युद्धकाण्डे द्वादशः सर्गः ॥६-१२॥

From Wikisource

Jump to: navigation, search
रामायण - युद्धकाण्ड


श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे द्वादशः सर्गः ॥६-१२॥

स ताम् परिषदम् कृत्स्नाम् समीक्ष्य समितिम्जयः ।
प्रबोधयामास तदा प्रहस्तम् वाहिनीपतिम् ॥६-१२-१॥

सेनापते यथा ते स्युः कृतविद्याश्चतुर्विधाः ।
योधा नगररक्षायाम् तथा व्यादेष्टुमर्हसि ॥६-१२-२॥

स प्रहस्तः प्रतीतात्मा चिकीर्षन् राजशासनम् ।
विनिक्षिपद् बलम् सर्वम् बहिरन्तश्च मन्दिरे ॥६-१२-३॥

ततो विनिक्षिप्य बलम् सर्वम् नगरगुप्तये ।
प्रहस्तः प्रमुखे राज्ञो निषसाद जगाद च ॥६-१२-४॥

विहितम् बहिरन्तश्च बलम् बलवतस्तव ।
कुरुष्वाविमनाः क्षिप्रम् यदभिप्रेतमस्ति ते ॥६-१२-५॥

प्रहस्तस्य वचः श्रुत्वा राजा राज्यहितैषिणः ।
सुखेप्सुः सुहृदाम् मध्ये व्याजहार स रावणः ॥६-१२-६॥

प्रियाप्रिये सुख दुःखम् लाभालाभे सिताहिते ।
धर्मकामार्थकृच्च्रेषु यूयमार्हथ वेदितुम् ॥६-१२-७॥

सर्वकृत्यानि युष्माभिः समारब्धनि सर्वदा ।
मन्त्रकर्मनियुक्तानि न जातु विफलानि मे ॥६-१२-८॥

ससोमग्रहनक्षत्रैर्मरुद्भिरिव वासवः ।
भवद्भिरहमत्यर्थम् वृतः श्रियमवाप्नुयाम् ॥६-१२-९॥

अहम् तु खलु सर्वन्वः समर्थयुतुमुद्यतः ।
कुमभकर्णस्य तु स्वप्नान्नेममर्थमचोदयम् ॥६-१२-१०॥

अयम् हि सुप्तः ष्ण्मासान् कुम्भकर्णो महाबलः ।
सर्वशस्त्रभृतम् मुख्यः स इदानीम् समुत्थितः ॥६-१२-११॥

इयम् च दण्डकारण्Yआद्रामस्य महिषी प्रिया ।
रक्षोभिश्चरितोद्देशादानीता जनकात्मजा ॥६-१२-१२॥

सा मे न शय्यामारोढुमिच्चत्यलसगामिनी ।
त्रिषुलोकेषु चान्या मे न सीतासदृशी मता ॥६-१२-१३॥

तनुमध्या पृथुश्रोणी शरदिन्दुनिभानना ।
हेमबिम्बनिभा सौम्यामायेव मयनिर्मिता ॥६-१२-१४॥

सुलोहिततलौ श्लक्क्षणौ चरणौ सुप्रतिष्ठतौ ।
दृष्ट्वा ताम्रनखौ तस्या दीप्यते मे शरीरजः ॥६-१२-१५॥

हुताग्निरर्चिःसम्काशामेनाम् सौरीमिव प्रभाम् ।
उन्नसम् विमलम् वल्गु वदनम् चारुलोचनम् ॥६-१२-१६॥

पश्यम्स्तदवशस्तस्याः कामस्य वशमेयिवान् ।
क्रोधहर्षसमानेन दुर्वर्णकरणेन च ॥६-१२-१७॥

शोकसम्तापनित्येन कामेन कलुषीकृतः ।
सा तु सम्वत्सरम् कालम् मामयाचत भामिनी ॥६-१२-१८॥

प्रतीक्षमाणा भर्तारम् राममायतलोचना ।
तन्मया चारुनेत्रायाः प्रतिज्ञातम् वचः शुभम् ॥६-१२-१९॥

श्रान्तोऽहम् सततम् कामाद्यातो हय इवाध्वनि ।
कथम् सागरमक्षोभ्यम् तरिष्यन्ति वनौकसः ॥६-१२-२०॥

