बृहत्पाराशरहोराशास्त्र 10

From Wikisource

Jump to: navigation, search
बृहत्पाराशरहोराशास्त्र


अथाऽरिष्टभंगाध्यायः॥१०॥

इत्यरिष्टं मया प्रोक्तं तद्‌भङ्गश्चापि कथ्यते।
यत्‌ समालोक्यं जातानां रिष्ताऽरिष्टं वदेद्‌बुधः॥ १॥

एकोऽपि ज्ञार्यशुक्राणां लग्नात्‌ केन्द्रगतो यदि।
अरिष्टं निखिलं हन्ति तिमिरं भास्करो यथा॥ २॥

एक एव बली जीवो लग्नस्थो रिष्टसंचयम्‌।
हन्ति पापक्षयं भक्त्या प्रणाम इव शूलिनः॥ ३॥

एक एव विलग्नेशः केन्द्रसंस्थो बलान्वितः।
अरिष्टं निखिलं हन्ति पिनाकी त्रिपुरं यथा॥ ४॥

शुक्लपक्षे क्षपाजन्म लग्ने सौम्यनिरीक्षिते।
विपरीतं कृष्णपक्षे तथारिष्टविनाशनं॥ ५॥

व्ययस्थाने यदा सूर्यस्तुलालग्ने तु जायते।
जीवेत्‌ स शतवर्षाणि दीर्घायुर्बालको भवेत्‌॥ ६॥

गुरुभौमौ यदा युक्तौ गुरुदृऋटोऽथवा कुजः।
हत्वाऽरिष्टमशेषं च जनन्याः शुभक्रद्‌भवेत्‌॥ ७॥

चतुर्थदशमे पापः सौम्यमध्ये यदा भवेत्‌।
पितुः सौख्यकरो योगः शुभैः केन्द्रत्रिकोणगैः॥ ८॥

सौम्यान्तरगतैः पापैः शुभैः केन्द्रत्रिकोणगैः।
सद्यो नाशयतेऽरिष्टं तद्‌भावोत्थफलं न तत्‌॥ ९॥