योगतत्त्व उपनिषद्

From Wikisource

Jump to: navigation, search

.. योगतत्त्वोपनिषत् ..

योगैश्वर्यं च कैवल्यं जायते यत्प्रसादतः .

तद्वैष्णवं योगतत्त्वं रामचन्द्रपदं भजे ..

ॐ सह नाववतु .. सह नौ भुनक्तु .. सह वीर्यं करवावहै ..

तेजस्विनावधीतमस्तु मा विद्विषावहै ..

ॐ शान्तिः शान्तिः शान्तिः ..

योगतत्त्वं प्रवक्ष्यामि योगिनां हितकाम्यया .

यच्छृत्वा च पठित्वा च सर्वपापैः प्रमुच्यते .. १..

विष्णुर्नाम महायोगी महाभूतो महातपाः .

तत्त्वमार्गे यथा दीपो दृश्यते पुरुषोत्तमः .. २..

तमाराध्य जगन्नाथं प्रणिपत्य पितामहः .

पप्रच्छ योगतत्त्वं मे ब्रूहि चाष्टाङ्गसंयुतम् .. ३..

तमुवाच हृषीकेशो वक्ष्यामि शृणु तत्त्वतः .

सर्वे जीवाः सुखैर्दुखैर्मायाजालेन वेष्टिताः .. ४..

तेषां मुक्तिकरं मार्गं मायाजालनिकृन्तनम् .

जन्ममृत्युजराव्याधिनाशनं मृत्युतारकम् .. ५..

नानामार्गैस्तु दुष्प्रापं कैवल्यं परमं पदम् .

पतिताः शास्त्रजालेषु प्रज्ञया तेन मोहिताः .. ६..

अनिर्वाच्यं पदं वक्तुं न शक्यं तैः सुरैरपि .

स्वात्मप्रकाशरूपं तत्किं शास्त्रेण प्रकाशते .. ७..

निष्कलं निर्मलं शान्तं सर्वातीतं निरामयम् .

तदेव जीवरूपेण पुण्यपापफलैर्वृतम् .. ८..

परमात्मपदं नित्यं तत्कथं जीवतां गतम् .

सर्वभावपदातीतं ज्ञानरूपं निरञ्जनम् .. ९..

वारिवत्स्फुरितं तस्मिंस्तत्राहंकृतिरुत्थिता .

पञ्चात्मकमभूत्पिण्डं धातुबद्धं गुणात्मकम् .. १०..

सुखदुःखैः समायुक्तं जीवभावनया कुरु .

तेन जीवाभिधा प्रोक्ता विशुद्धैः परमात्मनि .. ११..

कामक्रोधभयं चापि मोहलोभमदो रजः .

जन्ममृत्युश्च कार्पण्यं शोकस्तन्द्रा क्षुधा तृषा .. १२..

तृष्णा लज्जा भयं दुह्खं विषादो हर्ष एव च .

एभिर्दोषैर्विनिर्मुक्तः स जीवः केवलो मतः .. १३..

तस्माद्दोषविनाशार्थमुपायं कथयामि ते .

योगहीनं कथं ज्ञानं मोक्षदं भवति ध्रुवम् .. १४..

योगो हि ज्ञानहीनस्तु न क्षमो मोक्षकर्मणि .

तस्माज्ज्ञानं च योगं च मुमुक्षुर्दृढमभ्यसेत् .. १५..

अज्ञानादेव संसारो ज्ञानादेव विमुच्यते .

ज्ञानस्वरूपमेवादौ ज्ञानं ज्ञेयैकसाधनम् .. १६..

ज्ञातं येन निजं रूपं कैवल्यं परमं पदम् .

निष्कलं निर्मलं साक्षात्सच्चिदानन्दरूपकम् .. १७..

उत्पत्तिस्थितिसंहारस्फूर्तिज्ञानविवर्जितम् .

एतज्ज्ञानमिति प्रोक्तमथ योगं ब्रवीमि ते .. १८..

