पाशुपत उपनिषद्
From Wikisource
.. पाशुपतब्रह्मोपनिषत् .. पाशुपतब्रह्मविद्यासंवेद्यं परमाक्षरम् . परमानन्दसंपूर्णं रामचन्द्रपदं भजे .. ॐ भद्रं कर्णेभिः शृणुयाम देवाः .. भद्रं पश्येमाक्षभिर्यजत्राः .. स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः .. व्यशेम देवहितं यदायुः .. स्वस्ति न इन्द्रो वृद्धश्रवाः .. स्वस्ति नः पूषा विश्ववेदाः .. स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः .. स्वस्ति नो बृहस्पतिर्दधातु .. ॐ शान्तिः शान्तिः शान्तिः .. हरिः ॐ .. अथ ह वै स्वयंभूर्ब्रह्मा प्रजाः सृजानीति कामकामो जायते कामेश्वरो वैश्रवणः . वैश्रवणो ब्रह्मपुत्रो वालखिल्यः स्वयंभुवं परिपृच्छति जगतां का विद्या का देवता जाग्रत्तुरीययोरस्य को देवो यानि तस्य वशानि कालाः कियत्प्रमाणाः कस्याज्ञया रविचन्द्रग्रहादयो भासन्ते कस्य महिमा गगनस्वरूप एतदहं श्रोतुमिच्छामि नान्यो जानाति त्वं ब्रूहि ब्रह्मन् . स्वयंभूरुवाच कृत्स्नजगतां मातृका विद्या द्वित्रिवर्णसहिता द्विवर्णमाता त्रिवर्णसहिता . चतुर्मात्रात्मकोङ्कारो मम प्राणात्मिका देवता . अहमेव जगत्त्रयस्यैकः पतिः . मम वशानि सर्वाणि युगान्यपि . अहोरात्रादयो मत्संवर्धिताः कालाः . मम रूपा रवेस्तेजश्चन्द्रनक्षत्रग्रहतेजांसि च . गगनो मम त्रिशक्तिमायास्वरूपः नान्यो मदस्ति . तमोमायात्मको रुद्रः सात्विकमायात्मको विष्णू राजसमायात्मको ब्रह्मा . इन्द्रादयस्तामसराजसात्मिका न सात्विकः कोऽपि अघोरः सर्वसाधारणस्वरूपः . समस्तयागानां रुद्रः पशुपतिः कर्ता . रुद्रो यागदेवो विष्णुरध्वर्युर्होतेन्द्रो देवता यज्ञभुग् मानसं ब्रह्म माहेश्वरं ब्रह्म मानसं हंसः सोऽहं हंस इति . तन्मययज्ञो नादानुसंधानम् . तन्मयविकारो जीवः . परमात्मस्वरूपो हंसः . अन्तर्बहिश्चरति हंसः . अन्तर्गतोऽनकाशान्तर्गतसुपर्णस्वरूपो हंसः . षण्णवतितत्त्वतन्तुवद्व्यक्तं चित्सूत्रत्रयचिन्मयलक्षणं नवतत्त्वत्रिरावृतं ब्रह्मविष्णुमहेश्वरात्मकमग्नित्रयकलोपेतं चिद्ग्रन्थिबन्धनम् . अद्वैतग्रन्थिः यज्ञसाधारणाङ्गं बहिरन्तर्ज्वलनं यज्ञाङ्गलक्षणब्रह्मस्वरूपो हंसः . उपवीतलक्षणसूत्रब्रह्मगा यज्ञाः . ब्रह्माङ्गलक्षणयुक्तो यज्ञसूत्रम् . तद्ब्रह्मसूत्रम् . यज्ञसूत्रसंबंधी ब्रह्मयज्ञः . तत्स्वरूपोऽङ्गानि मात्राणि मनो यज्ञस्य हंसो यज्ञसूत्रम् . प्रणवं ब्रह्मसूत्रं ब्रह्मयज्ञमयम् . प्रणवान्तर्वर्ती हंसो ब्रह्मसूत्रम् . तदेव ब्रह्मयज्ञमयं मोक्षक्रमम् . ब्रह्मसन्ध्याक्रिया