बहुसत्त्वसमाकीर्णम् तौ वा दशरथात्मजौ ।
अथवा कपिनैकेन कृतम् नः कदनम् महत् ॥६-१२-२१॥

दुर्ज्ञेयाः कार्यगतयो ब्रूत यस्य यथामति ।
मानुषान्नो भयम् नास्ति तथापि तु विमृश्यताम् ॥६-१२-२२॥

तदा देवासुरे युद्दे युष्माभिः सहितोऽजयम् ।
ते मे भवन्तश्च तथा सुग्रीवप्रमुखान् हरीन् ॥६-१२-२३॥

परे पारे समुद्रस्य पुरस्कृत्य नृपात्मजौ ।
सीतायाः पदवीम् प्राप्य सम्प्राप्तौ वरुणालयम् ॥६-१२-२४॥

अदेया च यथा सीता वध्यौ दशरथात्मजौ ।
भवद्भिर्मन्त्य्रताम् मन्त्रः सुनीतम् चाभिधीयताम् ॥६-१२-२५॥

न हि शक्तिम् प्रपश्यामि जगत्यन्यस्य कस्यचित् ।
सागरम् वानरैस्तीर्त्वा विश्चयेन जयो मम ॥६-१२-२६॥

तस्य कामपरीतस्य निशम्य परिदेवितम् ।
कुम्भकर्णः प्रचुक्रोध वचनम् चेदमब्रवीत् ॥६-१२-२७॥

यदा तु रामस्य सलक्ष्मणस्य ।
प्रसह्य सीता खलु पा इहाऽहृता ।
सकृत्समीक्षैव सुनिश्चितम् तदा ।
भजेत चित्तम् यमुनेव यामुनम् ॥६-१२-२८॥

सर्वमेतन्महाराज कृतमप्रतिमम् तव ।
विधीयेत सहास्माभिरादावेवास्य कर्मणः ॥६-१२-२९॥

न्यायेन राजकार्याणि यः करोति दशानन ।
न स सम्तप्यते पश्चान्निश्चतार्थमतिर्नृपः ॥६-१२-३०॥

अनुपायेन कर्माणि विपरीतानि यानि च ।
क्रियमाणानि दुष्यन्ति हवीम्ष्यप्रयतेष्विन ॥६-१२-३१॥

यः पश्चात्पूर्वकार्याणि कर्माण्यभिचिकीर्षति ।
पूर्वम् चापरकर्याणि न स वेद नयानयौ ॥६-१२-३२॥

चपलस्य तु कृत्येषु प्रसमीक्स्याधिकम् बलम् ।
चिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः ॥६-१२-३३॥

त्वयेदम् महादारभम् कार्य मप्रतिचिन्तितम् ।
दिष्ट्या त्वाम् नावधीद्रामो विषमिश्रमिवामृतम् ॥६-१२-३४॥

तस्मात्त्वया समारब्धम् कर्म ह्यप्रतिमम् परैः ।
अहम् समीकरिष्यामि हत्वा शत्रूम् स्तनानघ ॥६-१२-३५॥

अहमुत्सादयिष्यामि शत्रूम्स्तव निशाचर ।
यदि शक्रविवस्वन्तौ यदि पावकमारुतौ ॥६-१२-३६॥

तावहम् योधयिष्यामि कुबेरवरुणावपि ।
गिरिमात्रशरीरस्य महापरिघयोधिनः ॥६-१२-३७॥

नर्दतस्तीक्ष्णदम्ष्ट्रस्य बिभीयाद्वै पुरन्दरः ।
पुनर्माम् सद्वितीयेन शरेण निहनिष्यति ॥६-१२-३८॥

ततोऽहम् तस्य पास्यामि रुधिरम् काममाश्वस ।
वधेव वै दाशरथेह् सुखावहम् ।
जयम् तवाहर्तुमहम् तयिष्ये ।
हत्वा च रामम् सह लक्ष्मणेन ।
खादामि सर्वान् हरियूथमुख्यान् ॥६-१२-३९॥

रमस्व कामम् पिब चाग्र्यवारुणीम् ।
कुरुष्व कार्वाणि हितानि विज्वरः ।
मया तु रामे गमिते यमक्षयम् ।
चिराय सीता वशगा भविष्यति ॥६-१२-४०॥

इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे द्वादशः सर्गः ॥६-१२॥

Personal tools