योगो हि बहुधा ब्रह्मन्भिद्यते व्यवहारतः .

मन्त्रयोगो लयश्चैव हठोऽसौ राजयोगतः .. १९..

आरम्भश्च घटश्चैव तथा परिचयः स्मृतः .

निष्पत्तिश्चेत्यवस्था च सर्वत्र परिकीर्तिता .. २०..

एतेषां लक्षणं ब्रह्मन्वक्ष्ये शृणु समासतः .

मातृकादियुतं मन्त्रं द्वादशाब्दं तु यो जपेत् .. २१..

क्रमेण लभते ज्ञानमणिमादिगुणान्वितम् .

अल्पबुद्धिरिमं योगं सेवते साधकाधमः .. २२..

लययोगश्चित्तलयः कोटिशः परिकीर्तितः .

गच्छंस्तिष्ठन्स्वपन्भुञ्जन्ध्यायेन्निष्कलमीश्वरम् .. २३..

स एव लययोगः स्याद्धठयोगमतः शृणु .

यमश्च नियमश्चैव आसनं प्राणसंयमः .. २४..

प्रत्याहारो धारणा च ध्यानं भ्रूमध्यमे हरिम् .

समाधिः समतावस्था साष्टाङ्गो योग उच्यते .. २५..

महामुद्रा महाबन्धो महावेधश्च खेचरी .

जालन्धरोड्डियाणश्च मूलबन्धैस्तथैव च .. २६..

दीर्घप्रणवसन्धानं सिद्धान्तश्रवणं परम् .

वज्रोली चामरोली च सहजोली त्रिधा मता .. २७..

एतेषां लक्षणं ब्रह्मन्प्रत्येकं शृणु तत्त्वतः .

लघ्वाहारो यमेष्वेको मुख्या भवति नेतरः .. २८..

अहिंसा नियमेष्वेका मुख्या वै चतुरानन .

सिद्धं पद्मं तथा सिंहं भद्रं चेति चतुष्टयम् .. २९..

प्रथमाभ्यासकाले तु विघ्नाः स्युश्चतुरानन .

आलस्यं कत्थनं धूर्तगोष्टी मन्त्रादिसाधनम् .. ३०..

धातुस्त्रीलौल्यकादीनि मृगतृष्णामयानि वै .

ज्ञात्वा सुधीस्त्यजेत्सर्वान्विघ्नान्पुण्यप्रभावतः .. ३१..

प्राणायामं ततः कुर्यात्पद्मासनगतः स्वयम् .

सुशोभनं मठं कुर्यात्सूक्ष्मद्वारं तु निर्व्रणम् .. ३२..

सुष्ठु लिप्तं गोमयेन सुधया वा प्रयत्नतः .

मत्कुणैर्मशकैर्लूतैर्वर्जितं च प्रयत्नतः .. ३३..

दिने दिने च संमृष्टं संमार्जन्या विशेषतः .

वासितं च सुगन्धेन धूपितं गुग्गुलादिभिः .. ३४..

नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् .

तत्रोपविश्य मेधावी पद्मासनसमन्वितः .. ३५..

ऋजुकायः प्राञ्जलिश्च प्रणमेदिष्टदेवताम् .

ततो दक्षिणहस्तस्य अङ्गुष्ठेनैव पिङ्गलाम् .. ३६..

निरुध्य पूरयेद्वायुमिडया तु शनैः शनैः .

यथाशक्त्यविरोधेन ततः कुर्याच्च कुम्भकम् .. ३७..

पुनस्त्यजेत्पिङ्गलया शनैरेव न वेगतः .

पुनः पिङ्गलयापूर्य पूरयेदुदरं शनैः .. ३८..

धारयित्वा यथाशक्ति रेचयेदिडया शनैः .

यया त्यजेत्तयापूर्य धारयेदविरोधतः .. ३९..

जानु प्रदक्षिणीकृत्य न द्रुतं न विलम्बितम् .

