महावाक्य उपनिषद्

From Wikisource

Jump to: navigation, search

.. महावाक्योपनिषत् .. यन्महावाक्यसिद्धान्तमहाविद्याकलेवरम् . विकलेवरकैवल्यं रामचन्द्रपदं भजे .. ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः . स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः व्यशेम देवहितं यदायुः .. ॐ शान्तिः शान्तिः शान्तिः .. हरिः ॐ .. अथ होवाच भगवान्ब्रह्मापरोक्षानुभवपरोपनिषदं व्याख्यास्यामः . गुह्याद्गुह्यपरमेषा न प्राकृतायोपदेष्टव्या . सात्विकायान्तर्मुखाय परिशुश्रूषवे . अथ संसृतिबन्धमोक्षयोर्विद्याविद्ये चक्षुषी उपसंहृत्य विज्ञायाविद्यालोकाण्डस्तमोदृक् . तमो हि शारीरप्रपञ्चमाब्रह्मस्थावरान्तमनन्ताखिलाजाण्डभूतम् . निखिलनिगमोदितसकामकर्मव्यवहारो लोकः . नैषोऽन्धकारोऽयमात्मा .विद्या हि काण्डान्तरादित्यो ज्योतिर्मण्डलं ग्राह्यं नापरम् . असावादित्यो ब्रह्मेत्यजपयोपहितं हंसः सोऽहम् . प्राणापानाभ्यां प्रतिलोमानुलोमाभ्यां समुपलभ्यैवं सा चिरं लब्ध्वा त्रिवृदात्मनि ब्रह्मण्यभिध्यायमाने सच्चिदानन्दः परमात्माविर्भवति . सहस्रभानुमच्छुरितापूरितत्वादलिप्या पारावारपूर इव . नैषा समाधिः . नैषा योगसिद्धिः . नैषा मनोलयः . ब्रह्मैक्यं तत् . आदित्यवर्णं तमसस्तु पारे . सर्वाणि रूपाणि विचित्य धीरः . नामानि कृत्वाऽभिवदन्यदास्ते . धाता पुरस्ताद्यमुदाजहार . शक्रः प्रविद्वान्प्रदिशश्चतस्रः . तमेव विद्वानमृत इह भवति . नान्यः पन्था अयनाय विद्यते . यज्ञेन यज्ञमयजन्त देवाः . तानि धर्माणि प्रथमान्यासन् . ते ह नाकं महिमानः सचन्ते . यत्र पूर्वे साध्याः सन्ति देवाः . सोऽहमर्कः परं ज्योतिरर्कज्योतिरहं शिवः . आत्मज्योतिरहं शुक्रः सर्वज्योतिरसावदोम् . य एतदथर्वशिरोऽधीते . प्रातरधीयानो रात्रिकृतं पापं नाशयति . सायमधीयानो दिवसकृतं पापं नाशयति . तत्सायं प्रातः प्रयुञ्जानः पापोऽपापो भवति . मध्यन्दिनमादित्याभिमुखोऽधीयानः पञ्चमहापातकोपपातकात्प्रमुच्यते . सर्ववेदपारायणपुण्यं लभते . श्रीमहाविष्णुसायुज्यमवाप्नोतीत्युपनिषत् .. ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः . स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः व्यशेम देवहितं यदायुः .. ॐ शान्तिः शान्तिः शान्तिः . हरिः ॐ तत्सत् इति महावाक्योपनिषत्समाप्ता ..

Personal tools