निना शनैः .. ४०.. देवैरपि न लक्ष्येत योगिदेहो महाबलः . भेदबन्धविनिर्मुक्तो नानाशक्तिधरः परः .. ४१.. यथाकाशस्तथा देह आकाशादपि निर्मलः . सूक्ष्मात्सूक्ष्मतरो दृश्यः स्थूलात्स्थूलो जडाज्जडः .. ४२.. इच्छारूपो हि योगीन्द्रः स्वतन्त्रस्त्वजरामरः . क्रीडते त्रिषु लोकेषु लीलया यत्रकुत्रचित् .. ४३.. अचिन्त्यशक्तिमान्योगी नानारूपाणि धारयेत् . संहरेच्च पुनस्तानि स्वेच्छया विजितेन्द्रियः .. ४४.. नासौ मरणमाप्नोति पुनर्योगबलेन तु . हठेन मृत एवासौ मृतस्य मरणं कुतः .. ४५.. मरणं यत्र सर्वेषां तत्रासौ परिजीवति . यत्र जीवन्ति मूढास्तु तत्रासौ मृत एव वै .. ४६.. कर्तव्यं नैव तस्यास्ति कृतेनासौ न लिप्यते . जीवन्मुक्तः सदा स्वच्छः सर्वदोषविवर्जितः .. ४७.. विरक्ता ज्ञानिनश्चान्ये देहेन विजिताः सदा . ते कथं योगिभिस्तुल्या मांसपिण्डाः कुदेहिनः .. ४८.. देहान्ते ज्ञानिभिः पुण्यात्पापाच्च फलमाप्यते . ईदृशं तु भवेत्तत्तद्भुक्त्वा ज्ञानी पुनर्भवेत् .. ४९.. पश्चात्पुण्येन लभते सिद्धेन सह सङ्गतिम् . ततः सिद्धस्य कृपया योगी भवति नान्यथा .. ५०.. ततो नश्यति संसारो नान्यथा शिवभाषितम् . योगेन रहितं ज्ञानं न मोक्षाय भवेद्विधे .. ५१.. ज्ञानेनैव विना योगो न सिद्ध्यति कदाचन . जन्मान्तरैश्च बहुभिर्योगो ज्ञानेन लभ्यते .. ५२.. ज्ञानं तु जन्मनैकेन योगादेव प्रजायते . तस्मायोगात्परतरो नास्ति मार्गस्तु मोक्षदः .. ५३.. प्रविचार्य चिरं ज्ञानं मुक्तोऽहमिति मन्यते . किमसौ मननादेव मुक्तो भवति तत्क्षणात् .. ५४.. पश्चाज्जन्मशन्तान्तरैर्योगादेव विमुच्यते . न तथा भवतो योगाज्जन्ममृत्यू पुनः पुनः .. ५५.. प्राणापानसमायोगाच्चन्द्रसूर्यैकता भवेत् . सप्तधातुमयं देहमग्निना रञ्जयेद्ध्रुवम् .. ५६.. व्याधयस्तस्य नश्यन्ति च्छेदखातादिकास्तथा , तदासौ परमाकाशरूपो देह्यवतिष्ठति .. ५७.. किं पुनर्बहुनोक्तेन मरणं नास्ति तस्य वै . देहीव दृश्यते लोके दग्धकर्पूरवत्स्वयम् .. ५८.. चित्तं प्राणेन संबद्धं सर्वजीवेषु संस्थितम् . रज्ज्वा यद्वत्सुसंबद्धः पक्षी तद्वदिदं मनः .. ५९.. नानाविधैर्विचारैस्तु न बाध्यं जायते मनः . तस्मात्तस्य जयोपायः प्राण एव हि नान्यथा .. ६०.. तर्कैर्जल्पैः शास्त्रजालैर्युक्तिभिर्मन्त्रभेषजैः . न वशो जायते प्राणः सिद्धोपायं विना विधे .. ६१.. उपायं तमविज्ञाय योगमार्गे प्रवर्तते . खण्डज्ञानेन सहसा जायते क्लेशवत्तरः .. ६२.. यो जित्वा पवनं मोहाद्योगमिच्छति योगिनाम् . सोऽपक्वं कुम्भमारुह्य सागरं तर्तुमिच्छति .. ६३.. यस्य प्राणो विलीनोऽन्तः साधके जीविते सति . पिण्डो न पतितस्तस्य चित्तं दोषैः प्रबाधते .. ६४.. शुद्धे चेतसि तस्यैव स्वात्मज्ञानं प्रकाशते . तस्माज्ज्ञानं भवेद्योगाज्जन्मनैकेन पद्मज .. ६५.. तस्माद्योगं तमेवादौ साधको नित्यमभ्यसेत् . मुमुक्षुभिः प्राणजयः कर्तव्यो मोक्षहेतवे .. ६६.. योगात्परतरं पुण्यं योगात्परतरं शिवम् . योगात्परतरं सूक्ष्मं योगात्परतरं नहि .. ६७.. योऽपानप्राणयोरैक्यं स्वरजोरेतसोस्तथा . सूर्याचन्द्रमसोर्योगो जीवात्मपरमात्मनोः .. ६८.. एवं तु द्वन्द्वजालस्य संयोगो योग उच्यते . अथ योगशिखां वक्ष्ये सर्वज्ञानेषु चोत्तमाम् .. ६९.. यदानुध्यायते मन्त्रं गात्रकम्पोऽथ जायते . आसनं पद्मकं बद्ध्वा यच्चान्यदपि रोचते .. ७०.. नासाग्रे दृष्टिमारोप्य हस्तपादौ च संयतौ . मनः सर्वत्र संगृह्य ॐकारं तत्र चिन्तयेत् .. ७१.. ध्यायते सततं प्राज्ञो हृत्कृत्वा परमेश्वरम् . एकस्तम्भे नवद्वारे त्रिस्थूणे पञ्चदैवते .. ७२.. ईदृशे तु शरीरे वा मतिमान्नोपलक्षयेत् . आदित्यमण्डलाकारं रश्मिज्वालासमाकुलम् .. ७३.. तस्य मध्यगतं वह्निं प्रज्वलेद्दीपवर्तिवत् . दीपशिखा तु या मात्रा सा मात्रा परमेश्वरे .. ७४.. भिन्दन्ति योगिनः सूर्यं योगाभ्यासेन वै पुनः . द्वितीयं सुषुम्नाद्वारं परिशुभ्रं समर्पितम् .. ७५.. कपालसंपुटं पीत्वा ततः पश्यति तत्पदम् . अथ न ध्यायते जन्तुरालस्याच्च प्रमादतः .. ७६.. यदि त्रिकालमागच्छेत्स गच्छेत्पुण्यसंपदम् . पुण्यमेतत्समासाद्य संक्षिप्य कथितं मया .. ७७.. लब्धयोगोऽथ बुद्ध्येत प्रसन्नं परमेश्वरम् . जन्मान्तरसहस्रेषु यदा क्षीणं तु किल्बिषम् .. ७८.. तदा पश्यति योगेन संसारोच्छेदनं महत् . अधुना संप्रवक्ष्यामि योगाभ्यासस्य लक्षणम् .. ७९.. मरुज्जयो यस्य सिद्धः सेवयेत्तं गुरुं सदा . गुरुवस्त्रप्रसादेन कुर्यात्प्राणजयं बुधः .. ८०.. वितस्तिप्रमितं दैर्घ्यं चतुरङ्गुलविस्तृतम् . मृदुलं धवलं प्रोक्तं वेष्टनाम्बरलक्षणम् .. ८१.. निरुध्य मारुतं गाढं शक्तिचालनयुक्तितः . अष्टधा कुण्डलीभूतामृज्वीं कुर्यात्तु कुण्डलीम् .. ८२.. पायोराकुञ्चनं कुर्यात्कुण्डलीं चालयेत्तदा . मृत्युचक्रगतस्यापि तस्य मृत्युभयं कुतः .. ८३.. एतदेव परं गुह्यं कथितं तु मया तव . वज्रासनगतो नित्यमूर्ध्वाकुञ्चनमभ्यसेत् .. ८४.. वायुना ज्वलितो वह्निः कुण्डलीमनिशं दहेत् . सन्तप्ता साग्निना जीवशक्तिस्त्रैलोक्यमोहिनी .. ८५.. प्रविशेच्चन्द्रतुण्डे तु सुषुम्नावदनान्तरे . वायुना वह्निना सार्धं ब्रह्मग्रन्थिं भिनत्ति सा .. ८६.. विष्णुग्रन्थिं ततो भित्त्वा रुद्रग्रन्थौ च तिष्ठति . ततस्तु कुम्भकैर्गाढं पूरयित्वा पुनःपुनः .. ८७.. अथाभ्यसेत्सूर्यभेदमुज्जायीं चापि शीतलीम् . भस्त्रां च सहितो नाम स्याच्चतुष्टयकुम्भकः .. ८८.. बन्धत्रयेण संयुक्तः केवलप्राप्तिकारकः . अथास्य लक्षणं सम्यक्कथयामि समासतः .. ८९.. एकाकिना समुपगम्य विविक्तदेशं

    प्राणादिरूपममृतं परमार्थतत्त्वम् .

