युद्धकाण्डे द्वितीयः सर्गः ॥६-२॥

From Wikisource

Jump to: navigation, search
रामायण - युद्धकाण्ड


श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे द्वितीयः सर्गः ॥६-२॥

तम् तु शोकपरिद्यूनम् रामम् दशरथात्मजम् ।
उवाच वचनम् श्रीमान् सुग्रीवह् शोकनाशनम् ॥६-२-१॥

किम् त्वया तप्यते वीर यथान्यः प्राकृतस्तथा ।
मैवम् भूस्त्यज सतापम् कृतघ्न इव सौहृदम् ॥६-२-२॥

सम्तापस्य च ते स्थानम् न हि पश्यामि राघव ।
प्रवृत्तामुपलब्धायाम् ज्ञाते च निलये रिपोः ॥६-२-३॥

मतिमान् शास्त्रवित्प्राज्ञः पण्डितश्चासि राघव ।
त्यजेमाम् प्राकृताम् उद्धिं कृतात्मेवार्थदूषणीम् ॥६-२-४॥

सम्द्रम् लङ्घयित्वा तु महानक्रसमाकुलम् ।
लङ्कामारोहयिष्यामो हनिष्यामश्च ते रिपुम् ॥६-२-५॥

निरुत्साहस्य दीनस्य शोकपर्याकुलात्मनः ।
सर्वार्था व्यवसीदन्ति व्यसनम् चाधिगच्छति ॥६-२-६॥

इमे शूराः समर्थाश्च सर्वतो हरियूथपाः ।
त्वत्प्रियार्थम् कृतोत्साहाः प्रवेष्टुमपि पावकम् ॥६-२-७॥

एषाम् हर्षेण जानामि तर्कश्चापि दृढो मम ।
विक्रमेण समानेष्ये सीताम् हत्वा यथा रिपुम् ॥६-२-८॥

रावनम् पापक्र्माणम् तथा त्वम् कर्तुमर्हसि ।
सेतुरत्र यथा बद्ध्येथा पश्येम ताम् पुरीम् ॥६-२-९॥

तस्य राक्षसराजस्य तथा त्वम् कुरु राघव ।
दृष्ट्वा ताम् हि पुरीम् लङ्काम् त्रिकूटशिखरे स्थिताम् ॥६-२-१०॥

हतम् च रावणम् उद्धे दर्शनादवधारय ।
अबद्ध्वा सागरे सेतुम् घोरे च वरुणालये ॥६-२-११॥

लङ्का न मर्दितुम् शक्या सेन्द्रैरपि सुरासुरैः ।
सेतुर्बद्धः समुद्रे च यावल्लङ्कासमीपतः ॥६-२-१२॥

सर्वम् तीर्णम् च मे सैन्यम् जितमित्युपधारय ।
इमे हि समरे वीरा हरयः कामरूपिणः ॥६-२-१३॥

तदलम् विक्लबाम् बुद्धिम् राजन् सर्वार्थनाशनीम् ।
पुरुषस्य हि लोकेऽस्मिन् शोकः शौर्यापकर्षणः ॥६-२-१४॥

यत्तु कार्यम् मनुष्येण शौण्डीर्यमवलम्ब्यताम् ।
तदलम्करणायैव कर्तुर्भवति सत्वरम् ॥६-२-१५॥

अस्मिन् काले महाप्राज्ञ् सत्त्वमातिष्ठ ते जसा ।
शूराणाम् हि मनुष्याणाम् त्वद्विधानाम् महात्मनाम् ॥६-२-१६॥

विनष्टेवा रनस्स्टे वाशोकः सर्वार्थनाशनः ।
तत्त्वम् बुद्धिमताम् श्रेष्ठह् सर्वशास्त्रर्थकोविदः ॥६-२-१७॥

मद्विधैः सचिवैः सार्धमरिम् जेतुम् समर्हसि ।
न हि पश्याम्यहम् कम् चित्त्रिषु लोकेषु राघव ॥६-२-१८॥

गृहीतधनुषो यस्ते तिष्ठे दभिमुखो रणे ।
वानरेषु समासक्तम् न ते कार्यम् विपत्स्यते ॥६-२-१९॥

अचिराद्द्रक्ष्यसे सीताम् तीर्त्वा सागरमक्षयम् ।
तदलम् शोकमालम्ब्य क्रोधमालम्ब भूपते ॥६-२-२०॥

निश्चेष्टाह् क्षत्रिया मन्दाः सर्वे चण्डस्य् बिभ्यति ।
लङ्घानार्थम् च घोरस्य समुद्रस्य नदीपतेः ॥६-२-२१॥

सहास्माभिरिहोओपेतह् सूक्ष्मबुद्धिर्विचारय ।
लङ्घिते तत्र तैः सैन्यैर्जितमित्येव निश्चिनु ॥६-२-२२॥

सर्वम् तीर्णम् च मे सैन्यम् जितमित्यवधार्यताम् ।
इमे हि हरयः शूराः समरे कामरूपिणः ॥६-२-२३॥

तानरीन्विधमिष्यन्ति शिलापादपवृष्टिभिः ।
कथम् चित्परिपश्यामि लङ्घितम् वरुणालयम् ॥६-२-२४॥

हतमित्येव तम् मन्ये युद्धे शत्रुनिबर्हण ।
किमुक्त्वा बहुधा चापि सर्वथा विजया भवान् ॥६-२-२५॥

निमित्तानि च पश्यामि मनो मे सम्प्रहृष्यति ।

इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे द्वितीयः सर्गः ॥६-२॥

Personal tools