मनोयागः . सन्ध्याक्रिया मनोयागस्य लक्षणम् . यज्ञसूत्रप्रणवब्रह्मयज्ञक्रियायुक्तो ब्राह्मणः . ब्रह्मचर्येण हरन्ति देवाः . हंससूत्रचर्या यज्ञाः . हंसप्रणवयोरभेदः . हंसस्य प्रार्थनास्त्रिकालाः . त्रिकालस्त्रिवर्णाः . त्रेताग्न्यनुसन्धानो यागः . त्रेताग्न्यात्माकृतिवर्णोङ्कारहंसानुसन्धानोऽन्तर्यागः . चित्स्वरूपवत्तन्मयं तुरीयस्वरूपम् . अन्तरादित्ये ज्योतिःस्वरूपो हंसः . यज्ञाङ्गं ब्रह्मसंपत्तिः . ब्रह्मप्रवृत्तौ तत्प्रणवहंससूत्रेणैव ध्यानमाचरन्ति . प्रोवाच पुनः स्वयंभुवं प्रतिजानीते ब्रह्मपुत्रो ऋषिर्वालखिल्यः . हंससूत्राणि कतिसंख्यानि कियद्वा प्रमाणम् . हृद्यादित्यमरीचीनां पदं षण्णवतिः . चित्सूत्रघ्राणयोः स्वर्निर्गता प्रणवधारा षडङ्गुलदशाशीतिः . वामबाहुर्दक्षिणकठ्योरन्तश्चरति हंसः परमात्मा ब्रह्मगुह्यप्रकारो नान्यत्र विदितः . जानन्ति तेऽमृतफलकाः . सर्वकालं हंसं प्रकाशकम् . प्रणवहंसान्तर्ध्यानप्रकृतिं विना न मुक्तिः . नवसूत्रान्परिचर्चितान् . तेऽपि यद्ब्रह्म चरन्ति . अन्तरादित्ये न ज्ञातं मनुष्याणाम् . जगदादित्यो रोचत इति ज्ञात्वा ते मर्त्या विबुधास्तपन प्रार्थनायुक्ता आचरन्ति . वाजपेयः पशुहर्ता अध्वर्युरिन्द्रो देवता अहिंसा धर्मयागः परमहंसोऽध्वर्युः परमात्मा देवता पशुपतिः ब्रह्मोपनिषदो ब्रह्म . स्वाध्याययुक्ता ब्राह्मणाश्चरन्ति . अश्वमेधो महायज्ञकथा . तद्राज्ञा ब्रह्मचर्यमाचरन्ति . सर्वेषां पूर्वोक्तब्रह्मयज्ञक्रमं मुक्तिक्रममिति ब्रह्मपुत्रः प्रोवाच . उदितो हंस ऋषिः . स्वयंभूस्तिरोदधे . रुद्रो ब्रह्मोपनिषदो हंसज्योतिः पशुपतिः प्रणवस्तारकः स एवं वेद . हंसात्ममालिकावर्णब्रह्मकालप्रचोदिता . परमात्मा पुमानिति ब्रह्मसंपत्तिकारिणी .. १.. अध्यात्मब्रह्मकल्पस्याकृतिः कीदृशी कथा . ब्रह्मज्ञानप्रभासन्ध्याकालो गच्छति धीमताम् . हंसाख्यो देवमात्माख्यमात्मतत्त्वप्रजा कथम् .. २.. अन्तःप्रणवनादाख्यो हंसः प्रत्ययबोधकः . अन्तर्गतप्रमागूढं ज्ञाननालं विराजितम् .. ३.. शिवशक्त्यात्मकं रूपं चिन्मयानन्दवेदितम् . नादबिन्दुकला त्रीणि नेत्रं विश्वविचेष्टितम् .. ४.. त्रियङ्गानि शिखा त्रीणि द्वित्राणां संख्यमाकृतिः . अन्तर्गूढप्रमा हंसः प्रमाणान्निर्गतं बहिः .. ५.. ब्रह्मसूत्रपदं ज्ञेयं ब्राह्मं विध्युक्तलक्षणम् . हंसार्कप्रणवध्यानमित्युक्तो ज्ञानसागरे .. ६.. एतद्विज्ञानमत्रेण ज्ञानसागरपारगः . स्वतः शिवः पशुपतिः साक्षी सर्वस्य सर्वदा .. ७.. सर्वेषां