पैंगल उपनिषद्

From Wikisource

Jump to: navigation, search

.. पैङ्गलोपनिषत् .. शुक्लयजुर्वेदीय सामान्य उपनिषत् .. पैङ्गलोपनिषद्वेद्यं परमानन्दविग्रहम् . परितः कलये रामं परमाक्षरवैभवम् .. ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते . पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते .. ॐ शान्तिः शान्तिः शान्तिः .. अथ ह पैङ्ग़लो याज्ञवल्क्यमुपसमेत्य द्वादशवर्शशुश्रूषापूर्वकं परमरहस्यकैवल्यमनुब्रूहीति पप्रच्छ . स होवाच याज्ञ्नवल्क्यः सदेव सोम्येदमग्र आसीत् . तन्नित्यमुक्तमविक्रियं सत्यज्ञानानन्दं परिपूर्णं सनातनमेकमेवाद्वितीयं ब्रह्म . तस्मिन्मरुशुक्तिकास्थाणुस्फटिकादौ जलरौप्यपुरुषरेखादिवल्लोहितशुक्लकृष्णगुणमयी गुणसाम्यानिर्वाच्या मूलप्रकृतिरासीत् . तत्प्रतिबिम्बितं यत्तत्साक्षिचैतन्यमासीत् . सा पुनर्विकृतिं प्राप्य सत्त्वोद्रिक्ताऽव्यक्ताख्यावरणशक्तिरासीत् . तत्प्रतिबिम्बितं यत्तदीश्वरचैतन्यमासीत् . स स्वाधीनमायः सर्वज्ञः सृष्टिस्थितिलयानामादिकर्ता जगदङ्कुररूपो भवति . स्वस्मिन्विलीनं सकलं जगदाविर्भावयति . प्राणिकर्मवशादेष पटो यद्वत्प्रसारितः प्राणिकर्मक्षयात्पुनस्तिरोभावयति . तस्मिन्नेवाखिलं विश्वं सङ्कोचितपटवद्वर्तते . ईशाधिष्ठितावरणशक्तितो रजोद्रिक्ता महदाख्या विक्षेपशक्तिरासीत् . तत्प्रतिबिम्बितं यत्तद्धिरण्यगर्भचैतन्यमासीत् . स महत्तत्त्वाभिमानी स्पष्टास्पष्टवपुर्भवति . हिरण्यगर्भाधिष्ठितविक्षेपशक्तितस्तमोद्रिक्ताहङ्काराभिधा स्थूलशक्तिरासीत् . तत्प्रतिबिम्बितं यत्तद्विराटचैतन्यमासीत् . स तदभिमानी स्पष्टवपुः सर्वस्थूलपालको विष्णुः प्रधानपुरुषो भवति . तस्मादात्मन आकाशः सम्भूतः . आकाशाद्वायुः . वायोरग्निः . अग्नेरापः . अद्भ्यः पृथिवी . तानि पञ्च तन्मात्राणि त्रिगुणानि भवन्ति . स्रष्टुकामो जगद्योनिस्तमोगुणमधिष्ठाय सूक्ष्मतन्मात्राणि भूतानि स्थूलीकर्तुं सोऽकामयत . सृष्टेः परिमितानि भूतान्येकमेकं द्विधा विधाय पुनश्चतुर्धा कृत्वा स्वस्वेतरद्वितीयांशैः पञ्चधा संयोज्य पञ्चीकृतभूतैरनन्तकोटिब्रह्माण्डानि तत्तदण्डोचितगोलकस्थूलशरीराण्यसृजत् . स पञ्चभूतानां रजोंशांश्चतुर्धा कृत्वा भागत्रयात्पञ्चवृत्त्यात्मकं प्राणमसृजत् . स तेषां तुर्यभागेन कर्मेन्द्रियाण्यसृजत् . स तेषां सत्त्वांशं चतुर्धा कृत्वा भागत्रयसमष्टितः पञ्चक्रियावृत्त्यात्मकमन्तःकरणमसृजत् . स तेषां सत्त्वतुरीयभागेन ज्ञानेन्द्रियाण्यसृजत् . सत्त्वसमष्टित इन्द्रियपालकानसृजत् . तानि सृष्टान्यण्डे प्राचिक्षिपत् . तदाज्ञया समष्ट्यण्डं व्याप्य तान्यतिष्ठन् . तदाज्ञयाहङ्कारसमन्वितो विराट् स्थूलान्यरक्षत् . हिरण्यगर्भस्तदाज्ञया सूक्ष्माण्यपालयत् . अण्डस्थानि तानि तेन विना स्पन्दितुं चेष्टितुं वा न शेकुः . तानि चेतनीकर्तुं सोऽकामयत ब्रह्माण्डब्रह्मरन्ध्राणि समस्तव्यष्टिमस्तकान्विदार्य तदेवानुप्राविशत् . तदा जडान्यपि तानि चेतनवत्स्वकर्माणि चक्रिरे . सर्वज्ञेशो मायालेशसमन्वितो व्यष्टिदेहं प्रविश्य तया मोहितो जीवत्वमगमत् . शरीरत्रयतादात्म्यात्कर्तृत्वभोक्तृत्वतामगमत् . जाग्रत्स्वप्नसुषुप्तिमूर्च्छामरणधर्मयुक्तो घटीयन्त्रवदुद्विग्नो जातो मृत इव कुलालचक्रन्यायेन परिभ्रमतीति .. इति प्रथमोऽध्यायः .. १..

