युद्धकाण्डे द्वाविंशः सर्गः ॥६-२२॥

From Wikisource

Jump to: navigation, search
रामायण - युद्धकाण्ड


श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे द्वाविंशः सर्गः ॥६-२२॥

अथोवाच रघुश्रेष्ठः सागरम् दारुणम् वचः ।
अद्य त्वाम् शोषयिष्यामि सपातालम् महार्णव ॥६-२२-१॥

शरनिर्दग्धतोयस्य परिशुष्कस्य सागर ।
मया निहतसत्त्वस्य पाम्सुरुत्पद्यते महान् ॥६-२२-२॥

मत्कार्मुकनिसृष्टेन शरवर्षेण सागर ।
परम् तीरम् गमिष्यन्ति पद्भिरेव प्लवङ्गमाः ॥६-२२-३॥

विचिन्वन्नाभिजानासि पौरुषम् वापि विक्रमम् ।
दाव्नवालय सम्तापम् मत्तो नाम गमिष्यसि ॥६-२२-४॥

ब्राह्मेणास्त्रेण सम्योज्य ब्रह्मदण्डनिभम् शरम् ।
सम्योज्य धनुषि श्रे ष्ठे विचकर्ष महाबलः ॥६-२२-५॥

तस्मिन्विकृष्टे सहसा राघवेण शरासने ।
रोदसी सम्पफालेव पर्वताश्च चकम्पिरे ॥६-२२-६॥

तमश्च लोकमावव्रे दिशश्च न चकाशिरे ।
प्रतिचुक्षुभिरे चाशु सराम्सि सरितस्तदा ॥६-२२-७॥

तिर्यक् च सह नक्षत्रैः सम्गतौ चन्द्रभास्करौ ।
भास्कराम्शुभिरादीप्तम् तमसा च समावृतम् ॥६-२२-८॥

प्रचकाशे तदाकाशमुल्काशतविदीपितम् ।
अन्तरिक्षाच्च निर्घाता निर्जग्मुरतुलस्वनाः ॥६-२२-९॥

वपुःप्रकर्षेण ववुर्दिव्यमारुतपङ्क्त्यः ।
बभञ्ज च तदा वृक्षान् जलदानुद्वहन् मुहुः ॥६-२२-१०॥

आरुजम्श्चैव शैलाग्रान् शिखराणि बभञ्ज च ।
दिवि च स्म महावेगाः सम्हताः समहास्वनाः ॥६-२२-११॥

मुमुचुर्वैद्युतानग्नीम्स्ते महाशनयस्तदा ।
यानि भूतानि दृश्यानि चुक्रुशुश्चाशनेः समम् ॥६-२२-१२॥

अदृश्यानि च भूतानि मुमुचुर्भैरवस्वनम् ।
शिश्यरे चाभिभूतानि सम्त्रस्ताम्यद्विजन्ति च ॥६-२२-१३॥

सम्प्रविव्यथिरे चापि न च पस्पन्दिरे भयात् ।
सहभूतैः सतोयोर्मिः सनागः सहराक्षसः ॥६-२२-१४॥

सहसाभूत्ततो वेगाद्भीमवेगो महोदधिः ।
योजनम् व्यतिचक्राम वेलामन्यत्र सम्प्लवात् ॥६-२२-१५॥

तम् तथा समतिक्रान्तम् नातिचक्राम राघवः ।
समुद्धतममित्रघ्नो रामो नदनदीपतिम् ॥६-२२-१६॥

ततो मध्यात् समुद्रस्य सागरः स्वयम् उत्थितः ।
उदयन् हि महाशैलान् मेरोर् इव दिवा करः ॥६-२२-१७॥

पन्नगैः सह दीप्त आस्यैः समुद्रः प्रत्यदृश्यत ।
स्निग्ध वैदूर्य सम्काशो जाम्बू नद विभूषितः ॥६-२२-१८॥

रत्न माल्य अम्बर धरः पद्म पत्र निभ ईक्षणः ।
सर्वपुष्पमयीम् दिव्याम् शिरसा धारयन् स्रजम् ॥६-२२-१९॥

जातरूपमयैश्चैव तपनीयविभूषितो भूषणोत्तमैः ।
आत्मजानाम् च रत्नानाम् भूषितो भूषणोत्तमैः ॥६-२२-२०॥

धातुभिर्मण्डितः शैलो विविधैर्हमवानिव ।
एकावलीमध्यगतम् तरलम् पाण्डरप्रभम् ॥६-२२-२१॥

