योगचूडामणि उपनिषद्
From Wikisource
.. योगचूडामण्युपनिषत् ..
मूलाधारादिषट्चक्रं सहस्रारोपरि स्थितम् .
योगज्ञानैक फलकं रामचन्द्रपदं भजे ..
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः
श्रोत्रमथो बलमिन्द्रियाणि च .. सर्वाणि सर्वं
ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा
ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेस्तु
तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु
ते मयि सन्तु .. ॐ शान्तिः शान्तिः शान्तिः ..
ॐ योगचूडामणिं वक्ष्ये योगिनां हितकाम्यया .
कैवल्यसिद्धिदं गूढं सेवितं योगवित्तमैः .. १..
आसनं प्राणसंरोधः प्रत्याहारश्च धारणा .
ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति षट् .. २..
एकं सिद्धासनं प्रोक्तं द्वितीयं कमलासनम् .
षट्चक्रं षोडशाधारं त्रिलक्ष्यं व्योमपञ्चकम् .. ३..
स्वदेहे यो न जानाति तस्य सिद्धिः कथं भवेत् .
चतुर्दलं स्यादाधारं स्वाधिष्ठानं च षड्दलम् .. ४..
नाभौ दशदलं पद्मं हृदये द्वादशारकम् .
षोडशारं विशुद्धाख्यं भ्रूमध्ये द्विदलं तथा .. ५..
सहस्रदलसङ्ख्यातं ब्रह्मरन्ध्रे महापथि .
आधारं प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम् .. ६..
योनिस्थानं द्वयोर्मध्ये कामरूपं निगद्यते .
कामाख्यं तु गुदस्थाने पङ्कजं तु चतुर्दलम् .. ७..
तन्मध्ये प्रोच्यते योनिः कामाख्या सिद्धवन्दिता .
तस्य मध्ये महालिङ्गं पश्चिमाभिमुखं स्थितम् .. ८..
नाभौ तु मणिवद्बिम्बं यो जानाति स योगवित् .
तप्तचामीकराभासं तडिल्लेखेव विस्फुरत् .. ९..
त्रिकोणं तत्पुरं वह्नेरधोमेढ्रात्प्रतिष्ठितम् .
समाधौ परमं ज्योतिरनन्तं विश्वतोमुखम् .. १०..
तस्मिन्दृष्टे महायोगे यातायातो न विद्यते .
स्वशब्देन भवेत्प्राणः स्वाधिष्ठानं तदाश्रयः .. ११..
स्वाधिष्ठाश्रयादस्मान्मेढ्रमेवभिधीयते .
तन्तुना मणिवत्प्रोतो योऽत्र कन्दः सुषुम्नया .. १२..
तन्नाभिमण्डले चक्रं प्रोच्यते मणिपूरकम् .
द्वादशारे महाचक्रे पुण्यपापविवर्जिते .. १३..
तावज्जीवो भ्रमत्येवं यावत्तत्त्वं न विन्दति .
ऊर्ध्वं मेढ्रादधो नाभेः कन्दे योनिः खगाण्डवत् .. १४..
तत्र नाड्यः समुत्पन्नाः सहस्राणां द्विसप्ततिः .
तेषु नाडीसहस्रेषु द्विसप्ततिरुदाहृता .. १५..
प्रधानाः प्राणवाहिन्यो भूयस्तासु दशस्मृताः .
इडा च पिङ्गला चैव सुषुम्ना च तृतीयगा .. १६..
गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनी .
अलम्बुसा कुहूश्चैव शङ्खिनी दशमी स्मृता .. १७..
एतन्नाडीमहाचक्रं ज्ञातव्यं योगिभिः सदा .
इडा वामे स्थिता भागे दक्षिणे पिङ्गला स्थिता .. १८..
सुषुम्ना मध्यदेशे तु गान्धारी वामचक्षुषि .