लघ्वाशिना धृतिमता परिभावितव्यं

    संसाररोगहरमौषधमद्वितीयम् .. ९०..

सूर्यनाड्या समाकृष्य वायुमभ्यासयोगिना . विधिवत्कुम्भकं कृत्वा रेचयेच्छ्रीतरश्मिना .. ९१.. उदरे बहुरोगघ्नं क्रिमिदोषं निहन्ति च . मुहुर्मुहुरिदं कार्यं सूर्यभेदमुदाहृतम् .. ९२.. नाडीभ्यां वायुमाकृष्य कुण्डल्याः पार्श्वयोः क्षिपेत् . धारयेदुदरे पश्चाद्रेचयेदिडया सुधीः .. ९३.. कण्ठे कफादि दोषघ्नं शरीराग्निविवर्धनम् . नाडीजलापहं धातुगतदोषविनाशनम् .. ९४.. गच्छतस्तिष्ठतः कार्यमुज्जायाख्यं तु कुम्भकम् . मुखेन वायुं संगृह्य घ्राणरन्ध्रेण रेचयेत् .. ९५.. शीतलीकरणं चेदं हन्ति पित्तं क्षुधां तृषम् . स्तनयोरथ भस्त्रेव लोहकारस्य वेगतः .. ९६.. रेच्येत्पूरयेद्वायुमाश्रमं देहगं धिया . यथा श्रमो भवेद्देहे तथा सूर्येण पूरयेत् .. ९७.. कण्ठसंकोचनं कृत्वा पुनश्चन्द्रेण रेचयेत् . वातपित्तश्लेष्महरं शरीराग्निविवर्धनम् .. ९८.. कुण्डलीबोधकं वक्त्रदोषघ्नं शुभदं सुखम् . ब्रह्मनाडीमुखान्तस्थकफाद्यर्गलनाशनम् .. ९९.. सम्यग्बन्धुसमुद्भूतं ग्रन्थित्रयविभेदकम् . विशेषेणैव कर्तव्यं भस्त्राख्यं कुम्भकं त्विदम् .. १००.. बन्धत्रयमथेदानीं प्रवक्ष्यामि यथाक्रमम् . नित्यं कृतेन तेनासौ वायोर्जयमवाप्नुयात् .. १०१.. चतुर्णामपि भेदानां कुम्भके समुपस्थिते . बन्धत्रयमिदं कार्यं वक्ष्यमाणं मयहि तत् .. १०२.. प्रथमो मूलबन्धस्तु द्वितीयोड्डीयनाभिधः . जालन्धारस्तृतीयस्तु लक्षणं कथयाम्यहम् .. १०३.. गुदं पार्ष्ण्या तु संपीड्य पायुमाकुञ्चलेद्बलात् . वारंवारं यथा चोर्ध्वं समायाति समीरणः .. १०४.. प्राणापानौ नादबिन्दू मूलबन्धेन चैकताम् . गत्वा योगस्य संसिद्धिं यच्छतो नात्र संशयः .. १०५.. कुम्भकान्ते रेचकादौ कर्तव्यस्तूड्डियानकः . बन्धो येन सुषुम्नायां प्राणस्तूड्डीयते यतः .. १०६ तस्मादुड्डीयनाख्योऽयं योगिभिः समुदाहृतः . उड्डियानं तु सहजं गुरुणा कथितं सदा .. १०७.. अभ्यसेत्तदतन्द्रस्तु वृद्धोऽपि तरुणो भवेत् . नाभेरूर्ध्वमधश्चापि त्राणं कुर्यात्प्रयत्नतः .. १०८.. षाण्मासमभ्यसेन्मृत्युं जयत्येव न संशयः . पूरकान्ते तु कर्तव्यो बन्धो जालन्धराभिधः .. १०९.. कण्ठसंकोचरूपोऽसौ वायुर्मार्गनिरोधकः . कण्ठमाकुञ्च्य हृदये स्थापयेद्दृढमिच्छया .. ११०.. बन्धो जालन्धराख्योऽयममृताप्यायकारकः . अधस्तात्कुञ्चनेनाशु कण्ठसंकोचने कृते .. १११.. मध्ये पश्चिमतानेन स्यात्प्राणो ब्रह्मनाडिगः . वज्रासनस्थितो योगी चालयित्वा तु कुण्डलीम् .. ११२.. कुर्यादनन्तरं भस्त्रीं कुण्डलीमाशु बोधयेत् . भिद्यन्ते ग्रन्थयो वंशे तप्तलोहशलाकया .. ११३.. तथैव पृष्ठवंशः स्याद्ग्रन्थिभेदस्तु वायुना . पिपीलिकायां लग्नायां कण्डूस्तत्र प्रवर्तते .. ११४.. सुषुम्नायां तथाभ्यासात्सततं वायुना भवेत् . रुद्रग्रन्थिं ततो भित्त्वा ततो याति शिवात्मकम् .. ११५.. चन्द्रसूर्यौ समौ कृत्वा तयोर्योगः प्रवर्तते . गुणत्रयमतीतं स्याद्ग्रन्थित्रयविभेदनात् .. ११६.. शिवशक्तिसमायोगे जायते परमा स्थितिः . यथा करी करेणैव पानीयं प्रपिबेत्सदा .. ११७.. सुषुम्नावज्रनालेन पवमानं ग्रसेत्तथा . वज्रदण्डसमुद्भूता मणयश्चैकविंशतिः .. ११८.. सुषुम्नायां स्थितः सर्वे सूत्रे मणिगणा इव . मोक्षमार्गे प्रतिष्ठानात्सुषुम्ना विश्वरूपिणी .. ११९.. यथैव निश्चितः कालश्चन्द्रसूर्यनिबन्धनात् . आपूर्य कुम्भितो वायुर्बहिर्नो याति साधके .. १२०.. पुनःपुनस्तद्वदेव पश्चिमद्वारलक्षणम् . पूरितस्तु स तद्द्वारैरीषत्कुम्भकतां गतः .. १२१.. प्रविशेत्सर्वगात्रेषु वायुः पश्चिममार्गतः . रेचितः क्षीणतां याति पूरितः पोषयेत्ततः .. १२२.. यत्रैव जातं सकलेवरं मन-

    स्तत्रैव लीनं कुरुते स योगात् .

स एव मुक्तो निरहंकृतिः सुखी

    मूढा न जानन्ति हि पिण्डपातिनः .. १२३..

चित्तं विनिष्टं यदि भासितं स्या-

    त्तत्र प्रतीतो मरुतोऽपि नाशः .

न चेद्यदि स्यान्न तु तस्य शास्त्रं

    नात्मप्रतीतिर्न गुरुर्न मोक्षः .. १२४..

