बालकाण्डे चतुःषष्ठितमः सर्गः ॥१-६४॥
From Wikisource
श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुःषष्ठितमः सर्गः ॥१-६४॥
सुर कार्यम् इदम् रंभे कर्तव्यम् सुमहत् त्वया ।
लोभनम् कौशिकस्य इह काम मोह समन्वितम् ॥१-६४-१॥
तथा उक्ता स अप्सरा राम सहस्राक्षेण धीमता ।
व्रीडिता प्रांजलिः वाक्यम् प्रत्युवाच सुर ईश्वरम् ॥१-६४-२॥
अयम् सुर पते घोरो विश्वामित्रो महामुनिः ।
क्रोधम् उत्स्रच्यते घोरम् मयि देव न संशयः ॥१-६४-३॥
ततो हि मे भयम् देव प्रसादम् कर्तुम् अर्हसि ।
एवम् उक्तः तया राम स भयम् भीतया तदा ॥१-६४-४॥
ताम् उवाच सहस्राक्षो वेपमानाम् कृतांजलिम् ।
मा भैषी रंभे भद्रम् ते कुरुष्व मम शासनम् ॥१-६४-५॥
कोकिलो हृदय ग्राही माधवे रुचिर द्रुमे ।
अहम् कंदर्प सहितः स्थास्यामि तव पार्श्वतः ॥१-६४-६॥
त्वम् हि रूपम् बहु गुणम् कृत्वा परम भास्वरम् ।
तम् ऋषिम् कौशिकम् रंभे भेदयस्व तपस्विनम् ॥१-६४-७॥
सा श्रुत्वा वचनम् तस्य कृत्वा रूपम् अनुत्तमम् ।
लोभयामास ललिता विश्वामित्रम् शुचि स्मिता ॥१-६४-८॥
कोकिलस्य तु शुश्राव वल्गु व्याहरतः स्वनम् ।
संप्रहृष्टेन मनसा स एनाम् अन्वैक्षत ॥१-६४-९॥
अथ तस्य च शब्देन गीतेन अप्रतिमेन च ।
दर्शनेन च रंभाया मुनिः संदेहम् आगतः ॥१-६४-१०॥
सहस्राक्षस्य तत् कर्म विज्ञाय मुनिपुंगवः ।
रंभाम् क्रोध समाविष्टः शशाप कुशिक आत्मजः ॥१-६४-११॥
यत् माम् लोभयसे रंभे काम क्रोध जय एषिणम् ।
दश वर्ष सहस्राणि शैली स्थास्यसि दुर्भगे ॥१-६४-१२॥
ब्राह्मणः सुमहातेजाः तपो बल समन्वितः ।
उद्धरिष्यति रंभे त्वाम् मत् क्रोध कलुषी कृताम् ॥१-६४-१३॥
एवम् उक्त्वा महातेजा विश्वामित्रो महामुनिः ।
अशक्नुवन् धारयितुम् कोपम् संतापम् आगतः ॥१-६४-१४॥
तस्य शापेन महता रम्भा शैली तदा अभवत् ।
वचः श्रुत्वा च कन्दर्पो महर्षेः स च निर्गतः ॥१-६४-१५॥
कोपेन स महातेजाः तपो अपहरणे कृते ।
इन्द्रियैर् अजितै राम न लेभे शान्तिम् आत्मनः ॥१-६४-१६॥
बभूव अस्य मनः चिंता तपो अपहरणे कृते ।
न एव क्रोधम् गमिष्यामि न च वक्ष्ये कथंचन ॥१-६४-१७॥
अथवा न उच्छासिष्यामि संवत्स्र शतानि अपि ।
अहम् हि शोषयिष्यामि आत्मानम् विजितेन्द्रियः ॥१-६४-१८॥
तावत् यावत् हि मे प्राप्तम् ब्राह्मण्यम् तपसा आर्जितम् ।
अनुच्छ्वसन् अभुंजाः तिष्ठेयम् शाश्वती समाः ॥१-६४-१९॥
न हि मे तप्यमानस्य क्षयम् यास्यन्ति मूर्तयः ।
एवम् वेअर्ष शस्रस्य दीक्षाम् स मुनिपुंगवः ।
चकार प्रतिमाम् लोके प्रतिज्ञाम् रघुनंदन ॥१-६४-२०॥
इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे चतुःषष्ठितमः सर्गः ॥१-६४॥