दक्षिणे हस्तिजिह्वा च पूषा कर्णे च दक्षिणे .. १९..
यशस्विनी वामकर्णे चानने चापुअलम्बुसा .
कुहूश्च लिङ्गदेशे तु मूलस्थाने तु शङ्खिनी .. २०..
एवं द्वारं समाश्रित्य तिष्ठन्ते नाडयः क्रमात् .
इडापिङ्गलासौषुम्नाः प्राणमार्गे च संस्थिताः .. २१..
सततं प्राणवाहिन्यः सोमसूर्याग्निदेवताः .
प्राणापानसमानाख्या व्यानोदानौ च वायवः .. २२..
नागः कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः .
हृदि प्राणः स्थितो नित्यमपानो गुदमण्डले .. २३..
समानो नाभिदेशे तु उदानः कण्ठमध्यगः .
व्यानः सर्वशरीरे तु प्रधानाः पञ्चवायवः .. २४..
उद्गारे नाग आख्यातः कूर्म उन्मीलने तथा .
कृकरः क्षुत्करो ज्ञेयो देवदत्तो विजृम्भणे .. २५..
न जहाति मृतं वापि सर्वव्यापी धनञ्जयः .
एते नाडीषु सर्वासु भ्रमन्ते जीवजन्तवः .. २६..
आक्षिप्तो भुजदण्डेन यथा चलति कन्दुकः .
प्राणापानसमाक्षिप्तस्तथा जीवो न तिष्ठति .. २७..
प्राणापानवशो जीवो ह्यधश्चोर्ध्वं च धावति .
वामदक्षिणमार्गाभ्यां चञ्चलत्वान्न दृश्यते .. २८..
रज्जुबद्धो यथा श्येनो गतोऽप्याकृष्यते पुनः .
गुणबद्धस्तथा जीवः प्राणापानेन कर्षति .. २९..
प्राणापानवशो जीवो ह्यधश्चोर्ध्वं च गच्छति .
अपानः कर्षति प्राणं प्राणोऽपानं च कर्षति .. ३०..
ऊर्ध्वाधःसंस्थितावेतौ यो जानाति स योगवित् .
हकारेण बहिर्याति सकारेण विशेत्पुनः .. ३१..
हंसहंसेत्यमुं मत्रं जीवो जपति सर्वदा .
षट्शतानि दिवारात्रौ सहस्राण्येकविंशतिः .. ३१..
एतत्सङ्ख्यान्वितं मन्त्रं जीवो जपति सर्वदा .
अजपानाम गायत्री योगिनां मोक्षदा सदा .. ३३..
अस्याः सङ्कल्पमात्रेण सर्वपापैः प्रमुच्यते .
अनया सदृशी विद्या अनया सदृशो जपः .. ३४..
अनया सदृशं ज्ञानं न भूतं न भविष्यति .
कुण्डलिन्या समुद्भूता गायत्री प्राणधारिणी ..३५..
प्राणविद्या महाविद्या यस्तां वेत्ति स वेदवित् .
कन्दोर्ध्वे कुण्डलीशक्तिरष्टधा कुण्डलाकृतिः .. ३६..
ब्रह्मद्वारमुखं नित्यं मुखेनाच्छाय तिष्ठति .
येन द्वारेण गन्तव्यं ब्रह्मद्वारमनामयम् .. ३७..
मुखेनाच्छाद्य तद्द्वारं प्रसुप्ता परमेश्वरी .
प्रबुद्धा वह्नियोगेन मनसा मरुता सह .. ३८..
सूचिवद्गात्रमादाय व्रजत्यूर्ध्वं सुषुम्नया .
उद्घाटयेत्कवाटं तु यथाकुञ्चिकया गृहम् .
कुण्डलिन्यां तथा योगी मोक्षद्वारं प्रभेदयेत् .. ३९..
कृत्वा संपुटितौ करौ दृढतरं बध्वा तु पद्मासनं
गाढं वक्षसि संनिधाय चुबुकं ध्यानं च तच्चेष्टितम् .
