युद्धकाण्डे एकादशः सर्गः ॥६-११॥

From Wikisource

Jump to: navigation, search
रामायण - युद्धकाण्ड


श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकादशः सर्गः ॥६-११॥

स बभुव कृशो राजा मैथिलीकाममोहितः ।
असन्मानाच्च सुहृदाम् पापः पापेन कर्मणाः ॥६-११-१॥

अतीतसमये काले तस्मिन्वे युधि रावणः ।
अमात्यैश्च सुहृद्भिश्च प्राप्तकालममन्यत ॥६-११-२॥

स हेमजालविततम् मणिविद्रुमभूषितम् ।
उपगम्य विनीताश्वमारुरोह महार्थम् ॥६-११-३॥

तमास्थाय रथश्रेष्ठो महामेघसमस्वनम् ।
प्रययौ रक्षसाम् श्रेष्ठो दशग्रीवः सभाम् प्रति ॥६-११-४॥

असिचर्मधरा योधाः सर्वायुधधरास्ततः ।
राक्षसा राक्षसेन्द्रस्य पुरस्तात्सम्प्रतस्थिरे ॥६-११-५॥

नानाविकृतवेषाश्च नानाभूषणभूषिताः ।
पार्श्वतः पृष्ठतश्चैनम् परिवार्य ययुस्तदा ॥६-११-६॥

रथैश्चातिरथा शीघ्रम् मतैश्च वरवारणैः ।
अमात्पेतुर्दशग्रीवमाक्रीडद्भिश्च वाजिभिः ॥६-११-७॥

गदापरिघहस्ताश्च शक्तितोमरपाणयः ।
परश्वथधराश्चान्ये तथान्ये शूलपाणयः ॥६-११-८॥

ततस्तूर्यसहस्राणाम् सम्जज्ञे निःस्वनो महान् ।
तुमुलः शङ्खशब्दश्च सभाम् गच्चति रवणे ॥६-११-९॥

स नेमिघोषेण महान्सहसाभिनिनादयन् ।
राजमार्गम् श्रिया जुष्टम् प्रतिपेदे महारथः ॥६-११-१०॥

विमलम् चातपत्रम् च पगृहीतमशोभत ।
पाण्डुरम् राक्षसेन्द्रस्य पूर्णस्तारधिपो यथा ॥६-११-११॥

हेमञ्जरिगर्भे च शुद्धस्फटिकविग्रहे ।
चामरव्यजने तस्य रेजतुः सव्यदक्षिणे ॥६-११-१२॥

ते कृताञ्जलयः सर्वे रथस्थम् पृथिवीस्थिताः ।
राक्ष्सा राक्षसश्रेष्ठम् शिरोभिस्तम् ववन्दिरे ॥६-११-१३॥

राक्षनैः स्तूयमानः सन् जयाशीर्भिररिम्दमः ।
अससाद महातेजाः सभाम् विरचिताम् तदा ॥६-११-१४॥

सुवर्णरजतास्तीर्णाम् विशुद्धस्फटिकान्तराम् ।
विराजमानो वपुषा रुक्मपट्टोत्तरच्चदाम् ॥६-११-१५॥

ताम् पिशाचशतैः षड्भिरभिगुप्ताम् सदाप्रभाम् ।
प्रविवेश महातेजाः सुकृताम् विश्वकर्मणा ॥६-११-१६॥

तस्याम् स वैदूर्यमयम् प्रियाकाजिनसम्वृतम् ।
महत्सोपाश्रयम् भेजे रावणः परमासनम् ॥६-११-१७॥

ततः शशासेश्वरवद्दूतान् लघुपराक्रमान् ।
समानयत मे क्षिप्रमिहैतान् राक्षसानिति ॥६-११-१८॥

कृत्यमस्ति महाज्जाने कर्तव्यमिति शत्रुभिः ।
राक्षसास्तद्वचः श्रुत्वा लङ्कायाम् परिचक्रमुः ॥६-११-१९॥

अनुगेहमवस्थय विहारशयनेषु च ।
उद्यानेषु च रक्क्षम्सि चोदयन्तो ह्यभीतवत् ॥६-११-२०॥

ते रथान् रुचिरानेके दृप्तानेके दृढान् हयान् ।
नागनेकेऽधिरुरुहुर्जग्मुश्चैके पदातयः ॥६-११-२१॥

सा पुरी परमाकीर्णा रथकुञ्जरवाजिभिः ।
सम्पतद्भिर्विरुरुचे गरुत्मद्चिरिवामबरम् ॥६-११-२२॥

ते वाहनान्यवस्थाप्य यानानि विविधानि च ।
सभाम् पद्भिः प्रविविशुः सिम्हा गिरिगुहामिव ॥६-११-२३॥

राज्ञः पादौ गृहीत्वा तु राज्ञा ते प्रतिपूजिताः ।
पीठेष्वन्ये बृसीष्वन्ये भूमौ केचिदुपाविशन् ॥६-११-२४॥

ते समेत्य सभायाम् वै राक्षसा राजशासनात् ।
यथार्हमुपतस्थुस्ते रावणम् राक्षसाधिपम् ॥६-११-२५॥

मन्त्रिणश्च यथामुख्या निश्चितार्थेषु पण्डिताः ।
अमात्याश्च गुणोपेताः सर्वज्ञा बुद्धिदर्शनाः ॥६-११-२६॥

समीयुस्तत्र शतशः शूराश्च बहवस्तथा ।
सभायाम् हेमवर्णायाम् सर्वार्थस्य सुखाय वै ॥६-११-२७॥

ततो महात्मा विपुलम् सुयुग्यम् ।
रथम् वरम् हेमविचित्रिताङ्गम् ।
शुभम् समास्थाय ययौ यशस्वी ।
विभीषणः सम्सदमग्रजस्य ॥६-११-२८॥

स पूर्वजायावरजः शशम्स ।
ना माथ पश्चाच्चरणौ ववन्दे ।
शुकः प्रहस्तश्च तथैव तेभ्यो ।
ददौ यथार्हम् प्R^थगासनानि ॥६-११-२९॥

सुवर्णनानामणिभुषणानाम् ।
सुवाससाम् सम्सदि राक्षसानाम् ।
तेषाम् परार्थ्यगुरुचन्दनानाम् ।
स्रजाम् च गन्धाः प्रववुः समन्तात् ॥६-११-३०॥

न चुक्रुशुर्नानृतमाह कश्चि ।
त्सभासदो नापि जजल्पुरुच्चैः ।
सम्सिद्धार्थः सर्व एवोग्रवीर्या ।
भर्तुः सर्वे ददृशुश्चाननम् ते ॥६-११-३१॥

स रावणः शस्त्रभृताम् मनस्विनाम् ।
महाबलानाम् समितौ मनस्वी ।
तप्याम् सभायाम् प्रभया चकाशे ।
मध्ये वसूनामिव वज्रहस्तः ॥६-११-३२॥

इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे एकादशः सर्गः ॥६-११॥

Personal tools