मनुस्मृति

From Wikisource

Jump to: navigation, search
.. मनुस्मृति ..
Manusmriti\footnoteSend corrections to
Prof. Avinash Sathaye: sohum@ms.uky.edu 
The original file (manu.dhz) was typed and partly
proofread by Prof. Michio YANO and Y.IKARI.
Conversion file from original .dhz to ITRANS 
format as given in manu.itx excluding the manual 
corrections is available upon request.  Please see
manu.itx for additional details. 

\separate
अध्याय १

\ENM1.01a/ मनुमेकाग्रमासीनमभिगम्य महर्षयः |
\ENM1.01c/ प्रतिपूज्य यथान्यायमिदं वचनमब्रुवन् || C. ||
\ENM1.02a/ भगवन् सर्ववर्णानां यथावदनुपूर्वशः |
\ENM1.02c/ अन्तरप्रभवानां च धर्मान्नो वक्तुमर्हसि || C. ||
\ENM1.03a/ त्वमेको ह्यस्य सर्वस्य विधानस्य स्वयंभुवः |
\ENM1.03c/ अचिन्त्यस्याप्रमेयस्य कार्यतत्त्वार्थवित् प्रभो || C. ||
\ENM1.04a/ स तैः पृष्टस्तथा सम्यगमितोजा महात्मभिः |
\ENM1.04c/ प्रत्युवाचार्च्य तान् सर्वान् महर्षींश्रूयतामिति || C. ||
\ENM1.05a/ आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् |
\ENM1.05c/ अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः || C. ||
\ENM1.06a/ ततः स्वयंभूर्भगवानव्यक्तो व्यञ्जयन्निदम् |
\ENM1.06c/ महाभूतादि वृत्तोजाः प्रादुरासीत् तमोनुदः || C. ||
\ENM1.07a/ योऽसावतीन्द्रियग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः |
\ENM1.07c/ सर्वभूतमयोऽचिन्त्यः स एव स्वयमुद्बभौ || C. ||| %[M. sa eSha]

\ENM1.08a/ सोऽभिध्याय शरीरात् स्वात् सिसृक्षुर्विविधाः प्रजाः |
\ENM1.08c/ अप एव ससर्जादौ तासु वीर्यमवासृजत् || C. ||
\ENM1.09a/ तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् |
\ENM1.09c/ तस्मिञ्जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः || C. ||
\ENM1.10a/ आपो नारा इति प्रोक्ता आपो वै नरसूनवः |
\ENM1.10c/ ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः || C. ||
\ENM1.11a/ यत् तत् कारणमव्यक्तं नित्यं सदसदात्मकम् |
\ENM1.11c/ तद्विसृष्टः स पुरुषो लोके ब्रह्मैति कीर्त्यते || C. ||
\ENM1.12a/ तस्मिन्नण्डे स भगवानुषित्वा परिवत्सरम् |
\ENM1.12c/ स्वयमेवात्मनो ध्यानात् तदण्डमकरोद् द्विधा || C. ||
\ENM1.13a/ ताभ्यां स शकलाभ्यां च दिवं भूमिं च निर्ममे |
\ENM1.13c/ मध्ये व्योम दिशश्चाष्टावपां स्थानं च शाश्वतम् || C. ||
\ENM1.14a/ उद्बबर्हात्मनश्चैव मनः सदसदात्मकम् |
\ENM1.14c/ मनसश्चाप्यहङ्कारमभिमन्तारमीश्वरम् || C. || %[M. ahaN^kaaram]

\ENM1.15a/ महान्तमेव चात्मानं सर्वाणि त्रिगुणानि च |
\ENM1.15c/ विषयाणां ग्रहीतॄणि शनैः पञ्चैन्द्रियाणि च || C. ||
\ENM1.16a/ तेषां त्ववयवान् सूक्ष्मान् षण्णामप्यमितौजसाम् |
\ENM1.16c/ संनिवेश्यात्ममात्रासु सर्वभूतानि निर्ममे || C. || %[M. sanniveshya]

\ENM1.17a/ यन् मूर्त्यवयवाः सूक्ष्मास्तानीमान्याश्रयन्ति षट् |
\ENM1.17c/ तस्माच्छरीरमित्याहुस्तस्य मूर्तिं मनीषिणः || C. ||
\ENM1.18a/ तदाविशन्ति भूतानि महान्ति सह कर्मभिः |
\ENM1.18c/ मनश्चावयवैः सूक्ष्मैः सर्वभूतकृदव्ययम् || C. ||
\ENM1.19a/ तेषामिदं तु सप्तानां पुरुषाणां महौजसाम् |
\ENM1.19c/ सूक्ष्माभ्यो मूर्तिमात्राभ्यः संभवत्यव्ययाद् व्ययम् || C. ||
\ENM1.20a/ आद्याद्यस्य गुणं त्वेषामवाप्नोति परः परः |
\ENM1.20c/ यो यो यावतिथश्चैषां स स तावद् गुणः स्मृतः || C. ||
\ENM1.21a/ सर्वेषां तु स नामानि कर्माणि च पृथक् पृथक् |
\ENM1.21c/ वेदशब्देभ्य एवादौ पृथक् संस्थाश्च निर्ममे || C. ||
\ENM1.22a/ कर्मात्मनां च देवानां सोऽसृजत् प्राणिनां प्रभुः |
\ENM1.22c/ साध्यानां च गणं सूक्ष्मं यज्ञं चैव सनातनम् || C. ||
\ENM1.23a/ अग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम् |
\ENM1.23c/ दुदोह यज्ञसिद्ध्यर्थं ऋच्.यजुस्.सामलक्षणम् || C. ||
\ENM1.24a/ कालं कालविभक्तीश्च नक्षत्राणि ग्रहांस्तथा |
\ENM1.24c/ सरितः सागरान् शैलान् समानि विषमानि च || C. ||
\ENM1.25a/ तपो वाचं रतिं चैव कामं च क्रोधमेव च |
\ENM1.25c/ सृष्टिं ससर्ज चैवैमां स्रष्टुमिच्छन्निमाः प्रजाः || C. ||
\ENM1.26a/ कर्मणां च विवेकार्थं धर्माधर्मौ व्यवेचयत् | %[k:vivekaaya ]

\ENM1.26c/ द्वन्द्वैरयोजयच्चैमाः सुखदुःखादिभिः प्रजाः || C. ||
\ENM1.27a/ अण्व्यो मात्रा विनाशिन्यो दशार्धानां तु याः स्मृताः |
\ENM1.27c/ ताभिः सार्धमिदं सर्वं संभवत्यनुपूर्वशः || C. ||
\ENM1.28a/ यं तु कर्मणि यस्मिन् स न्ययुङ्क्त प्रथमं प्रभुः |
\ENM1.28c/ स तदेव स्वयं भेजे सृज्यमानः पुनः पुनः || C. ||
\ENM1.29a/ हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते |
\ENM1.29c/ यद् यस्य सोऽदधात् सर्गे तत् तस्य स्वयमाविशत् || C. ||% ****
\ENM1.30a/ यथर्तुलिङ्गान्यर्तवः स्वयमेवर्तुपर्यये |
\ENM1.30c/ स्वानि स्वान्यभिपद्यन्ते तथा कर्माणि देहिनः || C. ||
\ENM1.31a/ लोकानां तु विवृद्ध्यर्थं मुखबाहूरुपादतः |
\ENM1.31c/ ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निरवर्तयत् || C. ||
\ENM1.32a/ द्विधा कृत्वाऽत्मनो देहमर्धेन पुरुषोऽभवत् |
\ENM1.32c/ अर्धेन नारी तस्यां स विराजमसृजत् प्रभुः || C. ||
\ENM1.33a/ तपस्तप्त्वाऽसृजद् यं तु स स्वयं पुरुषो विराट् |
\ENM1.33c/ तं मां वित्तास्य सर्वस्य स्रष्टारं द्विजसत्तमाः || C. ||
\ENM1.34a/ अहं प्रजाः सिसृक्षुस्तु तपस्तप्त्वा सुदुश्चरम् |
\ENM1.34c/ पतीन् प्रजानामसृजं महर्षीनादितो दश ||C. ||
\ENM1.35a/ मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् |
\ENM1.35c/ प्रचेतसं वसिष्ठं च भृगुं नारदमेव च || C. ||
\ENM1.36a/ एते मनूंस्तु सप्तान् यानसृजन् भूरितेजसः |
\ENM1.36c/ देवान् देवनिकायांश्च महर्षींश्चामितोजसः || C. ||
\ENM1.37a/ यक्षरक्षः पिशाचांश्च गन्धर्वाप्सरसोऽसुरान् |
\ENM1.37c/ नागान् सर्पान् सुपर्णांश्च पितॄणांश्च पृथग्गणम् || C. || %[M. pitR^INaaM]

\ENM1.38a/ विद्युतोऽशनिमेघांश्च रोहितैन्द्रधनूंषि च |
\ENM1.38c/ उल्कानिर्घातकेतूंश्च ज्योतींष्युच्चावचानि च || C. ||
\ENM1.39a/ किन्नरान् वानरान् मत्स्यान् विविधांश्च विहङ्गमान् |
\ENM1.39c/ पशून् मृगान् मनुष्यांश्च व्यालांश्चोभयतोदतः || C. ||
\ENM1.40a/ कृमिकीटपतङ्गांश्च यूकामक्षिकमत्कुणम् |
\ENM1.40c/ सर्वं च दंशमशकं स्थावरं च पृथग्विधम् || C. ||
\ENM1.41a/ एवमेतैरिदं सर्वं मन्नियोगान् महात्मभिः |
\ENM1.41c/ यथाकर्म तपोयोगात् सृष्टं स्थावरजङ्गमम् || C. ||
\ENM1.42a/ येषां तु यादृशं कर्म भूतानामिह कीर्तितम् |
\ENM1.42c/ तत् तथा वोऽभिधास्यामि क्रमयोगं च जन्मनि || C. ||
\ENM1.43a/ पशवश्च मृगाश्चैव व्यालाश्चोभयतोदतः |
\ENM1.43c/ रक्षांसि च पिशाचाश्च मनुष्याश्च जरायुजाः || C. || %[M.manuShaashcha ]

\ENM1.44a/ अण्डजाः पक्षिणः सर्पा नक्रा मत्स्याश्च कच्छपाः |
\ENM1.44c/ यानि चैवं.प्रकाराणि स्थलजान्यौदकानि च || C. ||
\ENM1.45a/ स्वेदजं दंशमशकं यूकामक्षिकमत्कुणम् |
\ENM1.45c/ ऊष्मणश्चोपजायन्ते यच्चान्यत् किं चिदीदृशम् || C. ||
\ENM1.46a/ उद्भिज्जाः स्थावराः सर्वे बीजकाण्डप्ररोहिणः |
\ENM1.46c/ ओषध्यः फलपाकान्ता बहुपुष्पफलोपगाः || C. ||
\ENM1.47a/ अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः |
\ENM1.47c/ पुष्पिणः फलिनश्चैव वृक्षास्तूभयतः स्मृताः || C. ||
\ENM1.48a/ गुच्छगुल्मं तु विविधं तथैव तृणजातयः |
\ENM1.48c/ बीजकाण्डरुहाण्येव प्रताना वल्ल्य एव च || C. ||
\ENM1.49a/ तमसा बहुरूपेण वेष्टिताः कर्महेतुना |
\ENM1.49c/ अन्तस्संज्ञा भवन्त्येते सुखदुःखसमन्विताः || C. ||
\ENM1.50a/ एतदन्तास्तु गतयो ब्रह्माद्याः समुदाहृताः |
\ENM1.50c/ घोरेऽस्मिन् भूतसंसारे नित्यं सततयायिनि || C. ||
\ENM1.51a/ एवं सर्वं स सृष्ट्वैदं मां चाचिन्त्यपराक्रमः |
\ENM1.51c/ आत्मन्यन्तर्दधे भूयः कालं कालेन पीडयन् || C. ||
\ENM1.52a/ यदा स देवो जागर्ति तदेवं चेष्टते जगत् |
\ENM1.52c/ यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति || C. ||
\ENM1.53a/ तस्मिन् स्वपिति तु स्वस्थे कर्मात्मानः शरीरिणः | %[M.svapati ]