वारंवारमपानमूर्ध्वमनिलं प्रोच्छारयेत्पूरितं
मुञ्चन्प्राणमुपैति बोधमतुलं शक्तिप्रभावान्नरः .. ४०..
अङ्गानां मर्दनं कृत्वा श्रमसंजातवारिणा .
कट्वम्ललवणत्यागी क्षीरभोजनमाचरेत् ..४१..
ब्रह्मचारी मिताहारी योगी योगपरायणः .
अब्दादूर्ध्वं भवेत्सिद्धो नात्र कार्या विचारणा .. ४२..
सुस्निग्धमधुराहारश्चतुर्थांशविवर्जितः .
भुञ्जते शिवसंप्रीत्या मिताहारी स उच्यते .. ४३..
कन्दोर्ध्वे कुण्डलीशक्तिरष्टधा कुण्डलीकृतिः .
बन्धनाय च मूढानां योगिनां मोक्षदा सदा .. ४४..
महामुद्रा नभोमुद्रा ओड्याणं च जलन्धरम् .
मूलबन्धं च यो वेत्ति स योगी मुक्तिभाजनम् .. ४५..
पार्ष्णिघातेन संपीड्य योनिमाकुञ्चयेद्दृढम् .
अपानमूर्ध्वमाकृष्य मूलबन्धो विधीयते .. ४६..
अपानप्राणयोरैक्यं क्षयान्मूत्रपुरीषयोः .
युवा भवति वृद्धोऽपि सततं मूलबन्धनात् .. ४७..
ओड्याणं कुरुते यस्मादविश्रान्तं महाखगः .
ओड्डियाणं तदेव स्यान्मृत्युमातङ्गकेसरी .. ४८..
उदरात्पश्चिमं ताणमधो नाभेर्निगद्यते .
ओड्याणमुदरे बन्धस्तत्र बन्धो विधीयते .. ४९..
बध्नाति हि शिरोजातमधोगामि नभोजलम् .
ततो जालन्धरो बन्धः कष्टदुःखौघनाशनः .. ५०..
जालन्धरे कृते बन्धे कण्ठसङ्कोचलक्षणे .
न पीयूषं पतत्यग्नौ न च वायुः प्रधावति .. ५१..
कपालकुहरे जिह्वा प्रविष्टा विपरीतगा .
भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी .. ५२..
न रोगो मरणं तस्य न निद्रा न क्षुधा तृषा .
न च मूर्च्छा भवेत्तस्य यो मुद्रां वेत्ति खेचरीम् .. ५३..
पीड्यते न च रोगेण लिख्यते न स कर्मभिः .
बाध्यते न च केनापि यो मुद्रां वेत्ति खेचरीम् .. ५४..
चित्तं चरति खे यस्माज्जिह्वा चरति खे यतः .
तेनेयं खेचरी मुद्रा सर्वसिद्धनमस्कृता ..५५..
बिन्दुमूलशरीरणि शिरास्तत्र प्रतिष्ठिताः .
भावयन्ती शरीराणि आपादतलमस्तकम् .. ५६..
खेचर्या मुद्रितं येन विवरं लम्बिकोर्ध्वतः .
न तस्य क्षीयते बिन्दुः कामिन्यालिङ्गितस्य च .. ५७..
यावद्बिन्दुः स्थितो देहे तावन्मृत्युभयं कुतः .
यावद्बद्धा नभोमुद्रा तावद्बिन्दुर्न गच्छति .. ५८..
ज्वलितोऽपि यथा बिन्दुः संप्राप्तश्च हुताशनम् .
व्रजत्यूर्ध्वं गतः शक्त्या निरुद्धो योनिमुद्रया .. ५९..
स पुनर्द्विविधो बिन्दुः पाण्डरो लोहितस्तथा .