विपुलेनोरसा बिभ्रत्कौस्तुभस्य सहोदरम् ।
आघूर्णिततरङ्गौघःकालिकानिलसम्कुलः ॥६-२२-२२॥

गङ्गासिन्धुप्रधानाभिरापगाभिः समावृतः ।
देवतानाम् सरूपाभिर्नानारूपाभिरीश्वरः ॥६-२२-२३॥

सागरः समतिक्रम्य पूर्वम् आमन्त्र्य वीर्यवान् ।
अब्रवीत् प्रान्जलिर् वाक्यम् राघवम् शर पाणिनम् ॥६-२२-२४॥

पृथिवी वायुर् आकाशम् आपो ज्योतिः च राघवः ।
स्वभावे सौम्य तिष्ठन्ति शाश्वतम् मार्गम् आश्रिताः ॥६-२२-२५॥

तत् स्वभावो मम अपि एष यद् अगाधो अहम् अप्लवः ।
विकारस् तु भवेद् राध एतत् ते प्रवदामि अहम् ॥६-२२-२६॥

न कामान् न च लोभाद् वा न भयात् पार्थिव आत्मज ।
रागान्नक्राकुलजलम् स्तम्भयेयम् कथम्चन ॥६-२२-२७॥

विधास्ये येन गन्तासि विषहिष्ये ह्यहम् तथा ।
न ग्राहा विधमिष्यन्ति यावत्सेना तरिष्यति ॥६-२२-२८॥

हरीणाम् तरणे राम करिष्यामि यथास्थलम् ।
तमब्रवीत्तदा रामः शृणु मे वरुणालय ॥६-२२-२९॥

अमोघोऽयम् महाबाणः कस्मिन् देशे निपात्यताम् ।
रामस्य वचनम् श्रुत्वा तम् च दृष्ट्वा महाशरम् ॥६-२२-३०॥

महोदधिर्महातेजा राघवम् वाक्यमब्रवीत् ।
उत्तरेणावकाशोऽस्ति कश्चित्पुण्यतरो मम ॥६-२२-३१॥

द्रुमकुल्य इति ख्यातो लोके ख्यातो यथा भवान् ।
उग्रदर्शनकर्माणो बहवस्तत्र दस्यवः ॥६-२२-३२॥

आभीरप्रमुखाः पापाः पिबन्ति सलिलम् मम ।
तैर्न तत्स्पर्शनम् पापम् सहेयम् पापकर्मभिः ॥६-२२-३३॥

अमोघः क्रियताम् राम तत्र तेषु शरोत्तमः ।
तस्य तद्वचनम् श्रुत्वा सागरस्य महात्मनः ॥६-२२-३४॥

मुमोच तम् शरम् दीप्तम् परम् सागरदर्शनात् ।
तेन तन्मरुकान्तारम् प्^इथिव्याम् किल विश्रुतम् ॥६-२२-३५॥

विपातितः शरो यत्र वज्राशनिसमप्रभः ।
ननाद च तदा तत्र वसुधा शल्यपीडिता ॥६-२२-३६॥

तस्माद्बाणमुखात्तोयमुत्पपात रसातलात् ।
स बभूव तदा कूपो व्रण इत्येव विश्रुतः ॥६-२२-३७॥

सततम् चोत्थितम् तोयम् समुद्रस्येव दृश्यते ।
अवदारणशब्दश्च दारुणः समपद्यत ॥६-२२-३८॥

तस्मात्तद्बाणपातेन अपः कुक्षिष्वशोषयत् ।
विख्यातम् त्रिषु लोकेषु मधुकान्तारमेव च ॥६-२२-३९॥

शोषयित्वा तु तम् कुक्षिम् रामो दशरथात्मजः ।
वरम् तस्मै ददौ विद्वान्मरवेऽमरविक्रमः ॥६-२२-४०॥

पशव्यश्चाल्परोगश्च फलमूलरसायुतः ।
बहुस्नेहो बहुक्षीरः सुगन्धिर्विविधौषधिः ॥६-२२-४१॥

एवमेतैर्गुणैर्युक्तो बहिभिः सम्युतो मरुः ।
रामस्य वरदानाच्च शिवः पन्था बभूव ह ॥६-२२-४२॥

तस्मिन् दग्धे तदा कुक्षौ समुद्रः सरिताम् पतिः ।
राघवम् सर्वशास्त्रज्ञमिदम् वचनम्ब्रवीत् ॥६-२२-४३॥

अयम् सौम्य नलो नाम तनुजो विश्व कर्मणः ।
पित्रा दत्त वरः श्रीमान् प्रतिमो विश्व कर्मणः ॥६-२२-४४॥