जलूका रुधिरं यद्वद्बलादाकर्षति स्वयम् . ब्रह्मनाडी तथा धातून्सन्तताभ्यासयोगतः .. १२५.. अनेनाभ्यासयोगेन नित्यमासनबन्धतः . चित्तं विलीनतामेति बिन्दुर्नो यात्यधस्तथा .. १२६.. रेचकं पूरकं मुक्त्वा वायुना स्थीयते स्थिरम् . नाना नादाः प्रवर्तन्ते संस्रवेच्चन्द्रमण्डलम् .. १२७.. नश्यन्ति क्षुत्पिपासाद्याः सर्वदोषास्ततस्तदा . स्वरूपे सच्चिदानन्दे स्थितिमाप्नोति केवलम् .. १२८.. कथितं तु तव प्रीत्या ह्येतदभ्यासलक्षणम् . मन्त्रो लयो हठो राजयोगोऽन्तर्भूमिकाः क्रमात् .. १२९.. एक एव चतुर्धाऽयं महायोगोऽभिधीयते . हकारेण बहिर्याति सकारेण विशेत्पुनः .. १३०.. हंसहंसेति मन्त्रोऽयं सर्वैर्जीवश्च जप्यते . गुरुवाक्यात्सुषुम्नायां विपरीतो भवेज्जपः .. १३१.. सोऽहंसोऽहमिति प्रोक्तो मन्त्रयोगः स उच्यते . प्रतीतिर्मन्त्रयोगाच्च जायते पश्चिमे पथि .. १३२.. हकारेण तु सूर्यः स्यात्सकारेणेन्दुरुच्यते . सूर्याचन्द्रमसोरैक्यं हठ इत्यभिधीयते .. १३३.. हठेन ग्रस्यते जाड्यं सर्वदोषसमुद्भवम् . क्षेत्रज्ञः परमात्मा च तयोरैक्यं यदा भवेत् .. १३४.. तदैक्ये साधिते ब्रह्मंश्चित्तं याति विलीनताम् . पवनः स्थैर्यमायाति लययोगोदये सति .. १३५.. लयात्संप्राप्यते सौख्यं स्वात्मानदं परं पदम् . योनिमध्ये महाक्षेत्रे जपाबन्धूकसंनिभम् .. १३६.. रजो वसति जन्तूनां देवीतत्त्वं समावृतम् . रजसो रेतसो योगाद्राजयोग इति स्मृतः .. १३७.. अणिमादिपदं प्राप्य राजते राजयोगतः . प्राणापानसमायोगो ज्ञेयं योगचतुष्टयम् .. १३८.. संक्षेपात्कथितं ब्रह्मन्नान्यथा शिवभाषितम् . क्रमेण प्राप्यते प्राप्यमभ्यासादेव नान्यथा .. १३९.. एकेनैव शरीरेण योगाभ्यासाच्छनैःशनैः . चिरात्संप्राप्यते मुक्तिर्मर्कटक्रम एव सः .. १४०.. योगसिद्धिं विना देहः प्रमादाद्यदि नश्यति . पूर्ववासनया युक्तः शरीरं चान्यदाप्नुयात् .. १४१.. ततः पुण्यवशात्सिद्धो गुरुणा सह संगतः . पश्चिमद्वारमार्गेण जायते त्वरितं फलम् .. १४२.. पूर्वजन्मकृताभ्यासात्सत्त्वरं फलमश्नुते . एतदेव हि विज्ञेयं तत्काकमतमुच्यते .. १४३.. नास्ति काकमतादन्यदभ्यासाख्यमतः परम् . तेनैव प्राप्यते मुक्तिर्नान्यथा शिवभाषितम् .. १४४.. हठयोगक्रमात्काष्ठासहजीवलयादिकम् . नाकृतं मोक्षमार्गं स्यात्प्रसिद्धां पश्चिमं विना .. १४५.. आदौ रोगाः प्रणश्यन्ति पश्चाज्जाड्यं शरीरजम् . ततः समरसो भूत्वा चन्द्रो वर्षत्यनारतम् .. १४६.. धातूंश्च संग्रहेद्वह्निः पवनेन समन्ततः . नाना नादाः प्रवर्तन्ते मार्दवं स्यात्कलेवरे .. १४७.. जित्वा वृष्ट्यादिकं जाड्यं खेचरः स भवेन्नरः . सर्वज्ञोसौ भवेत्कामरूपः पवनवेगवान् .. १४८.. क्रीडते त्रिषु लिकेषु जायन्ते सिद्धयोऽखिलाः . कर्पूरे लीयमाने किं काठिन्यं तत्र विद्यते .. १४९.. अहंकारक्षये तद्वद्देहे कठिना कुतः . सर्वकर्ता च योगीन्द्रः स्वतन्त्रोऽनन्तरूपवान् .. १५०.. जीवन्मुक्तो महायोगी जायते नात्र संशयः . द्विविधाः सिद्धयो लोके कल्पिताऽकल्पितास्तथा .. १५१.. रसौषधिक्रियाजालमन्त्राभ्यासाधिसाधनात् . सिद्ध्यन्ति सिद्धयो यास्तु कल्पितास्ताः प्रकीर्तिताः .. १५२.. अनित्या अल्पवीर्यास्ताः सिद्धयः साधनोद्भवाः . साधनेन विनाप्येवं जायन्ते स्वत एव हि .. १५३.. स्वात्मयोगैकनिष्ठेषु स्वातन्त्र्याद्दीश्वरप्रियाः . प्रभूताः सिद्धयो यास्ताः कल्पनारहिताः स्मृताः .. १५४. सिद्धानित्या महावीर्या इच्छारूपाः स्वयोगजाः . चिरकालात्प्रजायन्ते वासनारहितेषु च .. १५५.. तास्तु गोप्या महायोगात्परमात्मपदेऽव्यये . विना कार्यं सदा गुप्तं योगसिद्धस्य लक्षणम् .. १५६.. यथाकाशं समुद्दिश्य गच्छद्भिः पथिकैः पथि . नाना तीर्थानि दृश्यन्ते नानामार्गास्तु सिद्धयः .. १५७.. स्वयमेव प्रजायन्ते लाभालाभविवर्जिते . योगमार्गे तथैवेदं सिद्धिजालं प्रवर्तते .. १५८.. परीक्षकैः स्वर्णकारैर्हेम संप्रोच्यते यथा . सिधिभिर्लक्षयेत्सिद्धं जीवन्मुक्तं तथैव च .. १५९.. अलौकिकगुणस्तस्य कदाचिद्दृश्यते ध्रुवम् . सिद्धिभिः परिहीनं तु नरं बद्धं तु लक्षयेत् .. १६०.. अजरामरपिण्डो यो जीवन्मुक्तः स एव हि . पशुकुक्कुटकीटाद्या मृतिं संप्राप्नुवन्ति वै .. १६१.. तेषां किं पिण्डपातेन मुक्तिर्भवति पद्मज . न बहिः प्राण आयाति पिण्डस्य पतनं कुतः .. १६२.. पिण्डपातेन या मुक्तिः सा मुक्तिर्न तु हन्यते . देहे ब्रह्मत्वमायाते जलानां सैन्धवं यथा .. १६३.. अनन्यतां यदा याति तदा मुक्तः स उच्यते . विमतानि शरीराणि इन्द्रियाणि तथैव च .. १६४.. ब्रह्म देहत्वमापन्नं वारि बुद्बुदतामिव . दशद्वार पुरं देहं दशनाडीमहापथम् .. १६५.. दशभिर्वायुभिर्व्याप्तं दशेन्द्रियपरिच्छदम् . षडाधारापवरकं षडन्वयमहावनम् .. १६६.. चतुःपीठसमाकीर्णं चतुराम्नायदीपकम् . बिन्दुनादमहालिङ्गं शिवशक्तिनिकेतनम् .. १६७.. देहं शिवालयं प्रोक्तं सिद्धिदं सर्वदेहिनाम् . गुदमेढ्रान्तरालस्थं मूलाधारं त्रिकोणकम् .. १६८.. शिवस्य जीवरूपस्य स्थानं तद्धि प्रचक्षते . यत्र कुण्डलिनीनाम परा शक्तिः प्रतिष्ठिता .. १६९.. यस्मादुत्पद्यते वायुर्यस्माद्वह्निः प्रवर्तते . यस्मादुत्पद्यते बिन्दुर्यस्मान्नादः प्रवर्तते .. १७०.. यस्मादुत्पद्यते हंसो यस्मादुत्पद्यते मनः . तदेतत्कामरूपाख्यं पीठं कामफलप्रदम् .. १७१.. स्वाधिष्ठानाह्वयं चक्रं लिङ्गमूले षडस्रके . नाभिदेशे स्थितं चक्रं दशारं मणिपूरकम् .. १७२.. द्वादशारं महाचक्रं हृदये