ब्रह्म उपनिषद्
From Wikisource
॥ ब्रह्म ॥
ॐ शौनको ह चै महाशालोऽङ्गिरसं भगवन्तं पिप्पलादमपृच्छत् । दिव्ये ब्रह्मपुरे संप्रतिष्टिता भवन्ति कथं सृजन्ति कस्यैष महिमा बभूव यो ह्मषे महिमा बभूव क एषः । तस्मै स होवाच ब्रह्मविद्यं वरिष्ठाम् । प्राणो ह्यषे आत्मा । आत्मनो महिमा बभुव देवानामायुः स देवानां निधनमनिधनं दिव्ये ब्रह्मपुरे विरजं निष्कलं शुभ्रमक्षरं यद्ब्रह्म विभाति स नियच्छति मघुकरराजानं माक्षिकवदिति । यथा माक्षीकैकेन तन्तुना जालं वक्षिपति तेनापकर्षति तथैवैष प्राणो यदा याति संसृष्टमाकृष्य । प्राणदेवतास्ताः सर्वा नाड्यः । सुष्वपे श्येनाकाशवद्यथा खं श्येनमाश्रित्य याति स्वमालयमेवं सुषुप्तो ब्रूते यथैवैष देवदत्तो यष्ट्याऽपि ताड्यमानो न यत्येवमिष्टापूर्तैः शुभाशुभैर्न लिप्यते । यथा कुमारो निष्काम आनन्दमुपयाति तथैवैष देवदत्तः स्वप्न आनन्दमभियाति . वेद एव परं ज्योतिः ज्योतिष्कामो ज्योतिरानन्दयते । भूयस्तेनैव स्वप्नाय गच्छति जलौकावत् । यथा जलौकाऽग्रमग्रं नयत्यात्मानं नयति परं संधय । यत्परं नापरं त्यजति स जाग्रदभिधियते । यथैवैष कपालाष्टकं संनयति । तमेव स्तन इव लम्बते वेददेवयोनः । यत्र जाग्रति शुभाशुभं निरुक्तमस्य देवस्य स संप्रसारोऽन्थर्यामी खगः कर्कटकः पुष्करः पुरुषः ग्राणो हिंसा परापरं ब्रह्म आत्मा देवता वेदयति . य एवं वेद स परं ब्रह्म धं क्षेत्रज्ञमुपैति ॥ १ ॥ अथास्य पुरुषस्य चत्वारि स्थानानि भवन्ति नाभिर्हृदयं कण्ठं भूर्धेति । तत्र चतुष्पादं ब्रह्म विभाति । जागरितं स्वप्नं सुषुप्तं तुरीयमिति । जागरिते ब्रह्मा स्वप्ने विष्णुः सुषुप्तौ रुद्रस्तुरीयं परमाक्षरं आदित्यश्च विष्णुश्चेश्वरश्च स पुरुषः स प्राणः स जीवः सोऽग्निः सेश्वरश्च जाग्रत्तेषं मध्ये यत्परं ब्रह्म विभाति । स्वयममनस्कमश्रोत्रमपाणिपादं ज्योतिर्वर्जितं न तत्र लोका न लोका वेदा न वेदा देवा न देवा यज्ञा न यज्ञ माता न माता पिता न पिता स्नुष न स्नुष चाण्डालो न चाण्डालः पैल्कसो न पैल्कसः श्रमणो न श्रमणः पशवो न पशवस्तापसो न तापस इत्येकमेव परं ब्रह्म विभाति । हृद्याकाशे तद्विज्ञानमाकाशं तत्सुषिरमाकाशं तद्वेद्यं हृद्याकाशं यस्मिन्निदं संचरति वचरति यस्मिन्निदं सर्वमोतं प्रोतं । सं विभोः प्रजा ज्ञायेरन् । न तत्र देवा ऋषयः पितर रिशते प्रतिबुद्धः सर्वविदिति ॥ २ ॥ हृदिस्था देवथाः सर्वा हृदि प्राणाः प्रतिष्ठिताः । हृदि प्राणश्च ज्योतिश्च त्रिवृत्सूत्रं च यन्महत् ॥ हृदि चैतन्ये तिष्ठति यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् । आयुष्यमग्रपं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥ सशिखं वपनं कृत्वा बहिःसूत्रं त्यजेद्बुधः । यदक्षरं परं ब्रह्म तत्सूत्रमिति धारयेत् ॥ सूचनात्सूत्रमित्याहुः सूत्रं नाम परं पदम् । तत्सूत्रं विदितं येन स विप्रो वेदपारगः ॥ तेन सर्वमिदं प्रोतं सूत्रे मणिगणा इव । तत्सूत्रं धारयेद्योगी योगवित्तत्त्वदर्शिवान् ॥ बहिःसूत्रं त्यजेद्विद्वान्योगमुत्तममास्थितः । ब्रह्मभावमयं सूत्रं धारयेद्यः स चेतनः ॥ धारणात्तस्य सूत्रस्य नोच्छिष्ठो नाशुचिर्भवेत् । सूत्रमन्तर्गतं येषां ज्ञानयज्ञोपवीतिनाम् ॥ ते चै सूत्रविदो लोके ते च यज्ञोपवीतिनः । ज्ञानशिखिनो ज्ञाननिष्ठा ज्ञानयज्ञोपवीतिहः ॥ ज्ञानमेव परं तेषां पवित्रं ज्ञानमुत्तमम् । अग्नेरिव शिखा नान्या यस्य ज्ञानमयी शिखा ॥ स शिखीत्युच्यते विद्वानितरे केशधारिणः ॥ ३ ॥ कर्मण्यधिकृता ये तु वैदिके ब्राह्मणादयः । तैः संधार्यमिद सूत्रं क्रियाङ्गं तद्धि वै स्मृतम् ॥ शिखा ज्ञानमयी यस्य उपवीतं च तन्मयम् । ब्राह्मण्यं सकलं तस्य इति ब्रह्मविदो विदुः ॥ इदं यज्ञोपवीतं तु पवित्रं यत्परायणम् । स विद्वान्यज्ञोपवीती स्यात्स यज्ञः स च यज्ञवित् ॥ एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च ॥ एको मनीषी निष्कियाणां बहूनामेकं सन्तं बहुधा यः करोति । तमात्मानं येऽनुपष्यन्ति धीरास्तेषं शान्तिः शाश्वती नेतरेषाम् ॥ आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् । ध्याननोर्मथनाभ्यासाद्देवं पश्येन्निगूढवत् ॥ तिलेषु तैलं दधिनीव सर्पिरापः स्त्रोतःस्वरणीषु चान्निः । एवमात्माऽऽत्मनि गृह्मतेऽसौ सत्येनैनं तपसा योऽनुपश्यति ॥ ऊर्णनाभिर्यथा तन्तून्सृजते संहरत्यपि । जाग्रत्स्वप्ने तथा जीवो गच्छत्यागच्छते पुनः ॥ पद्मकोशप्रतीकाशं सुषिरं चाप्यधोमुखम् । हृदयं तद्विजानीयाद्विश्वस्याऽऽयतनं महत् ॥ नेत्रस्थं जाग्रतं विद्यात्कण्ठे स्वप्नं विनिर्दिषेत् । सुषुप्तं हृदयस्थं तु तुरीयं मूर्ध्नि संस्थितम् ॥ यदात्मा प्रज्ञयाऽऽत्मानं संधत्ते परमात्मनि । तेन संध्या ध्यानमेव तस्मात्सन्ध्याभिवन्दनम् ॥ निरोदकाध्यानसंध्या वाक्कायक्लेशवर्जिता । संधिनी सर्वभूतानां सा संध्या ह्येकदण्डिनाम् ॥ यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । आन्नन्दमेतज्जीवस्य यं ज्ञात्वा मुच्यते बुधः ॥ सर्वव्यापिनमात्मानं क्षीरे सर्प्रिवार्पितम् । आत्मातपोमूलं तद्ब्रह्मोपनिषत्परम् । सर्वात्मैकत्वरीपेण तद्ब्रह्मोपनिषत्परमिति ॥ ४ ॥ इत्यथर्ववेदे ब्रह्मोपनिषत्समाप्ता ॥