युद्धकाण्डे एकोनविंशः सर्गः ॥६-१९॥

From Wikisource

Jump to: navigation, search
रामायण - युद्धकाण्ड


श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकोनविंशः सर्गः ॥६-१९॥

राघवेन अभये दत्ते सम्नतो रावण अनुजः ।
विभीषणो महाप्राज्ञो भूमिम् समवलोकयत् ॥६-१९-१॥

खात् पपात अवनिम् हृष्टो भक्तैर् अनुचरैः सह ।
स तु रामस्य धर्म आत्मा निपपात विभीषणः ॥६-१९-२॥

पादयोः शरण अन्वेषी चतुर्भिः सह राक्षसैः ।
अब्रवीच् च तदा रामम् वाक्यम् तत्र विभीषणः ॥६-१९-३॥

धर्म युक्तम् च युक्तम् च साम्प्रतम् सम्प्रहर्षणम् ।
अनुजो रावणस्य अहम् तेन च अस्मि अवमानितः ॥६-१९-४॥

भवन्तम् सर्व भूतानाम् शरण्यम् शरणम् गतः ।
परित्यक्ता मया लंका मित्राणि च धनानि च ॥६-१९-५॥

भवद् गतम् हि मे राज्यम् च जीवितम् च सुखानि च ।
तस्य तद्वचनम् श्रुत्वा रामो वचनमब्रवीत् ॥६-१९-६॥

वचसा सान्त्वयित्वैनम् लोचनाभ्याम् पिबन्निव ।
आख्याहि मम तत्वेन राक्षसानाम् बलाबलम् ॥६-१९-७॥

एवमुक्तम् तदा रक्षो रामेणाक्लिष्टकर्मणा ।
रावणस्य बलम् सर्वमाख्यातुमुपचक्रमे ॥६-१९-८॥

अवध्यः सर्वभूतानाम् गन्धर्वोरगपक्षिणाम् ।
राजपुत्र दशग्रीवो वरदानात्स्वयम्भुवः ॥६-१९-९॥

रावणानन्तरो भ्राता मम ज्येष्ठश्च वीर्यवान् ।
कुम्भकर्णो महातेजाः शक्रप्रतिबलो युधि ॥६-१९-१०॥

राम सेनापतिस्तस्य प्रहस्तो यदि ते श्रुतः ।
कैलासे येन सम मणिभद्रः पराजितः ॥६-१९-११॥

बद्दगोधाङ्गुलित्रश्च अवध्यकवचो युधि ।
धनुरादाय यस्तिष्ठन्नदृश्यो भवतीन्द्रजित् ॥६-१९-१२॥

सम्ग्रामे सुमहद्व्यूहे तर्पयित्वा हुताशनम् ।
अन्तर्धानगतः श्रीमानिन्द्रजिद्धन्ति राघव ॥६-१९-१३॥

महोदरमहापार्स्वौ राक्षसश्चाप्यकम्पनः ।
अवीकपास्तु तप्यैते लोकपालसमा युधि ॥६-१९-१४॥

दशकोटिसहस्राणि रक्षसाम् कामरूपिणाम् ।
माम्सशोणितभक्ष्याणाम् लङ्कापुरनिवासिनाम् ॥६-१९-१५॥

स तैस्तु सहितो राजा लोकपालानयोधयत् ।
सह देवैस्तु ते भग्ना रावणेन दुरात्मना ॥६-१९-१६॥

विभीषणस्य तु वचस्तछ्रुत्वा रघुसत्तमः ।
अन्वीक्ष्य मनसा सर्वमिदम् वचनमब्रवीत् ॥६-१९-१७॥

यानि कर्मापदानानि रावणस्य विभीषण ।
अख्यातानि च तत्त्वेन ह्यवगच्चामि तान्यहम् ॥६-१९-१८॥

अहम् हत्वा दशग्रीवम् सप्रहस्तम् सहात्मजम् ।
राजानम् त्वाम् करिष्यामि सत्यमेतच्छृणोतु मे ॥६-१९-१९॥

रसातलम् वा प्रविशेत्पातालम् वापि रावणः ।
पितामहसकाशम् वा न मे जीवन्विमोक्ष्यते ॥६-१९-२०॥

अहत्वा रावणम् सम्ख्ये सपुत्रजनबान्धवम् ।
अयोध्याम् न प्रवेक्ष्यामि त्रिभिस्तैर्भ्रतृभिः शपेः ॥६-१९-२१॥