चाप्यनाहतम् . तदेतत्पूर्णगिर्याख्यं पीठं कमलसंभव .. १७३.. कण्ठकूपे विशुद्ध्याख्यं यच्चक्रं षोडशास्रकम् . पीठं जालन्धर नाम तिष्ठत्यत्र सुरेश्वर .. १७४.. आज्ञा नाम भ्रुवोर्मध्ये द्विदलं चक्रमुत्तमम् . उड्यानाख्यं महापीठमुपरिष्टात्प्रतिष्ठितम् .. १७५.. चतुरस्रं धरण्यादौ ब्रह्मा तत्राधिदेवता . अर्धचन्द्राकृति चलं विष्णुस्तस्याधिदेवता .. १७६.. त्रिकोणमण्डलं वह्नी रुद्रस्तस्याधिदेवता . वायोर्बिम्बं तु षट्कोणमीश्वरोऽस्याधिदेवता .. १७७.. आकाशमण्डलं वृत्तं देवतास्य सदाशिवः . नादरूपं भ्रुवोर्मध्ये मनसो मण्डलं विदुः .. १७८.. इति प्रथमोऽध्यायः .. १.. पुनर्योगस्य माहात्म्यं श्रोतुमिच्छामि शङ्कर . यस्य विज्ञानमात्रेण खेचरीसमतां व्रजेत् .. १.. शृणु ब्रह्मन्प्रवक्ष्यामि गोपनीयं प्रयत्नतः . द्वादशाब्दं तु शुश्रूषां यः कुर्यादप्रमादतः .. २.. तस्मै वाच्यं यथातथ्यं दान्ताय ब्रह्मचारिणे . पाण्डित्यादर्थलोभाद्वा प्रमादाद्वा प्रयच्छति .. ३.. तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् . मूलमन्त्रं विजानाति यो विद्वान्गुरुदर्शितम् .. ४.. शिवशक्तिमयं मन्त्रं मूलाधारात्समुत्थितम् . तस्य मन्त्रस्य वै ब्रह्मञ्छ्रोता वक्ता च दुर्लभः .. ५.. एतत्पीठमिति प्रोक्तं नादलिङ्गं चिदात्मकम् . तस्य विज्ञानमात्रेण जीवन्मुक्तो भवेज्जनः .. ६.. अणिमादिकमैश्वर्यमचिरादेव जायते . मननात्प्राणनाच्चैव मद्रूपस्यावबोधनात् .. ७.. मन्त्रमित्युच्यते ब्रह्मन्मदधिष्ठानतोऽपि वा . मूलत्वात्सर्वमन्त्राणां मूलाधारात्समुद्भवात् .. ८.. मूलस्वरूपलिङ्गत्वान्मूलमन्त्र इति स्मृतः . सूक्ष्मत्वात्कारणात्वाच्च लयनाद्गमनादपि .. ९.. लक्षणात्परमेशस्य लिङ्गमित्यभिधीयते . संनिधानात्समस्तेषु जन्तुष्वपि च सन्ततम् .. १०.. सूचकत्वाच्च रूपस्य सूत्रमित्यभिधीयते . महामाया महालक्ष्मीर्महादेवी सरस्वती .. ११.. आधारशक्तिरव्यक्ता यया विश्वं प्रवर्तते . सूक्ष्माभा बिन्दुरूपेण पीठरूपेण वर्तते .. १२.. बिन्दुपीठं विनिर्भिद्य नादलिङ्गमुपस्थितम् . प्राणेनोच्चार्यते ब्रह्मन्षण्मुखीकरणेन च .. १३.. गुरूपदेशमार्गेण सहसैव प्रकाशते . स्थूलं सूक्ष्मं परं चेति त्रिविधं ब्रह्मणो वपुः .. १४.. पञ्चब्रह्ममयं रूपं स्थूलं वैराजमुच्यते . हिरण्यगर्भं सूक्ष्मं तु नादं बीजत्रयात्मकम् .. १५.. परं ब्रह्म परं सत्यं सच्चिदानन्दलक्षणम् . अप्रमेयमनिर्देश्यमवाङ्मनसगोचरम् .. १६.. शुद्धं सूक्ष्मं निराकारं निर्विकारं निरञ्जनम् . अनन्तमपरिच्छेद्यमनूपममनामयम् .. १७.. आत्ममन्त्रसदाभ्यासात्परतत्त्वं प्रकाशते . तदभिव्यक्तचिह्नानि सिद्धिद्वाराणि मे शृणु .. १८.. दीपज्वालेन्दुखद्योतविद्युन्नक्षत्रभास्वराः . दृश्यन्ते सूक्ष्मरूपेण सदा युक्तस्य योगिनः .. १९.. अणिमादिकमैश्वर्यमचिरात्तस्य जायते . नास्ति नादात्परो मन्त्रो न देवः स्वात्मनः परः .. २०.. नानुसन्धेः परा पूजा न हि तृप्तेः परं मुखम् . गोपनीयं प्रयत्नेन सर्वदा सिद्धिमिच्छता . मद्भक्त एतद्विज्ञाय कृत कृत्यः सुखी भवेत् .. २१.. यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ . तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः .. २२.. इति .. इति द्वितीयोऽध्यायः .. २.. यन्नमस्यं चिदाख्यातं यत्सिद्धीनां च कारणम् . येन विज्ञातमात्रेण जन्मबन्धात्प्रमुच्यते .. १.. अक्षरं परमो नादः शब्दब्रह्मेति कथ्यते . मूलाधारगता शक्तिः स्वाधारा बिन्दुरूपिणी .. २.. तस्यामुत्पद्यते नादः सूक्ष्मबीजादिवाङ्कुरः . तां पश्यन्तीं विदुर्विश्वं यया पश्यन्ति योगिनः .. ३.. हृदये व्यज्यते घोषो गर्जत्पर्जन्यसंनिभः . तत्र स्थिता सुरेशान मध्यमेत्यभिधीयते .. ४.. प्राणेन च स्वराख्येन प्रथिता वैखरी पुनः . शाखापल्लवरूपेण ताल्वादिस्थानघट्टनात् .. ५.. अकारादिक्षकारान्तान्यक्षराणि समीरयेत् . अक्षरेभ्यः पदानि स्युः पदेभ्यो वाक्यसंभवः .. ६.. सर्वे वाक्यात्मका मन्त्रा वेदशास्त्राणि कृत्स्नशः . पुराणानि च काव्यानि भाषाश्च विविधा अपि .. ७.. सप्तस्वराश्च गाथाश्च सर्वे नादसमुद्भवाः . एषा सरस्वती देवी सर्वभूतगुहाश्रया .. ८.. वायुना वह्नियुक्तेन प्रेर्यमाणा शनैः शनैः . तद्विवर्तपदैर्वाक्यैरित्येवं वर्तते सदा .. ९.. य इमां वैखरी शक्तिं योगी स्वात्मनि पश्यति . स वाक्सिद्धिमवाप्नोति सरस्वत्याः प्रसादतः .. १०.. वेदशास्त्रपुराणानां स्वयं कर्ता भविष्यति . यत्र बिन्दुश्च नादश्च सोमसूर्याग्निवायवः .. ११.. इन्द्रियाणि च सर्वाणि लयं गच्छन्ति सुव्रत . वायवो यत्र लीयन्ते मनो यत्र विलीयते .. १२.. यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः . यस्मिंस्थितो न दुःखेन गुरुणापि विचाल्यते .. १३.. यत्रोपरमते चित्तं निरुद्धं योगसेवया . यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति .. १४.. सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् . एतत्क्षराक्षरातीतमनक्षरमितीर्यते .. १५.. क्षरः सर्वाणि भूतानि सूत्रात्माऽक्षर उच्यते . अक्षरं परमं ब्रह्म निर्विशेषं निरञ्जनम् .. १६.. अलक्षणमलक्षं तदप्रतर्क्यमनूपमम् . अपारपारमच्छेद्यमचिन्त्यमतिनिर्मलम् .. १७.. आधारं सर्वभूतानामनाधारमनामयम् . अप्रमाणमनिर्देश्यमप्रमेयमतीन्द्रियम् .. १८.. अस्थूलमनणुह्रस्वमदीर्घमजमव्ययम् . अशब्दमस्पर्शरूपमचक्षुःश्रोत्रनामकम् .. १९.. सर्वज्ञं सर्वगं शान्तं सर्वेषां हृदये स्थितम् . सुसंवेद्यं