बालकाण्डे द्वितीयः सर्गः ॥१-२॥

From Wikisource

Jump to: navigation, search

श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्वितीयः सर्गः ॥१-२॥

नारदस्य तु तद्वाक्यम् श्रुत्वा वाक्य विशारदः ।
पूजयामास धर्मात्मा सह शिष्यो महामुनिः ॥१-२-१॥

यथावत् पूजितः तेन देवर्षिः नारदः तथा ।
आपृच्छैव अभ्यनुज्ञातः स जगाम विहायसम् ॥१-२-२॥

स मुहूर्तं गते तस्मिन् देवलोकम् मुनिः तदा ।
जगाम तमसा तीरम् जाह्नव्यात् अविदूरतः ॥१-२-३॥

स तु तीरम् समासाद्य तमसाया मुनिः तदा ।
शिष्यम् आह स्थितम् पार्श्वे दृष्ट्वा तीर्थम् अकर्दमम् ॥१-२-४॥

अकर्दमम् इदम् तीर्थम् भरद्वाज निशामय ।
रमणीयम् प्रसन्न अम्बु सन् मनुष्य मनो यथा ॥१-२-५॥

न्यस्यताम् कलशः तात दीयताम् वल्कलम् मम ।
इदम् एव अवगाहिष्ये तमसा तीर्थम् उत्तमम् ॥१-२-६॥

एवम् उक्तो भरद्वाजो वाल्मीकेन महात्मना ।
प्रयच्छत मुनेः तस्य वल्कलम् नियतः गुरोः ॥१-२-७॥

स शिष्य हस्तात् आदाय वल्कलम् नियतेन्द्रियः ।
विचचार ह पश्यन् तत् सर्वतो विपुलम् वनम् ॥१-२-८॥

तस्य अभ्याशे तु मिथुनम् चरन्तम् अनपायिनम् ।
ददर्श भगवान् तत्र क्रौङ्चयोः चारु निस्वनम् ॥१-२-९॥

तस्मात् तु मिथुनात् एकम् पुमांसम् पाप निश्चयः ।
जघान वैरनिलयो निषादः तस्य पश्यतः ॥१-२-१०॥

तम् शोणित परीताङ्गम् चेष्टमानम् महीतले ।
भार्या तु निहतम् दृष्ट्वा रुराव करुणाम् गिरम् ॥१-२-११॥
वियुक्ता पतिना तेन द्विजेन सहचारिणा ।
ताम्र शीर्षेण मत्तेन पत्रिणा सहितेन वै ॥१-२-१२॥

तथा विधिम् द्विजम् दृष्ट्वा निषादेन निपातितम् ।
ऋशेः धर्मात्मानः तस्य कारुण्यम् समपद्यत ॥१-२-१३॥

ततः करुण वेदित्वात् अधर्मो अयम् इति द्विजः ।
निशाम्य रुदतीम् क्रौन्चीम् इदम् वचनम् अब्रैइत् ॥१-२-१४॥

मा निषाद प्रतिष्ठाम्त्व ।
मगमः शाश्वतीः समाः ।
यत् क्रौङ्च मिथुनात् एक ।
मवधीः काम मोहितम् ॥१-२-१५॥

तस्य एवम् ब्रुवतः चिन्ता बभूव हृदि वीक्षतः ।
शोकार्तेन अस्य शकुनेः किम् इदम् व्याहृतम् मया ॥१-२-१६॥

चिन्तयन् स महाप्राज्ञः चकार मतिमान् मतिम् ।
शिश्यम् च एव अब्रवीत् वाक्यम् इदम् स मुनिपुङ्गवः ॥१-२-१७॥

पाद बद्धः अक्षर समः तन्त्री लय समन्वितः ।
शोकार्तस्य प्रवृत्तो मे श्लोको भवतु न अन्यथा ॥१-२-१८॥

शिष्यः तु तस्य ब्रुवतो मुनेर् वाक्यम् अनुत्तमम् ।
प्रति जग्राह संतुष्टः तस्य तुष्टोअः अभवत् मुनिः ॥१-२-१९॥

सोऽभिषेकम् ततः कृत्वा तीर्थे तस्मिन् यथाविधि ।
तम् एव चिन्तयन् अर्थम् उपावर्तत वै मुनिः ॥१-२-२०॥

भरद्वाजः ततः शिष्यो विनीतः श्रुतवान् गुरोः ।
कलशम् पूर्णमादाय पृष्ठतः अनुजगाम ह ॥१-२-२१॥

स प्रविश्य आश्रम पदम् शिष्येण सह धर्मवित् ।
उपविष्टः कथाः च अन्याः चकार ध्यानमास्थितः ॥१-२-२२॥

