मुद्गल उपनिषद्
From Wikisource
.. मुद्गलोपनिषत् .. श्रीमत्पुरुषसूक्तार्थं पूर्णानन्दकलेवरम् . पुरुषोत्तमविख्यातं पूर्णं ब्रह्म भवाम्यहम् .. ॐ वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्म एधि .. वेदस्य म आणीस्थः . श्रुतं मे मा प्रहासीरनेनाधीते- नाहोरात्रान्सन्दधाम्यृतं वदिष्यामि सत्यं वदिष्यामि .. तन्मामवतु तद्वक्तारमवतु अवतु मामवतु वक्तारमवतु वक्तारम् .. ॐ पुरुषसूक्तार्थनिर्णयं व्याख्यास्यामः पुरुषसंहितायां पुरुषसूक्तार्थः संग्रहेण प्रोच्यते . सहस्रशीर्षेत्यत्र सशब्दोऽनन्तवाचकः . अनन्तयोजनं प्राह दशाङ्गुलवचस्तथा .. १.. तस्य प्रथमया विष्णोर्देशतो व्याप्तिरीरिता . द्वितीयया चास्य विष्णोः कालतो व्याप्तिरुच्यते .. २.. विष्णोर्मोक्षप्रदत्वं च कथितं तु तृतीयया . एतावानिति मन्त्रेण वैभवं कथितं हरेः .. ३.. एतेनैव च मन्त्रेण चतुर्व्यूहो विभाषितः . त्रिपादित्यनया प्रोक्तमनिरुद्धस्य वैभवम् .. ४.. तस्माद्विराडित्यनया पादनारायणाद्धरेः . प्रकृतेः पुरुषस्यापि समुत्पत्तिः प्रदर्शिता .. ५.. यत्पुरुषेणेत्यनया सृष्टियज्ञः समीरितः . सप्तास्यासन्परिधयः समिधश्च समीरिताः .. ६.. तं यज्ञमिति मन्त्रेण सृष्टियज्ञः समीरितः . अनेनैव च मन्त्रेण मोक्षश्च समुदीरितः .. ७.. तस्मादिति च मन्त्रेण जगत्सृष्टिः समीरिता . वेदाहमिति मन्त्राभ्यां वैभवं कथितं हरेः .. ८.. यज्ञेनेत्युपसंहारः सृष्टेर्मोक्षस्य चेरितः . य एवमेतज्जानाति स हि मुक्तो भवेदिति .. ९.. १.. अथ तथा मुद्गलोपनिषदि पुरुषसूक्तस्य वैभवं विस्तरेण प्रतिपादितम् . वासुदेव इन्द्राय भगवज्ज्ञानमुपदिश्य पुनरपि सूक्ष्मश्रवणाय प्रणतायेन्द्राय परमरहस्यभूतं पुरुषसूक्ताभ्यां खण्डद्वयाभ्यामुपादिशत् . द्वौ खण्डावुच्येते . योऽय मुक्तः स पुरुषो नामरूपज्ञानागोचरं संसारिणामतिदुर्ज्ञेयं विषयं विहाय क्लेशादिभिः संक्लिष्टदेवादिजिहीर्षया सहस्रकलावयवकल्याणं दृष्टमात्रेण मोक्षदं वेषमाददे . तेन वेषेण भूम्यादिलोकं व्याप्यानन्त- योजनमत्यतिष्ठत् . पुरुषो नारायणो भूतं भव्यं भविष्यच्चासीत् . स च सर्वस्मान्महिम्नो ज्यायान् . तस्मान्न कोऽपि ज्यायान् . महापुरुष आत्मानं चतुर्धा कृत्वा त्रिपादेन परमे व्योम्नि चासीत् . इतरेण चतुर्थेनानिरुद्धनारायणेन विश्वान्यासन् . स च पादनारायणो जगत्स्रष्टुं प्रकृतिमजनयत् . स समृद्धकायः सन्सृष्टिकर्म न जज्ञिवान् . सोऽनिरुद्धनारायणस्तस्मै सृष्टिमुपादिशत् . ब्रह्मंस्तवेन्द्रियाणि याजकानि ध्यात्वा कोशभूतं दृढं ग्रन्थिकलेवरं हविर्ध्यात्वा मां हविर्भुजं ध्यात्वा वसन्तकालमाज्यं ध्यात्वा ग्रीष्ममिध्मं ध्यात्वा शरदृतुं रसं ध्यात्वैवमग्नौ हुत्वाङ्ग- स्पर्शात्कलेवरो वज्रं हीष्यते . ततः स्वकार्यान्सर्व- प्राणिजीवान्सृष्ट्वा पश्वाद्याः प्रादुर्भविष्यन्ति . ततः स्थावरजङ्गमात्मकं जगद्भविष्यति . एतेन जीवात्मनोर्योगेन मोक्षप्रकारश्च कथित