भिक्षुक उपनिषद्

From Wikisource

Jump to: navigation, search

.. भिक्षुकोपनिषत् || ६३ || ..

भिक्षूणां पटलं यत्र विश्रान्तिमगमत्सदा | तन्त्रैपदं ब्रह्मतत्त्वं ब्रह्ममात्रं करोतु माम् ||

ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते | पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते || ॐ शान्तिः शान्तिः शान्तिः ||

ॐ अथ भिक्षूणां मोक्षार्थिनां कुटीचकबहूदकहंसपरमहंसाश्वेति चत्वारः | कुटीचका नाम गौतमभरद्वाजयाज्ञवल्क्यवसिष्ट - प्रभृतयोऽष्टौ ग्रासांश्वरन्तो योगमार्गे मोक्षमेव प्रार्थयन्ते | अथ बहूदका नाम त्रिदण्डकमण्डलुशिखा - यज्ञोपवीतकाषायवस्त्रधारिणो ब्रह्मर्षिगृहे मधुमांसं वर्जयित्वाष्टौ ग्रासान्भैक्षाचरणं कृत्वा योगमार्गे मोक्षमेव प्रार्थयन्ते | अथ हंसा नाम ग्राम एकरात्रं नगरे पञ्चरात्रं क्षेत्रे सप्तरात्रं तदुपरि न वसेयुः | गोमूत्रगोमयाहारिणो नित्यं चान्द्रायणपरायणा योगमार्गे मोक्षमेव प्रार्थयन्ते | अथ परमहंसा नाम संवर्तकारुणिश्वेतकेतुजडभरत - दत्तात्रेयशुकवामदेवहारीतकप्रभृतयोऽष्टौ ग्रासांश्वरन्तो योगमार्गे मोक्षमेव प्रार्थयन्ते | वृक्षमूले शून्यगृहे श्मशानवासिनो वा साम्बरा वा दिगम्बरा वा | न तेषां धर्माधर्मौ लाभालाभौ शुद्धाशुद्धौ द्वैतवर्जिता समलोष्टाश्मकाञ्चनाः सर्ववर्णेषु भैक्षाचरणं कृत्वा सर्वत्रात्मैवेति पश्यन्ति | अथ जातरूपधरा निर्द्वन्द्वा निष्परिग्रहाः शुक्लध्यानपरायणा आत्मनिष्टाः प्राणसंधारणार्थे यथोक्तकाले भैक्षमाचरन्तः शून्यागारदेवगृह - तृणकूटवल्मीकवृक्षमूलकुलालशालाग्निहोत्रशालानदीपुलिन - गिरिकन्दरकुहरकोटरनिर्झरस्थण्डिले तत्र ब्रह्ममार्गे सम्यक्संपन्नाः शुद्धमानसाः परमहंसाचरणेन संन्यासेन देहत्यागं कुर्वन्ति ते परमहंसा नामेत्युपनिषत् ||

ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते | पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते || ॐ शान्तिः शान्तिः शान्तिः ||

इति भिक्षुकोपनिषत्समाप्ता ||

Personal tools