युद्धकाण्डे चतुर्विंशः सर्गः ॥६-२४॥

From Wikisource

Jump to: navigation, search
रामायण - युद्धकाण्ड


श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे चतुर्विंशः सर्गः ॥६-२४॥

सा वीरसमिती राज्ञा विरराज व्यवस्थिता ।
शशिना शुभिनक्षत्रा पौर्णमासीव शारदी ॥६-२४-१॥

प्रचचाल च वेगेन त्रस्ता चैव वसुन्धरा ।
पीड्यमाना बलौ घेन तेन सागरवर्चसा ॥६-२४-२॥

ततः शुश्रुपुराक्रुष्टम् लङ्कायाः काननौकसः ।
भेरीमृदङ्गसम्घुष्टम् तुमुलम् रोमहर्षणम् ॥६-२४-३॥

बभूवुस्तेन घोषेण सम्हृष्टा हरियूथपाः ।
अमृष्यमाणास्तम् घोषम् विनेदुर्घोषवत्तरम् ॥६-२४-४॥

राक्षसास्तम् प्लवङ्गानाम् शुश्रुवुस्तेऽपि गर्जितम् ।
वर्दतामिव दृप्तानाम् मेघानामम्बरे स्वनम् ॥६-२४-५॥

दृष्ट्वा दाशरथिर्लङ्काम् चित्रध्वजपताकिनिम्म् ।
जगाम मनसा सीताम् दूयमानेन चेतसा ॥६-२४-६॥

अत्र सा मृगशाबाक्षी रावणेनोपरुध्यते ।
अभिभूता ग्रहेणेव लोहिताङ्गेन रोहिणी ॥६-२४-७॥

दीर्घमुष्णम् च निःश्वस्य समुद्वीक्ष्य च लक्ष्मणम् ।
उवाच वचनम् वीरस्तत्कालहितमात्मनः ॥६-२४-८॥

आलिखन्तीमिवाकाशमुत्थिताम् पश्य लक्ष्मण ।
मन्सेव कृताम् लङ्काम् नगाग्रे विश्वकर्मणा ॥६-२४-९॥

विमानैर्बहुभिर्लङ्क सम्कीर्णा रचिता पुरा ।
विष्णोः पदमिवाकाशम् चादितम् पाण्डुभिर्घनैः ॥६-२४-१०॥

पुष्पितैः शोभिता लङ्का वनैश्चत्ररथोपमैः ।
नानापतगसम्घुष्टफलपुष्पोपगैः शुभैः ॥६-२४-११॥

पश्य मत्तविहङ्गनि प्रलीनभ्रमराणि च ।
कोकिलाकुलखण्डानि दोधवीति शिवोऽविलः ॥६-२४-१२॥

इति दाशरथीरमो लक्ष्मणम् समभाषत ।
बलम् च तत्र विभजच्चास्त्रदृष्टेन कर्मणा ॥६-२४-१३॥

शशास कपिसेमाम् ताम् बलादादाय वीर्यवान् ।
अङ्गदः सह नीलेन तिष्ठे दुरपि दुर्जयः ॥६-२४-१४॥

तिष्ठेद्वानरवाहिन्या वानरौघसमावृतः ।
आशिर्तो दक्षिणम् पार्श्वमृषभो नाम वानरः ॥६-२४-१५॥

गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः ।
तिष्ठेद्वानरवाहिन्याः सव्यम् पक्षमधिष्ठतः ॥६-२४-१६॥

मूर्ध्नि स्थास्याम्यहम् यत्तो लक्ष्मणेन समन्वितः ।
जाम्बवाम्श्च सुषेणश्च वेगदर्शी च वानरः ॥६-२४-१७॥

ऋक्षमुख्या महात्मानः कुक्षिम् रक्षन्तु ते त्रयः ।
जघनम् कपिसेनायाः कपिराजोऽभिरक्षतु ॥६-२४-१८॥

पश्चार्धमिव लोकस्य प्रचेतास्तेजपा वृतः ।
सुविभक्तमहाव्यूहा महावानररक्षिता ॥६-२४-१९॥

अनीकिनी सा विबभौ यथाद्यौः साभ्रसम्प्लवा ।
प्रऋह्य गिरिशृङ्गाणि महतश्च महीरुहान् ॥६-२४-२०॥

आसेदुर्वानरा लङ्काम् मिमर्दयुषवो रणे ।
शिखरैर्विकिरामैनाम् लङ्काम् मुष्टिभिरेव वा ॥६-२४-२१॥

इति स्म दधिरे सर्वे मानाम्सि हरिपुङ्गवाः ।
ततो रामो महातेजाः सुग्रीव मिदमब्रवीत् ॥६-२४-२२॥

सुविभक्तानि सैन्यानि शुक एष विमुच्यताम् ।
रामस्य तु वचः श्रुत्वा वानरेन्द्रो महाबलः ॥६-२४-२३॥

