बालकाण्डे एकोनषष्ठितमः सर्गः ॥१-५९॥
From Wikisource
श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकोनषष्ठितमः सर्गः ॥१-५९॥
उक्त वाक्यम् तु राजानम् कृपया कुशिक आत्मजः ।
अब्रवीत् मधुरम् वाक्यम् साक्षात् चण्डालताम् गतम् ॥१-५९-१॥
इक्ष्वाको स्वागतम् वत्स जानामि त्वाम् सुधार्मिकम् ।
शरणम् ते भविष्यामि मा भैषीः नृप पुंगव ॥१-५९-२॥
अहम् आमंत्रये सर्वान् महर्षीन् पुण्य कर्मणः ।
यज्ञ साह्य करान् राजन् ततो यक्ष्यसि निर्वृतः ॥१-५९-३॥
गुरु शाप कृतम् रूपम् यत् इदम् त्वयि वर्तते ।
अनेन सह रूपेण स शरीरो गमिष्यसि ॥१-५९-४॥
हस्त प्राप्तम् अहम् मन्ये स्वर्गम् तव नरेश्वर ।
यः त्वम् कौशिकम् आगम्य शरण्यम् शरणागतः ॥१-५९-५॥
एवम् उक्त्वा महातेजाः पुत्रान् परम धार्मिकान् ।
व्यादिदेश महाप्राज्ञान् यज्ञ संभार कारणात् ॥१-५९-६॥
सर्वान् शिष्यान् समाहूय वाक्यम् एतत् उवाच ह ।
सर्वान् ऋषि वरान् वशिष्ठान् आनयध्वम् मम आज्ञया ॥१-५९-७॥
स शिष्यान् सुहृदः चैव स ऋत्विजः सुबहु श्रुतान् ।
यत् अन्यो वचनम् ब्रूयात् मत् वाक्य बल चोदितः ॥१-५९-८॥
तत् सर्वम् अखिलेन उक्तम् मम आख्येयम् अनादृतम् ।
तस्य तत् वचनम् श्रुत्वा दिशो जग्मुः तत् आज्ञया ॥१-५९-९॥
आजग्मुः अथ देशेभ्यः सर्वेभ्यो ब्रह्म वादिनः ।
ते च शिष्याः समागम्य मुनिम् ज्वलित तेजसम् ॥१-५९-१०॥
ऊचुः च वचनम् सर्वे सर्वेषाम् ब्रह्म वादिनाम् ।
श्रुत्वा ते वचनम् सर्वे समायान्ति द्विजातयः ॥१-५९-११॥
सर्व देशेषु च अगच्छन् वर्जयित्वा महाउदयम् ।
वासिष्ठम् तत् शतम् सर्वम् क्रोध पर्याकुल अक्षरम् ॥१-५९-१२॥
यथा आह वचनम् सर्वम् शृणु त्वम् मुनि पुंगव ।
क्षत्रियो याजको यस्य चण्डालस्य विशेषतः ॥१-५९-१३॥
कथम् सदसि भोक्तारो हविः तस्य सुर ऋषयः ।
ब्राह्मणा वा महात्मानो भुक्त्वा चण्डाल भोजनम् ॥१-५९-१४॥
कथम् स्वर्गम् गमिष्यन्ति विश्वामित्रेण पालिताः ।
एतत् वचनम् नैष्ठुर्यम् ऊचुः संरक्त लोचनाः ॥१-५९-१५॥
वासिष्ठा मुनि शार्दूल सर्वे सह महोदयाः ।
तेषाम् तत् वचनम् श्रुत्वा सर्वेषाम् मुनि पुंगवः ॥१-५९-१६॥
क्रोध संरक्त नयनः स रोषम् इदम् अब्रवीत् ।
यत् दूषयन्ति अदुष्टम् माम् तप उग्रम् संआस्थितम् ॥१-५९-१७॥
भस्मी भूता दुरात्मानो भविष्यन्ति न संशयः ।
अद्य ते काल पाशेन नीता वैवस्तव क्षयम् ॥१-५९-१८॥
सप्त जाति शतानि एव मृतपाः सन्तु सर्वशः ।
श्व मांस नियत आहारा मुष्टिका नाम निर्घृणाः ॥१-५९-१९॥
विकृताः च विरूपाः च लोकान् अनुचरन्तु इमान् ।
महोदयः च दुर्बुद्धिः माम् अदूष्यम् हि अदूषयत् ॥१-५९-२०॥
दूषितः सर्व लोकेषु निषादत्वम् गमिष्यति ।
प्राण अतिपात निरतो निरनुक्रोशताम् गतः ॥१-५९-२१॥
दीर्घ कालम् मम क्रोधात् दुर्गतिम् वर्तयिष्यति ।
एतावत् उक्त्वा वचनम् विश्वामित्रो महातपाः ।
विरराम महातेजा ऋषि मध्ये महामुनिः ॥१-५९-२२॥
इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे एकोनषष्ठितमः सर्गः ॥१-५९॥