एष सेतुम् महाउत्साहः करोतु मयि वानरः ।
तम् अहम् धारयिष्यामि तथा हि एष यथा पिता ॥६-२२-४५॥

एवम् उक्त्वा उदधिर् नष्टः समुत्थाय नलस् ततः ।
अब्रवीद् वानर श्रेष्ठो वाक्यम् रामम् महाबलः ॥६-२२-४६॥

अहम् सेतुम् करिष्यामि विस्तीर्णे वरुण आलये ।
पितुः सामर्थ्यम् आस्थाय तत्त्वम् आह महाउदधिः ॥६-२२-४७॥

असौ तु सागरो भीमः सेतुकर्मदिदृक्षया ।
ददौ दण्डभयाद्गाधम् राघवाय महोदधिः ॥६-२२-४८॥

मम मातुर् वरो दत्तो मन्दरे विश्व कर्मणा ।
औरसस् तस्य पुत्रो अहम् सदृशो विश्व कर्मणा ॥६-२२-४९॥

औरसस्तस्य पुत्रोऽहम् सदृशो विश्वकर्मणा।
स्मारितोऽस्म्यहमेतेन तत्त्वमाह महोदधिः ॥६-२२-५०॥

न च अपि अहम् अनुक्तो वै प्रब्रूयाम् आत्मनो गुणान् ।
समर्थ्श्चाप्यहम् सेतुम् कर्तुम् वै वरुणालये ॥६-२२-५१॥

तस्मादद्यैव बध्नन्तु सेतुम् वानरपुङ्गवाः ।
ततो निसृष्ट रामेण सर्वतो हरि यूथपाः ॥६-२२-५२॥

अभिपेतुर् महाअरण्यम् हृष्टाः शत सहस्रशः ।
ते नगान् नग सम्काशाः शाखा मृग गण ऋषभाः ॥६-२२-५३॥

बभन्जुर् वानरास् तत्र प्रचकर्षुः च सागरम् ।
ते सालैः च अश्व कर्णैः च धवैर् वम्शैः च वानराः ॥६-२२-५४॥

कुटजैर् अर्जुनैस् तालैस् तिकलैस् तिमिशैर् अपि ।
बिल्वकैः सप्तपर्णैश्च कर्णिकारैश्च पुष्पितैः ॥६-२२-५५॥

चूतैः च अशोक वृक्षैः च सागरम् समपूरयन् ।
समूलामः च विमूलामः च पादपान् हरि सत्तमाः ॥६-२२-५६॥

इन्द्र केतून् इव उद्यम्य प्रजह्रुर् हरयस् तरून् ।
तालान् दाडिमगुल्माम्श्च नारिकेलविभीतकान् ॥६-२२-५७॥

करीरान् बकुलान्निम्बान् समाजह्रुरितस्ततः ।
हस्तिमात्रान् महाकायाः पाषाणाम्श्च महाबलाः ॥६-२२-५८॥

पर्वताम्श्च समुत्पाट्य यन्त्रैः परिवहन्ति च ।
प्रक्षिप्यमाणैर् अचलैः सहसा जलम् उद्धतम् ॥६-२२-५९॥

समुत्पतितम् आकाशम् अपासर्पत् ततस् ततः ।
समुद्रम् क्षोभयामासुर्निपतन्तः समन्ततः ॥६-२२-६०॥

सूत्राण्यन्ये प्रगृह्णन्ति ह्यायतम् शतयोजनम् ।
नलः चक्रे महासेतुम् मध्ये नद नदी पतेः ॥६-२२-६१॥

स तदा क्रियते सेतुर्वानरै र्घोरकर्मभिः ।
दण्डनन्ये प्रगृह्णन्ति विचिन्वन्ति तथापरे ॥६-२२-६२॥

वानरैः शतशस्तत्र रामस्यज्ञापुरःसरैः ।
मेघाभैः पर्वताभश्च तृणैः काष्ठैर्बबन्धरे ॥६-२२-६३॥

पुष्पिताग्रैश्च तरुभिः सेतुम् बध्नन्ति वानराः ।
पाषाणाम्श्च गिरिप्रख्यान् गिरीणाम् शिखराणि च ॥६-२२-६४॥

दृश्यन्ते परिधावन्तो गृह्य दानवसम्निभाः ।
शिलानाम् क्षिप्यमाणानाम् शैलानाम् तत्र पात्यताम् ॥६-२२-६५॥

बभूव तुमुलः शब्दस् तदा तस्मिन् महाउदधौ ।
कृतानि प्रथमेनाह्ना योजनानि चतुर्दश ॥६-२२-६६॥