गुरुमतात्सुदुर्बोधमचेतसाम् .. २०.. निष्कलं निर्गुणं शान्तं निर्विकारं निराश्रयम् . निर्लेपकं निरापायं कूटस्थमचलं ध्रुवम् .. २१.. ज्योतिषामपि तज्ज्योतिस्तमःपारे प्रतिष्ठितम् . भावाभावविनिर्मुक्तं भावनामात्रगोचरम् .. २२.. भक्तिगम्यं परं तत्त्वमन्तर्लीनेन चेतसा . भावनामात्रमेवात्र कारणं पद्मसंभव .. २३.. यथा देहान्तरप्राप्तेः कारणं भावना नृणाम् . विषयं ध्यायतः पुंसो विषये रमते मनः .. २४.. मामनुस्मरतश्चित्तं मय्येवात्र विलीयते . सर्वज्ञत्वं परेशत्वं सर्वसंपूर्णशक्तिता . अनन्तशक्तिमत्त्वं च मदनुस्मरणाद्भवेत् .. २५.. इति.. इति तृतीयोऽध्यायः .. ३.. चैतनस्यैकरूपत्वद्भेदो युक्तो न कर्हिचित् . जीवत्वं च तथा ज्ञेयं रज्ज्वां सर्पग्रहो यथा .. १.. रज्ज्वज्ञानात्क्षणेनैव यद्वद्रज्जुर्हि सर्पिणी . भाति तद्वच्चितिः साक्षाद्विश्वाकारेण केवला .. २.. उपादानं प्रपञ्चस्य ब्रह्मणोऽन्यन्न विद्यते . तस्मात्सर्वप्रपञ्चोऽयं ब्रह्मैवास्ति न चेतरत् .. ३.. व्याप्यव्याप्यकता मिथ्या सर्वमात्मेति शासनात् . इति ज्ञाते परे तत्त्वे भेदस्यावसरः कुतः .. ४.. ब्रह्मणः सर्वभूतानि जायन्ते परमात्मनः . तस्मादेतानि ब्रह्मैव भवन्तीति विचिन्तय .. ५.. ब्रह्मैव सर्वनामानि रूपाणि विविधानि च . कर्माण्यपि समग्राणि बिभर्तीति विभावय .. ६.. सुवर्णाज्जायमानस्य सुवर्णत्वं च शाश्वतम् . ब्रह्मणो जायमानस्य ब्रह्मत्वं च तथा भवेत् .. ७.. स्वल्पमप्यन्तरं कृत्वा जीवात्मपरमात्मनोः . यस्तिष्ठति विमूढात्मा भयं तस्यापि भाषितम् .. ८.. यदज्ञानद्भवेद्द्वैतमितरत्तत्प्रपश्यति . आत्मत्वेन तदा सर्वं नेतरत्तत्र चाण्वपि .. ९.. अनुभूतोऽप्ययं लोको व्यवहारक्षमोऽपि सन् . असद्रूपो यथा स्वप्न उत्तरक्षणबाधितः .. १०.. स्वप्ने जागरितं नास्ति जागरे स्वप्नता नहि . द्वयमेव लये नास्ति लयोऽपि ह्यनयोर्न च .. ११.. त्रयमेव भवेन्मिथ्या गुणत्रयविनिर्मितम् . अस्य द्रष्टा गुणातीतो नित्यो ह्येष चिदात्मकः .. १२.. यद्वन्मृदि घटभ्रान्तिः शुक्तौ हि रजतस्थितिः . तद्वद्ब्रह्मणि जीवत्वं वीक्षमाणे विनश्यति .. १३.. यथा मृदि घटो नाम कनके कुण्डलाभिधा . शुक्तौ हि रजतख्यातिर्जीवशब्दस्तथा परे .. १४.. यथैव व्योम्नि नीलत्वं यथा नीरं मरुस्थले . पुरुषत्वं यथा स्थाणौ तद्वद्विश्वं चिदात्मनि .. १५.. यथैव शून्यो वेतालो गन्धर्वाणं पुरं यथा . यथाकाशे द्विचन्द्रत्वं तद्वत्सत्ये जगत्स्थितिः .. १६.. यथा तरङ्गकल्लोलैर्जलमेव स्फुरत्यलम् . घटनाम्ना यथा पृथ्वी पटनाम्ना हि तन्तवः .. १७.. जगन्नाम्ना चिदाभाति सर्वं ब्रह्मैव केवलम् . यथा वन्ध्यासुतो नास्ति यथा नस्ति मरौ जलम् .. १८.. यथा नास्ति नभोवृक्षस्तथा नास्ति जगत्स्थितिः . गृह्यमाने घटे यद्वन्मृत्तिका भाति वै बलात् .. १९.. वीक्ष्यमाणे प्रपञ्चे तु ब्रह्मैवाभाति भासुरम् . सदैवात्मा विशुद्धोऽस्मि ह्यशुद्धो भाति वै सदा .. २०.. यथैव द्विविधा रज्जुर्ज्ञानिनोऽज्ञानिनोऽनिशम् . यथैव मृन्मयः कुंभस्तद्वद्देहोऽपि चिन्मयः .. २१.. आत्मानात्मविवेकोऽयं मुधैव क्रियते बुधैः .. सर्पत्वेन यथा रज्जू रजतत्वेन शुक्तिका .. २२.. विनिर्णीता विमूढेन देहत्वेन तथात्मता . घटत्वेन यथा पृथ्वी जलत्वेन मरीचिका .. २३.. गृहत्वेन हि काष्ठानि खड्गत्वेन हि लोहता . तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः .. २४.. इति.. इति चतुर्थोऽध्यायः .. ४.. पुनर्योगं प्रवक्ष्यामि गुह्यं ब्रह्मस्वरूपकम् . समाहितमनाअ भूत्वा शृणु ब्रह्मन्यथाक्रमम् .. १.. दशद्वारपुरं देहं दशनाडीमहापथम् . दशभिर्वायुभिर्व्याप्तं दशेन्द्रियपरिच्छदम् .. २.. षडाधारापवरकं षडन्वयमहावनम् . चतुःपीठसमाकीर्णं चतुराम्नायदीपकम् .. ३.. बिन्दुनादमहालिङ्गविष्णुलक्ष्मीनिकेतनम् . देहं विष्ण्वालयं प्रोक्तं सिद्धिदं सर्वदेहिनाम् .. ४.. गुदमेढ्रान्तरालस्थं मूलाधारं त्रिकोणकम् . शिवस्य जीवरूपस्य स्थानं तद्धि प्रचक्षते .. ५.. यत्र कुण्डलिनी नाम परा शक्तिः प्रतिष्ठिता . यस्मादुत्पद्यते वायुर्यस्माद्वह्निः प्रवर्तते .. ६.. यस्मादुत्पद्यते बिन्दुर्यस्मान्नादः प्रवर्तते . यस्मादुत्पद्यते हंसो यस्मादुत्पद्यते मनः .. ७.. तदेतत्कामरूपाख्यं पीठं कामफलप्रदम् . स्वाधिष्ठानह्वयं चक्रं लिङ्गमूले षडस्रकम् .. ८.. नाभिदेशे स्थितं चक्रं दशास्रं मणिपूरकम् . द्वादशारं महाचक्रं हृदये चाप्यनाहतम् .. ९.. तदेतत्पूर्णगिर्याख्यं पीठं कमलसंभव . कण्ठकूपे विशुद्धाख्यं यच्चक्रं षोडशास्रकम् .. १०.. पीठं जालन्धरं नाम तिष्ठत्यत्र चतुर्मुख . आज्ञा नाम भ्रुवोर्मध्ये द्विदलं चक्रमुत्तमम् .. ११.. उड्यानाख्यं महापीठमुपरिष्टात्प्रतिष्ठितम् . स्थानान्येतानि देहेऽस्मिञ्छक्तिरूपं प्रकाशते .. १२.. चतुरस्रधरण्यादौ ब्रह्मा तत्राधिदेवता . अर्धचन्द्राकृति जलं विष्णुस्तस्याधिदेवता .. १३.. त्रिकोणमण्डलं वह्नी रुद्रस्तस्याधिदेवता . वायोर्बिंबं तु षट्कोणं संकर्षोऽत्राधिदेवता .. १४.. आकाशमण्डलं वृत्तं श्रीमन्नारायणोऽत्राधिदेवता . नादरूपं भ्रुवोर्मध्ये मनसो मण्डलं विदुः .. १५.. शांभवस्थानमेतत्ते वर्णितं पद्मसंभव . अतः परं प्रवक्ष्यामि नाडीचक्रस्य निर्णयम् .. १६.. मूलाधारत्रिकोणस्था सुषुम्ना द्वादशाङ्गुला . मूलार्धच्छिन्नवंशाभा ब्रह्मनाडीति सा स्मृता .. १७.. इडा च पिङ्गला चैव तस्याः पार्श्वद्वये गते . विलंबिन्यामनुस्यूते नासिकान्तमुपागते .. १८.. इडायां हेमरूपेण वायुर्वामेन गच्छति . पिङ्गलायां तु सूर्यात्मा याति दक्षिणपार्श्वतः .. १९.. विलंबिनीति या नाडी व्यक्ता नाभौ प्रतिष्ठिता . तत्र नाड्यः समुत्पन्नस्तिर्यगूर्ध्वमधोमुखाः .. २०.. तन्नाभिचक्रमित्युक्तं कुक्कुटाण्डमिव स्थितम् . गान्धारी हस्तिजिह्वा च तस्मान्नेत्रद्वयं गते .. २१.. पूषा चालम्बुसा चैव श्रोत्रद्वयमुपागते . शूरा नाम महानाडी तस्माद्भ्रूमध्यमाश्रिता .. २२.. विश्वोदरी तु या नाडी सा भुङ्क्तेऽन्नं चतुर्विधम् . सरस्वती तु या नाडी सा जिह्वान्तं प्रसर्पति .. २३.. राकाह्वया तु या नाडी पीत्वा च सलिलं क्षणात् . क्षुतमुत्पादयेद् घ्राणे श्लेष्माणं संचिनोति च .. २४.. कण्ठकूपोद्भवा नाडी शङ्खिनाख्या त्वधोमुखी . अन्नसारं समादाय मूर्ध्नि संचिनुते सदा .. २५.. नाभेरधोगतास्तिस्रो जाडयः स्युरधोमुखः . मलं त्यजेत्कुहूर्नाडी मूत्रं मुञ्चति वारुणी .. २६.. चित्राख्या सीविनि नाडी शुक्लमोचनकारणी . नाडीचक्रमिति प्रोक्तं बिन्दुरूपमतः शृणु .. २७.. स्थूलं सूक्ष्मं परं चेति त्रिविधं ब्रह्मणो वपुः . स्थूलं शुक्लात्मकं बिन्दुः सूक्ष्मं पञ्चाग्निरूपकम् .. २८.. सोमात्मकः परः प्रोक्तः सदा साक्षी सदाच्युतः . पातालानामधोभागे कालाग्निर्यः प्रतिष्ठितः .. २९.. समूलाग्निः शरीरेऽग्निर्यस्मान्नादः प्रजायते . वडवाग्निः शरीरस्थो ह्यस्थिमध्ये प्रवर्तते .. ३०.. काष्ठपाषाणयोर्वह्निर्ह्यस्थिमध्ये प्रवर्तते . काष्ठपाषणजो वह्निः पार्थिवो ग्रहणीगतः.. ३१.. अन्तरिक्षगतो वह्निर्वैद्युतः स्वान्तरात्मकः . नभस्थः सूर्यरूपोऽग्निर्नाभिमण्डलमाश्रितः .. ३२.. विषं वर्षति सूर्योऽसौ स्रवत्यमृतमुन्मुखः . तालुमूले स्थितश्चन्द्रः सुधां वर्षत्यधोमुखः .. ३३.. भ्रूमध्यनिलयो बिन्दुः शुद्धस्फटिकसंनिभः . महाविष्णोश्च देवस्य तत्सूक्ष्मं रूपमुच्यते .. ३४.. एतत्पञ्चाग्निरूपं यो भावयेद्बुद्धिमान्धिया . तेन भुक्तं च पीतं च हुतमेव न संशयः .. ३५.. सुखसंसेवितं स्वप्नं सुजीर्णमितभोजनम्.ज् . शरीरशुद्धिं कृत्वादौ सुखमासनमास्थितः .. ३६.. प्राणस्य शोधयेन्मार्गं रेचपूरककुम्भकैः . गुदमाकुञ्च्य यत्नेन मूलशक्तिं प्रपूजयेत् .. ३७.. नाभौ लिङ्गस्य मध्ये तु उड्यानाख्यं च बन्धयेत् . उड्डीय याति तेनैव शक्तितोड्यानपीठकम् .. ३८.. कण्ठं सङ्कोचयेत्किंचिद्बन्धो जालन्धरि ह्ययम् . बन्धयेत्खेचरि मुद्रां दृढचित्तः समाहितः .. ३९.. कपालविवरे जिह्वा प्रविष्टा विपरीतगा . भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी .. ४०.. खेचर्या मुद्रितं येन विवरं लम्बिकोर्ध्वतः . न पीयूषं पतत्यग्नौ न च वायुः प्रधावति .. ४१.. न क्षुधा न तृषा निद्रा नैवालस्यं प्रजायते . न च मृत्युर्भवेत्तस्य यो मुद्रां वेत्ति खेचरीम् .. ४२.. ततः पूर्वापरे व्योम्नि द्वादशान्तेऽच्युतात्मके . उड्ड्यानपीठे निर्द्वन्द्वे निरालम्बे निरञ्जने .. ४३.. ततः पङ्कजमध्यस्थं चन्द्रमण्डलमध्यगम् . नारायणमनुध्यायेत्स्रवतममृतं सदा .. ४४.. भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः . क्षीयन्ते चास्य कर्माणि तस्मिद्नृष्टे परावरे .. ४५.. अथ सिद्धिं प्रवक्ष्यामि सुखोपायं सुरेश्वर . जितेन्द्रियाणां शान्तानां जितश्वासविचेतसाम् .. ४६.. नादे मनोलयं ब्रह्मन्दूरश्रवणकारणम् . बिन्दौ मनोलयं कृत्वा दूरदर्शनमाप्नुयात् .. ४७.. कालात्मनि मनो लीनं त्रिकालज्ञानकारणम् . परकायमनोयोगः परकायप्रवेशकृत् .. ४८.. अमृतं चिन्तयेन्मूर्ध्नि क्षुत्तृषाविषशान्तये . पृथिव्यां धारयेच्चित्तं पातालगमनं भवेत् .. ४९.. सलिले धारयेच्चित्तं नाम्भसा परिभूयते . अग्नौ सन्धारयेच्चित्तमग्निना दह्यते न सः .. ५०.. वायौ मनोलयं कुर्यादाकाशगमनं भवेत् . आकाशे धारयेच्चित्तमणिमादिकमाप्नुयात् .. ५१.. विराड्रूपे मनो युञ्जन्महिमानमवाप्नुयात् . चतुर्मुखे मनो युञ्जञ्जगत्सृष्टिकरो भवेत् .. ५२.. इन्द्ररूपिणमात्मानं भावयन्मर्त्यभोगवान् . विष्णुरूपे महायोगी पालयेदखिलं जगत् .. ५३.. रुद्ररूपे महायोगी संहरत्येव तेजसा . नारायणे मनो युञ्जन्सर्वसिद्धिमवाप्नुयात् .. ५४.. यथा संकल्पयेद्योगी योगयुक्तो जितेन्द्रियः . तथा तत्तदवाप्नोति भाव एवात्र कारणम् .. ५५.. गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवः सदाच्युतः . न गुरोरधिकः कश्चित्त्रिषु लोकेषु विद्यते .. ५६.. दिव्यज्ञानोपदेष्टारं देशिकं परमेश्वरम् . पूजयेत्परया भक्त्या तस्य ज्ञानफलं भवेत् .. ५७.. यथा गुरुस्तथैवेशो यथैवेशोस्तथा गुरुः . पूजनीयो महाभक्त्या न भेदो विद्यतेऽनयोः .. ५८.. नाद्वैतवादं कुर्वीत गुरुणा सह कुत्रचित् . अद्वैतं भावयेद्भक्त्या गुरोर्देवस्य चात्मनः .. ५९.. योगशिखां महागुह्यं यो जानाति महामतिः . न तस्य किंचिदज्ञातं त्रिषु लोकेषु विद्यते .. ६०.. न पुण्यपापे नास्वस्थो न दुःखं न पराजयः . न चास्ति पुनरावृत्तिरस्मिन्संसारमण्डले .. ६१.. सिद्धौ चित्तं न कुर्वीत चञ्चलत्वेन चेतसः . तथा विज्ञाततत्त्वोऽसौ मुक्त एव न संशयः .. ६२.. इत्युपनिषत् .. इति पञ्चमोऽध्यायः .. ५.. उपासनाप्रकारं मे ब्रूहि त्वं परमेश्वर . येन विज्ञातमात्रेण मुक्तो भवति संसृतेः .. १.. उपासनाप्रकारं ते रहस्यं श्रुतिसारकम् . हिरण्यगर्भ वक्ष्यामि श्रुत्वा सम्यगुपासय .. २.. सुषुम्नायै कुण्डलीन्यै सुधायै चन्द्रमण्डलात् . मनोन्मन्यै नमस्तुभ्यं महाशक्त्यै चिदात्मने .. ३.. शतं चैका च हृदयस्य नाड्य-

