युद्धकाण्डे प्रथमः सर्गः ॥६-१॥

From Wikisource

Jump to: navigation, search
रामायण - युद्धकाण्ड


श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे प्रथमः सर्गः ॥६-१॥

श्रुत्वा हनुमतो वाक्यम् यथावद्भिभाषितम् ।
रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत् ॥६-१-१॥

कृतम् हनुमता कार्यम् सुमहद्भुवि दुर्लभम् ।
मनसापि यदन्येन न शक्यम् धरणीतले ॥६-१-२॥

न हि तम् परिपश्यामि यस्तरेत महोदधिम् ।
अन्यत्र गुरुडाद्वायोरन्यत्र च हनूमतः ॥६-१-३॥

देवदानवयक्षाणाम् गन्धर्वोरगरक्षसाम् ।
अप्रधृष्याम् पुरीम् लङ्काम् रावणेन सुरक्षिताम् ॥६-१-४॥
प्रविष्टः सत्त्वमाश्रित्य जीवन्को नाम निष्क्रमेत् ।

को विशेत्सुदुराधर्षाम् राक्षसैश्च सुरक्षिताम् ॥६-१-५॥
यो वीर्यबलसम्पन्नो न समः स्याद्धनूमतः ।

भृत्यकार्यम् हनुमता सुग्रीवस्य कृतम् महत् ॥६-१-६॥
एवम् विधाय स्वबलम् सदृशम् विक्रमस्य च ।

यो हि भृत्यो नियुक्तः सन् भर्त्रा कर्मणि दुष्करे ॥६-१-७॥
कुर्यात्तदुनुरागेण तमहुः पुरुषोत्तमम् ।

यो नियुक्तः परम् कार्यम् न कुर्यान्नऋपतेः प्रियम् ॥६-१-८॥
भृत्यो युक्तः समर्थश्च तमाहुर्मध्यम् नरम् ।

नियुक्तो नृपतेः कार्यम् न कुर्याद्यः समाहितः ॥६-१-९॥
भृत्यो युक्तः समर्थश्च तमाहुः पुरुष्धमम् ।

तन्नियोगे नियुक्तेन कृतम् हनूमता ॥६-१-१०॥
न चात्मा लघताम् नीतः सुग्रीवश्चापि तोषितः ।

अहम् च रघवम्शश्च लक्ष्मणश्च महाबलः ॥६-१-११॥
वैदेह्या दर्शनेनाद्य धर्मतः परिरक्षिताः ।

इदम् तु मम दीनस्य मनो भूयः प्रकर्षति ॥६-१-१२॥
यदिहास्य प्रियाक्ष्यातुर्न कुर्मि सदृशम् प्रियम् ।

एष सर्वस्वभूतस्तु परिष्वङ्गो हनुमतः ॥६-१-१३॥
मया कालमिमम् प्राप्य दत्तस्तस्य महात्मनः ।

इत्युक्त्वा प्रीतिहृष्टाङ्गो रामस्तम् परिष्स्वजे ॥६-१-१४॥
हनुमन्तम् कृतात्मानम् क्R६इतवाक्यमुपागतम् ।

ध्यात्वा पुनरुवाचेदम् वचनम् रघुसत्तमः ॥६-१-१५॥
हरीनामीश्वरस्यापि सुग्रीवस्योपशृण्वतः ।

सर्वथा सुकृतम् तावत्सीतायाः परिमार्गणम् ॥६-१-१६॥
सागरम् तु समासाद्य पुनर्नष्टम् मनो मम ।

कथम् नाम समुद्रस्य दुष्पारस्य महाम्भसः ॥६-१-१७॥
हरयो दक्षिणम् पारम् गमिष्यन्ति समागताह् ।

यद्यप्येष तु वृत्तान्तो वैदेह्या गदितो मम ॥६-१-१८॥
समुद्रपारगमने हरीणाम् किमिहोत्तरम् ।

इत्युक्त्वा शोकसम्भ्रान्तो रामह् शत्रुनिबर्हणः ॥६-१-१९॥
हनूमन्तम् महाबाहुस्ततो ध्यानमुपागमत् ।

इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे प्रथमः सर्गः ॥६-१॥

Personal tools