ब्रह्मविद्या उपनिषद्

From Wikisource

Jump to: navigation, search

.. ब्रह्मविद्योपनिषत् ..

स्वाविद्यातत्कार्यजातं यद्विद्यापह्नवं गतम् .

तद्धंसविद्यानिष्पन्नं रामचन्द्रपदं भजे ..

ॐ सह नाववतु .. सह नौ भुनक्तु ..

सह वीर्यं करवावहै ..

तेजस्विनावधीतमस्तु मा विद्विषावहै ..

ॐ शान्तिः शान्तिः शान्तिः ..

अथ ब्रह्मविद्योपनिषदुच्यते ..

प्रसादाद्ब्रह्मणस्तस्य विष्णोरद्भुतकर्मणः .

रहस्यं ब्रह्मविद्याया ध्रुवाग्निं संप्रचक्षते .. १..

ॐइत्येकाक्षरं ब्रह्म यदुक्तं ब्रह्मवादिभिः .

शरीरं तस्य वक्ष्यामि स्थानं कालत्रयं तथा .. २..

तत्र देवास्त्रयः प्रोक्ता लोका वेदास्त्रयोऽग्नयः .

तिस्रो मात्रार्धमात्रा च त्र्यक्षरस्य शिवस्य तु .. ३..

ऋग्वेदो गार्हपत्यं च पृथिवी ब्रह्म एव च .

आकारस्य शरीरं तु व्याख्यातं ब्रह्मवादिभिः .. ४..

यजुर्वेदोऽन्तरिक्षं च दक्षिणाग्निस्तथैव च .

विष्णुश्च भगवान्देव उकारः परिकीर्तितः .. ५..

सामवेदस्तथा द्यौश्चाहवनीयस्तथैव च .

ईश्वरः परमो देवो मकारः परिकीर्तितः .. ६..

सूर्यमण्डलमध्येऽथ ह्यकारः शङ्खमध्यगः .

उकारश्चन्द्रसंकाशस्तस्य मध्ये व्यवस्थितः .. ७..

मकारस्त्वग्निसंकाशो विधूमो विद्युतोपमः .

तिस्रो मात्रास्तथा ज्ञेया सोमसूर्याग्निरूपिणः .. ८..

शिखा तु दीपसंकाशा तस्मिन्नुपरि वर्तते .

अर्धमात्र तथा ज्ञेया प्रणवस्योपरि स्थिता .. ९..

पद्मसूत्रनिभा सूक्ष्मा शिखा सा दृश्यते परा .

सा नाडी सूर्यसंकाशा सूर्यं भित्त्वा तथापरा .. १०..

द्विसप्ततिसहस्राणि नाडीं भित्त्वा च मूर्धनि .

वरदः सर्वभूतानां सर्वं व्याप्यावतिष्ठति .. ११..

कांस्यघण्टानिनादस्तु यथा लीयति शान्तये .

ओङ्कारस्तु तथा योज्यः शान्तये सर्वमिच्छता .. १२..

यस्मिन्विलीयते शब्दस्तत्परं ब्रह्म गीयते .

धियं हि लीयते ब्रह्म सोऽमृतत्वाय कल्पते .. १३..

वायुः प्राणस्तथाकाशस्त्रिविधो जीवसंज्ञकः .

स जीवः प्राण इत्युक्तो वालाग्रशतकल्पितः .. १४..

नाभिस्थाने स्थितं विश्वं शुद्धतत्त्वं सुनिर्मलम् .

आदित्यमिव दीप्यन्तं रश्मिभिश्चाखिलं शिवम् .. १५..

सकारं च हकारं च जीवो जपति सर्वदा .

नाभिरन्ध्राद्विनिष्क्रान्तं विषयव्याप्तिवर्जितम् .. १६..

तेनेदं निष्कलं विद्यात्क्षीरात्सर्पिर्यथा तथा .

कारणेनात्मना युक्तः प्राणायामैश्च पञ्चभिः .. १७..

चतुष्कला समायुक्तो भ्राम्यते च हृदिस्थितः .

गोलकस्तु यदा देहे क्षीरदण्डेन वा हतः .. १८..

एतस्मिन्वसते शीघ्रमविश्रान्तं महाखगः .

यावन्निश्वसितो जीवस्तावन्निष्कलतां गतः .. १९..

नभस्थं निष्कलं ध्यात्वा मुच्यते भवबन्धनात्

अनाहतध्वनियुतं हंसं यो वेद हृद्गतम् .. २०..

स्वप्रकाशचिदानन्दं स हंस इति गीयते .