    स्तासां मूर्धानमभिनिःसृतैका .

तयोर्ध्वमायन्नमृतत्वमेति

    विश्वङ्ङ्न्या उत्क्रमणे भवन्ति .. ४..

एकोत्तरं नाडिशतं तासां मध्ये परा स्मृता . सुषुम्ना तु परे लीना विरजा ब्रह्मरूपिणी .. ५.. इडा तिष्ठति वामेन पिङ्गला दक्षिणेन तु . तयोर्मध्ये परं स्थानं यस्तद्वेद स वेदवित् .. ६.. प्राणान्सन्धारयेत्तस्मिन्नासाभ्यान्तरचारिणः . भूत्वा तत्रायतप्राणः शनैरेव समभ्यसेत् .. ७.. गुदस्य पृष्ठभागेऽस्मिन्वीणादन्डः स देहभृत् . दीर्घास्तिदेहपर्यन्तं ब्रह्मनाडीति कथ्यते .. ८.. तस्यान्ते सुषिरं सूक्ष्मं ब्रह्मनाडीति सूरभिः . इडापिङ्गलयोर्मध्ये सुषुम्ना सूर्यरूपिणी .. ९.. सर्वं प्रतिष्ठितं तस्मिन्सर्वगं विश्वतोमुखम् . तस्य मध्यगताः सूर्यसोमाग्निपरमेश्वराः .. १०.. भूतलोका दिशः क्षेत्राः समुद्राः पर्वताः शिलाः . द्वीपाश्च निम्नगा वेदाः शास्त्रविद्याकलाक्षराः .. ११.. स्वरमन्त्रपुराणानि गुणाश्चैते च सर्वशः . बीजं बीजात्मकस्तेषां क्षेत्रज्ञः प्राणवायवः .. १२.. सुषुम्नान्तर्गतं विश्वं तस्मिन्सर्वं प्रतिष्ठितम् . नानानाडीप्रसवगं सर्वभूतान्तरात्मनि .. १३.. ऊर्ध्वमूलमधःशाखं वायुमार्गेण सर्वगम् . द्विसप्ततिसहस्राणि नाड्यः स्युर्वायुगोचराः .. १४.. सर्वमार्गेण सुषिरास्तिर्यञ्चः सुषिरात्मताः . अधश्चोर्ध्वं च कुण्डल्याः सर्वद्वारनिरोधनात् .. १५.. वायुना सह जीवोर्ध्वज्ञानान्मोक्षमवाप्नुयात् . ज्ञात्वा सुषुम्नां तद्भेदं कृत्वा पायुं च मध्यगम् .. १६.. कृत्वा तु चैन्दवस्थाने घ्राणरन्ध्रे निरोधयेत् . द्विसप्ततिसहस्राणि नाडीद्वाराणि पञ्जरे .. १७.. सुषुम्ना शाम्भवी शक्तिः शेषास्त्वन्ये निरर्थकाः . हृल्लेखे परमानन्दे तालुमूले व्यवस्थिते .. १८.. अत ऊर्ध्वं निरोधे तु मध्यमं मध्यमध्यमम् . उच्चारयेत्परां शक्तिं ब्रह्मरन्ध्रनिवासिनीम् . यदि भ्रमरसृष्टिः स्यात्संसारभ्रमणं त्यजेत् .. १९.. गमागमस्थं गमनादिशून्यं

    चिद्रूपदीपं तिमिरान्धनाशम् .

पश्यामि तं सर्वजनान्तरस्थं

    नमामि हंसं परमात्मरूपम् .. २०..