\ENM1.53c/ स्वकर्मभ्यो निवर्तन्ते मनश्च ग्लानिमृच्छति || C. ||
\ENM1.54a/ युगपत् तु प्रलीयन्ते यदा तस्मिन् महात्मनि |
\ENM1.54c/ तदाऽयं सर्वभूतात्मा सुखं स्वपिति निर्वृतः || C. ||
\ENM1.55a/ तमोऽयं तु समाश्रित्य चिरं तिष्ठति सैन्द्रियः |
\ENM1.55c/ न च स्वं कुरुते कर्म तदोत्क्रामति मूर्तितः || C. ||
\ENM1.56a/ यदाऽणुमात्रिको भूत्वा बीजं स्थाणु चरिष्णु च |
\ENM1.56c/ समाविशति संसृष्टस्तदा मूर्तिं विमुञ्चति || C. ||
\ENM1.57a/ एवं स जाग्रत्स्वप्नाभ्यामिदं सर्वं चराचरम् |
\ENM1.57c/ सञ्जीवयति चाजस्रं प्रमापयति चाव्ययः || C. ||
\ENM1.58a/ इदं शास्त्रं तु कृत्वाऽसौ मामेव स्वयमादितः |
\ENM1.58c/ विधिवद् ग्राहयामास मरीच्यादींस्त्वहं मुनीन् || C. ||
\ENM1.59a/ एतद् वोऽयं भृगुः शास्त्रं श्रावयिष्यत्यशेषतः |
\ENM1.59c/ एतद् हि मत्तोऽधिजगे सर्वमेषोऽखिलं मुनिः || C. ||
\ENM1.60a/ ततस्तथा स तेनोक्तो महर्षिमनुना भृगुः |
\ENM1.60c/ तानब्रवीद् ऋषीन् सर्वान् प्रीतात्मा श्रूयतामिति || C. ||
\ENM1.61a/ स्वायंभुवस्यास्य मनोः षड्वंश्या मनवोऽपरे |
\ENM1.61c/ सृष्टवन्तः प्रजाः स्वाः स्वा महात्मानो महौजसः || C. ||
\ENM1.62a/ स्वारोचिषश्चोत्तमश्च तामसो रैवतस्तथा |
\ENM1.62c/ चाक्षुषश्च महातेजा विवस्वत्सुत एव च || C. ||
\ENM1.63a/ स्वायंभुवाद्याः सप्तैते मनवो भूरितेजसः |
\ENM1.63c/ स्वे स्वेऽन्तरे सर्वमिदमुत्पाद्यापुश्चराचरम् || C. ||
\ENM1.64a/ निमेषा दश चाष्टौ च काष्ठा त्रिंशत् तु ताः कला |
\ENM1.64c/ त्रिंशत् कला मुहूर्तः स्यादहोरात्रं तु तावतः || C. ||
\ENM1.65a/ अहोरात्रे विभजते सूर्यो मानुषदैविके |
\ENM1.65c/ रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणामहः || C. ||
\ENM1.66a/ पित्र्ये रात्र्यहनी मासः प्रविभागस्तु पक्षयोः |
\ENM1.66c/ कर्मचेष्टास्वहः कृष्णः शुक्लः स्वप्नाय शर्वरी || C. ||
\ENM1.67a/ दैवे रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः |
\ENM1.67c/ अहस्तत्रोदगयनं रात्रिः स्याद् दक्षिणायनम् || C. ||
\ENM1.68a/ ब्राह्मस्य तु क्षपाहस्य यत् प्रमाणं समासतः |
\ENM1.68c/ एकैकशो युगानां तु क्रमशस्तन्निबोधत || C. ||
\ENM1.69a/ चत्वार्याहुः सहस्राणि वर्षाणां तत् कृतं युगम् |
\ENM1.69c/ तस्य तावत्शती संध्या संध्यांशश्च तथाविधः || C. ||
\ENM1.70a/ इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु |
\ENM1.70c/ एकापायेन वर्तन्ते सहस्राणि शतानि च  || C. ||
\ENM1.71a/ यदेतत् परिसङ्ख्यातमादावेव चतुर्युगम् |
\ENM1.71c/ एतद् द्वादशसाहस्रं देवानां युगमुच्यते || C. ||
\ENM1.72a/ दैविकानां युगानां तु सहस्रं परिसङ्ख्यया |
\ENM1.72c/ ब्राह्ममेकमहर्ज्ञेयं तावतीं रात्रिमेव च || C. || %[M.taavatii raatrireva cha ]

\ENM1.73a/ तद् वै युगसहस्रान्तं ब्राह्मं पुण्यमहर्विदुः |
\ENM1.73c/ रात्रिं च तावतीमेव तेऽहोरात्रविदो जनाः || C. ||
\ENM1.74a/ तस्य सोऽहर्निशस्यान्ते प्रसुप्तः प्रतिबुध्यते |
\ENM1.74c/ प्रतिबुद्धश्च सृजति मनः सदसदात्मकम् || C. ||
\ENM1.75a/ मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया |
\ENM1.75c/ आकाशं जायते तस्मात् तस्य शब्दं गुणं विदुः || C. ||
\ENM1.76a/ आकाशात् तु विकुर्वाणात् सर्वगन्धवहः शुचिः |
\ENM1.76c/ बलवाञ्जायते वायुः स वै स्पर्शगुणो मतः || C. ||
\ENM1.77a/ वायोरपि विकुर्वाणाद् विरोचिष्णु तमोनुदम् |
\ENM1.77c/ ज्योतिरुत्पद्यते भास्वत् तद् रूपगुणमुच्यते || C. ||
\ENM1.78a/ ज्योतिषश्च विकुर्वाणादापो रसगुणाः स्मृताः |
\ENM1.78c/ अद्भ्यो गन्धगुणा भूमिरित्येषा सृष्टिरादितः || C. ||
\ENM1.79a/ यद् प्राग् द्वादशसाहस्रमुदितं दैविकं युगम् |
\ENM1.79c/ तदेकसप्ततिगुणं मन्वन्तरमिहोच्यते || C. ||
\ENM1.80a/ मन्वन्तराण्यसङ्ख्यानि सर्गः संहार एव च |
\ENM1.80c/ क्रीडन्निवैतत् कुरुते परमेष्ठी पुनः पुनः || C. ||
\ENM1.81a/ चतुष्पात् सकलो धर्मः सत्यं चैव कृते युगे |
\ENM1.81c/ नाधर्मेणागमः कश्चिन् मनुष्यान् प्रति वर्तते || C. || %[M. upavartate ]

\ENM1.82a/ इतरेष्वागमाद् धर्मः पादशस्त्ववरोपितः |
\ENM1.82c/ चौरिकानृतमायाभिर्धर्मश्चापैति पादशः || C. ||
\ENM1.83a/ अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः |
\ENM1.83c/ कृते त्रेतादिषु ह्येषामायुर्ह्रसति पादशः || C. || %[V. vayo hrasati ]

\ENM1.84a/ वेदोक्तमायुर्मर्त्यानामाशिषश्चैव कर्मणाम् |
\ENM1.84c/ फलन्त्यनुयुगं लोके प्रभावश्च शरीरिणाम् || C. ||
\ENM1.85a/ अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरेऽपरे | %[M.pare ]

\ENM1.85c/ अन्ये कलियुगे नॄणां युगह्रासानुरूपतः || C. ||
\ENM1.86a/ तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते |
\ENM1.86c/ द्वापरे यज्ञमेवाहुर्दानमेकं कलौ युगे || C. ||
\ENM1.87a/ सर्वस्यास्य तु सर्गस्य गुप्त्यर्थं स महाद्युतिः |
\ENM1.87c/ मुखबाहूरुपज्जानां पृथक्कर्माण्यकल्पयत् || C. ||
\ENM1.88a/ अध्यापनमध्ययनं यजनं याजनं तथा |
\ENM1.88c/ दानं प्रतिग्रहं चैव ब्राह्मणानामकल्पयत् || C. ||
\ENM1.89a/ प्रजानां रक्षणं दानमिज्याऽध्ययनमेव च |
\ENM1.89c/ विषयेष्वप्रसक्तिश्च क्षत्रियस्य समासतः  || C. || %[M.samaadishat]

\ENM1.90a/ पशूनां रक्षणं दानमिज्याऽध्ययनमेव च |
\ENM1.90c/ वणिक्पथं कुसीदं च वैश्यस्य कृषिमेव च || C. ||
\ENM1.91a/ एकमेव तु शूद्रस्य प्रभुः कर्म समादिशत् |
\ENM1.91c/ एतेषामेव वर्णानां शुश्रूषामनसूयया || C. ||
\ENM1.92a/ ऊर्ध्वं नाभेर्मेध्यतरः पुरुषः परिकीर्तितः |
\ENM1.92c/ तस्मान् मेध्यतमं त्वस्य मुखमुक्तं स्वयंभुवा || C. ||
\ENM1.93a/ उत्तमाङ्गोद्भवाज् ज्येष्ठ्याद् ब्रह्मणश्चैव धारणात् | %[M.jyaiShThyaad]

\ENM1.93c/ सर्वस्यैवास्य सर्गस्य धर्मतो ब्राह्मणः प्रभुः || C. ||
\ENM1.94a/ तं हि स्वयंभूः स्वादास्यात् तपस्तप्त्वाऽदितोऽसृजत् |
\ENM1.94c/ हव्यकव्याभिवाह्याय सर्वस्यास्य च गुप्तये || C. ||
\ENM1.95a/ यस्यास्येन सदाऽश्नन्ति हव्यानि त्रिदिवौकसः |
\ENM1.95c/ कव्यानि चैव पितरः किं भूतमधिकं ततः || C. ||
\ENM1.96a/ भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः |
\ENM1.96c/ बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः स्मृताः || C. ||
\ENM1.97a/ ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः |
\ENM1.97c/ कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवेदिनः || C. ||
\ENM1.98a/ उत्पत्तिरेव विप्रस्य मूर्तिर्धर्मस्य शाश्वती |
\ENM1.98c/ स हि धर्मार्थमुत्पन्नो ब्रह्मभूयाय कल्पते || C. ||
\ENM1.99a/ ब्राह्मणो जायमानो हि पृथिव्यामधिजायते |
\ENM1.99c/ ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये || C. ||
\ENM1.100a/ सर्वं स्वं ब्राह्मणस्येदं यत् किं चित्जगतीगतम् |
\ENM1.100c/ श्रैष्ठ्येनाभिजनेनेदं सर्वं वै ब्राह्मणोऽर्हति || C. ||
\ENM1.101a/ स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च |
\ENM1.101c/ आनृशंस्याद् ब्राह्मणस्य भुञ्जते हीतरे जनाः || C. ||
\ENM1.102a/ तस्य कर्मविवेकार्थं शेषाणामनुपूर्वशः |
\ENM1.102c/ स्वायंभुवो मनुर्धीमानिदं शास्त्रमकल्पयत् || C. ||
\ENM1.103a/ विदुषा ब्राह्मणेनैदमध्येतव्यं प्रयत्नतः |
\ENM1.103c/ शिश्येभ्यश्च प्रवक्तव्यं सम्यग़् नान्येन केन चित् || C. ||
\ENM1.104a/ इदं शास्त्रमधीयानो ब्राह्मणः शंसितव्रतः |
\ENM1.104c/ मनोवाक्देहजैर्नित्यं कर्मदोषैर्न लिप्यते || C. ||
\ENM1.105a/ पुनाति पङ्क्तिं वंश्यांश्च ? ? सप्तसप्त परावरान् |
\ENM1.105c/ पृथिवीमपि चैवेमां कृत्स्नामेकोऽपि सोऽर्हति || C. ||
\ENM1.106a/ इदं स्वस्त्ययनं श्रेष्ठमिदं बुद्धिविवर्धनम् |
\ENM1.106c/ इदं यशस्यमायुष्यं  इदं निःश्रेयसं परम् || C. || %[M. idaM yashasyaM satatam]

\ENM1.107a/ अस्मिन् धर्मेऽखिलेनोक्तौ गुणदोषौ च कर्मणाम् |
\ENM1.107c/ चतुर्णामपि वर्णानामाचारश्चैव शाश्वतः || C. ||
\ENM1.108a/ आचारः परमो धर्मः श्रुत्योक्तः स्मार्त एव च |
\ENM1.108c/ तस्मादस्मिन् सदा युक्तो नित्यं स्यादात्मवान् द्विजः || C. ||
\ENM1.109a/ आचाराद् विच्युतो विप्रो न वेदफलमश्नुते |
\ENM1.109c/ आचारेण तु संयुक्तः सम्पूर्णफलभाग् भवेत् || C. || %[M.  saMpuurNaphalabhaak.h smR^itaH]

\ENM1.110a/ एवमाचारतो दृष्ट्वा धर्मस्य मुनयो गतिम् |
\ENM1.110c/ सर्वस्य तपसो मूलमाचारं जगृहुः परम् || C. ||
\ENM1.111a/ जगतश्च समुत्पत्तिं संस्कारविधिमेव च  |
\ENM1.111c/ व्रतचर्यौपचारं च स्नानस्य च परं विधिम् || C. ||
\ENM1.112a/ दाराधिगमनं चैव विवाहानां च लक्षणम् |
\ENM1.112c/ महायज्ञविधानं च श्राद्धकल्पं च शाश्वतम् || C. ||
\ENM1.113a/ वृत्तीनां लक्षणं चैव स्नातकस्य व्रतानि च |
\ENM1.113c/ भक्ष्याभक्ष्यं च शौचं च द्रव्याणां शुद्धिमेव च || C. ||
\ENM1.114a/ स्त्रीधर्मयोगं तापस्यं मोक्षं संन्यासमेव च |
\ENM1.114c/ राज्ञश्च धर्ममखिलं कार्याणां च विनिर्णयम् || C. ||
\ENM1.115a/ साक्षिप्रश्नविधानं च धर्मं स्त्रीपुंसयोरपि |
\ENM1.115c/ विभागधर्मं द्यूतं च कण्टकानां च शोधनम् || C. ||
\ENM1.116a/ वैश्यशूद्रोपचारं च सङ्कीर्णानां च संभवम् |
\ENM1.116c/ आपद्धर्मं च वर्णानां प्रायश्चित्तविधिं तथा || C. ||
\ENM1.117a/ संसारगमनं चैव त्रिविधं कर्मसंभवम् |
\ENM1.117c/ निःश्रेयसं कर्मणां च गुणदोषपरीक्षणम् || C. ||
\ENM1.118a/ देशधर्मान्जातिधर्मान् कुलधर्मांश्च शाश्वतान् |
\ENM1.118c/ पाषण्डगणधर्मांश्च शास्त्रेऽस्मिन्नुक्तवान् मनुः || C. ||
\ENM1.119a/ यथैदमुक्तवांशास्त्रं पुरा पृष्टो मनुर्मया |
\ENM1.119c/ तथैदं यूयमप्यद्य मत्सकाशान्निबोधत || C. ||
\separate
अध्याय २

