बालकाण्डे विंशः सर्गः ॥१-२०॥

From Wikisource

Jump to: navigation, search

श्रीमद्वाल्मीकियरामायणे बालकाण्डे विंशः सर्गः ॥१-२०॥

तत् श्रुत्वा राज शार्दूलो विश्वामित्रस्य भाषितम् ।
मुहूर्तम् इव निस्सज्ञः सज्ञावान् इदम् अब्रवीत् ॥१-२०-१॥

ऊन षोडश वर्षो मे रामो राजीव लोचनः ।
न युद्ध योग्यताम् अस्य पश्यामि सह राक्षसैः ॥१-२०-२॥

इयम् अक्षौहिणी सेना यस्य अहम् पतिः ईश्वरः ।
अनया सहितो गत्वा योद्ध अहम् तैर् निशाचरैः ॥१-२०-३॥

इमे शूराः च विक्रान्ता भृत्याः मे अस्त्र विशारदाः ।
योग्या रक्षोगणैः योद्धुम् न रामम् नेतुम् अर्हसि ॥१-२०-४॥

अहम् एव धनुष्पाणिः गोप्ता समर मूर्धनि ।
यावत् प्राणान् धरिष्यामि तावत् योत्स्ये निशाचरैः ॥१-२०-५॥

निर्विघ्ना व्रत चर्या सा भविष्यति सुरक्षिता ।
अहम् तत्र आगमिष्यामि न रामम् नेतुम् अर्हसि ॥१-२०-६॥

बालो हि अकृत विद्यः च न च वेत्ति बलाबलम् ।
न च अस्त्र बल संयुक्तो न च युद्ध विशारदः ॥१-२०-७॥
न च असौ रक्षसा योग्यः कूट युद्धा हि राक्षसा ।

विप्रयुक्तो हि रामेण मुहूर्तम् अपि न उत्सहे ॥१-२०-८॥
जीवितुम् मुनि शार्दूल न रामम् नेतुम् अर्हसि ।

यदि वा राघवम् ब्रह्मन् नेतुम् इच्छसि सुव्रत ॥१-२०-९॥
चतुरंग समायुक्तम् मया सह च तम् नय ।

षष्टिः वर्ष सहस्राणि जातस्य मम कौशिक ॥१-२०-१०॥
कृच्छ्रेण उत्पादितः च अयम् न रामम् नेतुम् अर्हसि ।

चतुर्णाम् आत्मजानाम् हि प्रीतिः परमिका मम ॥१-२०-११॥
ज्येष्ठे धर्म प्रधाने च न रामम् नेतुम् अर्हसि ।

किम् वीर्याः राक्षसाः ते च कस्य पुत्राः च के च ते ॥१-२०-१२॥
कथम् प्रमाणाः के च एतान् रक्षन्ति मुनिपुंगव ।

कथम् च प्रति कर्तव्यम् तेषाम् रामेण रक्षसाम् ॥१-२०-१३॥
मामकैः वा बलैः ब्रह्मन् मया वा कूट योधिनाम् ।

सर्वम् मे शंस भगवन् कथम् तेषाम् मया रणे॥१-२०-१४॥
स्थातव्यम् दुष्ट भावानाम् वीर्योत्सिक्ता हि राक्षसाः ।
तस्य तद् वचनम् श्रुत्वा विश्वामित्रो अभ्यभाषत ॥१-२०-१५॥

पौलस्त्य वंश प्रभवो रावणो नाम राक्षसः ।
स ब्रह्मणा दत्त वरः त्रैलोक्यम् बाधते भृशम् ॥१-२०-१६॥
महाबलो महावीर्यो राक्षसैः बहुभिः वृतः ।

श्रूयते च महाराजा रावणो राक्षस अधिपः ॥१-२०-१७॥
साक्षात् वैश्रवण भ्राता पुत्रो विश्रवसो मुनेः ।

यदा न खलु यज्ञस्य विघ्न कर्ता महाबलः ॥१-२०-१८॥
तेन संचोदितौ तौ तु राक्षसौ च महाबलौ ।
मारीचः च सुबाहुः च यज्ञ विघ्नम् करिष्यतः ॥१-२०-१९॥

इति उक्तो मुनिना तेन राजा उवाच मुनिम् तदा ।
न हि शक्तो अस्मि संग्रामे स्थातुम् तस्य दुरात्मनः ॥१-२०-२०॥

स त्वम् प्रसादम् धर्मज्ञ कुरुष्व मम पुत्रके ।
मम च एव अल्प भाग्यस्य दैवतम् हि भवान् गुरुः ॥१-२०-२१॥

देव दानव गंधर्वा यक्षाः पतग पन्नगाः।
न शक्ता रावणम् सोढुम् किम् पुनर् मानवा युधि ॥१-२०-२२॥

स तु वीर्यवताम् वीर्यम् आदत्ते युधि रावणः ।
तेन च अहम् न शक्तोऽस्मि संयोद्धुम् तस्य वा बलैः ॥१-२०-२३॥
सबलो वा मुनिश्रेष्ठ सहितो वा मम आत्मजैः ।

कथम् अपि अमर प्रख्यम् संग्रामाणाम् अकोविदम् ॥१-२०-२४॥
बालम् मे तनयम् ब्रह्मन् नैव दास्यामि पुत्रकम् ।

अथ काल उपमौ युद्धे सुतौ सुन्दोपसुन्दयोः ॥१-२०-२५॥
यज्ञ विघ्न करौ तौ ते न एव दास्यामि पुत्रकम् ।

मारीचः च सुबाहुः च वीर्यवन्तौ सुशिक्षितौ ॥१-२०-२६॥
तयोः अन्यतरम् योद्धुम् यास्यामि स सुहृत् गणः ।
अन्यथा त्वनुनेष्यामि भवन्तम् सह बान्धव ॥१-२०-२७॥

इति नरपति जल्पनात् द्विजेन्द्रम्
कुशिक सुतम् सुमहान् विवेश मन्युः ।
सु हुत इव मखे अग्निः आज्य सिक्तः
समभवत् उज्वलितो महर्षि वह्निः ॥१-२०-२८॥

इति वाल्मीकि रामायणे आदिकाव्ये बाल काण्डे विंशः सर्गः ॥


इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे विंशः सर्गः ॥१-२०॥

Personal tools