पाण्डरं शुक्लमित्याहुर्लोहिताख्यं महारजः .. ६०..
सिन्दूरव्रातसङ्काशं रविस्थानस्थितं रजः .
शशिस्थानस्थितं शुक्लं तयोरैक्यं सुदुर्लभम् .. ६१..
बिन्दुर्ब्रह्मा रजः शक्तिर्बिन्दुरिन्दू रजो रविः .
उभयोः सङ्गमादेव प्राप्यते परमं पदम् .. ६२..
वायुना शक्तिचालेन प्रेरितं च यथा रजः .
याति बिन्दुः सदैकत्वं भवेद्दिव्यवपुस्तदा .. ६३..
शुक्लं चन्द्रेण संयुक्तं रजः सूर्येण सङ्गतम् .
तयोः समरसैकत्वं यो जानाति स योगवित् .. ६४..
शोधनं नाडिजालस्य चालनं चन्द्रसूर्ययोः .
रसानां शोषणं चैव महामुद्राभिधीयते .. ६५..
वक्षोन्यस्तहनुः प्रपीड्य सुचिरं योनिं च वामाङ्गिणा
हस्ताभ्यामनुधारयन्प्रसरितं पादं तथा दक्षिणम् .
आपूर्य श्वसनेन कुक्षियुगलं बध्वा शनै रेचये-
त्सेयं व्याधिविनाशिनी सुमहती मुद्रा नृणां कथ्यते .. ६६..
चन्द्रांशेन समभ्यस्य सूर्यांशेनाभ्यसेत्पुनः .
या तुल्या तु भवेत्सङ्ख्या ततो मुद्रां विसर्जयेत् .. ६७..
नहि पथ्यमपथ्यं वा रसाः सर्वेऽपि नीरसाः .
अतिभुक्तं विषं घोरं पीयूषमिव जीर्यते .. ६८..
क्षयकुष्ठगुदावर्तगुल्माजीर्णपुरोगमाः .
तस्य रोगाः क्षयं यान्ति महामुद्रां तु योऽभ्यसेत् .. ६९..
कथितेयं महामुद्रा महासिद्धिकरी नृणाम् .
गोपनीया प्रयत्नेन न देया यस्य कस्यचित् .. ७०..
पद्मासनं समारुह्य समकायशिरोधरः .
नासाग्रदृष्टिरेकान्ते जपेदोङ्कारमव्ययम् .. ७१..
ॐ नित्यं शुद्धं बुद्धं निर्विकल्पं निरञ्जनं
निराख्यातमनादिनिधनमेकं तुरीयं यद्भूतं
भवद्भविष्यत्परिवर्तमानं सर्वदाऽनवच्छिन्नं
परंब्रह्म तस्माज्जाता परा शक्तिः स्वयं ज्योतिरात्मिका .
आत्मन आकाशः संभूतः . आकाशाद्वायुः . वायोरग्निः .
अग्नेरापः . अद्भ्यः पृथिवी . एतेषां पञ्चभूतानां
पतयः पञ्च सदाशिवेश्वररुद्रविष्णुब्रह्माणश्चेति .
तेषां ब्रह्मविष्णुरुद्राश्चोत्पत्तिस्थितिलयकर्तारः .
राजसो ब्रह्मा सात्विको विष्णुस्तामसो रुद्र इति एते त्रयो गुणयुक्ताः .
ब्रह्मा देवानां प्रथमः संबभूव . धाता च सृष्टौ
विष्णुश्च स्थितौ रुद्रश्च नाशे भोगाय चन्द्र इति
प्रथमजा बभूवुः . एतेषां ब्रह्मणो लोका देवतिर्यङ्ग-
रस्थावराश्च जायन्ते . तेषां मनुष्यादीनां
पञ्चभूतसमवायः शरीरम् . ज्ञानकर्मेन्द्रियै-
र्ज्ञानविषयैः प्राणादिपञ्चवायुमनोबुद्धिचित्ताहङ्कारैः
स्थूलकल्पितैः सोऽपि स्थूलप्रकृतिरित्युच्यते . ज्ञानकर्मेन्द्रियै-
र्ज्ञानविषयैः प्राणादिपञ्चवायुमनोबुद्धिभिश्च
सूक्ष्मस्थोऽपि लिङ्गमेवेत्युच्यते . गुणत्रययुक्तं कारणम् .