\ENM2.01a/ विद्वद्भिः सेवितः सद्भिर्नित्यमद्वेषरागिभिः |
\ENM2.01c/ हृदयेनाभ्यनुज्ञातो यो धर्मस्तं निबोधत || C. ||
\ENM2.02a/ कामात्मता न प्रशस्ता न चैवैहास्त्यकामता |
\ENM2.02c/ काम्यो हि वेदाधिगमः कर्मयोगश्च वैदिकः || C. ||
\ENM2.03a/ सङ्कल्पमूलः कामो वै यज्ञाः सङ्कल्पसंभवाः |
\ENM2.03c/ व्रतानि यमधर्माश्च सर्वे सङ्कल्पजाः स्मृताः || C. ||
\ENM2.04a/ अकामस्य क्रिया का चिद् दृश्यते नैह कर्हि चित् |
\ENM2.04c/ यद् यद् हि कुरुते किं चित् तत् तत् कामस्य चेष्टितम् || C. ||
\ENM2.05a/ तेषु सम्यग् वर्तमानो गच्छत्यमरलोकताम् |
\ENM2.05c/ यथा सङ्कल्पितांश्चैह सर्वान् कामान् समश्नुते || C. ||
\ENM2.06a/ वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् |
\ENM2.06c/ आचारश्चैव साधूनामात्मनस्तुष्टिरेव च || C. ||
\ENM2.07a/ यः कश्चित् कस्य चिद् धर्मो मनुना परिकीर्तितः |
\ENM2.07c/ स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः || C. ||
\ENM2.08a/ सर्वं तु समवेक्ष्यैदं निखिलं ज्ञानचक्षुषा |
\ENM2.08c/ श्रुतिप्रामाण्यतो विद्वान् स्वधर्मे निविशेत वै || C. ||
\ENM2.09a/ श्रुतिस्मृत्योदितं धर्ममनुतिष्ठन् हि मानवः |
\ENM2.09c/ इह कीर्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम् || C. ||
\ENM2.10a/ श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः |
\ENM2.10c/ ते सर्वार्थेष्वमीमांस्ये ताभ्यां धर्मो हि निर्बभौ || C. ||
\ENM2.11a/ योऽवमन्येत ते मूले हेतुशास्त्राश्रयाद् द्विजः |
\ENM2.11c/ स साधुभिर्बहिष्कार्यो नास्तिको वेदनिन्दकः || C. ||
\ENM2.12a/ वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः |
\ENM2.12c/ एतच्चतुर्विधं प्राहुः साक्षाद् धर्मस्य लक्षणम् || C. ||
\ENM2.13a/ अर्थकामेष्वसक्तानां धर्मज्ञानं विधीयते |
\ENM2.13c/ धर्मं जिज्ञासमानानां प्रमाणं परमं श्रुतिः || C. ||
\ENM2.14a/ श्रुतिद्वैधं तु यत्र स्यात् तत्र धर्मावुभौ स्मृतौ |
\ENM2.14c/ उभावपि हि तौ धर्मौ सम्यगुक्तौ मनीषिभिः || C. ||
\ENM2.15a/ उदितेऽनुदिते चैव समयाध्युषिते तथा |
\ENM2.15c/ सर्वथा वर्तते यज्ञ इतीयं वैदिकी श्रुतिः || C. ||
\ENM2.16a/ निषेकादिश्मशानान्तो मन्त्रैर्यस्योदितो विधिः |
\ENM2.16c/ तस्य शास्त्रेऽधिकारोऽस्मिन् ज्ञेयो नान्यस्य कस्य चित् || C. ||
\ENM2.17a/ सरस्वतीदृशद्वत्योर्देवनद्योर्यदन्तरम् |
\ENM2.17c/ तं देवनिर्मितं देशं ब्रह्मावर्तं प्रचक्षते || C. ||
\ENM2.18a/ तस्मिन् देशे य आचारः पारम्पर्यक्रमागतः |
\ENM2.18c/ वर्णानां सान्तरालानां स सदाचार उच्यते || C. ||
\ENM2.19a/ कुरुक्षेत्रं च मत्स्याश्च पञ्चालाः शूरसेनकाः |
\ENM2.19c/ एष ब्रह्मर्षिदेशो वै ब्रह्मावर्तादनन्तरः || C. ||
\ENM2.20a/ एतद् देशप्रसूतस्य सकाशादग्रजन्मनः |
\ENM2.20c/ स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः || C. ||
\ENM2.21a/ हिमवद्विन्ध्ययोर्मध्यं यत् प्राग् विनशनादपि |
\ENM2.21c/ प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः || C. ||
\ENM2.22a/ आ समुद्रात् तु वै पूर्वादा समुद्राच्च पश्चिमात् |
\ENM2.22c/ तयोरेवान्तरं गिर्योरार्यावर्तं विदुर्बुधाः || C. ||
\ENM2.23a/ कृष्णसारस्तु चरति मृगो यत्र स्वभावतः |
\ENM2.23c/ स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस्त्वतः परः || C. ||
\ENM2.24a/ एतान्द्विजातयो देशान् संश्रयेरन् प्रयत्नतः |
\ENM2.24c/ शूद्रस्तु यस्मिन् कस्मिन् वा निवसेद् वृत्तिकर्शितः ||C. || %[M.yasmi.nstasmin.h vaa ]
\ENM2.25a/ एषा धर्मस्य वो योनिः समासेन प्रकीर्तिता |
\ENM2.25c/ संभवश्चास्य सर्वस्य वर्णधर्मान्निबोधत || C. ||
\ENM2.26a/ वैदिकैः कर्मभिः पुण्यैर्निषेकादिर्द्विजन्मनाम् |
\ENM2.26c/ कार्यः शरीरसंस्कारः पावनः प्रेत्य चैह च || C. ||
\ENM2.27a/ गार्भैर्होमैर्जातकर्मचौडमौञ्जीनिबन्धनैः |
\ENM2.27c/ बैजिकं गार्भिकं चैनं द्विजानामपमृज्यते || C. ||
\ENM2.28a/ स्वाध्यायेन व्रतैर्होमैस्त्रैविद्येनेज्यया सुतैः |
\ENM2.28c/ महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः || C. ||
\ENM2.29a/ प्राङ् नाभिवर्धनात् पुंसो जातकर्म विधीयते |
\ENM2.29c/ मन्त्रवत् प्राशनं चास्य हिरण्यमधुसर्पिषाम् || C. ||
\ENM2.30a/ नामधेयं दशम्यां तु द्वादश्यां वाऽस्य कारयेत् |
\ENM2.30c/ पुण्ये तिथौ मुहूर्ते वा नक्षत्रे वा गुणान्विते || C. ||
\ENM2.31a/ मङ्गल्यं ब्राह्मणस्य स्यात् क्षत्रियस्य बलान्वितम् |
\ENM2.31c/ वैश्यस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम् || C. ||
\ENM2.32a/ शर्मवद् ब्राह्मणस्य स्याद् राज्ञो रक्षासमन्वितम् | %[M.raaGYaa ##? ##]

\ENM2.32c/ वैश्यस्य पुष्टिसंयुक्तं शूद्रस्य प्रेष्यसंयुतम् || C. ||
\ENM2.33a/ स्त्रीणां सुखौद्यमक्रूरं विस्पष्टार्थं मनोहरम् |
\ENM2.33c/ मङ्गल्यं दीर्घवर्णान्तमाशीर्वादाभिधानवत् || C. ||
\ENM2.34a/ चतुर्थे मासि कर्तव्यं शिशोर्निष्क्रमणं गृहात् |
\ENM2.34c/ षष्ठेऽन्नप्राशनं मासि यद् वैष्टं मङ्गलं कुले || C. ||
\ENM2.35a/ चूडाकर्म द्विजातीनां सर्वेषामेव धर्मतः |
\ENM2.35c/ प्रथमेऽब्दे तृतीये वा कर्तव्यं श्रुतिचोदनात् || C. || %[M.shrutinodanaat]

\ENM2.36a/ गर्भाष्टमेऽब्दे कुर्वीत ब्राह्मणस्यौपनायनम् |
\ENM2.36c/ गर्भादेकादशे राज्ञो गर्भात् तु द्वादशे विशः || C. ||
\ENM2.37a/ ब्रह्मवर्चसकामस्य कार्यो विप्रस्य पञ्चमे |
\ENM2.37c/ राज्ञो बलार्थिनः षष्ठे वैश्यस्यैहार्थिनोऽष्टमे || C. ||
\ENM2.38a/ आ षोदशाद् ब्राह्मणस्य सावित्री नातिवर्तते |
\ENM2.38c/ आ द्वाविंशात् क्षत्रबन्धोरा चतुर्विंशतेर्विशः || C. ||
\ENM2.39a/ अत ऊर्ध्वं त्रयोऽप्येते यथाकालमसंस्कृताः |
\ENM2.39c/ सावित्रीपतिता व्रात्या भवन्त्यार्यविगर्हिताः || C. ||
\ENM2.40a/ नैतैरपूतैर्विधिवदापद्यपि हि कर्हि चित् |
\ENM2.40c/ ब्राह्मान् यौनांश्च संबन्धान्नाचरेद् ब्राह्मणः सह || C. || %[M.braahmaNaiH saha ]

\ENM2.41a/ कार्ष्णरौरवबास्तानि चर्माणि ब्रह्मचारिणः |
\ENM2.41c/ वसीरन्नानुपूर्व्येण शाणक्षौमाविकानि च || C. ||
\ENM2.42a/ मौञ्जी त्रिवृत् समा श्लक्ष्णा कार्या विप्रस्य मेखला |
\ENM2.42c/ क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य शणतान्तवी || C. ||
\ENM2.43a/ मुञ्जालाभे तु कर्तव्याः कुशाश्मन्तकबल्वजैः |
\ENM2.43c/ त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वा || C. ||
\ENM2.44a/ कार्पासमुपवीतं स्याद् विप्रस्यौर्ध्ववृतं त्रिवृत् |
\ENM2.44c/ शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम् || C. ||
\ENM2.45a/ ब्राह्मणो बैल्वपालाशौ क्षत्रियो वाटखादिरौ |
\ENM2.45c/ पैलवौदुम्बरौ वैश्यो दण्डानर्हन्ति धर्मतः || C. ||
\ENM2.46a/ केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः |
\ENM2.46c/ ललाटसम्मितो राज्ञः स्यात् तु नासान्तिको विशः || C. ||
\ENM2.47a/ ऋजवस्ते तु सर्वे स्युरव्रणाः सौम्यदर्शनाः |
\ENM2.47c/ अनुद्वेगकरा नॄणां सत्वचोऽनग्निदूषिताः || C. ||
\ENM2.48a/ प्रतिगृह्येप्सितं दण्डमुपस्थाय च भास्करम् |
\ENM2.48c/ प्रदक्षिणं परीत्याग्निं चरेद् भैक्षं यथाविधि ||
C. ||
\ENM2.49a/ भवत्पूर्वं चरेद् भैक्षमुपनीतो द्विजोत्तमः |
\ENM2.49c/ भवन्मध्यं तु राजन्यो वैश्यस्तु भवदुत्तरम् ||C. ||
\ENM2.50a/ मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम् |
\ENM2.50c/ भिक्षेत भिक्षां प्रथमं या चैनं नावमानयेत् || C. ||
\ENM2.51a/ समाहृत्य तु तद् भैक्षं यावदन्नममायया | %[M.yaavadarthaM ]