अथ पैङ्गलो याज्ञवल्क्यमुवाच सर्वलोकानां सृष्टिस्थित्यन्तकृद्विभूरीशः कथं जीवत्वमगमदिति . स होवाच याज्ञवल्क्यः स्थूलसूक्ष्मकारणदेहोद्भवपूर्वकं जीवेश्वरस्वरूपं विविच्य कथयामीति सावधानेनैकाग्रतया श्रूयताम् . ईशः पञ्चीकृतमहाभूतलेशानादाय व्यष्टिसमष्ट्यात्मकस्थूलशरीराणि यथाक्रममकरोत् . कपालचर्मान्त्रास्थिमांसनखानि पृथिव्यंशाः . रक्तमूत्रलालास्वेदादिकमवंशाः . क्षुत्तृष्णोष्णमोहमैथुनाद्या अग्न्यंशाः . प्रचारणोत्तारणश्वासादिका वाय्वंशाः . कामक्रोधादयो व्योमांशाः . एतत्सङ्घातं कर्मणि सञ्चितं त्वगादियुक्तं बाल्याद्यवस्थाभिमानास्पदं बहुदोपाश्रयं स्थूलशरीरं भवति .. अथापञ्चीकृतमहाभूतरजोंशभागत्रयसमष्टितः प्राणमसृजत् . प्राणापानव्यानोदानसमानाः प्राणवृत्तयः . नागकूर्मकृकरदेवदत्तधनञ्जया उपप्राणाः . हृदासननाभिकण्ठसर्वाङ्गानि स्थानानि . आकाशादिरजोगुणतुरीयभागेन कर्मेन्द्रियमसृजत् . वाक्पाणिपादपायूपास्थास्तद्वृत्तयः . वचनादानगमनविसर्गानन्दास्तद्विषयाः .. एवं भूतसत्त्वांशभागत्रयसमष्टितोऽन्तःकरणमसृजत् . अन्तःकरणमनोबुद्धिचित्ताहङ्कारास्तद्वृत्तयः . सङ्कल्पनिश्चयस्मरणाभिमानानुसन्धानास्तद्विषयाः . गलवदननाभिहृदयभ्रूमध्यं स्थानम् . भूतसत्वतुरीयभागेन ज्ञानेन्द्रियमसृजत् . श्रोत्रत्वक्चक्षुर्जिव्हाघ्राणास्तद्वृत्तयः . शब्दस्पर्शरूपरसगन्धास्तद्विषयाः . दिग्वातार्कप्रचेतोऽश्विवह्नीन्द्रोपेन्द्रमृत्युकाः . चन्द्रो विष्णुश्चतुर्वक्त्रः शम्भुश्च कारणाधिपाः .. अथान्नमयप्राणमयमनोमयविज्ञामयानन्दमयाः पञ्च कोशाः . अन्नरसेनैव भूत्वान्नरसेनाभिवृद्धिं प्राप्यान्नरसमयपृथिव्यां यद्विलीयते सोऽन्नमयकोशः . तदेव स्थूलशरीरम् . कर्मेन्द्रियैः सह प्राणादिपञ्चकं प्राणमयकोशः . ज्ञानेन्द्रियैः सह बुद्धिर्विज्ञानमयकोशः . एतत्कोशत्रयं लिङ्गशरीरम् . स्वरूपाज्ञानमानन्दमयकोशः . तत्कारणशरीरम् .. अथ ज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियपञ्चकं प्राणादिपञ्चकं वियदादिपञ्चकमन्तःकरणचतुष्टयं कामकर्मतमांस्यष्टपुरम् .. इशाज्ञया विराजो व्यष्टिदेहं प्रविश्य बुद्धिमधिष्ठाय विश्वत्वमगमत् . विज्ञानात्मा चिदाभासो विश्वो व्यावहारिको जाग्रत्स्थूलदेहाभिमानी कर्मभूरिति च विश्वस्य नाम भवति . ईशाज्ञया सूत्रात्मा व्यष्टिसूक्ष्मशरीरं प्रविश्य मन अधिष्ठाय तैजसत्वमगमत् . तैजसः प्रातिभासिकः स्वप्नकल्पित