रेचकं पूरकं मुक्त्वा कुम्भकेन स्थितः सुधीः .. २१..

नाभिकन्दे समौ कृत्वा प्राणापानौ समाहितः .

मस्तकस्थामृतास्वादं पीत्वा ध्यानेन सादरम् .. २२..

दीपाकारं महादेवं ज्वलन्तं नाभिमध्यमे .

अभिषिच्यामृतेनैव हंस हंसेति यो जपेत् .. २३..

जरामरणरोगादि न तस्य भुवि विद्यते .

एवं दिने दिने कुर्यादणिमादिविभूतये .. २४..

ईश्वरत्वमवाप्नोति सदाभ्यासरतः पुमान् .

बहवो नैकमार्गेण प्राप्ता नित्यत्वमागताः .. २५..

हंसविद्यामृते लोके नास्ति नित्यत्वसाधनम् .

यो ददाति महाविद्यां हंसाख्यां पारमेश्वरीम् .. २६..

तस्य दास्यं सदा कुर्यात्प्रज्ञया परया सह .

शुभं वाऽशुभमन्यद्वा यदुक्तं गुरुणा भुवि .. २७..

तत्कुर्यादविचारेण शिष्यः सन्तोषसंयुतः .

हंसविद्यामिमां लब्ध्वा गुरुशुश्रूषया नरः .. २८..

आत्मानमात्मना साक्षाद्ब्रह्म बुद्ध्वा सुनिश्चलम् .

देहजात्यादिसम्बन्धान्वर्णाश्रमसमन्वितान् .. २९..

वेदशास्त्राणि चान्यानि पदपांसुमिव त्यजेत् .

गुरुभक्तिं सदा कुर्याच्छ्रेयसे भूयसे नरः .. ३०..

गुरुरेव हरिः साक्षान्नान्य इत्यब्रवीच्छृतिः .. ३१..

श्रुत्या यदुक्तं परमार्थमेव

         तत्संशयो नात्र ततः समस्तम् .

श्रुत्या विरोधे न भवेत्प्रमाणं

         भवेदनर्थाय विना प्रमाणम् .. ३२..

देहस्थः सकलो ज्ञेयो निष्कलो देहवर्जितः .

आप्तोपदेशगम्योऽसौ सर्वतः समवस्थितः .. ३३..

हंसहंसेति यो ब्रूयाद्धंसो ब्रह्मा हरिः शिवः .

गुरुवक्त्रात्तु लभ्येत प्रत्यक्षं सर्वतोमुखम् .. ३४..

तिलेषु च यथा तैलं पुष्पे गन्ध इवाश्रितः .

पुरुषस्य शरीरेऽस्मिन्स बाह्याभ्यन्तरे तथा .. ३५..

उल्काहस्तो यथालोके द्रव्यमालोक्य तां त्यजेत् .

ज्ञानेन ज्ञेयमालोक्य पश्चाज्ज्ञानं परित्यजेत् .. ३६..

पुष्पवत्सकलं विद्याद्गन्धस्तस्य तु निष्कलः .

वृक्षस्तु सकलं विद्याच्छाया तस्य तु निष्कला .. ३७..

निष्कलः सकलो भावः सर्वत्रैव व्यवस्थितः .

उपायः सकलस्तद्वदुपेयश्चैव निष्कलः .. ३८..

सकले सकलो भावो निष्कले निष्कलस्तथा .

एकमात्रो द्विमात्रश्च त्रिमात्रश्चैव भेदतः .. ३९..

अर्धमात्र परा ज्ञेया तत ऊर्ध्वं परात्परम् .

पञ्चधा पञ्चदैवत्यं सकलं परिपठ्यते .. ४०..

ब्रह्मणो हृदयस्थानं कण्ठे विष्णुः समाश्रितः .

तालुमध्ये स्थितो रुद्रो ललाटस्थो महेश्वरः .. ४१..

नासाग्रे अच्युतं विद्यात्तस्यान्ते तु परं पदम् .

परत्वात्तु परं नास्तीत्येवं शास्त्रस्य निर्णयः .. ४२..

देहातीतं तु तं विद्यान्नासाग्रे द्वादशाङ्गुलम् .

तदन्तं तं विजानीयात्तत्रस्थो व्यापयेत्प्रभुः .. ४३..

मनोऽप्यन्यत्र निक्षिप्तं चक्षुरन्यत्र पातितम् .

तथापि योगिनां योगो ह्यविच्छिन्नः प्रवर्तते .. ४४..

एतत्तु परमं गुह्यमेतत्तु परमं शुभम् .

नातः परतरं किञ्चिन्नातः परतरं शुभम् .. ४५..