अङ्गुलिस्फोटनं कुर्यात्सा मात्रा परिगीयते .. ४०..

इडया वायुमारोप्य शनैः षोडशमात्रया .

कुम्भयेत्पूरितं पश्चाच्चतुःषष्ट्या तु मात्रया .. ४१..

रेचयेत्पिङ्गलानाड्या द्वात्रिंशन्मात्रया पुनः .

पुनः पिङ्गलयापूर्य पूर्ववत्सुसमाहितः .. ४२..

प्रातर्मध्यन्दिने सायमर्धरात्रे च कुम्भकान् .

शनैरशीतिपर्यन्तं चतुर्वारं समभ्यसेत् .. ४३..

एवं मासत्रयाभ्यासान्नाडीशुद्धिस्ततो भवेत् .

यदा तु नाडीशुद्धिः स्यात्तदा चिह्नानि बाह्यतः .. ४४..

जायन्ते योगिनो देहे तानि वक्ष्याम्यशेषतः .

शरीरलघुता दीप्तिर्जाठराग्निविवर्धनम् .. ४५..

कृशत्वं च शरीरस्य तदा जायेत निश्चितम् .

योगाविघ्नकराहारं वर्जयेद्योगवित्तमः .. ४६..

लवणं सर्षपं चाम्लमुष्णं रूक्षं च तीक्ष्णकम् .

शाकजातं रामठादि वह्निस्त्रीपथसेवनम् .. ४७..

प्रातःस्नानोपवासादिकायक्लेशांश्च वर्जयेत् .

अभ्यासकाले प्रथमं शस्तं क्षीराज्यभोजनम् .. ४८..

गोधूममुद्गशाल्यन्नं योगवृद्धिकरं विदुः .

ततः परं यथेष्टं तु शक्तः स्याद्वायुधारणे .. ४९..

यथेष्टवायुधारणाद्वायोः सिद्ध्येत्केवलकुम्भकः .

केवले कुम्भक सिद्धे रेचपूरविवर्जिते .. ५०..

न तस्य दुर्लभं किञ्चित्त्रिषु लोकेषु विद्यते .

प्रस्वेदो जायते पूर्वं मर्दनं तेन कारयेत् .. ५१..

ततोऽपि धारणाद्वायोः क्रमेणैव शनैः शनैः .

कम्पो भवति देहस्य आसनस्थस्य देहिनः .. ५२..

ततोऽधिकतराभ्यासाद्दार्दुरी स्वेन जायते .

यथा च दर्दुरो भाव उत्प्लुन्योत्प्लुत्य गच्छति .. ५३..

पद्मासनस्थितो योगी तथा गच्छति भूतले .

ततोऽधिकतरभ्यासाद्भूमित्यागश्च जायते .. ५४..

पद्मासनस्थ एवासौ भूमिमुत्सृज्य वर्तते .

अतिमानुषचेष्टादि तथा सामर्थ्यमुद्भवेत् .. ५५..

न दर्शयेच्च सामर्थ्यं दर्शनं वीर्यवत्तरम् .

स्वल्पं वा बहुधा दुःखं योगी न व्यथते तदा .. ५६..

अल्पमूत्रपुरीषश्च स्वल्पनिद्रश्च जायते .

कीलवो दृषिका लाला स्वेददुर्गन्धतानने .. ५७..

एतानि सर्वथा तस्य न जायन्ते ततः परम् .

ततोऽधिकतराभ्यासाद्बलमुत्पद्यते बहु .. ५८..

येन भूचर सिद्धिः स्याद्भूचराणां जये क्षमः .

व्याघ्रो वा शरभो व्यापि गजो गवय एव वा .. ५९..

सिंहो वा योगिना तेन म्रियन्ते हस्तताडिताः .

कन्दर्पस्य यथा रूपं तथा स्यादपि योगिनः .. ६०..

तद्रूपवशगा नार्यः काङ्क्षन्ते तस्य सङ्गमम् .