इति तैजसस्य नाम भवति . ईशाज्ञया मायोपाधिरव्यक्तसमन्वितो व्यष्टिकारणशरीरं प्रविश्य प्राज्ञत्वमगमत् . प्राज्ञोविच्छिन्नः पारमार्थिकः सुषुप्त्यभिमानीति प्राज्ञस्य नाम भवति . अव्यक्तलेशाज्ञानाच्छादितपारमार्थिकजीवस्य तत्त्वमस्यादिवाक्यानि ब्रह्मणैकतां जगुः नेतरयोर्व्यावहारिकप्रातिभासिकयोः . अन्तःकरणप्रतिबिम्बितचैतन्यं यत्तदेवावस्थात्रयभाग्भवति . स जाग्रत्स्वप्नसुषुप्त्यवस्थाः प्राप्य घटीयन्त्रवदुद्विग्नो जातो मृत इव स्थितो भवति . अथ जाग्रत्स्वप्नसुषुप्तिमूर्च्छामरणाद्यवस्थाः पञ्च भवन्ति .. तत्तद्देवताग्रहान्वितैः श्रोत्रादिज्ञानेन्द्रियैः शब्द्याद्यर्थविषयग्रहणज्ञानं जाग्रदवस्था भवति . तत्र भ्रूमध्यं गतो जीव आपादमस्तकं व्याप्य कृषिश्रवणाद्यखिलक्रियाकर्ता भवति . तत्तत्फलभुक् च भवति . लोकान्तरगतः कर्मार्जितफलं स एव भुङ्क्ते . स सार्वभौमवद्व्यवहाराच्छ्रान्त अन्तर्भवनं प्रवेष्टुं मार्गमाश्रित्य तिष्ठति . करणोपरमे जाग्रत्संस्कारोत्थप्रबोधवद्ग्राह्यग्राहकरूपस्फुरणं स्वप्नावस्था भवति . तत्र विश्व एव जाग्रद्व्यवहारलोपान्नाडीमध्यं चरंस्तैजसत्वमवाप्य वासनारूपकं जगद्वैचित्र्यं स्वभासा भासयन्यथेप्सितं स्वयं भुङ्क्ते .. चित्तैककरणा सुषुप्त्यवस्था भवति . भ्रमविश्रान्तशकुनिः पक्षौ संहृत्य नीडाभिमुखं यथा गच्छति तथा जीवोऽपि जाग्रत्स्वप्नप्रपञ्चे व्यवहृत्य श्रान्तोऽज्ञानं प्रविश्य स्वानन्दं भुङ्क्ते .. अकस्मान्मुद्गरदण्डाद्यैस्ताडितवद्भयाज्ञानाभ्यामिन्द्रियसङ्घ् आतैः कम्पन्निव मृततुल्या मूर्च्छा भवति . जाग्रत्स्वप्नसुषुप्तिमूर्च्छावस्थानामन्या ब्रह्मादिस्तम्बपर्यन्तं सर्वजीवभयप्रदा स्थूलदेहविसर्जनी मरणावस्था भवति . कर्मेन्द्रियाणि ज्ञानेन्द्रियाणि तत्तद्विषयान्प्राणान्संहृत्य कामकर्मान्वित अविद्याभूतवेष्टितो जीवो देहान्तरं प्राप्य लोकान्तरं गच्छति . प्राक्कर्मफलपाकेनावर्तान्तरकीटवद्विश्रान्तिं नैव गच्छति . सत्कर्मपरिपाकतो बहूनां जन्मनामन्ते नृणां मोक्षेच्छा जायते . तदा सद्गुरुमाश्रित्य चिरकालसेवया बन्धं मोक्षं कश्चित्प्रयाति . अविचारकृतो बन्धो विचारान्मोक्षो भवति . तस्मात्सदा विचारयेत् . अध्यारोपापवादतः स्वरूपं निश्चयीकर्तुं शक्यते . तस्मात्सदा विचारयेज्जगज्जीवपरमात्मनो जीवभावजगद्भावबाधे प्रत्यगभिन्नं ब्रह्मैवावशिष्यत इति .. इति द्वितीयोऽध्यायः .. २..