शुद्धज्ञानामृतं प्राप्य परमाक्षरनिर्णयम् .

गुह्याद्गुह्यतमं गोप्यं ग्रहणीयं प्रयत्नतः .. ४६..

नापुत्राय प्रदातव्यं नाशिष्याय कदाचन .

गुरुदेवाय भक्ताय नित्यं भक्तिपराय च .. ४७..

प्रदातव्यमिदं शास्त्रं नेतरेभ्यः प्रदापयेत् .

दातास्य नरकं याति सिद्ध्यते न कदाचन .. ४८..

गृहस्थो ब्रह्मचारी च वानप्रस्थश्च भिक्षुकः .

यत्र तत्र स्थितो ज्ञानी परमाक्षरवित्सदा .. ४९..

विषयी विषयासक्तो याति देहान्तरे शुभम् .

ज्ञानादेवास्य शास्त्रस्य सर्वावस्थोऽपि मानवः .. ५०..

ब्रह्महत्याश्वमेधाद्यैः पुण्यपापैर्न लिप्यते .

चोदको बोधकश्चैव मोक्षदश्च परः स्मृतः .. ५१..

इत्येषं त्रिविधो ज्ञेय आचार्यस्तु महीतले .

चोदको दर्शयेन्मार्गं बोधकः स्थानमाचरेत् .. ५२..

मोक्षदस्तु परं तत्त्वं यज्ज्ञात्वा परमश्नुते .

प्रत्यक्षयजनं देहे संक्षेपाच्छृणु गौतम .. ५३..

तेनेष्ट्वा स नरो याति शाश्वतं पदमव्ययम् .

स्वयमेव तु संपश्येद्देहे बिन्दुं च निष्कलम् .. ५४..

अयने द्वे च विषुवे सदा पश्यति मार्गवित् .

कृत्वायामं पुरा वत्स रेचपूरककुम्भकान् .. ५५..

पूर्वं चोभयमुच्चार्य अर्चयेत्तु यथाक्रमम् .

नमस्कारेण योगेन मुद्रयारभ्य चार्चयेत् .. ५६..

सूर्यस्य ग्रहणं वत्स प्रत्यक्षयजनं स्मृतम् .

ज्ञानात्सायुज्यमेवोक्तं तोये तोयं यथा तथा .. ५७..

एते गुणाः प्रवर्तन्ते योगाभ्यासकृतश्रमैः .

तस्माद्योगं समादाय सर्वदुःखबहिष्कृतः .. ५८..

योगध्यानं सदा कृत्वा ज्ञानं तन्मयतां व्रजेत् .

ज्ञानात्स्वरूपं परमं हंसमन्त्रं समुच्चरेत् .. ५९..

प्राणिनां देहमध्ये तु स्थितो हंसः सदाच्युतः .

हंस एव परं सत्यं हंस एव तु शक्तिकम् .. ६०..

हंस एव परं वाक्यं हंस एव तु वादिकम् .

हंस एव परो रुद्रो हंस एव परात्परम् .. ६१..

सर्वदेवस्य मध्यस्थो हंस एव महेश्वरः .

पृथिव्यादिशिवान्तं तु अकाराद्याश्च वर्णकाः .. ६२..

कूटान्ता हंस एव स्यान्मातृकेति व्यवस्थिताः .

मातृकारहितं मन्त्रमादिशन्ते न कुत्रचित् .. ६३..

हंसज्योतिरनूपम्यं मध्ये देवं व्यवस्थितम् .

दक्षिणामुखमाश्रित्य ज्ञानमुद्रां प्रकल्पयेत् .. ६४..

सदा समाधिं कुर्वीत हंसमन्त्रमनुस्मरन् .

निर्मलस्फटिकाकारं दिव्यरूपमनुत्तमम् .. ६५..

मध्यदेशे परं हंसं ज्ञानमुद्रात्मरूपकम् .

प्राणोऽपानः समानश्चोदानव्यानौ च वायवः .. ६६..

पञ्चकर्मेन्द्रियैरुक्ताः क्रियाशक्तिबलोद्यताः .

नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः .. ६७..

पञ्चज्ञानेन्द्रियैर्युक्ता ज्ञानशक्तिबलोद्यताः .

पावकः शक्तिमध्ये तु नाभिचक्रे रविः स्थितः .. ६८..

बन्धमुद्रा कृता येन नासाग्रे तु स्वलोचने .

अकारेवह्निरित्याहुरुकारे हृदि संस्थितः .. ६९..

मकारे च भ्रुवोर्मध्ये प्राणशक्त्या प्रबोधयेत् .