यदि सङ्गं करोत्येष तस्य बिन्दुक्षयो भवेत् .. ६१..

वर्जयित्वा स्त्रियाः सङ्गं कुर्यादभ्यासमादरात् .

योगिनोऽङ्गे सुगन्धश्च जायते बिन्दुधारणात् .. ६२..

ततो रहस्युपाविष्टः प्रणवं प्लुतमात्रया .

जपेत्पूर्वार्जितानां तु पापानां नाशहेतवे .. ६३..

सर्वविघ्नहरो मन्त्रः प्रणवः सर्वदोषहा .

एवमभ्यासयोगेन सिद्धिरारम्भसम्भवा .. ६४..

ततो भवेद्धठावस्था पवनाभ्यासतत्परा .

प्राणोऽपानो मनो बुद्धिर्जीवात्मपरमात्मनोः .. ६५..

अन्योन्यस्याविरोधेन एकता घटते यदा .

घटावस्थेति सा प्रोक्ता तच्चिह्नानि ब्रवीम्यहम् .. ६६..

पूर्वं यः कथितोऽभ्यासश्चतुर्थांशं परिग्रहेत् .

दिवा वा यदि वा सायं याममात्रं समभ्यसेत् .. ६७..

एकवारं प्रतिदिनं कुर्यात्केवलकुम्भकम् .

इन्द्रियाणीन्द्रियार्थेभ्यो यत्प्रत्याहरणं स्फुटम् .. ६८..

योगी कुम्भकमास्थाय प्रत्याहारः स उच्यते .

यद्यत्पश्यति चक्षुर्भ्यां तत्तदात्मेति भावयेत् .. ६९..

यद्यच्छृणोति कर्णाभ्यां तत्तदात्मेति भावयेत् .

लभते नासया यद्यत्तत्तदात्मेति भावयेत् .. ७०..

जिह्वया यद्रसं ह्यत्ति तत्तदात्मेति भावयेत् .

त्वचा यद्यत्स्पृशेद्योगी तत्तदात्मेति भावयेत् .. ७१..

एवं ज्ञानेन्द्रियाणां तु तत्तत्सौख्यं सुसाधयेत् .

याममात्रं प्रतिदिनं योगी यत्नादतन्द्रितः .. ७२..

यथा वा चित्तसामर्थ्यं जायते योगिनो ध्रुवम् .

दूरश्रुतिर्दूरदृष्टिः क्षणाद्दूरगमस्तथा .. ७३..

वाक्सिद्धिः कामरूपत्वमदृश्यकरणी तथा .

मलमूत्रप्रलेपेन लोहादेः स्वर्णता भवेत् .. ७४..

खे गतिस्तस्य जायेत सन्तताभ्यासयोगतः .

सदा बुद्धिमता भाव्यं योगिना योगसिद्धये .. ७५..

एते विघ्ना महासिद्धेर्न रमेत्तेषु बुद्धिमान् .

न दर्शयेत्स्वसामर्थ्यं यस्यकस्यापि योगिराट् .. ७६..

यथा मूढो यथा मूर्खो यथा बधिर एव वा .

तथा वर्तेत लोकस्य स्वसामर्थ्यस्य गुप्तये .. ७७..

शिष्याश्च स्वस्वकार्येषु प्रार्थयन्ति न संशयः .

तत्तत्कर्मकरव्यग्रः स्वाभ्यासेऽविस्मृतो भवेत् .. ७८..

अविस्मृत्य गुरोर्वाक्यमभ्यसेत्तदहर्निशम् .

एवं भवेद्धठावस्था सन्तताभ्यासयोगतः .. ७९..

अनभ्यासवतश्चैव वृथागोष्ठ्या न सिद्ध्यति .

तस्मात्सर्वप्रयत्नेन योगमेव सदाभ्यसेत् .. ८०..

ततः परिचयावस्था जायतेऽभ्यासयोगतः .

वायुः परिचितो यत्नादग्निना सह कुण्डलीम् .. ८१..