सर्वेषामेवं त्रीणि शरीराणि वर्तन्ते . जाग्रत्स्वप्नसुषुप्ति-
तुरीयाश्चेत्यवस्थाश्चतस्रः तासामवस्थानामधिपतय-
श्चत्वारः पुरुषा विश्वतैजसप्राज्ञात्मानश्चेति .
विश्वो हि स्थूलभुङ्नित्यं तैजसः प्रविविक्तभुक् .
आनन्दभुक्तया प्राज्ञः सर्वसाक्षीत्यतः परः .. ७२..
प्रणतः सर्वदा तिष्ठेत्सर्वजीवेषु भोगतः .
अभिरामस्तु सर्वासु ह्यवस्थासु ह्यधोमुखः .. ७३..
अकार उकारो मकारश्चेति वेदास्त्रयो लोकास्त्रयो
गुणास्त्रीण्यक्षराणि त्रयः स्वरा एवं प्रणवः प्रकाशते .
अकारो जाग्रति नेत्रे वर्तते सर्वजन्तुषु .
उकारः कण्ठतः स्वप्ने मकारो हृदि सुप्तितः .. ७४..
विराड्विश्वः स्थूलश्चाकारः .
हिरण्यगर्भस्तैजसः सूक्ष्मश्च उकारः .
कारणाव्याकृतप्राज्ञश्च मकारः .
अकारो राजसो रक्तो ब्रह्म चेतन उच्यते .
उकारः सात्त्विकः शुक्लो विष्णुरित्यभिधीयते .. ७५..
मकारस्तामसः कृष्णो रुद्रश्चेति तथोच्यते .
प्रणवात्प्रभवो ब्रह्मा प्रणवात्प्रभवो हरिः .. ७६..
प्रणवात्प्रभवो रुद्रः प्रणवो हि परो भवेत् .
अकारे लीयते ब्रह्मा ह्युकारे लीयते हरिः .. ७७..
मकारे लीयते रुद्रः प्रणवो हि प्रकाशते .
ज्ञानिनामूर्ध्वगो भूयादज्ञाने स्यादधोमुखः .. ७८..
एवं वै प्रणवस्तिष्ठेद्यस्तं वेद स वेदवित् .
अनाहतस्वरूपेण ज्ञानिनामूर्ध्वगो भवेत् .. ७९..
तैलधारामिवाच्छिन्नं दीर्घघण्टानिनादवत् .
प्रणवस्य ध्वनिस्तद्वत्तदग्रं ब्रह्म चोच्यते .. ८०..ज्योतिर्मयं तदग्रं स्यादवाच्यं बुद्धिसूक्ष्मतः .
ददृशुर्ये महात्मानो यस्तं वेद स वेदवित् .. ८१..
जाग्रन्नेत्रद्वयोर्मध्ये हंस एव प्रकाशते .
सकारः खेचरी प्रोक्तस्त्वंपदं चेति निश्चितम् .. ८२..
हकारः परमेशः स्यात्तत्पदं चेति निश्चितम् .
सकारो ध्यायते जन्तुर्हकारो हि भवेद्धृवम् .. ८३..
इन्द्रियैर्बध्यते जीव आत्मा चैव न बध्यते .
ममत्वेन भवेज्जीवो निर्ममत्वेन केवलः .. ८४..
भूर्भुवः स्वरिमे लोकाः सोमसूर्याग्निदेवताः .
यस्य मात्रासु तिष्ठन्ति तत्परं ज्योतिरोमिति .. ८५..