ब्रह्मग्रन्थिरकारे च विष्णुग्रन्थिर्हृदि स्थितः .. ७०..

रुद्रग्रन्थिर्भ्रुवोर्मध्ये भिद्यतेऽक्षरवायुना .

अकारे संस्थितो ब्रह्मा उकारे विष्णुरास्थितः .. ७१..

मकारे संस्थितो रुद्रस्ततोऽस्यान्तः परात्परः .

कण्ठं सङ्कुच्य नाड्यादौ स्तम्भिते येन शक्तितः .. ७२..

रसना पीड्यमानेयं षोडशी वोर्ध्वगामिनि .

त्रिकूटं त्रिविधा चैव गोलाखं निखरं तथा .. ७३..

त्रिशङ्खवज्रमोङ्कारमूर्ध्वनालं भ्रुवोर्मुखम् .

कुण्डलीं चालयन्प्राणान्भेदयन्शशिमण्डलम् .. ७४..

साधयन्वज्रकुम्भानि नवद्वाराणि बन्धयेत् .

सुमनःपवनारूढः सरागो निर्गुणस्तथा .. ७५..

ब्रह्मस्थाने तु नादः स्याच्छाकिन्यामृतवर्षिणी .

षट्चक्रमण्डलोद्धारं ज्ञानदीपं प्रकाशयेत् .. ७६..

सर्वभूतस्थितं देवं सर्वेशं नित्यमर्चयेत् .

आत्मरूपं तमालोक्य ज्ञानरूपं निरामयम् .. ७७..

दृश्यन्तं दिव्यरूपेण सर्वव्यापी निरञ्जनः .

हंस हंस वदेद्वाक्यं प्राणिनां देहमाश्रितः .

सप्राणापानयोर्ग्रन्थिरजपेत्यभिधीयते .. ७८..

सहस्रमेकं द्वयुतं षट्शतं चैव सर्वदा .

उच्चरन्पठितो हंसः सोऽहमित्यभिधीयते .. ७९..

पूर्वभागे ह्यधोलिङ्गं शिखिन्यां चैव पश्चिमम् .

ज्योतिर्लिङ्गं भ्रुवोर्मध्ये नित्यं ध्यायेत्सदा यतिः .. ८०..

अच्युतोऽहमचिन्त्योऽहमतर्क्योऽहमजोऽस्म्यहम् .

अप्राणोऽहमकायोऽहमनङ्गोऽस्म्यभयोऽस्म्यहम् .. ८१..

अशब्दोऽहमरूपोऽहमस्पर्शोऽस्म्यहमद्वयः .

अरसोऽहमगन्धोऽहमनादिरमृतोऽस्म्यहम् .. ८२..

अक्षयोऽहमलिङ्गोऽहमजरोऽस्म्यकलोऽस्म्यहम् .

अप्राणोऽहममूकोऽहमचिन्त्योऽस्म्यकृतोऽस्म्यहम् .. ८३..

अन्तर्याम्यहमग्राह्योऽनिर्देश्योऽहमलक्षणः .

अगोत्रोऽहमगात्रोऽहमचक्षुष्कोऽस्म्यवागहम् .. ८४..

अदृश्योऽहमवर्णोऽहमखण्डोऽस्म्यहमद्भुतः .

अश्रुतोऽहमदृष्टोऽहमन्वेष्टव्योऽमरोऽस्म्यहम् .. ८५..

अवायुरप्यनाकाशोऽतेजस्कोऽव्यभिचार्यहम् .

अमतोऽहमजातोऽहमतिसूक्ष्मोऽविकार्यहम् .. ८६..

अरजस्कोऽतमस्कोऽहमसत्त्वोस्म्यगुणोऽस्म्यहम् .

अमायोऽनुभवात्माहमनन्योऽविषयोऽस्म्यहम् .. ८७..

अद्वैतोऽहमपूर्णोऽहमबाह्योऽहमनन्तरः .

अश्रोतोऽहमदीर्घोऽहमव्यक्तोऽहमनामयः .. ८८..

अद्वयानन्दविज्ञानघनोऽस्म्यहमविक्रियः .

अनिच्छोऽहमलेपोऽहमकर्तास्म्यहमद्वयः .. ८९..

अविद्याकार्यहीनोऽहमवाग्रसनगोचरः .

अनल्पोऽहमशोकोऽहमविकल्पोऽस्म्यविज्वलन् .. ९०..

आदिमध्यान्तहीनोऽहमाकाशसदृशोऽस्म्यहम् .

आत्मचैतन्यरूपोऽहमहमानन्दचिद्घनः .. ९१..

