युद्धकाण्डे एकविंशः सर्गः ॥६-२१॥

From Wikisource

Jump to: navigation, search
रामायण - युद्धकाण्ड


श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकविंशः सर्गः ॥६-२१॥

ततः सागरवेलायाम् दर्भानास्तीर्य राघवः ।
अञ्जलिम् प्राङ्मुखः कृत्वा प्रतिशिश्ये महोदधेः ॥६-२१-१॥

बाहुम् भुजङ्गभोगाभमुपधायारिसूदनः ।
मणिकाञ्चनकेयूरमुक्ताप्रवरभूषणैः  ॥६-२१-२॥

भुजैः परमनारीणामभिमृष्टमनेकधा ॥६-२१-३॥

चन्दनागुरुभिश्चैव पुरस्तादभिसेवितम् ॥६-२१-४॥

बालसूर्यप्रकाशैश्च चन्दनैरुपशोभितम् ।
शयने चोत्तमाङ्गेन सीतायाः शोभितम् पुरा ॥६-२१-५॥

तक्षकस्येव सम्भोगम् गङ्गाजलनिषेवितम् ।
सम्गे युगसम्काशम् शत्रूणाम् शोकवर्धनम् ॥६-२१-६॥

सुह्R^दाम् नन्दनम् दीर्घम् सागरान्तव्यपाश्रयम् ।
अस्यता च पुनः सव्यम् ज्याघातविगतत्वचम् ।
दक्षिणो कक्षिणम् बहुम् महापरिघसम्निभम् ॥६-२१-७॥

गोसहस्रप्रदातारम् ह्युपधाय भुजम् महत् ।
अद्य मे मरणम् वाथ तरणम् सागरस्य वा ॥६-२१-८॥

इति रामो धृतिम् कृत्वा महाबाहुर्महोदधिम् ।
अधिशिश्ये च विधिवत्प्रयतोऽत्र स्थितो मुनिः ॥६-२१-९॥

तस्य रामस्य सुप्तस्य कुश आस्तीर्णे मही तले ।
नियमाद् अप्रमत्तस्य निशास् तिस्रो अतिचक्रमुः ॥६-२१-१०॥

स त्रिरात्रोषितस्तत्र नयज्ञो धर्मवत्सलः ।
उपासत तदा रामः सागरम् सरिताम् पतिम् ॥६-२१-११॥

न च दर्शयते मन्दस् तदा रामस्य सागरः ।
प्रयतेन अपि रामेण यथा अर्हम् अभिपूजितः ॥६-२१-१२॥

समुद्रस्य ततः क्रुद्धो रामो रक्त अन्त लोचनः ।
समीपस्थम् उवाच इदम् लक्ष्मणम् शुभ लक्ष्मणम् ॥६-२१-१३॥

अवलेपम् समुद्रस्य न दर्शयति यत् स्वयम् ।
प्रशमः च क्षमा चैव आर्जवम् प्रिय वादिता ॥६-२१-१४॥

असामर्थ्यम् फलन्ति एते निर्गुणेषु सताम् गुणाः ।
आत्म प्रशम्सिनम् दुष्टम् धृष्टम् विपरिधावकम् ॥६-२१-१५॥

सर्वत्र उत्सृष्ट दण्डम् च लोकः सत् कुरुते नरम् ।
न साम्ना शक्यते कीर्तिर् न साम्ना शक्यते यशः ॥६-२१-१६॥

प्राप्तुम् लक्ष्मण लोके अस्मिन् जयो वा रण मूधनि ।
अद्य मद् बाण निर्भिन्नैर् मकरैर् मकर आलयम् ।
निरुद्ध तोयम् सौमित्रे प्लवद्भिः पश्य सर्वतः ॥६-२१-१७॥

भोगामः च पश्य नागानाम् मया भिन्नानि लक्ष्मण ॥६-२१-१८॥

महाभोगानि मत्स्यानाम् करिणाम् च करान् इह ।
सशन्ख शुक्तिका जालम् समीन मकरम् शरैः ॥६-२१-१९॥

अद्य युद्धेन महता समुद्रम् परिशोषये ।
क्षमया हि समायुक्तम् माम् अयम् मकर आलयः ॥६-२१-२०॥

असमर्थम् विजानाति धिक् क्षमाम् ईदृशे जने ।
स दर्शयति साम्ना मे सागरो रूपमात्मनः ॥६-२१-२१॥

चापम् आनय सौमित्रे शरामः च आशी विष उपमान् ।
समुद्रम् शोषयिष्यामि पद्भ्याम् यान्तु प्लवङ्गमाः ॥६-२१-२२॥

अद्य अक्षोभ्यम् अपि क्रुद्धः क्षोभयिष्यामि सागरम् ।
वेलासु कृत मर्यादम् सहसा ऊर्मि समाकुलम् ॥६-२१-२३॥

निर्मर्यादम् करिष्यामि सायकैर् वरुण आलयम् ।
महार्णवम् क्षोBहयिष्ये महादानवसम्कुलम् ॥६-२१-२४॥

एवम् उक्त्वा धनुष् पाणिः क्रोध विस्फारित ईक्षणः ।
बभूव रामो दुर्धर्षो युग अन्त अग्निर् इव ज्वलन् ॥६-२१-२५॥

सम्पीड्य च धनुर् घोरम् कम्पयित्वा शरैर् जगत् ।
मुमोच विशिखान् उग्रान् वज्राणि इव शत क्रतुः ॥६-२१-२६॥

ते ज्वलन्तो महावेगास् तेजसा सायक उत्तमाः ।
प्रविशन्ति समुद्रस्य सलिलम् त्रस्त पन्नगम् ॥६-२१-२७॥

ततो वेगः समुद्रस्य सनक्र मकरो महान् ।
स बभूव महाघोरः समारुत रवस् तदा ॥६-२१-२८॥

महाऊर्मि माला विततः शन्ख शुक्ति समाकुलः ।
सधूम परिवृत्त ऊर्मिः सहसा अभून् महाउदधिः ॥६-२१-२९॥

व्यथिताः पन्नगाः च आसन् दीप्त आस्या दीप्त लोचनाः ।
दानवाः च महावीर्याः पाताल तल वासिनः ॥६-२१-३०॥

ऊर्मयः सिन्धु राजस्य सनक्र मकरास् तदा ।
विन्ध्य मन्दर सम्काशाः समुत्पेतुः सहस्रशः ॥६-२१-३१॥

आघूर्णित तरन्ग ओघः सम्ब्भ्रान्त उरग राक्षसः ।
उद्वर्तित महाग्राहः सम्वृत्तः सलिल आशयः ॥६-२१-३२॥

ततस्तु तम् राघव मुग्रवेगम् ।
प्रकर्षमाणम् ध्मरप्रमेयम् ।
सौमित्रिरुत्पत्य विनिःश्वसन्तम् ।
मामेति चोक्त्वा धनुराललम्बे ॥६-२१-३३॥

एतद्विनापि ह्युदधेस्तवार्य ।
सम्पत्स्यते वीरतमस्य कार्यम् ।
भवद्विधाः क्रोधवशम् न यान्ति ।
दीर्घम् भवान्पश्यतु साधुवृत्तम् ॥६-२१-३४॥

अन्तर्हितैश्चापि तथान्तरिक्षे ।
ब्रह्मर्षिभिश्चैव सुरर्षिभिश्च ।
शब्दः कृतः कष्टमिति ब्रुवद्भि ।
र्मा मेति चोक्त्वा महता स्वरेण ॥६-२१-३५॥

इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे एकविंशः सर्गः ॥६-२१॥

Personal tools