मान्त्रिक उपनिषद्

From Wikisource

Jump to: navigation, search

.. मन्त्रिकोपनिषत् .. स्वाविद्याद्वयतत्कार्यापह्नवज्ञानभासुरम् . मन्त्रिकोपनिषद्वेद्यं रामचन्द्रमहं भजे .. ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते . पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते .. ॐ शान्तिः शान्तिः शान्तिः .. ॐ अष्टपादं शुचिं हंसं त्रिसूत्रमणुमव्ययम् . त्रिवर्त्मानं तेजसोहं सर्वतःपश्यन्न पश्यति .. १.. भूतसंमोहने काले भिन्ने तमसि वैखरे . अन्तः पश्यन्ति सत्त्वस्था निर्गुणं गुणगह्वरे .. २.. अशक्यः सोऽन्यथा द्रष्टुं ध्यायमानः कुमारकैः . विकारजननीमज्ञामष्टरूपामजां ध्रुवाम् .. ३.. ध्यायतेऽध्यासिता तेन तन्यते प्रेर्यते पुनः . सूयते पुरुषार्थं च तेनैवाधिष्ठितं जगत् .. ४.. गौरनाद्यन्तवती सा जनित्री भूतभाविनी . सितासिता च रक्ता च सर्वकामदुधा विभोः .. ५.. पिबन्त्येनामविषयामविज्ञातां कुमारकाः . एकस्तु पिबते देवः स्वच्छन्दोऽत्र वशानुगः .. ६.. ध्यानक्रियाभ्यां भगवान्भुङ्क्तेऽसौ प्रसहद्विभुः . सर्वसाधारणीं दोग्ध्रीं पीयमानां तु यज्वमिः .. ७.. पश्यन्त्यस्यां महात्मानः सुवर्णं पिप्पलाशनम् . उदासीनं ध्रुवं हंसं स्नातकाध्वर्यवो जगुः .. ८.. शंसन्तमनुशंसन्ति बह्वृचाः शास्त्रकोविदाः . रथन्तरं बृहत्साम सप्तवैधैस्तु गीयते .. ९.. मन्त्रोपनिषदं ब्रह्म पदक्रमसमन्वितम् . पठन्ति भार्गवा ह्येते ह्यथर्वाणो भृगूत्तमाः .. १०.. सब्रह्मचारिवृत्तिश्च स्तम्भोऽथ फलितस्तथा . अनड्वान्रोहितोच्छिष्टः पश्यन्तो बहुविस्तरम् .. ११.. कालः प्राणश्च भगवान्मृत्युः शर्वो महेश्वरः . उग्रो भवश्च रुद्रश्च ससुरः सासुरस्तथा .. १२.. प्रजापतिर्विराट् चैव पुरुषः सलिलमेव च . स्तूयते मन्त्रसंस्तुत्यैरथर्वविदितैर्विभुः .. १३.. तं षड्विंशक इत्येते सप्तविंशं तथापरे . पुरुषं निर्गुणं साङ्ख्यमथर्वशिरसो विदुः .. १४.. चतुर्विंशतिसंख्यातं व्यक्तमव्यक्तमेव च . अद्वैतं द्वैतमित्याहुस्त्रिधा तं पञ्चधा तथा .. १५.. ब्रह्माद्यं स्थावरान्तं च पश्यन्ति ज्ञानचक्षुषः . तमेकमेव पश्यन्ति परिशुभ्रं विभुं द्विजाः .. १६.. यस्मिन्सर्वमिदं प्रोतं ब्रह्म स्थावरजङ्गमम् . तस्मिन्नेव लयं यान्ति स्रवन्त्यः सागरे यथा .. १७.. यस्मिन्भावाः प्रलीयन्ते लीनाश्चाव्यक्ततां ययुः . पश्यन्ति व्यक्ततां भूयो जायन्ते बुद्बुदा इव .. १८.. क्षेत्रज्ञाधिष्ठितं चैव कारणैर्विद्यते पुनः . एवं स भगवान्देवं पश्यन्त्यन्ये पुनः पुनः .. १९.. ब्रह्म ब्रह्मेत्यथायान्ति ये विदुर्ब्राह्मणास्तथा . अत्रैव ते लयं यान्ति लीनाश्चाव्यक्तशालिनः .. लीनाश्चाव्यक्तशालिन इत्युपनिषत् .. ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते . पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते .. ॐ शान्तिः शान्तिः शान्तिः .. इति मन्त्रिकोपनिषत्समाप्ता ..

Personal tools