अनाहतस्य शब्दस्य तस्य शब्दस्य यो ध्वनिः . ध्वनेरन्तर्गतं ज्योतिर्ज्योतिषोऽन्तर्गतं मनः . तन्मनो विलयं याति तद्विष्णोः परमं पदम् .. २१.. केचिद्वदन्ति चाधारं सुषुम्ना च सरस्वती . आधाराज्जायते विश्वं विश्वं तत्रैव लीयते .. २२.. तस्मात्सर्वप्रयत्नेन गुरुपादं समाश्रयेत् . आधारशक्तिनिद्रायां विश्वं भवति निद्रया .. २३.. तस्यां शक्तिप्रबोधेन त्रैलोक्यं प्रतिबुध्यते . आधारं यो विजानाति तमसः परमश्नुते .. २४.. तस्य विज्ञानमात्रेण नरः पापैः प्रमुच्यते .. २५.. आधारचक्रमहसा विद्युत्पुञ्जसमप्रभा . तदा मुक्तिर्न सन्देहो यदि तुष्टः स्वयं गुरुः .. २६.. आधारचक्रमहसा पुण्यपापे निकृन्तयेत् . आधारवातरोधेन लीयते गगनान्तरे .. २७.. आधारवातरोधेन शरीरं कंपते यदा . आधारवातरोधेन योगी नृत्यति सर्वदा .. २८.. आधारवातरोधेन विश्वं तत्रैव दृश्यते . सृष्टिमाधारमाधारमाधारे सर्वदेवताः . आधारे सर्ववेदाश्च तस्मादाधारमाश्रयेत् .. २९.. आधारे पश्चिमे भागे त्रिवेणीसङ्गमो भवेत् . तत्र स्नात्वा च पीत्वा च नरः पापात्प्रमुच्यते .. ३०.. आहारे पश्चिमं लिङ्गं कवाटं तत्र विद्यते . तस्योद्घाटनमात्रेण मुच्यते भवबन्धनात् .. ३१.. आधारपश्चिमे भागे चन्द्रसूर्यौ स्थिरौ यदि . तत्र तिष्ठति विश्वेशो ध्यात्वा ब्रह्ममयो भवेत् .. ३२.. आधारपश्चिमे भागे मूर्तिस्तिष्ठति संज्ञया . षट् चक्राणि च निर्भिद्य ब्रह्मरन्ध्राद्बहिर्गतम् .. ३३.. वामदक्षे निरुन्धन्ति प्रविशन्ति सुषुम्नया . ब्रह्मरन्ध्रं प्रविश्यान्तस्ते यान्ति परमां गतिम् .. ३४.. सुषुम्नायां यदा हंसस्त्वध ऊर्ध्वं प्रधावति . सुषुम्नायां यदा प्राणं भ्रामयेद्यो निरन्तरम् .. ३५.. सुषुम्नायां यदा प्राणः स्थिरो भवति धीमताम् . सुषुम्नायां प्रवेशेन चन्द्रसूर्यौ लयं गतौ .. ३६.. तदा समरसं भावं यो जानाति स योगवित् . सुषुम्नायां यदा यस्य म्रियते मनसो रयः .. ३७.. सुषुम्नायां यदा योगी क्षणैकमपि तिष्टति . सुषुम्नायां यदा योगी क्षणार्धमपि तिष्ठति .. ३८.. सुषुम्नायां यदा योगी सुलग्नो लवणाम्बुवत् . सुषुम्नायां यदा योगी लीयते क्षीरनीरवत् .. ३९.. भिद्यते च तदा ग्रन्थिश्चिद्यन्ते सर्वसंशयाः . क्षीयन्ते परमाकाशे ते यान्ति परमां गतिम् .. ४०.. गङ्गायां सागरे स्नात्वा नत्वा च मणिकर्णिकाम् . मध्यनाडीविचारस्य कलां नार्हन्ति षोडशीम् .. ४१.. श्रीशैलदर्शनान्मुक्तिर्वाराणस्यां मृतस्य च . केदारोदकपानेन मध्यनाडीप्रदर्शनात् .. ४२.. अश्वमेधसहस्राणि वाजपेयशतानि च . सुषुम्नाध्यानयोगस्य कलां नार्हन्ति षोडशीम् .. ४३.. सुषुम्नायां सदा गोष्ठीं यः कश्चित्कुरुते नरः . स मुक्तः सर्वपापेभ्यो निश्रेयसमवाप्नुयात् .. ४४.. सुषुम्नैव परं तीर्थं सुषुम्नैव परं जपः . सुषुम्नैव परं ध्यानं सुषुम्नैव परा गतिः .. ४५.. अनेकयज्ञदानानि व्रतानि नियमास्तथा . सुषुम्नाध्यानलेशस्य कलां नार्हन्ति षोडशीम् .. ४६.. ब्रह्मरन्ध्रे महास्थाने वर्तते सततं शिवा . चिच्छक्तिः परमादेवी मध्यमे सुप्रतिष्ठिता .. ४७.. मायाशक्तिर्ललाटाग्रभागे व्योमाम्बुजे तथा . नादरूपा पराशक्तिर्ललाटस्य तु मध्यमे .. ४८.. भागे बिन्दुमयी शक्तिर्ललाटस्यापरांशके . बिन्दुमध्ये च जीवात्मा सूक्ष्मरूपेण वर्तते .. ४९.. हृदये स्थूलरूपेण मध्यमेन तु मध्यगे .. ५०.. प्राणापानवशो जीवो ह्यधश्चोर्ध्वं च धावति . वामदक्षिणमार्गेण चञ्चलत्वान्न दृश्यते .. ५१.. आक्षिप्तो भुजदण्डेन यथोच्चलति कन्दुकः . प्राणापानसमाक्षिप्तस्तथा जीवो न विश्रमेत् .. ५२.. अपानः कर्षति प्राणं प्राणोऽपानं च कर्षति . हकारेण बहिर्याति सकारेण विशेत्पुनः .. ५३.. हंसहंसेत्यमुं मन्त्रं जीवो जपति सर्वदा . तद्विद्वानक्षरं नित्यं यो जानाति स योगवित् .. ५४.. कन्दोर्ध्वे कुण्डलीशक्तिर्मुक्तिरूपा हि योगिनाम् . बन्धनाय च मूढानां यस्तां वेत्ति स योगवित् .. ५५.. भूर्भुवःस्वरिमे लोकाश्चन्द्रसूर्याऽग्निदेवताः . यासु मात्रासु तिष्ठन्ति तत्परं ज्योतिरोमिति .. ५६.. त्रयः कालास्त्रयो देवास्त्रयो लोकास्त्रयः स्वराः . त्रयो वेदाः स्थिता यत्र तत्परं ज्योतिरोमिति .. ५७.. चित्ते चलति संसारो निश्चलं मोक्ष उच्यते . तस्माच्चित्तं स्थिरीकुर्यात्प्रज्ञया परया विधे .. ५८.. चित्तं कारणमर्थानां तस्मिन्सति जगत्त्रयम् . तस्मिन्क्षीणे जगत्क्षीणं तच्चिकित्स्यं प्रयत्नतः .. ५९.. मनोहं गगनाकारं मनोहं सर्वतोमुखम् . मनोहं सर्वमात्मा च न मनः केवलः परः .. ६०.. मनः कर्माणि जायन्ते मनो लिप्यति पातकैः . मनश्चेदुन्मनीभूयान्न पुण्यं न च पातकम् .. ६१.. मनसा मन आलोक्य वृत्तिशून्यं यदा भवेत् . ततः परं परब्रह्म दृश्यते च सुदुर्लभम् .. ६२.. मनसा मन आलोक्य मुक्तो भवति योगवित् . मनसा मन आलोक्य उन्मन्यन्तं सदा स्मरेत् .. ६३.. मनसा मन आलोक्य योगनिष्ठः सदा भवेत् . मनसा मन आलोक्य दृश्यन्ते प्रत्यया दश .. ६४.. यदा प्रत्यया दृश्यन्ते तदा योगीश्वरो भवेत् .. ६५.. बिन्दुनादकलाज्योतीरवीन्दुध्रुवतारकम् . शान्तं च तदतीतं च परंब्रह्म तदुच्यते .. ६६.. हसत्युल्लसति प्रीत्या क्रीडते मोदते तदा . तनोति जीवनं बुद्ध्या बिभेति सर्वतोभयात् .. ६७.. रोध्यते बुध्यते शोके मुह्यते न च संपदा . कंपते शत्रुकार्येषु कामेन रमते हसन् .. ६८.. स्मृत्वा कामरतं चित्तं विजानीयात्कलेवरे . यत्र देशे वसेद्वायुश्चित्तं तद्वसति ध्रुवम् .. ६९.. मनश्चन्द्रो रविर्वायुर्दृष्टिरग्निरुदाहृतः . बिन्दुनादकला ब्रह्मन् विष्णुब्रह्मेशदेवताः .. ७०.. सदा नादानुसन्धानात्संक्षीणा वासना भवेत् . निरञ्जने विलीयेत मरुन्मनसि पद्मज .. ७१.. यो वै नादः स वै बिन्दुस्तद्वै चित्तं प्रकीर्तितम् . नादो बिन्दुश्च चित्तं च त्रिभिरैक्यं प्रसादयेत् .. ७२.. मन एव हि बिन्दुश्च उत्पत्तिस्थितिकारणम् . मनसोत्पद्यते बिन्दुर्यथा क्षीरं घृतात्मकम् .. ७३.. षट् चक्राणि परिज्ञात्वा प्रविशेत्सुखमण्डलम् . प्रविशेद्वायुमाकृष्य तथैवोर्ध्वं नियोजयेत् .. ७४.. वायुं बिन्दुं तथा चक्रं चित्तं चैव समभ्यसेत् . समाधिमेकेन समममृतं यान्ति योगिनः .. ७५.. यथाग्निर्दारुमध्यस्थो नोत्तिष्ठेन्मथनं विना . विना चाभ्यासयोगेन ज्ञानदीपस्तथा नहि .. ७६.. घटमध्ये यथा दीपो बाह्ये नैव प्रकाशते . भिन्ने तस्मिन् घटे चैव दीपज्वाला च भासते .. ७७.. स्वकायं घटमित्युक्तं यथा जीवो हि तत्पदम् . गुरुवाक्यसमाभिन्ने ब्रह्मज्ञानं प्रकाशते .. ७८.. कर्णधारं गुरुं प्राप्य तद्वाक्यं प्लववदृढम् . अभ्यासवासनाशक्त्या तरन्ति भवसागरम् .. ७९.. इत्युपनिषत् . इति योगशिखोपनिषदि षष्ठोऽध्यायः .. ६.. ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै . तेजस्विनवधीतमस्तु मा विद्विषावहै .. ॐ शान्तिः शान्तिः शान्तिः .. ॐ तत्सत् .. इति योगशिखोपनिषत्समाप्ता ..

Personal tools