आनन्दामृतरूपोऽहमात्मसंस्थोहमन्तरः .

आत्मकामोहमाकाशात्परमात्मेश्वरोस्म्यहम् .. ९२..

ईशानोस्म्यहमीड्योऽहमहमुत्तमपूरुषः .

उत्कृष्टोऽहमुपद्रष्टा अहमुत्तरतोऽस्म्यहम् .. ९३..

केवलोऽहं कविः कर्माध्यक्षोऽहं करणाधिपः .

गुहाशयोऽहं गोप्ताहं चक्षुषश्चक्षुरस्म्यहम् .. ९४..

चिदानन्दोऽस्म्यहं चेता चिद्घनश्चिन्मयोऽस्म्यहम् .

ज्योतिर्मयोऽस्म्यहं ज्यायाञ्ज्योतिषां ज्योतिरस्म्यहम् .. ९५..

तमसः साक्ष्यहं तुर्यतुर्योऽहं तमसः परः .

दिव्यो देवोऽस्मि दुर्दर्शो दृष्टाध्यायो ध्रुवोऽस्म्यहम् .. ९६..

नित्योऽहं निरवद्योऽहं निष्क्रियोऽस्मि निरञ्जनः .

निर्मलो निर्विकल्पोऽहं निराख्यातोऽस्मि निश्चलः .. ९७..

निर्विकारो नित्यपूतो निर्गुणो निःस्पृहोऽस्म्यहम् .

निरिन्द्रियो नियन्ताहं निरपेक्षोऽस्मि निष्कलः .. ९८..

पुरुषः परमात्माहं पुराणः परमोऽस्म्यहम् .

परावरोऽस्म्यहं प्राज्ञः प्रपञ्चोपशमोऽस्म्यहम् .. ९९..

परामृतोऽस्म्यहं पूर्णः प्रभुरस्मि पुरातनः .

पूर्णानन्दैकबोधोऽहं प्रत्यगेकरसोऽस्म्यहम् .. १००..

प्रज्ञातोऽहं प्रशान्तोऽहं प्रकाशः परमेश्वरः .

एकदा चिन्त्यमानोऽहं द्वैताद्वैतविलक्षणः .. १०१..

बुद्धोऽहं भूतपालोऽहं भारूपो भगवानहम् .

महाज्ञेयो महानस्मि महाज्ञेयो महेश्वरः .. १०२..

विमुक्तोऽहं विभुरहं वरेण्यो व्यापकोऽस्म्यहम् .

वैश्वानरो वासुदेवो विश्वतश्चक्षुरस्म्यहम् .. १०३..

विश्वाधिकोऽहं विशदो विष्णुर्विश्वकृदस्म्यहम् .

शुद्धोऽस्मि शुक्रः शान्तोऽस्मि शाश्वतोऽस्मि शिवोऽस्म्यहम् .. १०४..

सर्वभूतान्तरात्महमहमस्मि सनातनः .

अहं सकृद्विभातोऽस्मि स्वे महिम्नि सदा स्थितः .. १०५..

सर्वान्तरः स्वयंज्योतिः सर्वाधिपतिरस्म्यहम् .

सर्वभूताधिवासोऽहं सर्वव्यापी स्वराडहम् .. १०६..

समस्तसाक्षी सर्वात्मा सर्वभूतगुहाशयः .

सर्वेन्द्रियगुणाभासः सर्वेन्द्रियविवर्जितः .. १०७..

स्थानत्रयव्यतीतोऽहं सर्वानुग्राहकोऽस्म्यहम् .

सच्चिदानन्द पूर्णात्मा सर्वप्रेमास्पदोऽस्म्यहम् .. १०८..

सच्चिदानन्दमात्रोऽहं स्वप्रकाशोऽस्मि चिद्घनः .

सत्त्वस्वरूपसन्मात्रसिद्धसर्वात्मकोऽस्म्यहम् .. १०९..

सर्वाधिष्ठानसन्मात्रः स्वात्मबन्धहरोऽस्म्यहम् .

सर्वग्रासोऽस्म्यहं सर्वद्रष्टा सर्वानुभूरहम् .. ११०..

एवं यो वेद तत्त्वेन स वै पुरुष उच्यत इत्युपनिषत् ..

ॐ सह नाववतु .. सह नौ भुनक्तु .. सह वीर्यं करवावहै ..

तेजस्विनावधीतमस्तु मा विद्विषावहै ..

ॐ शान्तिः शान्तिः शान्तिः ..

इति ब्रह्मविद्योपनिषत्समाप्ता ..

Personal tools