इत्यनुसन्धेयम् . य इमं सृष्टियज्ञं जानाति मोक्षप्रकारं च सर्वमायुरेति .. २.. एको देवो बहुधा निविष्ट अजायमानो बहुधा विजायते . तमेतमग्निरित्यध्वर्यव उपासते . यजुरित्येष हीदं सर्वं युनक्ति . सामेति छन्दोगाः . एतस्मिन्हीदं सर्वं प्रतिष्ठितम् . विषमिति सर्पाः . सर्प इति सर्पविदः . ऊर्गिति देवाः . रयिरिति मनुष्याः . मायेत्यसुराः . स्वधेति पितरः . देवजन इति देवजनविदः . रूपमिति गन्धर्वाः . गन्धर्व इति अप्सरसः . तं यथायथोपासते तथैव भवति . तस्माद्ब्राह्मणः पुरुषरूपं परंब्रह्मैवाहमिति भावयेत् . तद्रूपो भवति . य एवं वेद .. ३.. तद्ब्रह्म तापत्रयातीतं षट्कोशविनिर्मुक्तं षडूर्मिवर्जितं पञ्चकोशातीतं षड्भावविकारशून्यमेवमादि- सर्वविलक्षणं भवति . तापत्रयं त्वाध्यात्मिकाधिभौति- काधिदैविकं कर्तृकर्मकार्यज्ञातृज्ञानज्ञेय- भोक्तृभोगभोग्यमिति त्रिविधम् . त्वङ्मांसशोणितास्थि- स्नायुमज्जाः षट्कोशाः . कामक्रोधलोभमोहमद- मात्सर्यमित्यरिषड्वर्गः . अन्नमयप्राणमयमनोमय- विज्ञानमयानन्दमया इति पञ्चकोशाः . प्रियात्मजननवर्धनपरिणामक्षयनाशाः षड्भावाः . अशनायापिपासाशोकमोहजरामरणानीति षडूर्मयः . कुलगोत्रजातिवर्णाश्रमरूपाणि षड् भ्रमाः . एतद्योगेन परमपुरुषो जीवो भवति नान्यः . य एतदुपनिषदं नित्यमधीते सोऽग्निपूतो भवति . स वायुपूतो भवति . स आदित्यपूतो भवति . अरोगी भवति . श्रीमांश्च भवति . पुत्रपौत्रादिभिः समृद्धो भवति . विद्वांश्च भवति . महापातकात्पूतो भवति . सुरापानात्पूतो भवति . अगम्यागमनात्पूतो भवति . मातृगमनात्पूतो भवति . दुहितृस्नुषाभिगमनात्पूतो भवति . स्वर्णस्तेयात्पूतो भवति . वेदिजन्महानात्पूतो भवति . गुरोरशुश्रूषणात्पूतो भवति . अयाज्ययाजनात्पूतो भवति . अभक्ष्यभक्षणात्पूतो भवति . उग्रप्रतिग्रहात्पूतो भवति . परदारगमनात्पूतो भवति . कामक्रोधलोभमोहेर्ष्यादिभिरबाधितो भवति . सर्वेभ्यः पापेभ्यो मुक्तो भवति . इह जन्मनि पुरुषो भवति तस्मादेत- त्पुरुषसूक्तार्थमतिरहस्यं राजगुह्यं देवगुह्यं गुह्यादपि गुह्यतरं नादीक्षितायोपदिशेत् . नानूचानाय . नायज्ञशीलाय . नावैष्णवाय . नायोगिने . न बहुभाषिणे . नाप्रियवादिने . नासंवत्सरवेदिने . नातुष्टाय . नानधीतवेदायोपदिशेत् . गुरुरप्येवंविच्छुचौ देशे पुण्यनक्षत्रे प्राणानायम्य पुरुषं ध्यायन्नुपसन्नाय शिष्याय दक्षिणकर्णे पुरुषसूक्तार्थमुपदिशेद्विद्वान् . न बहुशो वदेत् . यातयामो भवति . असकृत्कर्णमुपदिशेत् . एतत्कुर्वाणोऽध्येताध्यापकश्च इह जन्मनि पुरुषो भवतीत्युपनिषत् .. ॐ वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठित- माविरावीर्म एधि .. वेदस्य म आणीस्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान्सन्दधाम्यृतं वदिष्यामि सत्यं वदिष्यामि .. तन्मामवतु तद्वक्तारमवतु अवतु मामवतु वक्तारमवतु वक्तारम् .. ॐ शान्तिः शान्तिः शान्तिः .. इति मुद्गलोपनिषत्समाप्ता ..