अथ हैनं पैङ्गलः प्रपच्छ याज्ञवल्क्यं महावाक्यविवरणमनुब्रूहीति . स होवाच याज्ञवल्क्यस्तत्त्वमसि त्वं तदसि त्वं ब्रह्मास्यहं ब्रह्मास्मीत्यनुसन्धानं कुर्यात् . तत्र पारोक्ष्यशबलः सर्वज्ञत्वादिलक्षणो मायोपाधिः सच्चिदानन्दलक्षणो जगद्योनिस्तत्पदवाच्यो भवति . स एवान्तःकरणसम्भिन्नबोधोऽस्मत्प्रत्ययावलम्बनस्त्वम्पदवाच्यो भवति . परजीवोपाधिमायाविद्ये विहाय तत्त्वंपदलक्ष्यं प्रत्यगभिन्नं ब्रह्म . तत्त्वमसीत्यहं ब्रह्मास्मीति वाक्यार्थविचारः श्रवणं भवति . एकान्तेन श्रवणार्थानुसन्धानं मननं भवति . श्रवणमनननिर्विचिकित्सेऽर्थे वस्तुन्येकतानवत्तया चेतःस्थापनं निदिध्यासनं भवति . ध्यातृध्याने विहाय निवातस्थितदीपवद्ध्येयैकगोचरं चित्तं समाधिर्भवति . तदानीमात्मगोचरा वृत्तयः समुत्थिता अज्ञाता भवन्ति . ताः स्मरणादनुमीयन्ते . इहानादिसंसारे सञ्चिताः कर्मकोटयोऽनेनैव विलयं यान्ति . ततोभ्यासपाटवात्सहस्रशः सदामृतधारा वर्षति . ततो योगवित्तमाः समाधिं धर्ममेघं प्राहुः . वासनाजाले निःशेषममुना प्रविलापिते कर्मसञ्चये पुण्यपापे समूलोन्मूलिते प्राक्परोक्षमपि करतलामलकवद्वाक्यमप्रतिबद्धापरोक्षसाक्षात्कारं प्रसूयते . तदा जीवन्मुक्तो भवति .. ईशः पञ्चीकृतभूतानामपञ्चीकरणं कर्तुं सोऽकामयत . ब्रह्माण्डतद्गतलोकान्कार्यरूपांश्च कारणत्वं प्रापयित्वा ततः सूक्ष्माङ्गं कर्मेन्द्रियाणि प्राणांश्च ज्ञानेन्द्रियाण्यन्तःकरणचतुष्टयं चैकीकृत्य सर्वाणि भौतिकानि कारणे भूतपञ्चके संयोज्य भूमिं जले जलं वह्नौ वह्निं वायौ वायुमाकाशे चाकाशमहङ्कारे चाहङ्कारं महति महदव्यक्तेऽव्यक्तं पुरुषे क्रमेण विलीयते . विराद्ड्ढिरण्यगर्भेश्वरा उपाधिविलयात्परमात्मनि लीयन्ते . पञ्चीकृतमहाभूतसम्भवकर्मसञ्चितस्थूलदेहः कर्मक्षयात्सत्कर्मपरिपाकतोऽपञ्चीकरणं प्राप्य सूक्ष्मेणैकीभूत्वा कारणरूपत्वमासाद्य तत्कारणं कूटस्थे प्रत्यगात्मनि विलीयते . विश्वतैजसप्राज्ञाः स्वस्वोपाधिलयात्प्रत्यगात्मनि लीयन्ते . अण्डं ज्ञानाग्निना दग्धं कारणैः सह परमात्मनि लीनं भवति . ततो ब्राह्मणः समाहितो भूत्वा तत्त्वंपदैक्यमेव सदा कुर्यात् . ततो मेघापायेंऽशुमानिवात्माविर्भवति . ध्यात्वा मध्यस्थमात्मानं कलशान्तरदीपवत् . अङ्गुष्ठमात्रमात्मानमधूमज्योतिरूपकम् .. १.. प्रकाशयन्तमन्तःस्थं ध्यायेत्कूटस्थमव्ययम् . ध्यायन्नास्ते मुनिश्चैव चासुप्तेरामृतेस्तु यः .. २.. जीवन्मुक्तः स विज्ञेयः स धन्यः कृतकृत्यवान् . जीवन्मुक्तपदं त्यक्त्वा स्वदेहे कालसात्कृते . विशत्यदेहमुक्तत्वं पवनोऽस्पन्दतामिव .. ३.. अशब्दमस्पर्शमरूपमव्ययं

