भावन उपनिषद्

From Wikisource

Jump to: navigation, search
.. भावोपनिषत् ..
.. अथ भावोपनिषत्..

ॐ भद्रं कर्णेभिः शृणुयाम देवाः | भद्रं पश्येमाक्षभिर्यजत्राः | स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः | व्यशेम देवहितं यदायुः | स्वस्ति न इन्द्रो वृद्धश्रवाः | स्वस्ति नः पूषा विश्ववेदाः | स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः | स्वस्ति नो बृहस्पतिर्दधातु | ॐ शान्तिः शान्तिः शान्तिः ||

आत्मानमखण्दमण्दलाकारमवृत्य सकलब्रह्मान्दमन्दलं स्वप्रकाशं ध्यायेत् | श्रीगुरुः सर्वकारणभूता शक्त्तिः || १|| तेन नवरन्ध्ररूपो देहः || २|| नवचक्ररूपं श्रीचक्रम् || ३|| वाराही पितृरूपा कुरुकुल्ला बलिदेवता माता || ४|| पुरुषार्थाः सागराः || ५|| देहो नवरत्नद्वीपः || ६|| त्वगादि सप्त्तधातुरोमसंयुक्त्तः || ७|| संकल्पाः कल्पतरवस्तेजः कल्पकोद्यानम् || ८|| रसनया भाव्यमाना मधुराम्लतिक्त्तकटुकषायलवणरसाः षडृतवः || ९|| ज्ञानमर्ध्यम् ज्ञेयम् हविर्ज्ञाता होता ज्ञातृज्ञानज्ञेयानामभेदभवनम् श्रीचक्रपूजनम् || १०|| नियतिः श्रृङ्गारादयो रसा अणिमादयः || ११|| कामक्रोधलोभमोहमदमात्सर्यपुण्यपापमया ब्राह्म्याद्ययषटशक्त्तयः || १२|| आधरनवकम् मुद्राशक्त्तयः || १३|| पृथिव्यप्तेजोवाइवाकाशाश्रोत्रत्वक्चक्षुर्जिह्वघ्राण- वाक्पाणिपादपायूपस्थानि मनोविकाराः कामाकर्षिण्यादि षोदश शक्त्तयः || १४|| वचनादानागमनविसर्गानन्दहानोपादानोपेक्षाख्य- भुद्धयोऽनङ्गकुसुमाद्यष्टौ || १५|| अलम्बुसा कुहुर्विश्वोदरा वारणा हस्तिजिह्वा यशोवती पयस्विनी गान्धारी पूषा शङ्खिनी सरस्वतीडा पिङ्गला सुषुम्ना चेति चतुर्दश नाड्यः सर्वसंक्ष्होभिण्यदि चतुर्दशशक्त्तयः || १६|| प्राणापानव्यानोदानसमाननागकूर्मकृकरदेवदत्तधनंजया दशवायवः सर्वसिद्धिप्रदादिबहिर्दशारदेवताः || १७|| एतद्वायुसंसर्गकोपाधिभेधेन रेचकः पाचकः शोषको दाहकः प्लावक इति प्राणमुख्यवेन पंचधा जठराग्निर्भवति|| १८|| क्षारक उद्धारकः क्षोभको जृंभको मोहक इति नागप्राधान्येन पंचबिधास्ते मनुष्याणां देहगा भक्ष्ह्यभोज्यशोष्यलेह्यपेयात्मकपञ्चविधमन्नं पाचयन्ति|| १९||

एता दशवह्निकलाः सर्वज्ञाद्या अन्तर्दशारदेवताः || २०|| शीतोष्णासुखदुःखेच्छाः सत्त्वं रजस्तमो वशिन्यादिशक्त्थयोअष्तौ || २१|| शब्दादि तन्मात्त्राः पंचपुष्पबाणाः || २२|| मन इक्ष्हुधनुः || २३|| रागः पाशः || २४|| द्वेषोऽङ्कुशः || २५|| अव्यक्त्त महदहंकाराः कामेक्ष्वरी वज्रेश्वरी भगमालिन्योऽन्तस्त्त्रिकोणगा देवताः || २६|| निरुपाधिकसंविदेव कामेश्वर || २७|| सदानन्दपूर्ण स्वात्मेव परदेवता ललिता || २८|| लौहित्यमेतस्य सर्वस्य विमर्श || २९|| अनन्यचित्तत्वेन च सिद्धिः || ३०|| भावनायाः क्रिया उपचरः || ३१|| अहं त्वमस्ति नास्ति कर्तव्यमकर्तव्यमुपासितव्यमिति विकल्पानामात्मनि विलापनम् होमः || ३२|| भवनाविषयाणामभेदभवना तर्पणम् || ३३|| पंचदशतिथिरूपेण कालस्य परिणामावलोकनम् || ३४|| एवम्ं मुहूर्तत्त्रितयं मुहूर्तद्वितयं मुहूर्तमात्त्रं वा भावनापरो जीवन्मुक्त्तो भवति स एव शिवयोगीति गद्यते|| ३५|| आदिमतेनान्तश्चक्रभावनाः प्रतिपादिताः || ३६|| य एवं वेद सोऽथर्वशिरोऽधीते || ३७|| इत्युपनिषत् ||

ॐ भद्रं कर्णेभिः शृणुयाम देवाः | भद्रं पश्येमाक्षभिर्यजत्राः| स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः | व्यशेम देवहितं यदायुः | स्वस्ति न इन्द्रो वृद्धश्रवाः | स्वस्ति नः पूषा विश्ववेदाः| स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः | स्वस्ति नो बृहस्पतिर्दधातु| ॐ शान्तिः शान्तिः शान्तिः ||

|| इति भावोपनिषत् ||

Personal tools