\ENM2.51c/ निवेद्य गुरवेऽश्नीयादाचम्य प्राङ्मुखः शुचिः || C. ||
\ENM2.52a/ आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः |
\ENM2.52c/ श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्ते ह्युदङ्मुखः || C. ||
\ENM2.53a/ उपस्पृश्य द्विजो नित्यमन्नमद्यात् समाहितः |
\ENM2.53c/ भुक्त्वा चौपस्पृशेत् सम्यगद्भिः खानि च संस्पृशेत् || C. ||
\ENM2.54a/ पूजयेदशनं नित्यमद्याच्चैतदकुत्सयन् |
\ENM2.54c/ दृष्ट्वा हृष्येत् प्रसीदेच्च प्रतिनन्देच्च सर्वशः || C. ||
\ENM2.55a/ पूजितं ह्यशनं नित्यं बलमूर्जं च यच्छति |
\ENM2.55c/ अपूजितं तु तद् भुक्तमुभयं नाशयेदिदम् || C. ||
\ENM2.56a/ नौच्छिष्टं कस्य चिद् दद्यान्नाद्यादेतत् तथाऽन्तरा |
\ENM2.56c/ न चैवात्यशनं कुर्यान्न चौच्छिष्टः क्व चिद् व्रजेत् || C. ||
\ENM2.57a/ अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम् |
\ENM2.57c/ अपुण्यं लोकविद्विष्टं तस्मात् तत् परिवर्जयेत् || C. ||
\ENM2.58a/ ब्राह्मेण विप्रस्तीर्थेन नित्यकालमुपस्पृशेत् |
\ENM2.58c/ कायत्रैदशिकाभ्यां वा न पित्र्येण कदा चन || C. ||
\ENM2.59a/ अङ्गुष्ठमूलस्य तले ब्राह्मं तीर्थं प्रचक्षते |
\ENM2.59c/ कायमङ्गुलिमूलेऽग्रे देवं पित्र्यं तयोरधः || C. ||
\ENM2.60a/ त्रिराचामेदपः पूर्वं द्विः प्रमृज्यात् ततो मुखम् |
\ENM2.60c/ खानि चैव स्पृशेदद्भिरात्मानं शिर एव च || C. ||
\ENM2.61a/ अनुष्णाभिरफेनाभिरद्भिस्तीर्थेन धर्मवित् |
\ENM2.61c/ शौचेप्सुः सर्वदाऽचामेदेकान्ते प्रागुदङ्मुखः || C. ||
\ENM2.62a/ हृद्गाभिः पूयते विप्रः कण्ठगाभिस्तु भूमिपः |
\ENM2.62c/ वैश्योऽद्भिः प्राशिताभिस्तु शूद्रः स्पृष्टाभिरन्ततः || C. ||
\ENM2.63a/ उद्धृते दक्षिणे पाणावुपवीत्यौच्यते द्विजः |
\ENM2.63c/ सव्ये प्राचीनावीती निवीती कण्ठसज्जने || C. ||
\ENM2.64a/ मेखलामजिनं दण्डमुपवीतं कमण्डलुम् |
\ENM2.64c/ अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत् || C. ||
\ENM2.65a/ केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते |
\ENM2.65c/ राजन्यबन्धोर्द्वाविंशे वैश्यस्य द्व्यधिके मतः || C. ||
\ENM2.66a/ अमन्त्रिका तु कार्यैयं स्त्रीणामावृदशेषतः |
\ENM2.66c/ संस्कारार्थं शरीरस्य यथाकालं यथाक्रमम् || C. ||
\ENM2.67a/ वैवाहिको विधिः स्त्रीणां संस्कारो वैदिकः स्मृतः |
\ENM2.67c/ पतिसेवा गुरौ वासो गृहार्थोऽग्निपरिक्रिया || C. ||
\ENM2.68a/ एष प्रोक्तो द्विजातीनामौपनायनिको विधिः |
\ENM2.68c/ उत्पत्तिव्यञ्जकः पुण्यः कर्मयोगं निबोधत || C. ||
\ENM2.69a/ उपनीयं गुरुः शिष्यं शिक्षयेत्शौचमादितः |
\ENM2.69c/ आचारमग्निकार्यं च संध्यौपासनमेव च || C. ||
\ENM2.70a/ अध्येष्यमाणस्त्वाचान्तो यथाशास्त्रमुदङ्मुखः |
\ENM2.70c/ ब्रह्माञ्जलिकृतोऽध्याप्यो लघुवासा जितैन्द्रियः || C. ||
\ENM2.71a/ ब्रह्मारम्भेऽवसाने च पादौ ग्राह्यौ गुरोः सदा |
\ENM2.71c/ संहत्य हस्तावध्येयं स हि ब्रह्माञ्जलिः स्मृतः || C. ||
\ENM2.72a/ व्यत्यस्तपाणिना कार्यमुपसङ्ग्रहणं गुरोः |
\ENM2.72c/ सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन च दक्षिणः || C. ||
\ENM2.73a/ अध्येष्यमाणं तु गुरुर्नित्यकालमतन्द्रितः |
\ENM2.73c/ अधीष्व भो इति ब्रूयाद् विरामोऽस्त्विति चारमेत् || C. ||
\ENM2.74a/ ब्रह्मणः प्रणवं कुर्यादादावन्ते च सर्वदा |
\ENM2.74c/ स्रवत्यनोङ्कृतं ? ? पूर्वं परस्ताच्च विशीर्यति || C. ||
\ENM2.75a/ प्राक्कूलान् पर्युपासीनः पवित्रैश्चैव पावितः |
\ENM2.75c/ प्राणायामैस्त्रिभिः पूतस्तत ओं.कारमर्हति || C. ||
\ENM2.76a/ अकारं चाप्युकारं च मकारं च प्रजापतिः |
\ENM2.76c/ वेदत्रयान्निरदुहद् भूर्भुवः स्वरितीति च || C. ||
\ENM2.77a/ त्रिभ्य एव तु वेदेभ्यः पादं पादमदूदुहत् |
\ENM2.77c/ तदित्यर्चोऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः || C. ||
\ENM2.78a/ एतदक्षरमेतां च जपन् व्याहृतिपूर्विकाम् |
\ENM2.78c/ संध्ययोर्वेदविद् विप्रो वेदपुण्येन युज्यते || C. ||
\ENM2.79a/ सहस्रकृत्वस्त्वभ्यस्य बहिरेतत् त्रिकं द्विजः |
\ENM2.79c/ महतोऽप्येनसो मासात् त्वचैवाहिर्विमुच्यते || C. ||
\ENM2.80a/ एतयाऋचा विसंयुक्तः काले च क्रियया स्वया |
\ENM2.80c/ ब्रह्मक्षत्रियविद्योनिर्गर्हणां याति साधुषु || C. ||
\ENM2.81a/ ओंकारपूर्विकास्तिस्रो महाव्याहृतयोऽव्ययाः | %[MoN^kaara]

\ENM2.81c/ त्रिपदा चैव सावित्री विज्ञेयं ब्रह्मणो मुखम् || C. ||
\ENM2.82a/ योऽधीतेऽहन्यहन्येतां त्रीणि वर्षाण्यतन्द्रितः |
\ENM2.82c/ स ब्रह्म परमभ्येति वायुभूतः खमूर्तिमान् || C. ||
\ENM2.83a/ एकाक्षरं परं ब्रह्म प्राणायामः परं तपः |
\ENM2.83c/ सावित्र्यास्तु परं नास्ति मौनात् सत्यं विशिष्यते || C. ||
\ENM2.84a/ क्षरन्ति सर्वा वैदिक्यो जुहोतियजतिक्रियाः |
\ENM2.84c/  अक्षरं दुष्करं ज्ञेयं ब्रह्म चैव प्रजापतिः || C. || %[M. akSharaM tvakSharaM GYeyaM]

\ENM2.85a/ विधियज्ञाज् जपयज्ञो विशिष्टो दशभिर्गुणैः |
\ENM2.85c/ उपांशुः स्यात्शतगुणः साहस्रो मानसः स्मृतः || C. ||
\ENM2.86a/ ये पाकयज्ञाः चत्वारो विधियज्ञसमन्विताः |
\ENM2.86c/ सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् || C. ||
\ENM2.87a/ जप्येनैव तु संसिध्येद् ब्राह्मणो नात्र संशयः |
\ENM2.87c/ कुर्यादन्यन्न वा कुर्यान् मैत्रो ब्राह्मण उच्यते || C. ||
\ENM2.88a/ इन्द्रियाणां विचरतां विषयेष्वपहारिषु |
\ENM2.88c/ संयमे यत्नमातिष्ठेद् विद्वान् यन्तैव वाजिनाम् || C. ||
\ENM2.89a/ एकादशेन्द्रियाण्याहुर्यानि पूर्वे मनीषिणः |
\ENM2.89c/ तानि सम्यक् प्रवक्ष्यामि यथावदनुपूर्वशः || C. ||
\ENM2.90a/ श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी |
\ENM2.90c/ पायूपस्थं हस्तपादं वाक् चैव दशमी स्मृता |
\ENM2.91a/ बुद्धीन्द्रियाणि पञ्चैषां श्रोत्रादीन्यनुपूर्वशः |
\ENM2.91c/ कर्मेन्द्रियाणि पञ्चैषां पाय्वादीनि प्रचक्षते || C. ||
\ENM2.92a/ एकादशं मनो ज्ञेयं स्वगुणेनौभयात्मकम् |
\ENM2.92c/ यस्मिन् जिते जितावेतौ भवतः पञ्चकौ गणौ || C. ||
\ENM2.93a/ इन्द्रियाणां प्रसङ्गेन दोषं ऋच्छत्यसंशयम् |
\ENM2.93c/ संनियम्य तु तान्येव ततः सिद्धिं निगच्छति || C. ||
\ENM2.94a/ न जातु कामः कामानामुपभोगेन शाम्यति |
\ENM2.94c/ हविषा कृष्णवर्त्मैव भूय एवाभिवर्धते || C. ||
\ENM2.95a/ यश्चैतान् प्राप्नुयात् सर्वान् यश्चैतान् केवलांस्त्यजेत् || C. ||
\ENM2.95c/ प्रापणात् सर्वकामानां परित्यागो विशिष्यते |
\ENM2.96a/ न तथैतानि शक्यन्ते संनियन्तुमसेवया || C. ||
\ENM2.96c/ विषयेषु प्रजुष्टानि यथा ज्ञानेन नित्यशः || C. ||
\ENM2.97a/ वेदास्त्यागश्च यज्ञाश्च नियमाश्च तपांसि च |
\ENM2.97c/ न विप्रदुष्टभावस्य सिद्धिं गच्छति कर्हि चित् || C. ||
\ENM2.98a/ श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा च यो नरः |
\ENM2.98c/ न हृष्यति ग्लायति वा स विज्ञेयो जितैन्द्रियः || C. ||
\ENM2.99a/ इन्द्रियाणां तु सर्वेषां यद्येकं क्षरतीन्द्रियम् |
\ENM2.99c/ तेनास्य क्षरति प्रज्ञा दृतेः पादादिवोदकम् || C. ||
\ENM2.100a/ वशे कृत्वेन्द्रियग्रामं संयम्य च मनस्तथा |
\ENM2.100c/ सर्वान् संसाधयेदर्थानक्षिण्वन् योगतस्तनुम् || C. ||
\ENM2.101a/ पूर्वां संध्यां जपंस्तिष्ठेत् सावित्रीमाऽर्कदर्शनात् |
\ENM2.101c/ पश्चिमां तु समासीनः सम्यग् ऋक्षविभावनात् || C. || %[M. pashchimaaM tu sadaasiita]

\ENM2.102a/ पूर्वां संध्यां जपंस्तिष्ठन्नैशमेनो व्यपोहति |
\ENM2.102c/ पश्चिमां तु समासीनो मलं हन्ति दिवाकृतम् || C. ||
\ENM2.103a/ न तिष्ठति तु यः पूर्वां नौपास्ते यश्च पश्चिमाम् |
\ENM2.103c/ स शूद्रवद् बहिष्कार्यः सर्वस्माद् द्विजकर्मणः || C. ||
\ENM2.104a/ अपां समीपे नियतो नैत्यकं विधिमास्थितः |
\ENM2.104c/ सावित्रीमप्यधीयीत गत्वाऽरण्यं समाहितः || C. ||
\ENM2.105a/ वेदौपकरणे चैव स्वाध्याये चैव नैत्यके |
\ENM2.105c/ नानुरोधोऽस्त्यनध्याये होममन्त्रेषु चैव हि || C. ||
\ENM2.106a/ नैत्यके नास्त्यनध्यायो ब्रह्मसत्रं हि तत् स्मृतम् || C. ||
\ENM2.106c/ ब्रह्माहुतिहुतं पुण्यमनध्यायवषट् कृतम्  ? ? || C. ||
\ENM2.107a/ यः स्वाध्यायमधीतेऽब्दं विधिना नियतः शुचिः |
\ENM2.107c/ तस्य नित्यं क्षरत्येष पयो दधि घृतं मधु || C. ||
\ENM2.108a/ अग्नीन्धनं भैक्षचर्यामधःशय्यां गुरोर्हितम् |
\ENM2.108c/ आ समावर्तनात् कुर्यात् कृतोपनयनो द्विजः || C. ||
\ENM2.109a/ आचार्यपुत्रः शुश्रूषुर्ज्ञानदो धार्मिकः शुचिः |
\ENM2.109c/ आप्तः शक्तोऽर्थदः साधुः स्वोऽध्याप्या दश धर्मतः ? ? || C. ||
\ENM2.110a/ नापृष्टः कस्य चिद् ब्रूयान्न चान्यायेन पृच्छतः |
\ENM2.110c/ जानन्नपि हि मेधावी जडवल्लोक आचरेत् || C. ||
\ENM2.111a/ अधर्मेण च यः प्राह यश्चाधर्मेण पृच्छति |
\ENM2.111c/ तयोरन्यतरः प्रैति विद्वेषं वाऽधिगच्छति || C. ||
\ENM2.112a/ धर्मार्थौ यत्र न स्यातां शुश्रूषा वाऽपि तद्विधा |
\ENM2.112c/ तत्र विद्या न वप्तव्या शुभं बीजमिवौषरे || C. ||
\ENM2.113a/ विद्ययैव समं कामं मर्तव्यं ब्रह्मवादिना |
\ENM2.113c/ आपद्यपि हि घोरायां न त्वेनामिरिणे वपेत् || C. ||
\ENM2.114a/ विद्या ब्राह्मणमेत्याह शेवधिस्तेऽस्मि रक्ष माम् | %[M.shevadhiSh Te]