तु मनस्तेन प्रेरितं नियमेन तु . विषये गच्छति प्राणश्चेष्टते वाग्वदत्यपि .. ८.. चक्षुः पश्यति रूपाणि श्रोत्रं सर्वं शृणोत्यपि . अन्यानि कानि सर्वाणि तेनैव प्रेरितानि तु .. ९.. स्वं स्वं विषयमुद्दिश्य प्रवर्तन्ते निरन्तरम् . प्रवर्तकत्वं चाप्यस्य मायया न स्वभावतः .. १०.. श्रोत्रमात्मनि चाध्यस्तं स्वयं पशुपतिः पुमान् . अनुप्रविश्य श्रोत्रस्य ददाति श्रोत्रतां शिवः .. ११.. मनः स्वात्मनि चाध्यस्तं प्रविश्य परमेश्वरः . मनस्त्वं तस्य सत्त्वस्थो ददाति नियमेन तु .. १२.. स एव विदितादन्यस्तथैवाविदितादपि . अन्येषामिन्द्रियाणां तु कल्पितानामपीश्वरः .. १३.. तत्तद्रूपमनु प्राप्य ददाति नियमेन तु . ततश्चक्षुश्च वाक्चैव मनश्चान्यानि खानि च .. १४.. न गच्छन्ति स्वयंज्योतिःस्वभावे परमात्मनि . अकर्तृविषयप्रत्यक्प्रकाशं स्वात्मनैव तु .. १५.. विना तर्कप्रमाणाभ्यां ब्रह्म यो वेद वेद सः . प्रत्यगात्मा परंज्योतिर्माया सा तु महत्तमः .. १६.. तथा सति कथं मायासंभवः प्रत्यगात्मनि . तस्मात्तर्कप्रमाणाभ्यां स्वानुभूत्या च चिद्घने .. १७.. स्वप्रकाशैकसंसिद्धे नास्ति माया परात्मनि . व्यावहारिकदृष्ट्येयं विद्याविद्या न चान्यथा .. १८.. तत्त्वदृष्ट्या तु नास्त्येव तत्त्वमेवास्ति केवलम् . व्यावहारिक दृष्टिस्तु प्रकाशाव्यभिचारितः .. १९.. प्रकाश एव सततं तस्मादद्वैत एव हि . अद्वैतमिति चोक्तिश्च प्रकाशाव्यभिचारतः .. २०.. प्रकाश एव सततं तस्मान्मौनं हि युज्यते . अयमर्थो महान्यस्य स्वयमेव प्रकाशितः .. २१.. न स जीवो न च ब्रह्मा न चान्यदपि किंचन . न तस्य वर्णा विद्यन्ते नाश्रमाश्च तथैव च .. २२.. न तस्य धर्मोऽधर्मश्च न निषेधो विधिर्न च . यदा ब्रह्मात्मकं सर्वं विभाति तत एव तु .. २३.. तदा दुःखादिभेदोऽयमाभासोऽपि न भासते . जगज्जीवादिरूपेण पश्यन्नपि परात्मवित् .. २४.. न तत्पश्यति चिद्रूपं ब्रह्मवस्त्वेव पश्यति . धर्मधर्मित्ववार्ता च भेदे सति हि भिद्यते .. २५.. भेदाभेदस्तथा भेदाभेदः साक्षात्परात्मनः . नास्ति स्वात्मातिरेकेण स्वयमेवास्ति सर्वदा .. २६.. ब्रह्मैव विद्यते साक्षाद्वस्तुतोऽवस्तुतोऽपि च . तथैव ब्रह्मविज्ज्ञानी किं गृह्णाति जहाति किम् .. २७.. अधिष्ठानमनौपम्यमवाङ्मनसगोचरम् . यत्तदद्रेश्यमग्राह्यमगोत्रं रूपवर्जितम् .. २८.. अचक्षुःश्रोत्रमत्यर्थं तदपाणिपदं तथा . नित्यं विभुं सर्वगतं सुसूख्मं च तदव्ययम् .. २९.. ब्रह्मैवेदममृतं तत्पुरस्ताद्-
ब्रह्मानन्दं परमं चैव पश्चात् .