क्रिया इच्छा तथा ज्ञानं ब्राह्मी रौद्री च वैष्णवी .
त्रिधा मात्रास्थितिर्यत्र तत्परं ज्योतिरोमिति .. ८६..
वचसा तज्जपेन्नित्यं वपुषा तत्समभ्यसेत् .
मनसा तज्जपेन्नित्यं तत्परं ज्योतिरोमिति .. ८७..
शुचिर्वाप्यशुचिर्वापि यो जपेत्प्रणवं सदा .
न स लिप्यति पापेन पद्मपत्रमिवाम्भसा .. ८८..
चले वाते चलो बिन्दुर्निश्चले निश्चलो भवेत् .
योगी स्थाणुत्वमाप्नोति ततो वायुं निरुन्धयेत् .. ८९..
यावद्वायुः स्थितो देहे तावज्जीवो न मुञ्चति .
मरणं तस्य निष्क्रान्तिस्ततो वायुं निरुन्धयेत् .. ९०..
यावद्वायुः स्थितो देहे तावज्जीवो न मुञ्चति .
यावद्दृष्टिर्भ्रुवोर्मध्ये तावत्कालं भयं कुतः .. ९१..
अल्पकालभयाद्ब्रह्मन्प्राणायमपरो भवेत् .
योगिनो मुनश्चैव ततः प्राणान्निरोधयेत् .. ९२..
षड्विंशदङ्गुलिर्हंसः प्रयाणं कुरुते बहिः .
वामदक्षिणमार्गेण प्राणायामो विधीयते .. ९३..
शुद्धिमेति यदा सर्वं नाडीचक्रं मलाकुलम् .
तदैव जायते योगी प्राणसंग्रहणक्षमः .. ९४..
बद्धपद्मासनो योगी प्राणं चन्द्रेण पूरयेत् .
धारयेद्वा यथाशक्त्या भूयः सूर्येण रेचयेत् .. ९५..
अमृतोदधिसंकाशं गोक्षीरधवलोपमम् .
ध्यात्वा चन्द्रमसं बिम्बं प्राणायामे सुखी भवेत् .. ९६..
स्फुरत्प्रज्वलसंज्वालापूज्यमादित्यमण्डलम् .
ध्यात्वा हृदि स्थितं योगी प्राणायामे सुखी भवेत् .. ९७..
प्राणं चेदिडया पिबेन्नियमितं भूयोऽन्यथा रेचये-
त्पीत्वा पिङ्गलया समीरणमथो बद्ध्वा त्यजेद्वामया .
सूर्याचन्द्रमसोरनेन विधिना बिन्दुद्वयं ध्यायतः
शुद्धा नाडिगणा भवन्ति यमिनो मासद्वयादूर्ध्वतः .. ९८..
यथेष्टधारणं वायोरनलस्य प्रदीपनम् .
नादाभिव्यक्तिरारोग्यं जायते नाडिशोधनात् .. ९९..
प्राणो देहस्थितो यावदपानं तु निरुन्धयेत् .
एकश्वासमयी मात्रा ऊर्ध्वाधो गगने गतिः .. १००..
रेचकः पूरकश्चैव कुम्भकः प्रणवात्मकः .
प्राणायामो भवेदेवं मात्राद्वादशसंयुतः .. १०१..
मात्राद्वादशसंयुक्तौ दिवाकरनिशाकरौ .
दोषजालमबध्नन्तौ ज्ञातव्यौ योगिभिः सदा .. १०२..
पूरकं द्वादशं कुर्यात्कुम्भकं षोडशं भवेत् .
रेचकं दश चोङ्कारः प्राणायामः स उच्यते .. १०३..
अधमे द्वादशमात्रा मध्यमे द्विगुणा मता .
उत्तमे त्रिगुणा प्रोक्ता प्राणायामस्य निर्णयः .. १०४..