\ENM2.114c/ असूयकाय मां मादास्तथा स्यां वीर्यवत्तमा || C. ||
\ENM2.115a/ यमेव तु शुचिं विद्यान्नियतब्रह्मचारिणम् | %[M. vidyaa niyataM brahmachaariNam]

\ENM2.115c/ तस्मै मां ब्रूहि विप्राय निधिपायाप्रमादिने |
\ENM2.116a/ ब्रह्म यस्त्वननुज्ञातमधीयानादवाप्नुयात् |
\ENM2.116c/ स ब्रह्मस्तेयसंयुक्तो नरकं प्रतिपद्यते |
\ENM2.117a/ लौकिकं वैदिकं वाऽपि तथाऽध्यात्मिकमेव वा |
\ENM2.117c/ आददीत यतो ज्ञानं तं पूर्वमभिवादयेत् || C. ||
\ENM2.118a/ सावित्रीमात्रसारोऽपि वरं विप्रः सुयन्त्रितः |
\ENM2.118c/ नायन्त्रितस्त्रिवेदोऽपि सर्वाशी सर्वविक्रयी || C. ||
\ENM2.119a/ शय्याऽऽसनेऽध्याचरिते श्रेयसा न समाविशेत् |
\ENM2.119c/ शय्याऽऽसनस्थश्चैवेनं प्रत्युत्थायाभिवादयेत् || C. ||
\ENM2.120a/ ऊर्ध्वं प्राणा ह्युत्क्रमन्ति यूनः स्थविर आयति |
\ENM2.120c/ प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते || C. ||
\ENM2.121a/ अभिवादनशीलस्य नित्यं वृद्धोपसेविनः |
\ENM2.121c/ चत्वारि तस्य वर्धन्ते  आयुर्धर्मो यशो बलम् || C. || %[M. chatvaari saMpravardhante]

\ENM2.122a/ अभिवादात् परं विप्रो ज्यायांसमभिवादयन् |
\ENM2.122c/ असौ नामाहमस्मीति स्वं नाम परिकीर्तयेत् || C. ||
\ENM2.123a/ नामधेयस्य ये के चिदभिवादं न जानते |
\ENM2.123c/ तान् प्राज्ञोऽहमिति ब्रूयात् स्त्रियः सर्वास्तथैव च || C. ||
\ENM2.124a/ भोःशब्दं कीर्तयेदन्ते स्वस्य नाम्नोऽभिवादने |
\ENM2.124c/ नाम्नां स्वरूपभावो हि भोभाव ऋषिभिः स्मृतः || C. ||
\ENM2.125a/ आयुष्मान् भव सौम्यैति वाच्यो विप्रोऽभिवादने |
\ENM2.125c/ अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः || C. ||
\ENM2.126a/ यो न वेत्त्यभिवादस्य विप्रः प्रत्यभिवादनम् |
\ENM2.126c/ नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः || C. ||
\ENM2.127a/ ब्राह्मणं कुशलं पृच्छेत् क्षत्रबन्धुमनामयम् |
\ENM2.127c/ वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च || C. ||
\ENM2.128a/ अवाच्यो दीक्षितो नाम्ना यवीयानपि यो भवेत् |
\ENM2.128c/ भोभवत्पूर्वकं त्वेनमभिभाषेत धर्मवित् || C. ||
\ENM2.129a/ परपत्नी तु या स्त्री स्यादसंबन्धा च योनितः |
\ENM2.129c/ तां ब्रूयाद् भवतीत्येवं सुभगे भगिनीति च || C. ||
\ENM2.130a/ मातुलांश्च पितृव्यांश्च श्वशुरान् ऋत्विजो गुरून् |
\ENM2.130c/ असावहमिति ब्रूयात् प्रत्युत्थाय यवीयसः || C. ||
\ENM2.131a/ मातृश्वसा मातुलानी श्वश्रूरथ पितृश्वसा |
\ENM2.131c/ संपूज्या गुरुपत्नीवत् समास्ता गुरुभार्यया || C. ||
\ENM2.132a/ भ्रातुर्भार्यौपसङ्ग्राह्या सवर्णाऽहन्यहन्यपि |
\ENM2.132c/ विप्रोष्य तूपसङ्ग्राह्या ज्ञातिसंबन्धियोषितः || C. ||
\ENM2.133a/ पितुर्भगिन्यां मातुश्च ज्यायस्यां च स्वसर्यपि |
\ENM2.133c/ मातृवद् वृत्तिमातिष्ठेन् माता ताभ्यो गरीयसी || C. ||
\ENM2.134a/ दशाब्दाख्यं पौरसख्यं पञ्चाब्दाख्यं कलाभृताम् |
\ENM2.134c/ त्र्यब्दपूर्वं श्रोत्रियाणां स्वल्पेनापि स्वयोनिषु || C. ||
\ENM2.135a/ ब्राह्मणं दशवर्षं तु शतवर्षं तु भूमिपम् |
\ENM2.135c/ पितापुत्रौ विजानीयाद् ब्राह्मणस्तु तयोः पिता || C. ||
\ENM2.136a/ वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी |
\ENM2.136c/ एतानि मान्यस्थानानि गरीयो यद् यदुत्तरम् || C. || %[M.maanasthaanaani ]

\ENM2.137a/ पञ्चानां त्रिषु वर्णेषु भूयांसि गुणवन्ति च |
\ENM2.137c/ यत्र स्युः सोऽत्र मानार्हः शूद्रोऽपि दशमीं गतः || C. ||
\ENM2.138a/ चक्रिणो दशमीस्थस्य रोगिणो भारिणः स्त्रियाः |
\ENM2.138c/ स्नातकस्य च राज्ञश्च पन्था देयो वरस्य च || C. ||
\ENM2.139a/ तेषां तु समवेतानां मान्यौ स्नातकपार्थिवौ |
\ENM2.139c/ राजस्नातकयोश्चैव स्नातको नृपमानभाक् || C. ||
\ENM2.140a/ उपनीय तु यः शिष्यं वेदमध्यापयेद् द्विजः |
\ENM2.140c/ सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते || C. ||
\ENM2.141a/ एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः |
\ENM2.141c/ योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते || C. ||
\ENM2.142a/ निषेकादीनि कर्माणि यः करोति यथाविधि |
\ENM2.142c/ संभावयति चान्नेन स विप्रो गुरुरुच्यते || C. ||
\ENM2.143a/ अग्न्याधेयं पाकयज्ञानग्निष्टोमादिकान् मखान् |
\ENM2.143c/ यः करोति वृतो यस्य स तस्यर्त्विगिहोच्यते || C. ||
\ENM2.144a/ य आवृणोत्यवितथं ब्रह्मणा श्रवणावुभौ |
\ENM2.144c/ स माता स पिता ज्ञेयस्तं न द्रुह्येत् कदा चन || C. ||
\ENM2.145a/ उपाध्यायान् दशाचार्य आचार्याणां शतं पिता |
\ENM2.145c/ सहस्रं तु पितॄन् माता गौरवेणातिरिच्यते || C. ||
\ENM2.146a/ उत्पादकब्रह्मदात्रोर्गरीयान् ब्रह्मदः पिता |
\ENM2.146c/ ब्रह्मजन्म हि विप्रस्य प्रेत्य चैह च शाश्वतम् || C. ||
\ENM2.147a/ कामान् माता पिता चैनं यदुत्पादयतो मिथः |
\ENM2.147c/ संभूतिं तस्य तां विद्याद् यद् योनावभिजायते || C. ||
\ENM2.148a/ आचार्यस्त्वस्य यां जातिं विधिवद् वेदपारगः |
\ENM2.148c/ उत्पादयति सावित्र्या सा सत्या साऽजराऽमरा || C. ||
\ENM2.149a/ अल्पं वा बहु वा यस्य श्रुतस्यौपकरोति यः |
\ENM2.149c/ तमपीह गुरुं विद्यात्श्रुतौपक्रियया तया || C. ||
\ENM2.150a/ ब्राह्मस्य जन्मनः कर्ता स्वधर्मस्य च शासिता |
\ENM2.150c/ बालोऽपि विप्रो वृद्धस्य पिता भवति धर्मतः || C. ||
\ENM2.151a/ अध्यापयामास पितॄन् शिशुराङ्गिरसः कविः |
\ENM2.151c/ पुत्रका इति हौवाच ज्ञानेन परिगृह्य तान् || C. ||
\ENM2.152a/ ते तमर्थमपृच्छन्त देवानागतमन्यवः |
\ENM2.152c/ देवाश्चैतान् समेत्यौचुर्न्याय्यं वः शिशुरुक्तवान् || C. ||
\ENM2.153a/ अज्ञो भवति वै बालः पिता भवति मन्त्रदः |
\ENM2.153c/ अज्ञं हि बालमित्याहुः पितेत्येव तु मन्त्रदम् || C. ||
\ENM2.154a/ न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः |
\ENM2.154c/ ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् || C. ||
\ENM2.155a/ विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः |
\ENM2.155c/ वैश्यानां धान्यधनतः शूद्राणामेव जन्मतः || C. ||
\ENM2.156a/ न तेन वृद्धो भवति येनास्य पलितं शिरः |
\ENM2.156c/ यो वै युवाऽप्यधीयानस्तं देवाः स्थविरं विदुः || C. ||
\ENM2.157a/ यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः |
\ENM2.157c/ यश्च विप्रोऽनधीयानस्त्रयस्ते नाम बिभ्रति || C. ||
\ENM2.158a/ यथा षण्ढोऽफलः स्त्रीषु यथा गौर्गवि चाफला |
\ENM2.158c/ यथा चाज्ञेऽफलं दानं तथा विप्रोऽनृचोऽफलः || C. ||
\ENM2.159a/ अहिंसयैव भूतानां कार्यं श्रेयोऽनुशासनम् |
\ENM2.159c/ वाक् चैव मधुरा श्लक्ष्णा प्रयोज्या धर्ममिच्छता || C. ||
\ENM2.160a/ यस्य वाङ्मनसी शुद्धे सम्यग् गुप्ते च सर्वदा |
\ENM2.160c/ स वै सर्वमवाप्नोति वेदान्तोपगतं फलम् || C. ||
\ENM2.161a/ नारुंतुदः स्यादार्तोऽपि न परद्रोहकर्मधीः |
\ENM2.161c/ ययाऽस्योद्विजते वाचा नालोक्यां तामुदीरयेत् || C. ||
\ENM2.162a/ सम्मानाद् ब्राह्मणो नित्यमुद्विजेत विषादिव |
\ENM2.162c/ अमृतस्येव चाकाङ्क्षेदवमानस्य सर्वदा || C. ||
\ENM2.163a/ सुखं ह्यवमतः शेते सुखं च प्रतिबुध्यते || C. ||
\ENM2.163c/ सुखं चरति लोकेऽस्मिन्नवमन्ता विनश्यति || C. ||
\ENM2.164a/ अनेन क्रमयोगेन संस्कृतात्मा द्विजः शनैः |
\ENM2.164c/ गुरौ वसन् सञ्चिनुयाद् ब्रह्माधिगमिकं तपः || C. ||
\ENM2.165a/ तपोविशेषैर्विविधैर्व्रतैश्च विधिचोदितैः |
\ENM2.165c/ वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना || C. ||
\ENM2.166a/ वेदमेव सदाऽभ्यस्येत् तपस्तप्यन् द्विजोत्तमः |
\ENM2.166c/ वेदाभ्यासो हि विप्रस्य तपः परमिहौच्यते || C. ||
\ENM2.167a/ आ हैव स नखाग्रेभ्यः परमं तप्यते तपः |
\ENM2.167c/ यः स्रग्व्यपि द्विजोऽधीते स्वाध्यायं शक्तितोऽन्वहम् || C. ||
\ENM2.168a/ योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् |
\ENM2.168c/ स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः || C. ||
\ENM2.169a/ मातुरग्रेऽधिजननं द्वितीयं मौञ्जिबन्धने |
\ENM2.169c/ तृतीयं यज्ञदीक्षायां द्विजस्य श्रुतिचोदनात् || C. ||
\ENM2.170a/ तत्र यद् ब्रह्मजन्मास्य मौञ्जीबन्धनचिह्नितम् |
\ENM2.170c/ तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते || C. ||
\ENM2.171a/ वेदप्रदानादाचार्यं पितरं परिचक्षते |
\ENM2.171c/ न ह्यस्मिन् युज्यते कर्म किञ्चिदा मौञ्जिबन्धनात् || C. ||
\ENM2.172a/ नाभिव्याहारयेद् ब्रह्म स्वधानिनयनाद् ऋते |
\ENM2.172c/ शूद्रेण हि समस्तावद् यावद् वेदे न जायते || C. ||
\ENM2.173a/ कृतौपनयनस्यास्य व्रतादेशनमिष्यते |
\ENM2.173c/ ब्रह्मणो ग्रहणं चैव क्रमेण विधिपूर्वकम् || C. ||
\ENM2.174a/ यद्यस्य विहितं चर्म यत् सूत्रं या च मेखला |
\ENM2.174c/ यो दण्डो यत्च वसनं तत् तदस्य व्रतेष्वपि || C. ||
\ENM2.175a/ सेवेतैमांस्तु नियमान् ब्रह्मचारी गुरौ वसन् |
\ENM2.175c/ सन्नियम्यैन्द्रियग्रामं तपोवृद्ध्यर्थमात्मनः || C. ||
\ENM2.176a/ नित्यं स्नात्वा शुचिः कुर्याद् देवर्षिपितृतर्पणम् |
\ENM2.176c/ देवताभ्यर्चनं चैव समिदाधानमेव च || C. ||
\ENM2.177a/ वर्जयेन् मधु मांसं च गन्धं माल्यं रसान् स्त्रियः |
\ENM2.177c/ शुक्तानि यानि सर्वाणि प्राणिनां चैव हिंसनम् || C. ||
\ENM2.178a/ अभ्यङ्गमञ्जनं चाक्ष्णोरुपानच्छत्रधारणम् |
\ENM2.178c/ कामं क्रोधं च लोभं च नर्तनं गीतवादनम् || C. ||
\ENM2.179a/ द्यूतं च जनवादं च परिवादं तथाऽनृतम् |
\ENM2.179c/ स्त्रीणां च प्रेक्षणालम्भमुपघातं परस्य च || C. ||%##( ##M.aalambhaa.av##) ##
\ENM2.180a/ एकः शयीत सर्वत्र न रेतः स्कन्दयेत् क्व चित् |
\ENM2.180c/ कामाद् हि स्कन्दयन् रेतो हिनस्ति व्रतमात्मनः || C. ||
\ENM2.181a/ स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः |
\ENM2.181c/ स्नात्वाऽर्कमर्चयित्वा त्रिः पुनर्मामित्यृचं जपेत् || C. ||
\ENM2.182a/ उदकुम्भं सुमनसो गोशकृत्मृत्तिकाकुशान् |
\ENM2.182c/ आहरेद् यावदर्थानि भैक्षं चाहरहश्चरेत् || C. ||
\ENM2.183a/ वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्मसु |
\ENM2.183c/ ब्रह्मचार्याहरेद् भैक्षं गृहेभ्यः प्रयतोऽन्वहम् || C. ||
\ENM2.184a/ गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु |
\ENM2.184c/ अलाभे त्वन्यगेहानां पूर्वं पूर्वं विवर्जयेत् || C. ||
\ENM2.185a/ सर्वं वापि चरेद् ग्रामं पूर्वौक्तानामसंभवे |
\ENM2.185c/ नियम्य प्रयतो वाचमभिशस्तांस्तु वर्जयेत् || C. ||
\ENM2.186a/ दूरादाहृत्य समिधः सन्निदध्याद् विहायसि |
\ENM2.186c/ सायं.प्रातश्च जुहुयात् ताभिरग्निमतन्द्रितः || C. ||
\ENM2.187a/ अकृत्वा भैक्षचरणमसमिध्य च पावकम् |
\ENM2.187c/ अनातुरः सप्तरात्रमवकीर्णिव्रतं चरेत् || C. ||
\ENM2.188a/ भैक्षेण वर्तयेन्नित्यं नैकान्नादी भवेद् व्रती |
\ENM2.188c/ भैक्षेण व्रतिनो वृत्तिरुपवाससमा स्मृता || C. ||
\ENM2.189a/ व्रतवद् देवदैवत्ये पित्र्ये कर्मण्यथर्षिवत् |
\ENM2.189c/ काममभ्यर्थितोऽश्नीयाद् व्रतमस्य न लुप्यते || C. ||
\ENM2.190a/ ब्राह्मणस्यैव कर्मैतदुपदिष्टं मनीषिभिः |
\ENM2.190c/ राजन्यवैश्ययोस्त्वेवं नैतत् कर्म विधीयते || C. ||
\ENM2.191a/ चोदितो गुरुणा नित्यमप्रचोदित एव वा |
\ENM2.191c/ कुर्यादध्ययने यत्नमाचार्यस्य हितेषु च || C. || %[M.adhyayane yogam]