भावयित्वा सुषुम्नायां प्रविशेदनिरोधतः .

वायुना सह चित्तं च प्रविशेच्च महापथम् .. ८२..

यस्य चित्तं स्वपवनं सुषुम्नां प्रविशेदिह .

भूमिरापोऽनलो वायुराकाशश्चेति पञ्चकः .. ८३..

येषु पञ्चसु देवानां धारणा पञ्चधोद्यते .

पादादिजानुपर्यन्तं पृथिवीस्थानमुच्यते .. ८४..

पृथिवी चतुरस्रं च पीतवर्णं लवर्णकम् .

पार्थिवे वायुमारोप्य लकारेण समन्वितम् .. ८५..

ध्यायंश्चतुर्भुजाकारं चतुर्वक्त्रं हिरण्मयम् .

धारयेत्पञ्चघटिकाः पृथिवीजयमाप्नुयात् .. ८६..

पृथिवीयोगतो मृत्युर्न भवेदस्य योगिनः .

आजानोः पायुपर्यन्तमपां स्थानं प्रकीर्तितम् .. ८७..

आपोऽर्धचन्द्रं शुक्लं च वंबीजं परिकीर्तितम् .

वारुणे वायुमारोप्य वकारेण समन्वितम् .. ८८..

स्मरन्नारायणं देवं चतुर्बाहुं किरीटिनम् .

शुद्धस्फटिकसङ्काशं पीतवाससमच्युतम् .. ८९..

धारयेत्पञ्चघटिकाः सर्वपापैः प्रमुच्यते .

ततो जलाद्भयं नास्ति जले मृत्युर्न विद्यते .. ९०..

आपायोर्हृदयान्तं च वह्निस्थानं प्रकीर्तितम् .

वह्निस्त्रिकोणं रक्तं च रेफाक्षरसमुद्भवम् .. ९१..

वह्नौ चानिलमारोप्य रेफाक्षरसमुज्ज्वलम् .

त्रियक्षं वरदं रुद्रं तरुणादित्यसंनिभम् .. ९२..

भस्मोद्धूलितसर्वाङ्गं सुप्रसन्नमनुस्मरन् .

धारयेत्पञ्चघटिका वह्निनासौ न दाह्यते .. ९३..

न दह्यते शरीरं च प्रविष्टस्याग्निमण्डले .

आहृदयाद्भ्रुवोर्मध्यं वायुस्थानं प्रकीर्तितम् .. ९४..

वायुः षट्कोणकं कृष्णं यकाराक्षरभासुरम् .

मारुतं मरुतां स्थाने यकाराक्षरभासुरम् .. ९५..

धारयेत्तत्र सर्वज्ञमीश्वरं विश्वतोमुखम् .

धारयेत्पञ्चघटिका वायुवद्व्योमगो भवेत् .. ९६..

मरणं न तु वायोश्च भयं भवति योगिनः .

आभ्रूमध्यात्तु मूर्धान्तमाकाशस्थानमुच्यते .. ९७..

व्योम वृत्तं च धूम्रं च हकाराक्षरभासुरम् .

आकाशे वायुमारोप्य हकारोपरि शङ्करम् .. ९८..

बिन्दुरूपं महादेवं व्योमाकारं सदाशिवम् .

शुद्धस्फटिकसङ्काशं धृतबालेन्दुमौलिनम् .. ९९..

पञ्चवक्त्रयुतं सौम्यं दशबाहुं त्रिलोचनम् .

सर्वायुधैर्धृताकारं सर्वभूषणभूषितम् .. १००..

उमार्धदेहं वरदं सर्वकारणकारणम् .

आकाशधारणात्तस्य खेचरत्वं भवेद्ध्रुवम् .. १०१..

यत्रकुत्र स्थितो वापि सुखमत्यन्तमश्नुते .

एवं च धारणाः पञ्च कुर्याद्योगी विचक्षणः .. १०२..

ततो दृढशरीरः स्यान्मृत्युस्तस्य न विद्यते .