ब्रह्मानन्दं परमं दक्षिणे च
ब्रह्मानन्दं परमं चोत्तरे च .. ३०..
स्वात्मन्येव स्वयं सर्वं सदा पश्यति निर्भयः . तदा मुक्तो न मुक्तश्च बद्धस्यैव विमुक्तता .. ३१.. एवंरूपा परा विद्या सत्येन तपसापि च . ब्रह्मचर्यादिभिर्धर्मैर्लभ्या वेदान्तवर्त्मना .. ३२.. स्वशरीरे स्वयंज्योतिःस्वरूपं पारमार्थिकम् . क्षीणदोषः प्रपश्यन्ति नेतरे माययावृताः .. ३३.. एवं स्वरूपविज्ञानं यस्य कस्यास्ति योगिनः . कुत्रचिद्गमनं नास्ति तस्य संपूर्णरूपिणः .. ३४.. आकाशमेकं संपूर्णं कुत्रचिन्न हि गच्छति . तद्वद्ब्रह्मात्मविच्छ्रेष्ठः कुत्रचिन्नैव गच्छति .. ३५.. अभक्ष्यस्य निवृत्त्या तु विशुद्धं हृदयं भवेत् . आहारशुद्धौ चित्तस्य विशुद्धिर्भवति स्वतः .. ३६.. चित्तशुद्धौ क्रमाज्ज्ञानं त्रुट्यन्ति ग्रन्थयः स्फुटम् . अभक्ष्यं ब्रह्मविज्ञानविहीनस्यैव देहिनः .. ३७.. न सम्यग्ज्ञानिनस्तद्वत्स्वरूपं सकलं खलु . अहमन्नं सदान्नाद इति हि ब्रह्मवेदनम् .. ३८.. ब्रह्मविद्ग्रसति ज्ञानात्सर्वं ब्रह्मात्मनैव तु . ब्रह्मक्षत्रादिकं सर्वं यस्य स्यादोदनं सदा .. ३९.. यस्योपसेचनं मृत्युस्तं ज्ञानी तादृशः खलु . ब्रह्मस्वरूपविज्ञानाज्जगद्भोज्यं भवेत्खलु .. ४०.. जगदात्मतया भाति यदा भोज्यं भवेत्तदा . ब्रह्मस्वात्मतया नित्यं भक्षितं सकलं तदा .. ४१.. यदाभासेन रूपेण जगद्भोज्यं भवेत तत् . मानतः स्वात्मना भातं भक्षितं भवति ध्रुवम् .. ४२.. स्वस्वरूपं स्वयं भुङ्क्ते नास्ति भोज्यं पृथक् स्वतः . अस्ति चेदस्तितारूपं ब्रह्मैवास्तित्वलक्षणम् .. ४३.. अस्तितालक्षणा सत्ता सत्ता ब्रह्म न चापरा . नास्ति सत्तातिरेकेण नास्ति माया च वस्तुतः .. ४४.. योगिनामात्मनिष्ठानां माया स्वात्मनि कल्पिता . साक्षिरूपतया भाति ब्रह्मज्ञानेन बाधिता .. ४५.. ब्रह्मविज्ञानसंपन्नः प्रतीतमखिलं जगत् . पश्यन्नपि सदा नैव पश्यति स्वात्मनः पृथक् .. ४६.. इत्युपनिषत् .. ॐ भद्रं कर्णेभिः शृणुयाम देवाः .. भद्रं पश्येमाक्षभिर्यजत्राः .. स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः .. व्यशेम देवहितं यदायुः .. स्वस्ति न इन्द्रो वृद्धश्रवाः .. स्वस्ति नः पूषा विश्ववेदाः .. स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः .. स्वस्ति नो बृहस्पतिर्दधातु .. ॐ शान्तिः शान्तिः शान्तिः .. हरिः ॐ तत्सत् .. इति पाशुपतब्रह्मोपनिषत्समाप्ता ..

