निर्वाण उपनिषद्
From Wikisource
.. निर्वाणोपनिषत् ..
.. निर्वाणोपनिषत् .. ( ऋग्वेदीय संन्यासोपनिषत्)
निर्वाणोपनिषद्वेद्यं निर्वाणानन्दतुन्दिलम् . त्रैपदानन्दसाम्राज्यं स्वमात्रमिति चिन्तयेत् ..
ॐ वाङ्मे मनसि प्रतिष्ठिता . मनो मे वाचि प्रतिष्ठितम् . आविरावीर्म एधि . वेदस्य मा आणीस्थः . श्रुतं मे मा प्रहासीः . अनेनाधीतेनाहोरात्रान्सन्दधामि . ऋतं वदिष्यामि . सत्यं वदिष्यामि . तन्मामवतु . तद्वक्तारमवतु . अवतु मामवतु वक्तारम् . ॐ शान्तिः शान्तिः शान्तिः ..
अथ निर्वाणोपनिषदं व्याख्यास्यामः . परमहंसः सोऽहम् . परिव्राजकाः पश्चिमलिङ्गाः . मन्मथ क्षेत्रपालाः . गगनसिद्धान्तः अमृतकल्लोलनदी . अक्षयं निरञ्जनम् . निःसंशय ऋषिः . निर्वाणोदेवता . निष्कुलप्रवृत्तिः . निष्केवलज्ञानम् . ऊर्ध्वाम्नायः . निरालम्ब पीठः . संयोगदीक्षा . वियोगोपदेशः . दीक्षासन्तोषपानं च . द्वादशावदित्यावलोकनम् . विवेकरक्षा . करुणैव केलिः . आनन्दमाला . एकान्तगुहायां मुक्तासनसुखगोष्टी . अकल्पितभिक्षाशी . हंसाचारः .सर्वभूतान्तर्वर्ती हंस इति प्रतिपादनम् . धैर्यकन्था . उदासीन कौपीनम् . विचारदण्डः . ब्रह्मावलोकयोगपट्टः .श्रियां पादुका . परेच्छाचरणम् . कुण्डलिनीबन्धः . परापवादमुक्तो जीवन्मुक्तः . शिवयोगनिद्रा च . खेचरीमुद्रा च . परमानन्दी . निर्गतगुणत्रयम् . विवेकलभ्यं मनोवागगोचरम् . अनित्यं जगद्यज्जनितं स्वप्नजगदभ्रगजादितुल्यम् . तथा देहादिसङ्घातं मोहगुणजालकलितं तद्रज्जुसर्पवत्कल्पितम् . विष्णुविध्यादिशताभिधानलक्ष्यम् . अङ्कुशो मार्गः . शून्यं न सङ्केतः . परमेश्वरसत्ता . सत्यसिद्धयोगो मठः . अमरपदं तत्स्वरूपम् . आदिब्रह्मस्वसंवित् . अजपा गायत्री . विकारदण्डो ध्येयः . मनोनिरोधिनी कन्था . योगेन सदानन्दस्वरूपदर्शनम् . आनन्द भिक्षाशी . महाश्मशानेऽप्यानन्दवने वासः . एकान्तस्थानम् . आनन्दमठम् . उन्मन्यवस्था . शारदा चेष्टा . उन्मनी गतिः . निर्मलगात्रम् . निरालम्बपीठम् . अमृतकल्लोलानन्दक्रिया . पाण्डरगगनम् . महासिद्धान्तः . शमदमादिदिव्यशक्त्याचरणे क्षेत्रपात्रपटुता . परावरसंयोगः . तारकोपदेशाः . अद्वैतसदानन्दो देवता . नियमः स्वातरिन्द्रियनिग्रहः . भयमोहशोकक्रोधत्यागस्त्यागः . अनियामकत्वनिर्मलशक्तिः . स्वप्रकाशब्रह्मतत्त्वे शिवशक्तिसम्पुटित प्रपञ्चच्छेदनम् . तथा पत्राक्षाक्षिकमण्डलुः . भवाभावदहनम् . बिभ्रत्याकाशाधारम् . शिवं तुरीयं यज्ञोपवीतम् . तन्मया शिखा . चिन्मयं चोत्सृष्टिदण्डम् . सन्तताक्षिकमण्डलुम् . कर्मनिर्मूलनं कन्था . मायाममताहङ्कारदहनम् . स्प्रशाने अनाहताङ्गी . निस्त्रैगुण्यस्वरूपानुसन्धानं समयम् . भ्रान्तिहरणम् . कामादिवृत्तिदहनम् . काठिन्यदृढकौपीनम् . चीराजिनवासः . अनाहतमन्त्रः . अक्रिययैव जुष्टम् . स्वेच्छाचारस्वस्वभावो मोक्षः परं ब्रह्म . प्लववदाचरणम् . ब्रह्मचर्यशान्तिसंग्रहणम् . ब्रह्मचर्याश्रमेऽधीत्य ससर्वसंविन्न्यासं संन्यासम् . अन्ते ब्रह्माखण्डाकारम् . नित्यं सर्वसन्देहनाशनम् . एतन्निर्वाणदर्शनम् . शिष्यं पुत्रं विना न देयमित्युपनिषत् . ॐ वाङ्मे मनसीति शान्तिः .. इति निर्वाणोपनिषत्समाप्ता .