\ENM2.192a/ शरीरं चैव वाचं च बुद्धीन्द्रियमनांसि च |
\ENM2.192c/ नियम्य प्राञ्जलिस्तिष्ठेद् वीक्षमाणो गुरोर्मुखम् || C. ||
\ENM2.193a/ नित्यमुद्धृतपाणिः स्यात् साध्वाचारः सुसंवृतः |
\ENM2.193c/ आस्यतामिति चौक्तः सन्नासीताभिमुखं गुरोः || C. ||
\ENM2.194a/ हीनान्नवस्त्रवेषः स्यात् सर्वदा गुरुसन्निधौ |
\ENM2.194c/ उत्तिष्ठेत् प्रथमं चास्य चरमं चैव संविशेत् || C. ||
\ENM2.195a/ प्रतिश्रावणसंभाषे शयानो न समाचरेत् |
\ENM2.195c/ नासीनो न च भुञ्जानो न तिष्ठन्न पराङ्मुखः || C. ||
\ENM2.196a/ आसीनस्य स्थितः कुर्यादभिगच्छंस्तु तिष्ठतः |
\ENM2.196c/ प्रत्युद्गम्य त्वाव्रजतः पश्चाद् धावंस्तु धावतः || C. ||
\ENM2.197a/ पराङ्मुखस्याभिमुखो दूरस्थस्येत्य चान्तिकम् |
\ENM2.197c/ प्रणम्य तु शयानस्य निदेशे चैव तिष्ठतः || C. ||
\ENM2.198a/ नीचं शय्याऽऽसनं चास्य नित्यं स्याद् गुरुसन्निधौ |
\ENM2.198c/ गुरोस्तु चक्षुर्विषये न यथेष्टासनो भवेत् || C. ||
\ENM2.199a/ नौदाहरेदस्य नाम परोक्षमपि केवलम् |
\ENM2.199c/ न चैवास्यानुकुर्वीत गतिभाषितचेष्टितम् || C. ||
\ENM2.200a/ गुरोर्यत्र परिवादो निन्दा वाऽपि प्रवर्तते |
\ENM2.200c/ कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः || C. ||
\ENM2.201a/ परीवादात् खरो भवति श्वा वै भवति निन्दकः |
\ENM2.201c/ परिभोक्ता कृमिर्भवति कीटो भवति मत्सरी || C. ||
\ENM2.202a/ दूरस्थो नार्चयेदेनं न क्रुद्धो नान्तिके स्त्रियाः |
\ENM2.202c/ यानासनस्थश्चैवैनमवरुह्याभिवादयेत् || C. ||
\ENM2.203a/ प्रतिवातेऽनुवाते च नासीत गुरुणा सह | %[M.prativaataanuvaate]

\ENM2.203c/ असंश्रवे चैव गुरोर्न किं चिदपि कीर्तयेत् || C. ||
\ENM2.204a/ गोऽश्वौष्ट्रयानप्रासादप्रस्तरेषु कटेषु च |
\ENM2.204c/ आसीत गुरुणा सार्धं शिलाफलकनौषु च || C. ||
\ENM2.205a/ गुरोर्गुरौ सन्निहिते गुरुवद् वृत्तिमाचरेत् |
\ENM2.205c/ न चानिसृष्टो गुरुणा स्वान् गुरूनभिवादयेत् || C. ||
\ENM2.206a/ विद्यागुरुष्वेवमेव नित्या वृत्तिः स्वयोनिषु |
\ENM2.206c/ प्रतिषेधत्सु चाधर्माद् हितं चोपदिशत्स्वपि || C. ||
\ENM2.207a/ श्रेयःसु गुरुवद् वृत्तिं नित्यमेव समाचरेत् |
\ENM2.207c/ गुरुपुत्रेषु चार्येषु गुरोश्चैव स्वबन्धुषु || C. || %[M.guruputre tathaachaarye]

\ENM2.208a/ बालः समानजन्मा वा शिष्यो वा यज्ञकर्मणि |
\ENM2.208c/ अध्यापयन् गुरुसुतो गुरुवत्मानमर्हति || C. ||
\ENM2.209a/ उत्सादनं च गात्राणां स्नापनौच्छिष्टभोजने |
\ENM2.209c/ न कुर्याद् गुरुपुत्रस्य पादयोश्चावनेजनम् || C. ||
\ENM2.210a/ गुरुवत् प्रतिपूज्याः स्युः सवर्णा गुरुयोषितः |
\ENM2.210c/ असवर्णास्तु सम्पूज्याः प्रत्युत्थानाभिवादनैः || C. ||
\ENM2.211a/ अभ्यञ्जनं स्नापनं च गात्रोत्सादनमेव च |
\ENM2.211c/ गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम् || C. ||
\ENM2.212a/ गुरुपत्नी तु युवतिर्नाभिवाद्यैह पादयोः |
\ENM2.212c/ पूर्णविंशतिवर्षेण गुणदोषौ विजानता || C. ||
\ENM2.213a/ स्वभाव एष नारीणां नराणामिह दूषणम् |
\ENM2.213c/ अतोऽर्थान्न प्रमाद्यन्ति प्रमदासु विपश्चितः || C. ||
\ENM2.214a/ अविद्वांसमलं लोके विद्वांसमपि वा पुनः |
\ENM2.214c/ प्रमदा ह्युत्पथं नेतुं कामक्रोधवशानुगम् || C. ||
\ENM2.215a/ मात्रा स्वस्रा दुहित्रा वा न विविक्तासनो भवेत् |
\ENM2.215c/ बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति || C. ||
\ENM2.216a/ कामं तु गुरुपत्नीनां युवतीनां युवा भुवि |
\ENM2.216c/ विधिवद् वन्दनं कुर्यादसावहमिति ब्रुवन् || C. ||
\ENM2.217a/ विप्रोष्य पादग्रहणमन्वहं चाभिवादनम् |
\ENM2.217c/ गुरुदारेषु कुर्वीत सतां धर्ममनुस्मरन् || C. ||
\ENM2.218a/ यथा खनन् खनित्रेण नरो वार्यधिगच्छति |
\ENM2.218c/ तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति || C. ||
\ENM2.219a/ मुण्डो वा जटिलो वा स्यादथ वा स्यात्शिखाजटः |
\ENM2.219c/ नैनं ग्रामेऽभिनिम्लोचेत् सूर्यो नाभ्युदियात् क्व चित् || C. ||
\ENM2.220a/ तं चेदभ्युदियात् सूर्यः शयानं कामचारतः |
\ENM2.220c/ निम्लोचेद् वाऽप्यविज्ञानाज् जपन्नुपवसेद् दिनम् || C. ||
\ENM2.221a/ सूर्येण ह्यभिनिर्मुक्तः शयानोऽभ्युदितश्च यः | %[M.abhinimluktaH]

