बालकाण्डे अष्टात्रिंशः सर्गः ॥१-३८॥
From Wikisource
श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टात्रिंशः सर्गः ॥१-३८॥
ताम् कथाम् कौशिको रामे निवेद्य मधुर अक्षरम् ।
पुनः एव अपरम् वाक्यम् काकुत्स्थम् इदम् अब्रवीत् ॥१-३८-१॥
अयोध्या अधिपतिः वीरः पूर्वम् आसीत् नराधिपः ।
सगरो नाम धर्मात्मा प्रजाकामः स च अप्रजः ॥१-३८-२॥
वैदर्भ दुहिता राम केशिनी नाम नामतः ।
ज्येष्ठा सगर पत्नी सा धर्मिष्ठा सत्य वादिनी ॥१-३८-३॥
अरिष्ठनेमि दुहिता सुपर्ण भगिनी तु सा ।
द्वितीया सगरस्य आसीत् पत्नी सुमति संज्ञिता ॥१-३८-४॥
ताभ्याम् सह महाराजा पत्नीभ्याम् तप्तवान् तपः ।
हिमवंतम् समासाद्य भृगु प्रस्रवणे गिरौ ॥१-३८-५॥
अथ वर्ष शते पूर्णे तपसा आराधितो मुनिः ।
सगराय वरम् प्रादाद् भृगुः सत्यवताम् वरः ॥१-३८-६॥
अपत्य लाभः सुमहान् भविष्यति तव अनघ ।
कीर्तिम् च अप्रतिमाम् लोके प्राप्स्यसे पुरुषर्षभ ॥१-३८-७॥
एका जनयिता तात पुत्रम् वंशकरम् तव ।
षष्टिम् पुत्र सहस्राणि अपरा जनयिष्यति ॥१-३८-८॥
भाषमाणम् महात्मानम् राज पुत्र्यौ प्रसाद्य तम् ।
ऊचतुः परम प्रीते कृतांजलि पुटे तदा ॥१-३८-९॥
एकः कस्याः सुतो ब्रह्मन् का बहून् जनयिष्यति ।
श्रोतुम् इच्छावहे ब्रह्मन् सत्यम् अस्तु वचः तव ॥१-३८-१०॥
तयोः तत् वचनम् श्रुत्वा भृगुः परमधार्मिकः ।
उवाच परमाम् वाणीम् स्वच्छन्दो अत्र विधीयताम् ॥१-३८-११॥
एको वंश करो वा अस्तु बहवो वा महाबलाः ।
कीर्तिमन्तो महोत्साहाः का वा कम् वरम् इच्छति ॥१-३८-१२॥
मुनेः तु वचनम् श्रुत्वा केशिनी रघुनंदन ।
पुत्रम् वंश करम् राम जग्राह नृप संनिधौ ॥१-३८-१३॥
षष्टिम् पुत्र सहस्राणि सुपर्ण भगिनी तदा ।
महोत्साहान् कीर्तिमतो जग्राह सुमतिः सुतान् ॥१-३८-१४॥
प्रदक्षिणम् ऋषिम् कृत्वा शिरसा अभिप्रणम्य च ।
जगाम स्व पुरम् राजा सभार्या रघु नन्दन ॥१-३८-१५॥
अथ काले गते तस्मिन् ज्येष्ठा पुत्रम् व्यजायत ।
असमंज इति ख्यातम् केशिनी सगरात्मजम् ॥१-३८-१६॥
सुमतिः तु नरव्याघ्र गर्भ तुंबम् व्यजायत ।
षष्टिः पुत्र सहस्राणि तुंब भेदात् विनिःसृताः ॥१-३८-१७॥
घृत पूर्णेषु कुंभेषु धात्र्यः तान् समवर्धयन् ।
कालेन महता सर्वे यौवनम् प्रतिपेदिरे ॥१-३८-१८॥
अथ दीर्घेण कालेन रूप यौवनशालिनः ।
षष्टिः पुत्र सहस्राणि सगरस्य अभवन् तदा ॥१-३८-१९॥
स च ज्येष्ठो नरश्रेष्ठ सगरस्य आत्म संभवः ।
बालान् गृहीत्वा तु जले सरय्वा रघुनंदन ॥१-३८-२०॥
प्रक्षिप्य प्रहसन् नित्यम् मज्जतस् तान् निरीक्ष्य वै ।
एवम् पाप समाचारः सज्जन प्रतिबाधकः ॥१-३८-२१॥
पौराणाम् अहिते युक्तः पित्रा निर्वासितः पुरात् ।
तस्य पुत्रो अंशुमान् नाम असमंजस्य वीर्यवान् ॥१-३८-२२॥
सम्मतः सर्व लोकस्य सर्वस्य अपि प्रियम् वदः ।
ततः कालेन महता मतिः समभिजायत ॥१-३८-२३॥
सगरस्य नरश्रेष्ठ यजेयम् इति निश्चिता ।
स कृत्वा निश्चयम् राजा स उपाध्याय गणः तदा ।
यज्ञ कर्मणि वेदज्ञो यष्टुम् समुपचक्रमे ॥१-३८-२४॥
इति वाल्मीकि रामायणे आदि काव्ये बालकाण्डे अष्टात्रिंशः सर्गः ॥१-३८॥

