युद्धकाण्डे षट्त्रिंशः सर्गः ॥६-३६॥

From Wikisource

Jump to: navigation, search
रामायण - युद्धकाण्ड


श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे षट्त्रिंशः सर्गः ॥६-३६॥

तत्तु माल्यवतो वाक्यम् हितम् उक्तम् दzअ आननः ।
न मर्षयति दुष्ट अत्मा कालस्य वzअम् आगतः ॥६-३६-१॥

स बद्ध्वा भ्रु कुटिम् वक्त्रे क्रोधस्य वzअम् आगतः ।
अमर्षात् परिवृत्त अक्षो माल्यवन्तम् अथ अब्रवीत् ॥६-३६-२॥

हित बुद्ध्या यद् अहितम् वचह् परुषम् उच्यते ।
पर पक्षम् प्रविzय एव न एतत् zरोत्र गतम् मम ॥६-३६-३॥

मानुषम् कृपणम् रामम् एकम् zआखा मृग आzरयम् ।
समर्थम् मन्यसे केन त्यक्तम् पित्रा वन आलयम् ॥६-३६-४॥

रक्षसाम् ईzवरम् माम् च देवतानाम् भयम् करम् ।
हीनम् माम् मन्यसे केन;अहीनम् सर्व विक्रमैः ॥६-३६-५॥

वीर द्वेषेण वा zअन्के पक्ष पातेन वा रिपोः ।
त्वया अहम् परुषाण्य् उक्तः पर प्रोत्साहनेन वा ॥६-३६-६॥

प्रभवन्तम् पदस्थम् हि परुषम् को अह्बिधास्यति ।
पण्डितह् zआस्त्र तत्त्वज्नो विना प्रोत्साहनाद् रिपोः ॥६-३६-७॥

आनीय च वनात् सीताम् पद्म हीनाम् इव zरियम् ।
किम् अर्थम् प्रतिदास्यामि राघवस्य भयाद् अहम् ॥६-३६-८॥

वृतम् वानर कोटीभिः ससुग्रीवम् सलक्ष्मणम् ।
पzय कैzचिद् अहोभिस् त्वम् राघवम् निहतम् मया ॥६-३६-९॥

द्वन्द्वे यस्य न तिष्ठन्ति दैवतान्य् अपि सम्युगे ।
स कस्माद् रावणो युद्धे भयम् आहारयिष्यति ॥६-३६-१०॥

द्विधा भज्येयम् अप्य् एवम् न नमेयम् तु कस्यचित् ।
एष मे सहजो दोषह् स्वभावो दुरतिक्रमः ॥६-३६-११॥

यदि तावत् समुद्रे तु सेतुर् बद्धो यदृच्चया ।
रामेण विस्मयः को अत्र येन ते भयम् आगतम् ॥६-३६-१२॥

स तु तीर्त्वा अर्णवम् रामः सह वानर सेनया ।
प्रतिजानामि ते सत्यम् न जीवन् प्रतियास्यति ॥६-३६-१३॥

एवम् ब्रुवाणम् सम्रब्धम् रुष्टम् विज्नाय रावणम् ।
व्रीडितो माल्यवान् वाक्यम् न उत्तरम् प्रत्यपद्यत ॥६-३६-१४॥

जय आzइषा च राजानम् वर्धयित्वा यथा उचितम् ।
माल्यवान् अभ्यनुज्नातो जगाम स्वम् निवेzअनम् ॥६-३६-१५॥

रावणस् तु सह अमात्यो मन्त्रयित्वा विमृzय च ।
लन्कायाम् अतुलाम् गुप्तिम् कारयाम् आस राक्षसः ॥६-३६-१६॥

व्यादिदेzअ च पूर्वस्याम् प्रहस्तम् द्वारि राक्षसम् ।
दक्षिणस्याम् महा वीर्यौ महा पार्zव महा उदरौ ॥६-३६-१७॥

पzचिमायाम् अथो द्वारि पुत्रम् इन्द्रजितम् तथा ।
व्यादिदेzअ महा मायम् राक्षसैर् बहुभिर् वृतम् ॥६-३६-१८॥

उत्तरस्याम् पुर द्वारि व्यादिzय zउक सारणौ ।
स्वयम् च अत्र भविष्यामि मन्त्रिणस् तान् उवाच ह ॥६-३६-१९॥

राक्षसम् तु विरूप अक्षम् महा वीर्य पराक्रमम् ।
मध्यमे अस्थापयद् गुल्मे बहुभिह् सह राक्षसैः ॥६-३६-२०॥

एवम् विधानम् लन्कायाम् कृत्वा राक्षस पुम्गवः ।
मेने कृत अर्थम् आत्मानम् कृत अन्त वzअम् आगतः ॥६-३६-२१॥

विसर्जयाम् आस ततह् स मन्त्रिणो ।
विधानम् आज्नाप्य पुरस्य पुष्कलम् ।
जय आzइषा मन्त्र गणेन पूजितो ।
विवेzअ सो अन्तह् पुरम् ऋद्धिमन् महत् ॥६-३६-२२॥

इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे षट्त्रिंशः सर्गः ॥६-३६॥

Personal tools