ब्रह्मणः प्रलयेनापि न सीदति महामतिः .. १०३..

समभ्यसेत्तथा ध्यानं घटिकाषष्टिमेव च .

वायुं निरुध्य चाकाशे देवतामिष्टदामिति .. १०४..

सगुणं ध्यानमेतत्स्यादणिमादिगुणप्रदम् .

निर्गुणध्यानयुक्तस्य समाधिश्च ततो भवेत् .. १०५..

दिनद्वादशकेनैव समाधिं समवाप्नुयात् .

वायुं निरुध्य मेधावी जीवन्मुक्तो भवत्ययम् .. १०६..

समाधिः समतावस्था जीवात्मपरमात्मनोः .

यदि स्वदेहमुत्स्रष्टुमिच्छा चेदुत्सृजेत्स्वयम् .. १०७..

परब्रह्मणि लीयेत न तस्योत्क्रान्तिरिष्यते .

अथ नो चेत्समुत्स्रष्टुं स्वशरीरं प्रियं यदि .. १०८..

सर्वलोकेषु विहरन्नणिमादिगुणान्वितः .

कदाचित्स्वेच्छया देवो भूत्वा स्वर्गे महीयते .. १०९..

मनुष्यो वापि यक्षो वा स्वेच्छयापीक्षणद्भवेत् .

सिंहो व्याघ्रो गजो वाश्वः स्वेच्छया बहुतामियात् .. ११०..

यथेष्टमेव वर्तेत यद्वा योगी महेश्वरः .

अभ्यासभेदतो भेदः फलं तु सममेव हि .. १११..

पार्ष्णिं वामस्य पादस्य योनिस्थाने नियोजयेत् .

प्रसार्य दक्षिणं पादं हस्ताभ्यां धारयेद्दृढम् .. ११२..

चुबुकं हृदि विन्यस्य पूरयेद्वायुना पुनः .

कुम्भकेन यथाशक्ति धारयित्वा तु रेचयेत् .. ११३..

वामाङ्गेन समभ्यस्य दक्षाङ्गेन ततोऽभ्यसेत् .

प्रसारितस्तु यः पादस्तमूरूपरि नामयेत् .. ११४..

अयमेव महाबन्ध उभयत्रैवमभ्यसेत् .

महाबन्धस्थितो योगी कृत्वा पूरकमेकधीः .. ११५..

वायुना गतिमावृत्य निभृतं कर्णमुद्रया .

पुटद्वयं समाक्रम्य वायुः स्फुरति सत्वरम् .. ११६..

अयमेव महावेधः सिद्धैरभ्यस्यतेऽनिशम् .

अन्तः कपालकुहरे जिह्वां व्यावृत्य धारयेत् .. ११७..

भ्रूमध्यदृष्टिरप्येषा मुद्रा भवति खेचरी .

कण्ठमाकुञ्च्य हृदये स्थापयेद्दृढया धिया .. ११८..

बन्धो जालन्धराख्योऽयं मृत्युमातङ्गकेसरी .

बन्धो येन सुषुम्नायां प्राणस्तूड्डीयते यतः .. ११९..

उड्यानाख्यो हि बन्धोऽयं योगिभिः समुदाहृतः .

पार्ष्णिभागेन संपीड्य योनिमाकुञ्चयेद्दृढम् .. १२०..

अपानमूर्ध्वमुत्थाप्य योनिबन्धोऽयमुच्यते .

प्राणापानौ नादबिन्दू मूलबन्धेन चैकताम् .. १२१..

गत्वा योगस्य संसिद्धिं यच्छतो नात्र संशयः .

करणी विपरीताख्या सर्वव्याधिविनाशिनी .. १२२..

नित्यमभ्यासयुक्तस्य जाठराग्निविवर्धनी .

आहारो बहुलस्तस्य संपाद्यः साधकस्य च .. १२३..

अल्पाहारो यदि भवेदग्निर्देहं हरेत्क्षणात् .