अधमे स्वेदजननं कम्पो भवति मध्यमे .
उत्तमे स्थानमाप्नोति ततो वायुं निरुन्धयेत् .. १०५..
बद्धपद्मासनो योगी नमस्कृत्य गुरुं शिवम् .
नासाग्रदृष्टिरेकाकी प्राणायामं समभ्यसेत् .. १०६..
द्वाराणां नव संनिरुध्य मरुतं बध्वा दृढां धारणां
नीत्वा कालमपानवह्निसहितं शक्त्या समं चालितम् .
आत्मध्यानयुतस्त्वनेन विधिना घ्रिन्यस्य मूर्ध्नि स्थिरं
यावत्तिष्ठति तावदेव महतां सङ्गो न संस्तूयते .. १०७..
प्राणायामो भवेदेवं पातकेन्धनपावकः .
भवोदधिमहासेतुः प्रोच्यते योगिभिः सदा .. १०८..
आसनेन रुजं हन्ति प्राणायामेन पातकम् .
विकारं मानसं योगी प्रत्याहारेण मुञ्चति .. १०९..
धारणाभिर्मनोधैर्यं याति चैतन्यमद्भुतम् .
समाधौ मोक्षमाप्नोति त्यक्त्वा कर्म शुभाशुभम् .. ११०..
प्राणायामद्विषट्केन प्रत्याहारः प्रकीर्तितः .
प्रत्याहारद्विषट्केन जायते धारणा शुभा .. १११..
धारणाद्वादश प्रोक्तं ध्यानं योगविशारदैः .
ध्यानद्वादशकेनैव समाधिरभिधीयते .. ११२..
यत्समाधौ परंज्योतिरनन्तं विश्वतोमुखम् .
तस्मिन्दृष्टे क्रियाकर्म यातायातो न विद्यते .. ११३..
संबद्धासनमेढ्रमङ्घ्रियुगलं कर्णाक्षिनासापुट-
द्वाराद्यङ्गुलिभिर्नियम्य पवनं वक्त्रेण वा पूरितम् .
बध्वा वक्षसि बह्वयानसहितं मूर्ध्नि स्थिरं धारये-
देवं यान्ति विशेषतत्त्वसमतां योगीश्वरास्तन्मनः .. ११४..
गगनं पवने प्राप्ते ध्वनिरुत्पद्यते महान् .
घण्टादीनां प्रवाद्यानां नादसिद्धिरुदीरिता .. ११५..
प्राणायामेन युक्तेन सर्वरोगक्षयो भवेत् .
प्राणायामवियुक्तेभ्यः सर्वरोगसमुद्भवः .. ११६..
हिक्का कासस्तथा श्वासः शिरःकर्णाक्षिवेदनाः .
भवन्ति विविधा रोगाः पवनव्यत्ययक्रमात् .. ११७..
यथा सिंहो गजो व्याघ्रो भवेद्वश्यः शनैः शनैः .
तथैव सेवितो वायुरन्यथा हन्ति साधकम् .. ११८..
युक्तंयुक्तं त्यजेद्वायुं युक्तंयुक्तं प्रपूरयेत् .
युक्तंयुक्तं प्रबध्नीयादेवं सिद्धिमवाप्नुयात् .. ११९..
चरतां चक्षुरादीनां विषयेषु यथाक्रमम् .
यत्प्रत्याहरणं तेषां प्रत्याहरः स उच्यते .. १२०..
यथा तृतीयकाले तु रविः प्रत्याहरेत्प्रभाम् .
तृतीयङ्गस्थितो योगी विकारं मनसं हरेदीत्युपनिषत् .
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः
श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि सर्वं ब्रह्मोपनिषदं
माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरण-
मस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु
धर्मास्ते मयि सन्तु ते मयि ते मयि सन्तु ..
ॐ शान्तिः शान्तिः शान्तिः ..
इति योगचूडामण्युपनिषत्समाप्ता ..