     तथा रसं नित्यमगन्धवच्च यत् .

अनाद्यनन्तं महतः परं ध्रुवं

     तदेव शिष्यत्यमलं निरामयम् .. ४.. इति .. इति

तृतीयोऽध्यायः .. ३..

अथ हैनं पैङ्गलः प्रपच्छ याज्ञवल्क्यं ज्ञानिनः किं कर्म का च स्थितिरिति . स होवाच याज्ञवल्क्यः . अमानित्वादिसम्पन्नो मुमुक्षुरेकविंशतिकुलं तारयति . ब्रह्मविन्मात्रेण कुलमेकोत्तरशतं तारयति . आत्मानं रथिनं विद्धि शरीरं रथमेव च . बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च .. १.. इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् . जङ्गमानि विमानानि हृदयानि मनीषिणः .. २.. आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्महर्षयः . ततो नारायणः साक्षाद्धृदये सुप्रतिष्ठितः .. ३.. प्रारब्धकर्मपर्यन्तमहिनिर्मोकवद्व्यवहरति . चन्द्रवच्चरते देही स मुक्तश्चानिकेतनः .. ४.. तीर्थे श्वपचगृहे वा तनुं विहाय याति कैवल्यम् . प्राणानवकीर्य याति कैवल्यम् .. तं पश्चाद्दिग्बलिं कुर्यादथवा खननं चरेत् . पुंसः प्रव्रजनं प्रोक्तं नेतराय कदाचन .. ५.. नाशौचं नाग्निकार्यं च न पिण्डं नोदकक्रिया . न कुर्यात्पार्वणादीनि ब्रह्मभूताय भिक्षवे .. ६.. दग्धस्य दहनं नास्ति पक्वस्य पचनं यथा . ज्ञानाग्निदग्धदेहस्य न च श्राद्धं न च क्रिया .. ७.. यावच्चोपाधिपर्यन्तं तावच्छुश्रूषयेद्गुरुम् . गुरुवद्गुरुभार्यायां तत्पुत्रेषु च वर्तनम् .. ८.. शुद्धमानसः शुद्धचिद्रूपः सहिष्णुः सोऽहमस्मि सहिष्णुः सोऽहमस्मीति प्राप्ते ज्ञानेन विज्ञाने ज्ञेये परमात्मनि हृदि संस्थिते देहे लब्धशान्तिपदं गते तदा प्रभामनोबुद्धिशून्यं भवति . अमृतेन तृप्तस्य पयसा किं प्रयोजनम् . एवं स्वात्मानं ज्ञात्वा वेदैः प्रयोजनं किं भवति . ज्ञानामृततृप्तयोगिनो न किञ्चित्कर्तव्यमस्ति तदस्ति चेन्न स तत्त्वविद्भवति . दूरस्थोऽपि न दूरस्थः पिण्डवर्जितः पिण्डस्थोऽपि प्रत्यगात्मा सर्वव्यापी भवति . हृदयं निर्मलं कृत्वा चिन्तयित्वाप्यनामयम् . अहमेव परं सर्वमिति पश्येत्परं सुखम् .. ९.. यथा जले जलं क्षिप्तं क्षीरे क्षीरं घृते घृतम् . अविशेषो भवेत्त्द्वज्जिवात्मपरमात्मनोः .. १०.. देहे ज्ञानेन दीपिते बुद्धिरखण्डाकाररूपा यदा भवति तदा विद्वान्ब्रह्मज्ञानाग्निना कर्मबन्धं