अधःशिरश्चोर्ध्वपादः क्षणं स्यात्प्रथमे दिने .. १२४..

क्षणाच्च किञ्चिदधिकमभ्यसेत्तु दिनेदिने .

वली च पलितं चैव षण्मासार्धान्न दृश्यते .. १२५..

याममात्रं तु यो नित्यमभ्यसेत्स तु कालजित् .

वज्रोलीमभ्यसेद्यस्तु स योगी सिद्धिभाजनम् .. १२६..

लभ्यते यदि तस्यैव योगसिद्धिः करे स्थिता .

अतीतानागतं वेत्ति खेचरी च भवेद्ध्रुवम् .. १२७..

अमरीं यः पिबेन्नित्यं नस्यं कुर्वन्दिने दिने .

वज्रोलीमभ्यसेन्नित्यममरोलीति कथ्यते .. १२८..

ततो भवेद्राजयोगो नान्तरा भवति ध्रुवम् .

यदा तु राजयोगेन निष्पन्ना योगिभिः क्रिया .. १२९..

तदा विवेकवैराग्यं जायते योगिनो ध्रुवम् .

विष्णुर्नाम महायोगी महाभूतो महातपाः .. १३०..

तत्त्वमार्गे यथा दीपो दृश्यते पुरुषोत्तमः .

यः स्तनः पूर्वपीतस्तं निष्पीड्य मुदमश्नुते .. १३१..

यस्माज्जातो भगात्पूर्वं तस्मिन्नेव भगे रमन् .

या माता सा पुनर्भार्या या भार्या मातरेव हि .. १३२..

यः पिता स पुनः पुत्रो यः पुत्रः स पुनः पिता .

एवं संसारचक्रं कूपचक्रेण घटा इव .. १३३..

भ्रमन्तो योनिजन्मानि श्रुत्वा लोकान्समश्नुते .

त्रयो लोकास्त्रयो वेदास्तिस्रः सन्ध्यास्त्रयः स्वराः .. १३४..

त्रयोऽग्नयश्च त्रिगुणाः स्थिताः सर्वे त्रयाक्षरे .

त्रयाणामक्षराणां च योऽधीतेऽप्यर्धमक्षरम् .. १३५..

तेन सर्वमिदं प्रोतं तत्सत्यं तत्परं पदम् .

पुष्पमध्ये यथा गन्धः पयोमध्ये यथा घृतम् .. १३६..

तिलमध्ये यथा तैलं पाषाणेष्विव काञ्चनम् .

हृदि स्थाने स्थितं पद्मं तस्य वक्त्रमधोमुखम् .. १३७..

ऊर्ध्वनालमधोबिन्दुस्तस्य मध्ये स्थितं मनः .

अकारे रेचितं पद्ममुकारेणैव भिद्यते .. १३८..

मकारे लभते नादमर्धमात्रा तु निश्चला .

शुद्धस्फटिकसङ्काशं निष्कलं पापनाशनम् .. १३९..

लभते योगयुक्तात्मा पुरुषस्तत्परं पदम् .

कूर्मः स्वपाणिपादादिशिरश्चात्मनि धारयेत् .. १४०..

एवं द्वारेषु सर्वेषु वायुपूरितरेचितः .

निषिद्धं तु नवद्वारे ऊर्ध्वं प्राङ्निश्वसंस्तथा .. १४१..

घटमध्ये यथा दीपो निवातं कुम्भकं विदुः .

निषिद्धैर्नवभिर्द्वारैर्निर्जने निरुपद्रवे .. १४२..

निश्चितं त्वात्ममात्रेणावशिष्टं योगसेवयेत्युपनिषत् ..

ॐ सह नाववतु .. सह नौ भुनक्तु .. सह वीर्यं करवावहै ..

तेजस्विनावधीतमस्तु मा विद्विषावहै ..

ॐ शान्तिः शान्तिः शान्तिः ..

इति योगतत्त्वोपनिषत् समाप्ता ..

Personal tools