आजगाम ततः ब्रह्मो लोककर्ता स्वयम् प्रभुः ।
चतुर् मुखो महातेजा द्रष्टुम् तम् मुनिपुङ्गवम् ॥१-२-२३॥

वाल्मीकिः अथ तम् दृष्ट्वा सहसा उत्थाय वाग्यतः ।
प्रान्जलिः प्रयतो भूत्वा तस्थौ परम विस्मितः ॥१-२-२४॥

पूजयामास तम् देवम् पाद्य अर्घ्य आसन वन्दनैः ।
प्रणम्य विधिवत् च एनम् पृष्ट्वा च एव निरामयम् ॥१-२-२५॥

अथ उपविश्य भगवान् आसने परम अर्चिते ।
वाल्मीकये च ऋषये सन्दिदेश आसनम् ततः ॥१-२-२६॥

ब्रह्मणा समनुज्ञातः सोऽपि उपाविशत् आसने ।
उपविष्टे तदा तस्मिन् साक्षात् लोक पितामहे ॥१-२-२७॥
तत् गतेन एव मनसा वाल्मीकिः ध्यानम् आस्थितः ॥

पापात्मना कृतम् कष्टम् वैर ग्रहण बुद्धिना ॥१-२-२८॥
यत् तादृशम् चारुरवम् क्रौन्चम् हन्यात् अकारणात् ॥

शोचन् एव पुनः क्रौन्चीम् उप श्लोकम् इमम् जगौ ॥१-२-२९॥
पुनर् अन्तर्गत मना भूत्वा शोक परायणः ॥

तम् उवाच ततो ब्रह्मा प्रहसन् मुनिपुंगवम् ॥१-२-३०॥
श्लोक एवास्त्वयाम् बद्धो न अत्र कार्या विचारणा ॥

मत् च्छन्दात् एव ते ब्रह्मन् प्रवृत्ते अयम् सरस्वती ॥१-२-३१॥
रामस्य चरितम् कृत्स्नम् कुरु त्वम् ऋषिसत्तम ।

धर्मात्मनो भगवतो लोके रामस्य धीमतः ॥१-२-३२॥
वृत्तम् कथय धीरस्य यथा ते नारदात् श्रुतम् ।

रहस्यम् च प्रकाशम् च यद् वृत्तम् तस्य धीमतः ॥१-२-३३॥
रामस्य सह सौमित्रे राक्षसानाम् च सर्वशः ।
वैदेह्याः च एव यद् वृत्तम् प्रकाशम् यदि वा रहः ॥१-२-३४॥
तत् च अपि अविदितम् सर्वम् विदितम् ते भविष्यति ।

न ते वाक् अनृता काव्ये काचित् अत्र भविष्यति ॥१-२-३५॥
कुरु राम कथाम् पुण्याम् श्लोक बद्धाम् मनोरमाम् ।

यावत् स्थास्यन्ति गिरयः सरितः च महीतले ॥१-२-३६॥
तावत् रामायण कथा लोकेषु प्रचरिष्यति ।

यावत् रामस्य च कथा त्वत् कृता प्रचरिष्यति ॥१-२-३७॥
तावत् ऊर्ध्वम् अधः च त्वम् मत् लोकेषु निवत्स्यसि ।

इति उक्त्वा भगवान् ब्रह्मा तत्र एव अन्तरधीयत ।
ततः स शिष्यो भगवान् मुनिः विस्मयम् आययौ ॥१-२-३८॥

तस्य शिष्याः ततः सर्वे जगुः श्लोकम् इमम् पुनः ।
मुहुर् मुहुः प्रीयमाणाः प्राहुः च भृश विस्मिताः ॥१-२-३९॥

समाक्षरैः चतुर्भिः यः पादैः गीतो महर्षिणा ।
सः अनुव्याहरणात् भूयः शोकः श्लोकत्वम् आगतः ॥१-२-४०॥

तस्य बुद्धिः इयम् जाता महर्षेः भावितात्मनः ।
कृत्स्नम् रामायणम् काव्यम् ईदृशैः करवाण्यहम् ॥१-२-४१॥

उदार वृत्त अर्थ पदैः मनोरमैः
तदा अस्य रामस्य चकार कीर्तिमान् ।
सम अक्षरैः श्लोक शतैः यशस्विनो
यशस्करम् काव्यम् उदार दर्शनः ॥१-२-४२॥

तद् उपगत समास सन्धि योगम्
सम मधुरोपनत अर्थ वाक्य बद्धम् ।
रघुवर चरितम् मुनिप्रणीतम्
दश शिरसः च वधम् निशामय अध्वम् ॥१-२-४३॥


इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे द्वितीयः सर्गः ॥१-२॥

Personal tools