मोचयामास तम् दूतम् शुकम् रामस्य शासनात् ।
मोचितो रामवाक्येन वानरैश्च निपीडितः ॥६-२४-२४॥

शुकः परमसम्त्रस्तो रक्षोधिपमुपागमत् ।
रावणः प्रहसन्नेव शुकम् वाक्यमुवाच ह ॥६-२४-२५॥

किमिमौ ते सितौ पक्षौ लूनपक्ष्श्च दृश्यसे ।
कच्चिन्नानेकचित्तानाम् तेषाम् त्वम् वशमागतः ॥६-२४-२६॥

ततस्प भयसम्विग्न स्तदा राज्ञाभिचोदितः ।
वचनम् प्रत्युवाचेदम् राक्षसाधिपमुत्तमम् ॥६-२४-२७॥

सागरस्योत्तरे तीरेऽब्रवम् ते वचनम् तथा ।
यथासम्देशमक्लिष्टम् सान्त्वयन् श्लक्ष्णया गिरा ॥६-२४-२८॥

क्रुद्धैस्तेरहमुत्प्लुत्य दृष्टमात्रः प्लवङ्गमैः ।
गृहितोऽस्म्यपि चारब्धो हन्तुम् लोप्तुम् च मुष्टिभिः ॥६-२४-२९॥

न ते सम्भाषितुम् शक्याः सम्प्रश्नोऽत्र न विद्यते ।
प्रकृत्या कोपनास्तीक्षिणा वानरा राक्षसाधिप ॥६-२४-३०॥

स च हन्ता विराधस्य कबन्धस्य खरस्य च ।
सुग्रीवसहितो रामः सीतायाः पदमागतः ॥६-२४-३१॥

स कृत्वा सागरे सेतुम् तीर्त्वा च लवणोदधिम् ।
एष रक्षासि निर्धूय धन्वी तिष्ठति राघवः ॥६-२४-३२॥

ऋक्षवानरसम्घानामनीकानि सहस्रशः ।
गिरिमेघनिकाशानाम् चादयन्ति वसुन्धराम् ॥६-२४-३३॥

राक्षसानाम् बलौघस्य वानरेन्द्रबलस्य च ।
नैतयोर्विद्यते सम्धिर्देवदानवयोरिव ॥६-२४-३४॥

पुरा प्राकारमायान्ति क्षिप्रमेकतरम् कुरु ।
सीताम् वास्मै प्रयच्चाशु युद्धम् वापि प्रदीयताम् ॥६-२४-३५॥

शुकस्य वचनम् श्रुत्वा रावणो वाक्य मब्रवीत् ।
रोषसम्रक्तनयनो निर्दहन्निव चक्षुषा ॥६-२४-३६॥

यदि माम् प्रतियुध्येरन् देवगन्धर्वदानवाः ।
नैव सीताम् प्रदास्यामि सर्वलोकभयादपि ॥६-२४-३७॥

कदा समभिधानन्ति मामका राघवम् शराः ।
वसन्ते पुष्पितम् मत्ता भ्रमरा इव पादपम् ॥६-२४-३८॥

कदा शोणितदिग्धाङ्गम् दीपैः कार्मुकविच्युतैः ।
शरैरादीपयिष्यामि उल्काभिरिव कुञ्जरम् ॥६-२४-३९॥

तच्चास्य बलमादास्ये बलेन महता वृतः ।
ज्योतिषामिव सर्वेषाम् प्रभामुद्यन्दिवाकरः ॥६-२४-४०॥

सागरस्येव मे वेगो मारुतस्येव मे बलम् ।
न च दाशरथिर्वेद तेन माम् योद्धुमिच्चति ॥६-२४-४१॥

न मे तूणीशयान् बाणान् सनिषानिव पन्नगान् ।
रामः पश्यति सम्ग्रामे तेन माम् योद्धुमिच्चति ॥६-२४-४२॥

न जानाति पुरा वीर्यम् मम युद्धे स राघवः ।
मम चापमयीम् वीणाम् शरकोणैः प्रवादिताम् ॥६-२४-४३॥

ज्याशबदतुमुलाम् घोरामार्तगीतमहास्वनाम् ।
नाराचतलसम्नादाम् ताम् ममाहितवाहिनीम् ॥६-२४-४४॥

अवगाह्य महरङ्गम् वादयिष्यान्तगन् रणे ।
न वासवेनापि स हस्रचक्षुषा ।
युद्धेऽस्मि शक्यो वरुणेन वास्वयम् ।
यमेव वा धर्षयितुम् शराग्निना ।
महाहवे वैश्रवणेन वा स्वयम् ॥६-२४-४५॥

इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे चतुर्विंशः सर्गः ॥६-२४॥

Personal tools