बृहत्पाराशरहोराशास्त्र 04
From Wikisource
अथ राशिस्वरूपाध्यायः॥४॥
अहोरात्रस्य पूर्वान्त्यलोपाद् होराऽवशिष्यते। तस्य विज्ञानमात्रेण जातकर्मफलं वदेत्॥ १॥ यदव्यक्तात्मको विष्णुः कालरुपो जनार्दनः। तस्याङ्गानि निबोध त्वं क्रमान्मेषादिराश्यः॥ २॥ मेषो वृषश्च मिथुनः कर्कसिंहकुमारिकाः। तुलालिऽश्च धनुर्नक्रे कुम्भो मीनस्ततः परम्॥ ३॥ शीर्षानने तथा बाहू हृत्क्रोडकटिबस्तयः। गुह्योरुयुगले जानुयुग्मे वै जङ्घके तथा॥ ४॥ चरनौ द्वौ तथा मेषात् ज्ञेयाः शीर्षादयः क्रमात्। चरस्थिरद्विस्वभावाः क्रूराक्रूरौ नरस्त्रियौ॥ ५॥ पित्तानिलत्रिधात्वौक्यश्लेष्मिकाश्च क्रियादयः। रक्तवर्णो बृहद्गात्रश्चतुष्पाद्रात्रिविक्रमी॥ ६॥ पूर्ववासी नृपज्ञातिः शैलचारी रजोगुणी। पृष्ठोदयी पावकी च मेषराशिः कुजाधिपः॥ ७॥ श्वेतः शुक्राधिपो दीर्घश्चतुष्पाच्छर्वरीबली। याम्येट् ग्राम्यो वणिग्भूमिरजः पृष्ठोदयो वृषः॥ ८॥ शीर्षोदयी नृमिथुनं सगदं च सवीणकम्। प्रत्यग्वायुर्द्विपाद्रात्रिबली ग्रामव्रजोऽनिली॥ ९॥ समगात्रो हरिद्विर्णो मिथुनाख्यो बुधाधिपः। पाटलो वनचारी च ब्राह्मणो निशि वीर्यवान्॥ १०॥ बहुपादचरः स्थौल्यतनुः सत्त्वगुणी जली। पृष्ठोदयी कर्कराशिर्मृगांकाऽधिपतिः स्मृतः॥ ११॥ सिंहः सूर्याधिपः सत्त्वी चतुष्पात् क्षत्रियो वनी। शीर्षोदयी बृहद्गात्रःपाण्डुः पूर्वेड् द्युवीर्यवान्॥ १२॥ पार्वतीयाथ कन्याख्या राशिर्दिनबलान्विता। शीर्षोदया च मध्यांगा द्विपाद्याम्यचरा च सा॥ १३॥ सा सस्यदहना वैश्या चित्रवर्णा प्रभञ्जिनी। कुमारी तमसा युक्ता बालभावा बुधाधिपा॥ १४॥ शीर्षोदयी द्युवीर्याढ्यस्तुलः कृष्णो रजोगुणी। पश्चिमो भूचरो घाती शूद्रो मध्यतनुर्द्विपात्॥ १५॥ शुक्राऽधिपोऽथ स्वल्पांगो बहुपाद्ब्राह्मणो बिली। सौम्यस्थो दिनवीर्याढ्यः पिशंगो जलभूवः॥ १६॥ रोमस्वाढ्योऽतितीक्ष्णाग्रो वृश्चिकश्च कुजाधिपः। पृष्ठोदयी त्वथ धनुर्गुरुस्वामी च सात्त्विकः॥ १७॥ पिंगलो निशिवीर्याढ्यः पावकः क्षत्रियो द्विपाद्। आदावन्ते चतुष्पादः समगात्रो धनुर्धरः॥ १८॥ पूर्वस्थो वसुधाचारी तेजस्वी ब्रह्मणा कृतः। मन्दाधिपस्तमी भौमी याम्येट् च निशि वीर्यवान्॥ १९॥ पृष्ठोदयी बृहद्गात्रः कर्बुरो वनभूचरः। आदौ चतुष्पदोन्ते तु विपदो जलगो मतः॥ २०॥ कुम्भः कुम्भी नरो बभ्रुवर्णो मध्यतनुर्द्विपात्। द्युवीर्यो जलमध्यस्थो वातशीर्षोदयी तमः॥ २१॥ शूद्रः पश्चिमदेशस्य स्वामी दैवाकरिः स्मृतः। मीनौ पुच्छास्यसंलग्नौ मीनराशिर्दिवाबली॥ २२॥ जली सत्त्वगुणाढ्यश्च स्वस्थो जलचरो द्विजः। अपदो मध्यदेही च सौम्यस्थो ह्युभयोदयी॥ २३॥ सुराचार्याधिपश्चेति राशीनां गदिता गुणाः। त्रिंशद्भागात्मकानां च स्थूलसूक्ष्मफलाय च॥ २४॥ अथातः सम्प्रवक्ष्यामि शृणुष्व मुनिपुंगव। जन्मलग्नं च संशोध्य निषेकं परिशोधयेत्॥ २५॥ तदहं संप्रवक्ष्यामि मैत्रेय त्वं विधारय। जन्मलग्नात् परिज्ञानं निषेकं सर्व्जन्तु यत्॥ २६॥ यस्मिन् भावे स्थितो मन्दस्तस्य मान्देर्यदन्तरम्। लग्नभाग्यान्तरं योज्यं यच्च राश्यादि जायते॥ २७॥ मासादि तन्मितं ज्ञेयं जन्मतः प्रक् निषेकजम्। यद्यदृश्यदलेङ्गेशस्तदेन्दोर्भुक्तभागयुक्॥ २८॥ तत्काले साधयेल्लग्नं शोधयेत् पूर्ववत्तनुम्। तस्माच्छुभाशुभं वाच्यं गर्भस्थस्य विशेषतः॥ २९॥ शुभाशुभं वदेत् पित्रोर्जीवनं मरणं तथा। एवं निषेकलग्नेन सम्यग् ज्ञेयं स्वकल्पनात्॥ ३०॥