\ENM2.221c/ प्रायश्चित्तमकुर्वाणो युक्तः स्यान् महतेनसा || C. ||
\ENM2.222a/ आचम्य प्रयतो नित्यमुभे संध्ये समाहितः |
\ENM2.222c/ शुचौ देशे जपञ्जप्यमुपासीत यथाविधि || C. ||
\ENM2.223a/ यदि स्त्री यद्यवरजः श्रेयः किं चित् समाचरेत् |
\ENM2.223c/ तत् सर्वमाचरेद् युक्तो यत्र चास्य रमेन् मनः || C. ||
\ENM2.224a/ धर्मार्थावुच्यते श्रेयः कामार्थौ धर्म एव च |
\ENM2.224c/ अर्थ एवैह वा श्रेयस्त्रिवर्ग इति तु स्थितिः || C. ||
\ENM2.225a/ आचार्यश्च पिता चैव माता भ्राता च पूर्वजः |
\ENM2.225c/ नार्तेनाप्यवमन्तव्या ब्राह्मणेन विशेषतः || C. ||
\ENM2.226a/ आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः |
\ENM2.226c/ माता पृथिव्या मूर्तिस्तु भ्राता स्वो मूर्तिरात्मनः || C. ||
\ENM2.227a/ यं मातापितरौ क्लेशं सहेते संभवे नृणाम् |
\ENM2.227c/ न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि || C. ||
\ENM2.228a/ तयोर्नित्यं प्रियं कुर्यादाचार्यस्य च सर्वदा |
\ENM2.228c/ तेष्वेव त्रिषु तुष्टेषु तपः सर्वं समाप्यते || C. ||
\ENM2.229a/ तेषां त्रयाणां शुश्रूषा परमं तप उच्यते |
\ENM2.229c/ न तैरनभ्यनुज्ञातो धर्ममन्यं समाचरेत् || C. ||
\ENM2.230a/ त एव हि त्रयो लोकास्त एव त्रय आश्रमाः |
\ENM2.230c/ त एव हि त्रयो वेदास्त एवौक्तास्त्रयोऽग्नयः || C. ||
\ENM2.231a/ पिता वै गार्हपत्योऽग्निर्माताऽग्निर्दक्षिणः स्मृतः |
\ENM2.231c/ गुरुराहवनीयस्तु साऽग्नित्रेता गरीयसी || C. ||
\ENM2.232a/ त्रिष्वप्रमाद्यन्नेतेषु त्रीन् लोकान् विजयेद् गृही |
\ENM2.232c/ दीप्यमानः स्ववपुषा देववद् दिवि मोदते || C. ||
\ENM2.233a/ इमं लोकं मातृभक्त्या पितृभक्त्या तु मध्यमम् |
\ENM2.233c/ गुरुशुश्रूषया त्वेवं ब्रह्मलोकं समश्नुते || C. ||
\ENM2.234a/ सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः |
\ENM2.234c/ अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः || C. ||
\ENM2.235a/ यावत् त्रयस्ते जीवेयुस्तावत्नान्यं समाचरेत् |
\ENM2.235c/ तेष्वेव नित्यं शुश्रूषां कुर्यात् प्रियहिते रतः || C. ||
\ENM2.236a/ तेषामनुपरोधेन पारत्र्यं यद् यदाचरेत् |
\ENM2.236c/ तत् तन्निवेदयेत् तेभ्यो मनोवचनकर्मभिः || C. ||
\ENM2.237a/ त्रिष्वेतेष्वितिकृत्यं हि पुरुषस्य समाप्यते |
\ENM2.237c/ एष धर्मः परः साक्षादुपधर्मोऽन्य उच्यते || C. ||
\ENM2.238a/ श्रद्दधानः शुभां विद्यामाददीतावरादपि |
\ENM2.238c/ अन्यादपि परं धर्मं स्त्रीरत्नं दुष्कुलादपि || C. ||
\ENM2.239a/ विषादप्यमृतं ग्राह्यं बालादपि सुभाषितम् |
\ENM2.239c/ अमित्रादपि सद्वृत्तममेध्यादपि काञ्चनम् || C. ||
\ENM2.240a/ स्त्रियो रत्नान्यथो विद्या धर्मः शौचं सुभाषितम् |
\ENM2.240c/ विविधानि च शिल्पानि समादेयानि सर्वतः || C. ||
\ENM2.241a/ अब्राह्मणादध्यायनमापत्काले विधीयते |
\ENM2.241c/ अनुव्रज्या च शुश्रूषा यावदध्यायनं गुरोः || C. ||
\ENM2.242a/ नाब्राह्मणे गुरौ शिष्यो वासमात्यन्तिकं वसेत् |
\ENM2.242c/ ब्राह्मणे वाऽननूचाने काङ्क्षन् गतिमनुत्तमाम् || C. ||
\ENM2.243a/ यदि त्वात्यन्तिकं वासं रोचयेत गुरोः कुले |
\ENM2.243c/ युक्तः परिचरेदेनमा शरीरविमोक्षणात् || C. ||
\ENM2.244a/ आ समाप्तेः शरीरस्य यस्तु शुश्रूषते गुरुम् |
\ENM2.244c/ स गच्छत्यञ्जसा विप्रो ब्रह्मणः सद्म शाश्वतम् || C. ||
\ENM2.245a/ न पूर्वं गुरवे किं चिदुपकुर्वीत धर्मवित् |
\ENM2.245c/ स्नास्यंस्तु गुरुणाऽज्ञप्तः शक्त्या गुर्व्र्थमाहरेत् || C. ||
\ENM2.246a/ क्षेत्रं हिरण्यं गामश्वं छत्रौपानहमासनम् | %[M.chhatropaanahamantataH]

\ENM2.246c/ धान्यं शाकं च वासांसि गुरवे प्रीतिमावहेत् || C. || %[M.dhaanyaM vaasaa.nsi shaakaM vaa gurave priitimaaharan##) ##]

\ENM2.247a/ आचार्ये तु खलु प्रेते गुरुपुत्रे गुणान्विते |
\ENM2.247c/ गुरुदारे सपिण्डे वा गुरुवद् वृत्तिमाचरेत् || C. ||
\ENM2.248a/ एतेष्वविद्यमानेषु स्थानासनविहारवान् |
\ENM2.248c/ प्रयुञ्जानोऽग्निशुश्रूषां साधयेद् देहमात्मनः || C. ||
\ENM2.249a/ एवं चरति यो विप्रो ब्रह्मचर्यमविप्लुतः |
\ENM2.249c/ स गच्छत्युत्तमस्थानं न चैह जायते पुनः || C. ||
\separate
अध्याय ३

\ENM3.01a/ षट् त्रिंशदाब्दिकं चर्यं गुरौ त्रैवेदिकं व्रतम् |
\ENM3.01c/ तदर्धिकं पादिकं वा ग्रहणान्तिकमेव वा || C. ||
\ENM3.02a/ वेदानधीत्य वेदौ वा वेदं वाऽपि यथाक्रमम् |
\ENM3.02c/ अविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेत् || C. ||
\ENM3.03a/ तं प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः |
\ENM3.03c/ स्रग्विणं तल्प आसीनमर्हयेत् प्रथमं गवा || C. ||
\ENM3.04a/ गुरुणानुमतः स्नात्वा समावृत्तो यथाविधि |
\ENM3.04c/ उद्वहेत द्विजो भार्यां सवर्णां लक्षणान्विताम् || C. ||
\ENM3.05a/ असपिण्डा च या मातुरसगोत्रा च या पितुः |
\ENM3.05c/ सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने || C. || %[M.amaithinii]

\ENM3.06a/ महान्त्यपि समृद्धानि गोऽजाविधनधान्यतः |
\ENM3.06c/ स्त्रीसंबन्धे दशैतानि कुलानि परिवर्जयेत् || C. ||
\ENM3.07a/ हीनक्रियं निश्पुरुषं निश्छन्दो रोमशार्शसम् ? ? |
\ENM3.07c/ क्षयामयाव्य्ऽपस्मारिश्वित्रिकुष्ठिकुलानि च ? ? || C. ||
\ENM3.08a/ नोद्वहेत् कपिलां कन्यां नाधिकाङ्गीं न रोगिणीम् |
\ENM3.08c/ नालोमिकां नातिलोमां न वाचाटां न पिङ्गलाम् || C. || %[M.vaachaalaaM ]

\ENM3.09a/ नऋक्षवृक्षनदीनाम्नीं नान्त्यपर्वतनामिकाम् |
\ENM3.09c/ न पक्ष्यहिप्रेष्यनाम्नीं न च भीषणनामिकाम् || C. ||
\ENM3.10a/ अव्यङ्गाङ्गीं सौम्यनाम्नीं हंसवारणगामिनीम् |
\ENM3.10c/ तनुलोमकेशदशनां मृद्वङ्गीमुद्वहेत् स्त्रियम् || C. ||
\ENM3.11a/ यस्यास्तु न भवेद् भ्राता न विज्ञायेत वा पिता | %[M.vai##( ##vaa pitaa]

\ENM3.11c/ नौपयच्छेत तां प्राज्ञः पुत्रिकाऽधर्मशङ्कया || C. ||
\ENM3.12a/ सवर्णाऽग्रे द्विजातीनां प्रशस्ता दारकर्मणि |
\ENM3.12c/ कामतस्तु प्रवृत्तानामिमाः स्युः क्रमशोऽवराः || C. ||
\ENM3.13a/ शूद्रैव भार्या शूद्रस्य सा च स्वा च विशः स्मृते |
\ENM3.13c/ ते च स्वा चैव राज्ञश्च ताश्च स्वा चाग्रजन्मनः || C. ||
\ENM3.14a/ न ब्राह्मणक्षत्रिययोरापद्यपि हि तिष्ठतोः |
\ENM3.14c/ कस्मिंश्चिदपि वृत्तान्ते शूद्रा भार्यौपदिश्यते || C. ||
\ENM3.15a/ हीनजातिस्त्रियं मोहादुद्वहन्तो द्विजातयः |
\ENM3.15c/ कुलान्येव नयन्त्याशु ससन्तानानि शूद्रताम् || C. ||
\ENM3.16a/ शूद्रावेदी पतत्यत्रेरुतथ्यतनयस्य च |
\ENM3.16c/ शौनकस्य सुतोत्पत्त्या तदपत्यतया भृगोः || C. ||
\ENM3.17a/ शूद्रां शयनमारोप्य ब्राह्मणो यात्यधोगतिम् |
\ENM3.17c/ जनयित्वा सुतं तस्यां ब्राह्मण्यादेव हीयते || C. ||
\ENM3.18a/ दैवपित्र्यातिथेयानि तत्प्रधानानि यस्य तु |
\ENM3.18c/ नाश्नन्ति पितृदेवास्तन्न च स्वर्गं स गच्छति || C. ||
\ENM3.19a/ वृषलीफेनपीतस्य निःश्वासोपहतस्य च |
\ENM3.19c/ तस्यां चैव प्रसूतस्य निष्कृतिर्न विधीयते || C. ||
\ENM3.20a/ चतुर्णामपि वर्णानं प्रेत्य चैह हिताहितान् |
\ENM3.20c/ अष्टाविमान् समासेन स्त्रीविवाहान्निबोधत || C. ||
\ENM3.21a/ ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथाऽसुरः |
\ENM3.21c/ गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमोऽधमः || C. ||
\ENM3.22a/ यो यस्य धर्म्यो वर्णस्य गुणदोषौ च यस्य यौ |
\ENM3.22c/ तद् वः सर्वं प्रवक्ष्यामि प्रसवे च गुणागुणान् || C. ||
\ENM3.23a/ षडानुपूर्व्या विप्रस्य क्षत्रस्य चतुरोऽवरान् |
\ENM3.23c/ विश्.शूद्रयोस्तु तानेव विद्याद् धर्म्यानराक्षसान् || C. || %[M.dharmyaanna raakShasaan]

\ENM3.24a/ चतुरो ब्राह्मणस्याद्यान् प्रशस्तान् कवयो विदुः |
\ENM3.24c/ राक्षसं क्षत्रियस्यैकमासुरं वैश्यशूद्रयोः || C. ||
\ENM3.25a/ पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ स्मृताविह |
\ENM3.25c/ पैशाचश्चासुरश्चैव न कर्तव्यौ कदा चन || C. ||
\ENM3.26a/ पृथक् पृथग् वा मिश्रौ वा विवाहौ पूर्वचोदितौ |
\ENM3.26c/ गान्धर्वो राक्षसश्चैव धर्म्यौ क्षत्रस्य तौ स्मृतौ || C. ||
\ENM3.27a/ आच्छाद्य चार्चयित्वा च श्रुतशीलवते स्वयम् |
\ENM3.27c/ आहूय दानं कन्याया ब्राह्मो धर्मः प्रकीर्तितः || C. ||
\ENM3.28a/ यज्ञे तु वितते सम्यग् ऋत्विजे कर्म कुर्वते |
\ENM3.28c/ अलङ्कृत्य सुतादानं दैवं धर्मं प्रचक्षते || C. ||
\ENM3.29a/ एकं गोमिथुनं द्वे वा वरादादाय धर्मतः |
\ENM3.29c/ कन्याप्रदानं विधिवदार्षो धर्मः स उच्यते || C. ||
\ENM3.30a/ सहौभौ चरतां धर्ममिति वाचाऽनुभाष्य च |
\ENM3.30c/ कन्याप्रदानमभ्यर्च्य प्राजापत्यो विधिः स्मृतः || C. ||
\ENM3.31a/ ज्ञातिभ्यो द्रविणं दत्त्वा कन्यायै चैव शक्तितः |
\ENM3.31c/ कन्याप्रदानं स्वाच्छन्द्यादासुरो धर्म उच्यते || C. ||
\ENM3.32a/ इच्छयाऽन्योन्यसंयोगः कन्यायाश्च वरस्य च |
\ENM3.32c/ गान्धर्वः स तु विज्ञेयो मैथुन्यः कामसंभवः || C. ||
\ENM3.33a/ हत्वा छित्त्वा च भित्त्वा च क्रोशन्तीं रुदतीं गृहात् |
\ENM3.33c/ प्रसह्य कन्याहरणं राक्षसो विधिरुच्यते || C. ||
\ENM3.34a/ सुप्तां मत्तां प्रमत्तां वा रहो यत्रोपगच्छति |
\ENM3.34c/ स पापिष्ठो विवाहानां पैशाचश्चाष्टमोऽधमः || C. || %[M.paishaachaH prathito.adhamaH]

\ENM3.35a/ अद्भिरेव द्विजाग्र्याणां कन्यादानं विशिष्यते |
\ENM3.35c/ इतरेषां तु वर्णानामितरेतरकाम्यया || C. ||
\ENM3.36a/ यो यस्यैषां विवाहानां मनुना कीर्तितो गुणः |
\ENM3.36c/ सर्वं शृणुत तं विप्राः सर्वं कीर्तयतो मम || C. || %[M.samyak.h kiirtayato]