निर्दहेत् . ततः पवित्रं परमेश्वराख्यमद्वैतरूपं विमलाम्बराभम् . यथोदके तोयमनुप्रविष्टं तथात्मरूपो निरुपाधिसंस्थितः .. ११.. आकाशवत्सूक्ष्मशरीर आत्मा न दृश्यते वायुवदन्तरात्मा . स बाह्यमभ्यन्तरनिश्चलात्मा ज्ञानोल्कयापश्यति चान्तरात्मा .. १२.. यत्रयत्र मृतो ज्ञानी येन वा केन मृत्युना . यथा सर्वगतं व्योम तत्रतत्र लयं गतः .. १३.. घटाकाशमिवात्मानं विलयं वेत्ति तत्त्वतः . स गच्छति निरालम्बं ज्ञानालोकं समन्ततः .. १४.. तपेद्वर्षसहस्राणि एकपादस्थितो नरः . एतस्य ध्यानयोगस्य कलां नार्हति षोडशीम् .. १५.. इदं ज्ञानमिदं ज्ञेयं तत्सर्वं ज्ञातुमिच्छति . . अपि वर्षसहस्रायुः शास्त्रान्तं नाधिगच्छति .. १६.. विज्ञेयोऽक्षरतन्मात्रो जीवितं वापि चञ्चलम् . विहाय शास्त्रजालानि यत्सत्यं तदुपासताम् .. १७.. अनन्तकर्मशौचं च जपो यज्ञस्तथैव च . तीर्थयात्राभिगमनं यावत्तत्त्वं न विन्दति .. १८.. अहं ब्रह्मेति नियतं मोक्षहेतुर्महात्मनाम् . द्वे पदे बन्धमोक्षाय न ममेति ममेति च .. १९.. ममेति बध्यते जन्तुर्निर्ममेति विमुच्यते . मनसो ह्युन्मनी भावे द्वैतं नैवोपलभ्यते .. २०.. यदा यात्युन्मनीभावस्तदा तत्परमं पदम् . यत्रयत्र मनो याति तत्रतत्र परं पदम् .. २१.. तत्रतत्र परं ब्रह्म सर्वत्र समवस्थितम् . हन्यान्मुष्टिभिराकाशं क्षुधार्तः खण्डयेत्तुषम् .. २२.. नाहं ब्रह्मेति जानाति तस्य मुक्तिर्न जायते . य एतदुपनिषदं नित्यमधीते सोऽग्निपूतो भवति . स वायुपूतो भवति . स आदित्यपूतो भवति . स ब्रह्मपूतो भवति . स विष्णुपूतो भवति . स रुद्रपूतो भवति . स सर्वेषु तीर्थेषु स्नातो भवति . स सर्वेषु वेदेष्वधीतो भवति . स सर्ववेदव्रतचर्यासु चरितो भवति . तेनेतिहासपुराणानां रुद्राणां शतसहस्राणि जप्तानि फलानि भवन्ति . प्रणवानामयुतं जप्तं भवति . दश पूर्वान्दशोत्तरान्पुनाति . स पङ्क्तिपावनो भवति . स महान्भवति . ब्रह्महत्यासुरापानस्वर्णस्तेयगुरुतल्पगमनतत्संयोगिपातकेभ्य ः पूतो भवति . तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः . दिवीव चक्षुराततम् .. तद्विप्रासो विपन्यवो जागृवांसः समिन्धते . विष्णोर्यत्परमं पदम् .. ॐ सत्यमित्युपनिषत् .. ॐ पूर्णामद इति शान्तिः ..

इति पैङ्गलोपनिष्त्समाप्ता ..