बृहत्पाराशरहोराशास्त्र 38

From Wikisource

Jump to: navigation, search
बृहत्पाराशरहोराशास्त्र


अथ रवियोगाध्यायः॥३८॥

सूर्यात्‌ स्वन्त्योभयस्थैश्च विना चन्द्रं कुजादिभिः।
वेशिवोशिसमाख्यौ च तथोभयचरः क्रमात्‌॥ १॥

समदृक्‌ सत्यवाङ्‌ मर्त्यो दीर्घकायोऽलसस्तथा।
सुखभागल्पवित्तोऽपि वेशियोगसमुद्‌भवः॥ २॥

वोशौ च निपुणो दाता यशोविद्याबलावन्तिः।
तथोभयचरे जातो भूपो वा तत्समः सुखी॥ ३॥

शुभग्रहभवे योगे फलमेवं विचिन्तयेत्‌।
पापग्रहसमुत्पन्ने योगे तु फलमन्यथा॥ ४॥