बृहत्पाराशरहोराशास्त्र 05
From Wikisource
अथ विशेषलग्नाध्यायः॥५॥
अथाहं सम्प्रवक्ष्यामि तवाग्रे द्विजसत्तम। भावहोराघटीसंज्ञलग्नानीति पृथक् पृथक्॥ १॥ सूर्योदयं समारभ्य घटिकानां तु पंचकम्। प्रयाति जन्मपर्यन्तं भावलग्नं तदेव हि॥ २॥ इष्टं घट्यादिकं भक्त्वा पंचभिर्भादिजं फलम्। योज्यमौदयिके सूर्ये भावलग्नं स्फुटं च तत्॥ ३॥ तथा सार्धद्विघटिकामितादर्कोदयाद् द्विज। प्रयाति लग्नं तन्नाम होरालग्नं प्रचक्षते॥ ४॥ इष्टघट्यादिकं द्विघ्नं पञ्चाप्तं भादिकं च यत्। योज्यमौदयिके भानौ होरालग्नं स्फुटं हि तत्॥ ५॥ कथयामि घटीलग्नं सृनु त्वं द्विजसत्तम। सूर्योदयत् समारभ्य जन्मकालावधि क्रमात्॥ ६॥ एकैकघटिकामानात् लग्नं यद्याति भादिकम्। तदेव घटिकालग्नं कथितं नारदादिभिः॥ ७॥ राशयस्तु घटीतुल्याः पलार्धप्रमितांशकाः। योज्यमौदयिके भनौ घटीलग्नं स्फुटं हि तत्॥ ८॥ क्रमादेषां च लग्नानां भावकोष्ठं पृथक् लिखेत्। ये ग्रहा यत्र भे तत्र ते स्थाप्या राशिलग्नवत्॥ ९॥ वर्णदाख्यदशां भानां कथयाम्यथ तेऽग्रतः। यस्य विज्ञानमात्रेण वदेदायुर्भवं फलम्॥ १०॥ ओजलग्नप्रसूतानां मेषादेर्गणयेत् क्रमात्। समलग्नप्रसूतानाम् मीनादेरपसव्यतः॥ ११॥ मेषमीनादितो जन्मलग्नान्तं गणयेत् सुधीः। तथैव होरालग्नान्तं गणयित्वा ततः परम्॥ १२॥ ओजत्वेन समत्वेन सयातीये उभे यदि। तर्हि संख्ये योजयीत वैजात्ये तु वियोजयेत्॥ १३॥ मेषमीनादितः पश्चाद्यो राशिः स तु वर्णदः। एतत्प्रयोजनं वक्ष्ये सृणु त्वं द्विजपुंगवः। होरालग्नभयोर्नेया सबलाद्वर्णदा दशा॥ १४॥ यत्संख्ये वर्णदो लग्नात् तत्तत्संख्याक्रमेण तु। क्रमयुत्क्रमभेदेन दशा स्यादोजयुग्मयो॥ १५॥ पापदृष्टिः पापयोगो वर्ण्दस्य त्रिकोणके। यदि स्यात् तर्हि तद्राशिपर्यन्तं तस्य जीवनं॥ १६॥ रुद्रशूले यथैवायुर्मरणादि निरूप्यते। तथैव वर्णदस्यपि त्रिकोणे पापसंगमे॥ १७॥ वर्णदादपि भो विप्र लग्नवच्चिन्तयेत् फलम्। वर्णदात् सप्तमाद् भावत् कलत्रायुर्विचिन्तयेत्॥ १८॥ एकादशादग्रजस्य तृतीयात्तु यवीयसः। सुतस्य पंचमे विद्यान्मातुश्चतुर्थभावत्॥ १९॥ पितुश्च नवमाद् भावादयुरेवं विचिन्तयेत्। शूलराशिदशायां वै प्रवलायामरिष्टकम्॥ २०॥ एवं तन्वादिभावानां कर्तव्या वर्णा दशा। पूर्ववच्च फलं ज्ञेयं देहिनां च शुभाशुभम्॥ २१॥ ग्रहनां वर्णदा नैव राशीनां वर्ण्दा दशा। कृत्वार्कधा राशिदशां क्रमादन्तर्दशां वदेत्॥ २२॥ एवमन्तर्दशादिं च कृत्वा तेन फलं वदेत्। क्रमव्युत्क्रमभेदेन लिखेदन्तर्दशामपि॥ २३॥ स्वस्वदेशोद्भवं लग्नं जन्मलग्नमिमिहोच्यते। भावहोरादिलग्नानां सर्वत्रैव समक्रिया॥ २४॥