श्रुत्वा तु वचनम् तस्य रामस्याक्लिष्टकर्मणः ।
शिरसा वन्द्य धर्मात्मा वक्तुमेव प्रचक्रमे ॥६-१९-२२॥

राक्षसानाम् वधे साह्यम् लंकायाः च प्रधर्षणे ।
करिष्यामि यथा प्राणम् प्रवेक्ष्यामि च वाहिनीम् ॥६-१९-२३॥

इति ब्रुवाणम् रामस् तु परिष्वज्य विभीषणम् ।
अब्रवील् लक्ष्मणम् प्रीतः समुद्राज् जलम् आनय ॥६-१९-२४॥

तेन च इमम् महाप्राज्ञम् अभिषिन्च विभीषणम् ।
राजानम् रक्षसाम् क्षिप्रम् प्रसन्ने मयि मानद ॥६-१९-२५॥

एवम् उक्तस् तु सौमित्रिर् अभ्यषिन्चद् विभीषणम् ।
मध्ये वानर मुख्यानाम् राजानम् राम शासनात् ॥६-१९-२६॥

तम् प्रसादम् तु रामस्य दृष्ट्वा सद्यः प्लवम् गमाः ।
प्रचुक्रुशुर् महानादान् साधु साध्व् इति च अब्रुवन् ॥६-१९-२७॥

अब्रवीच् च हनूमामः च सुग्रीवः च विभीषणम् ।
कथम् सागरम् अक्षोभ्यम् तराम वरुण आलयम् ॥६-१९-२८॥

सैन्यैः परिवृताः सर्वे वानराणाम् महौजसाम् ।
उपायैर् अभिगच्चामो यथा नद नदी पतिम् ॥६-१९-२९॥

तराम तरसा सर्वे ससैन्या वरुण आलयम् ।
एवम् उक्तस् तु धर्मज्ञः प्रत्युवाच विभीषणः ॥६-१९-३०॥

समुद्रम् राघवो राजा शरणम् गन्तुम् अर्हति ।
खानितः सगरेण अयम् अप्रमेयो महाउदधिः ॥६-१९-३१॥

कर्तुम् अर्हति रामस्य ज्ञातेः कार्यम् महाउदधिः ।
एवम् विभीषणेन उक्ते राक्षसेन विपश्चिता ॥६-१९-३२॥

आजगामथ सुग्रीवो यत्र रामः सलक्ष्मणः ।
ततश्चाख्यातुमारेभे विभीषणवचः शुभम् ॥६-१९-३३॥

सुग्रीवो विपुलग्रीवः सागरस्योपवेशनम् ।
प्रकृत्या धर्म शीलस्य राघवस्य अपि अरोचत ॥६-१९-३४॥

स लक्ष्मणम् महातेजाः सुग्रीवम् च हरि ईश्वरम् ।
सत् क्रिया अर्थम् क्रिया दक्षः स्मित पूर्वम् उवाच ह ॥६-१९-३५॥

विभीषणस्य मन्त्रो अयम् मम लक्ष्मण रोचते ।
सुग्रीवः पण्डितो नित्यम् भवान् मन्त्र विचक्षणः ॥६-१९-३६॥

उभाभ्याम् सम्प्रधार्य आर्यम् रोचते यत् तद् उच्यताम् ।
एवम् उक्तौ तु तौ वीराव् उभौ सुग्रीव लक्ष्मणौ ॥६-१९-३७॥

समुदाचार सम्युक्तम् इदम् वचनम् ऊचतुः ।
किम् अर्थम् नो नर व्याघ्र न रोचिष्यति राघव ॥६-१९-३८॥

विभीषणेन यत् तु उक्तम् अस्मिन् काले सुख आवहम् ।
अबद्ध्वा सागरे सेतुम् घोरे अस्मिन् वरुण आलये ॥६-१९-३९॥

लंका न आसादितुम् शक्या स इन्द्रैर् अपि सुर असुरैः ।
विभीषणस्य शूरस्य यथा अर्थम् क्रियताम् वचः ॥६-१९-४०॥

अलम् काल अत्ययम् कृत्वा समुद्रो अयम् नियुज्यताम् ।
यथा कालात्ययम् कृत्वा सागराय नियुज्यताम् ॥६-१९-४१॥

एवम् उक्तः कुश आस्तीर्णे तीरे नद नदी पतेः ।
सम्विवेश तदा रामो वेद्याम् इव हुत अशनः ॥६-१९-४२॥

इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे एकोनविंशः सर्गः ॥६-१९॥

Personal tools