प्रहृष्टैजसम्काशैस्त्वरमाणैः प्लवङ्गमैः ।
द्वितीयेन तथैवाह्ना योजनानि तु विशतिः ॥६-२२-६७॥

कृतानि प्लवगैस्तूर्णम् भीमकायैर्महाबलैः ।
अह्ना तृतीयेन तथा योजनानि तु सागरे ॥६-२२-६८॥

त्वरमाणैर्महाकयैरेकविम्शतिरेव च ।
चतुर्थेन तथा चाह्ना द्वाविम्शतिरथापि वा ॥६-२२-६९॥

योजनानि महावेगैः कृतानि त्वरितैस्ततः ।
पञ्चमेन तथा चाह्ना प्लवगैः क्षिप्रकारिभिः ॥६-२२-७०॥

योजनानि त्रयोविम्शत्सुवेलमधिकृत्य वै ।
स वानरवरः श्रीमान् विश्वकर्मात्मजो बली ॥६-२२-७१॥

बबन्ध सागरे सेतुम् यथा चास्य तथा पिता ।
स नलेन कृतः सेतुः सागरे मकर आलये ॥६-२२-७२॥

शुशुभे सुभगः श्रीमान् स्वाती पथ इव अम्बरे ।
ततो देवाः सगन्धर्वाः सिद्धाः च परम ऋषयः ॥६-२२-७३॥

आगम्य गगने तस्थुर्द्रष्टुकामास्तदद्भुतम् ।
दशयोजनविस्तीर्णम् शतयोजन मायतम् ॥६-२२-७४॥

ददृशुर्देवगन्धर्वा नलसेतुम् सुदुष्करम् ।
आप्लवन्तः प्लवन्तः च गर्जन्तः च प्लवम् गमाः ॥६-२२-७५॥

तम् अचिन्त्यम् असह्यम् च अद्भुतम् लोम हर्षणम् ।
ददृशुः सर्व भूतानि सागरे सेतु बन्धनम् ॥६-२२-७६॥

तानि कोटि सहस्राणि वानराणाम् महाओजसाम् ।
बध्नन्तः सागरे सेतुम् जग्मुः पारम् महाउदधेः ॥६-२२-७७॥

विशालः सुकृतः श्रीमान् सुभूमिः सुसमाहितः ।
अशोभत महासेतुः सीमन्त इव सागरे ॥६-२२-७८॥

ततः परे समुद्रस्य गदा पाणिर् विभीषणः ।
परेषाम् अभिघत अर्थम् अतिष्ठत् सचिवैः सह ॥६-२२-७९॥

सुग्रीवस्तु ततः प्राह रामम् सत्यपराक्रमम् ।
हनुमन्तम् त्वमारोह अङ्गदम् त्वथ लक्ष्मणः ॥६-२२-८०॥

अयम् हि विपुलो वीर सागरो मकरालयः ।
वैहायसौ युवामेतौ वानरौ धारयिष्यतः ॥६-२२-८१॥

अग्रतस् तस्य सैन्यस्य श्रीमान् रामः सलक्ष्मणः ।
जगाम धन्वी धर्म आत्मा सुग्रीवेण समन्वितः ॥६-२२-८२॥

अन्ये मध्येन गच्चन्ति पार्श्वतो अन्ये प्लवम् गमाः ।
सलिले प्रपतन्ति अन्ये मार्गम् अन्ये न लेभिरे ॥६-२२-८३॥

केचिद् वैहायस गताः सुपर्णा इव पुप्लुवुः ।
घोषेण महता घोषम् सागरस्य समुच्च्रितम् ॥६-२२-८४॥

भीमम् अन्तर् दधे भीमा तरन्ती हरि वाहिनी ।
वानराणाम् हि सा तीर्णा वाहिनी नल सेतुना ॥६-२२-८५॥

तीरे निविविशे राज्ञा बहु मूल फल उदके ।
तद् अद्भुतम् राघव कर्म दुष्करम् ।
समीक्ष्य देवाः सह सिद्ध चारणैः ।
उपेत्य रामम् सहिता महर्षिभिः ।
समभ्यषिन्चन् सुशुभिअर् जलैः पृथक् ॥६-२२-८६॥

जयस्व शत्रून् नर देव मेदिनीम् ।
ससागराम् पालय शाश्वतीः समाः ।
इति इव रामम् नर देव सत्कृतम् ।
शुभैर् वचोभिर् विविधैर् अपूजयन् ॥६-२२-८७॥

इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे द्वाविंशः सर्गः ॥६-२२॥

Personal tools