\ENM3.37a/ दश पूर्वान् परान् वंश्यानात्मानं चैकविंशकम् |
\ENM3.37c/ ब्राह्मीपुत्रः सुकृतकृत्मोचयत्येनसः पितॄन् || C. ||
\ENM3.38a/ दैवौढाजः सुतश्चैव सप्त सप्त परावरान् |
\ENM3.38c/ आर्षौढाजः सुतस्त्रींस्त्रीन् षट् षट् कायौढजः सुतः || C. ||
\ENM3.39a/ ब्राह्मादिषु विवाहेषु चतुर्ष्वेवानुपूर्वशः |
\ENM3.39c/ ब्रह्मवर्चस्विनः पुत्रा जायन्ते शिष्टसम्मताः || C. || %[M.brahmavarchasinaH]

\ENM3.40a/ रूपसत्त्वगुणोपेता धनवन्तो यशस्विनः |
\ENM3.40c/ पर्याप्तभोगा धर्मिष्ठा जीवन्ति च शतं समाः || C. ||
\ENM3.41a/ इतरेषु तु शिष्टेषु नृशंसाऽनृतवादिनः |
\ENM3.41c/ जायन्ते दुर्विवाहेषु ब्रह्मधर्मद्विषः सुताः || C. ||
\ENM3.42a/ अनिन्दितैः स्त्रीविवाहैरनिन्द्या भवति प्रजा |
\ENM3.42c/ निन्दितैर्निन्दिता नॄणां तस्मान्निन्द्यान् विवर्जयेत् || C. ||
\ENM3.43a/ पाणिग्रहणसंस्कारः सवर्णासूपदिश्यते |
\ENM3.43c/ असवर्णास्वयं ज्ञेयो विधिरुद्वाहकर्मणि || C. ||
\ENM3.44a/ शरः क्षत्रियया ग्राह्यः प्रतोदो वैश्यकन्यया |
\ENM3.44c/ वसनस्य दशा ग्राह्या शूद्रयोत्कृष्टवेदने || C. ||
\ENM3.45a/ ऋतुकालाभिगामी स्यात् स्वदारनिरतः सदा |
\ENM3.45c/ पर्ववर्जं व्रजेच्चैनां तद्व्रतो रतिकाम्यया || C. ||
\ENM3.46a/ ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः |
\ENM3.46c/ चतुर्भिरितरैः सार्धमहोभिः सद्विगर्हितैः || C. ||
\ENM3.47a/ तासामाद्याश्चतस्रस्तु निन्दितैकादशी च या |
\ENM3.47c/ त्रयोदशी च शेषास्तु प्रशस्ता दशरात्रयः || C. ||
\ENM3.48a/ युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु |
\ENM3.48c/ तस्माद् युग्मासु पुत्रार्थी संविशेदार्तवे स्त्रियम् || C. ||
\ENM3.49a/ पुमान् पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियाः |
\ENM3.49c/ समेऽपुमान् पुं.स्त्रियौ वा क्षीणेऽल्पे च विपर्ययः || C. ||
\ENM3.50a/ निन्द्यास्वष्टासु चान्यासु स्त्रियो रात्रिषु वर्जयन् |
\ENM3.50c/ ब्रह्मचार्येव भवति यत्र तत्राश्रमे वसन् || C. ||
\ENM3.51a/ न कन्यायाः पिता विद्वान् गृह्णीयात् शुल्कमण्वपि |
\ENM3.51c/ गृह्णंशुल्कं हि लोभेन स्यान्नरोऽपत्यविक्रयी ? ? || C. ||
\ENM3.52a/ स्त्रीधनानि तु ये मोहादुपजीवन्ति बान्धवाः |
\ENM3.52c/ नारीयानानि वस्त्रं वा ते पापा यान्त्यधोगतिम् || C. ||
\ENM3.53a/ आर्षे गोमिथुनं शुल्कं के चिदाहुर्मृषैव तत् |
\ENM3.53c/ अल्पोऽप्येवं महान् वाऽपि विक्रयस्तावदेव सः || C. || %[M.taavaaneva sa vikrayaH]

\ENM3.54a/ यासां नाददते शुल्कं ज्ञातयो न स विक्रयः |
\ENM3.54c/ अर्हणं तत् कुमारीणामानृशंस्यं च केवलम् || C. || %[M.na kevalam]

\ENM3.55a/ पितृभिर्भ्रातृभिश्चैताः पतिभिर्देवरैस्तथा |
\ENM3.55c/ पूज्या भूषयितव्याश्च बहुकल्याणमीप्सुभिः || C. ||
\ENM3.56a/ यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः |
\ENM3.56c/ यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः || C. ||

\ENM3.57a/ शोचन्ति जामयो यत्र विनश्यत्याशु तत् कुलम् | %[notin.h M]

\ENM3.57c/ न शोचन्ति तु यत्रैता वर्धते तद् हि सर्वदा || C. || %[notin.h M]

\ENM3.58a/ जामयो यानि गेहानि शपन्त्यप्रतिपूजिताः || C. || %[notin.h M]

\ENM3.58c/ तानि कृत्याहतानीव विनश्यन्ति समन्ततः || C. || %[notin.h M]

\ENM3.59a/ तस्मादेताः सदा पूज्या भूषणाच्छादनाशनैः | %[notin.h M]

\ENM3.59c/ भूतिकामैर्नरैर्नित्यं सत्कारेषूत्सवेषु च | %[notin.h M] |

\ENM3.60a/ संतुष्टो भार्यया भर्ता भर्त्रा भार्या तथैव च | %[notin.h M]

\ENM3.60c/ यस्मिन्नेव कुले नित्यं कल्याणं तत्र वै ध्रुवम् || C. || %[notin.h M]

\ENM3.61a/ यदि हि स्त्री न रोचेत पुमांसं न प्रमोदयेत् | %[notin.h M]

\ENM3.61c/ अप्रमोदात् पुनः पुंसः प्रजनं न प्रवर्तते || C. || %[notin.h M]

\ENM3.62a/ स्त्रियां तु रोचमानायां सर्वं तद् रोचते कुलम् | %[notin.h M]

\ENM3.62c/ तस्यां त्वरोचमानायां सर्वमेव न रोचते || C. || %[notin.h M]

\ENM3.63a/ कुविवाहैः क्रियालोपैर्वेदानध्ययनेन च | %[notin.h M]

\ENM3.63c/ कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च || C. || %[notin.h M]

\ENM3.64a/ शिल्पेन व्यवहारेण शूद्रापत्यैश्च केवलैः | %[notin.h M]

\ENM3.64c/ गोभिरश्वैश्च यानैश्च कृष्या राजोपसेवया || C. || %[notin.h M]

\ENM3.65a/ अयाज्ययाजनैश्चैव नास्तिक्येन च कर्मणाम् | %[notin.h M]

\ENM3.65c/ कुलान्याशु विनश्यन्ति यानि हीनानि मन्त्रतः || C. || %[notin.h M]

\ENM3.66a/ मन्त्रतस्तु समृद्धानि कुलान्यल्पधनान्यपि | %[notin.h M]

\ENM3.66c/ कुलसङ्ख्यां च गच्छन्ति कर्षन्ति च महद् यशः || C. || %[notin.h M]


\ENM3.67a[५७ंअ]/ वैवाहिकेऽग्नौ कुर्वीत गृह्यं कर्म यथाविधि |
\ENM3.67c[५७ंच्]/ पञ्चयज्ञविधानं च पक्तिं चान्वाहिकीं गृही || C. ||
\ENM3.68a[५८ंअ]/ पञ्च सूना गृहस्थस्य चुल्ली पेषण्युपस्करः |
\ENM3.68c[५८ंच्]/ कण्डनी चौदकुम्भश्च बध्यते यास्तु वाहयन् || C. || %[M.vadhyate]

\ENM3.69a[५९ंअ]/ तासां क्रमेण सर्वासां निष्कृत्यर्थं महर्षिभिः |
\ENM3.69c[५९ंच्]/ पञ्च कॢप्ता महायज्ञाः प्रत्यहं गृहमेधिनाम् || C. ||
\ENM3.70a[६०ंअ]/ अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् |
\ENM3.70c[६०ंच्]/ होमो दैवो बलिर्भौतो नृयज्ञोऽतिथिपूजनम् || C. ||
\ENM3.71a[६१ंअ]/ पञ्चैतान् यो महाऽयज्ञान्न हापयति शक्तितः |
\ENM3.71c[६१ंच्]/ स गृहेऽपि वसन्नित्यं सूनादोषैर्न लिप्यते || C. ||
\ENM3.72a[६२ंअ]/ देवताऽतिथिभृत्यानां पितॄणामात्मनश्च यः |
\ENM3.72c[६२ंच्]/ न निर्वपति पञ्चानामुच्छ्वसन्न स जीवति || C. ||
\ENM3.73a[६३ंअ]/ अहुतं च हुतं चैव तथा प्रहुतमेव च |
\ENM3.73c[६३ंच्]/ ब्राह्म्यं हुतं प्राशितं च पञ्चयज्ञान् प्रचक्षते ? || C. ||
\ENM3.74a[६४ंअ]/ जपोऽहुतो हुतो होमः प्रहुतो भौतिको बलिः |
\ENM3.74c[६४ंच्]/ ब्राह्म्यं हुतं द्विजाग्र्यार्चा प्राशितं पितृतर्पणम् ? || C. ||
\ENM3.75a[६५ंअ]/ स्वाध्याये नित्ययुक्तः स्याद् दैवे चैवैह कर्मणि |
\ENM3.75c[६५ंच्]/ दैवकर्मणि युक्तो हि बिभर्तीदं चराचरम् || C. ||
\ENM3.76a[६६ंअ]/ अग्नौ प्रास्ताऽहुतिः सम्यगादित्यमुपतिष्ठते |
\ENM3.76c[६६ंच्]/ आदित्याज् जायते वृष्तिर्वृष्टेरन्नं ततः प्रजाः || C. ||
\ENM3.77a[६७ंअ]/ यथा वायुं समाश्रित्य वर्तन्ते सर्वजन्तवः | %[M.sarve jiivanti jantavaH]

\ENM3.77c[६७ंच्]/ तथा गृहस्थमाश्रित्य  वर्तन्ते सर्व आश्रमाः || C. || %[M.vartanta itaraashramaH]

\ENM3.78a[६८ंअ]/ यस्मात् त्रयोऽप्याश्रमिणो ज्ञानेनान्नेन चान्वहम् |
\ENM3.78c[६८ंच्]/ गृहस्थेनैव धार्यन्ते तस्माज् ज्येष्ठाश्रमो गृही || C. || %[k:gR^ihaM ]

\ENM3.79a[६९ंअ]/ स संधार्यः प्रयत्नेन स्वर्गमक्षयमिच्छता |
\ENM3.79c[६९ंच्]/ सुखं चेहेच्छताऽत्यन्तं योऽधार्यो दुर्बलेन्द्रियैः || C. ||
\ENM3.80a[७०ंअ]/ ऋषयः पितरो देवा भूतान्यतिथयस्तथा |
\ENM3.80c[७०ंच्]/ आशासते कुटुम्बिभ्यस्तेभ्यः कार्यं विजानता || C. ||
\ENM3.81a[७१ंअ]/ स्वाध्यायेनार्चयेतऋषीन् होमैर्देवान् यथाविधि |
\ENM3.81c[७१ंच्]/ पितॄंश्राद्धैश्च नॄनन्नैर्भूतानि बलिकर्मणा || C. ||
\ENM3.82a[७२ंअ]/ कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन वा | %[M.dadyaadaharahaH ]

\ENM3.82c[७२ंच्]/ पयोमूलफलैर्वाऽपि पितृभ्यः प्रीतिमावहन् || C. ||
\ENM3.83a[७३ंअ]/ एकमप्याशयेद् विप्रं पित्र्यर्थे पाञ्चयज्ञिके | %[M.pitryarthaM]

\ENM3.83c[७३ंच्]/ न चैवात्राशयेत् किं चिद् वैश्वदेवं प्रति द्विजम् || C. ||
\ENM3.84a[७४ंअ]/ वैश्वदेवस्य सिद्धस्य गृह्येऽग्नौ विधिपूर्वकम् |
\ENM3.84c[७४ंच्]/ आभ्यः कुर्याद् देवताभ्यो ब्राह्मणो होममन्वहम् || C. ||
\ENM3.85a[७५ंअ]/ अग्नेः सोमस्य चैवादौ तयोश्चैव समस्तयोः |
\ENM3.85c[७५ंच्]/ विश्वेभ्यश्चैव देवेभ्यो धन्वन्तरय एव च || C. ||
\ENM3.86a[७६ंअ]/ कुह्वै चैवानुमत्यै च प्रजापतय एव च  |
\ENM3.86c[७६ंच्]/ सह द्यावापृथिव्योश्च तथा स्विष्टकृतेऽन्ततः || C. ||
\ENM3.87a[७७ंअ]/ एवं सम्यग् हविर्हुत्वा सर्वदिक्षु प्रदक्षिणम् |
\ENM3.87c[७७ंच्]/ इन्द्रान्तकाप्पतीन्दुभ्यः सानुगेभ्यो बलिं हरेत् ? ? || C. ||
\ENM3.88a[७८ंअ]/ मरुद्भ्य इति तु द्वारि क्षिपेदप्स्वद्भ्य इत्यपि ? ? |
\ENM3.88c[७८ंच्]/ वनस्पतिभ्य इत्येवं मुसलोलूखले हरेत